________________
अष्टसहस्त्रीतात्पर्यविवरणम् क्रियासामान्यस्य प्रतिनियतदेशादिरूपस्य प्रतिभासने युक्तः सन्देहः किं करोतीति । तथा प्रश्ने च पचति यजते इत्यादि प्रतिवचनं न दुर्घटम्, कथञ्चित्पृष्टस्यैव प्रतिपादनात् । एवं यजनादिक्रियाविशेषाणां साधारणरूपा करोतीति क्रिया कथञ्चित्ततो व्यतिरेकेणोपलभ्यमाना कर्तृव्यापाररूपार्थभावना विभाव्यते एव, शब्दव्यापाररूपशब्दभावनावत् सकलबाधकरहितत्वनिर्णयात् सैव च वाक्यार्थो न पुनर्नियोगोऽन्यापोहादिवत् इति भट्टसम्प्रदाय एव संवादकः सिद्धः । कार्ये चार्थे चोदनायाः प्रामाण्यं तत एव न स्वरूपे, तत्र बाधकसद्भावात् । सर्ववेदान्तवादनिराकरणान्न भट्टस्य कश्चिदपि प्रतिघात इति कश्चित् ।
[अत्रत्यात् जैनाचार्याः भाट्टस्य भावनावादमपि निराकुर्वन्ति]
अत्र प्रतिविधीयते यत्तावदुक्तं, शब्दव्यापारः शब्दभावनेति । तत्र शब्दात् तद्व्यापारोऽनर्थान्तरभूतोऽर्थान्तरभूतो वा स्यात् ?
६८
[शब्दात् शब्दव्यापारस्याभिन्नपक्षे दोषप्रतिपादनम् ]
यद्यनर्थान्तरभूतस्तदा कथमभिधेयः ? शब्दस्य स्वात्मवत् । न ह्येकस्यानंशस्य प्रतिपाद्यप्रतिपादकभावो युक्तः ? संवेद्यसंवेदकभाववत् । स्वेष्टविपर्यासेन तद्भावापत्तेः, प्रतिनियमहेत्वभावात् । तद्भेदपरिकल्पनया प्रतिपाद्यप्रतिपादकभावे तस्य सांवृतत्वप्रसङ्गात् । स्वरूपमपि शब्दः श्रोत्रेण गमयति बहिरर्थवत् स्वव्यापारेण, ततस्तस्य प्रतिपादक इति चेत्, न रूपादीनामपि स्वरूपप्रतिपादकत्वप्रसङ्गात् । तेऽपि हि स्वं स्वं स्वभावं चक्षुरादिभिर्गमयन्ति, चक्षुरादीनां स्वातन्त्र्येण तत्र प्रवर्त्तनात् तत्प्रयोज्यत्वात् तेषां च रूपादीनां निमित्तभावेन प्रयोजकत्वात् स्वयमधीयानानां कारीषाग्न्यादिवत् । अथ रूपादयः प्रकाश्या एव ततोऽर्थान्तरभूतानां चक्षुरादीनां प्रकाशकादीनां सद्भावादिति मतम्, तथैव शब्दस्वरूपं प्रकाश्यमस्तु, ततोऽन्यस्य श्रोत्रस्य प्रकाशकस्य भावात् । सत्यमेतदिन्द्रियबुद्धेर्विषयभावमनुभवन् प्रकाश्य एव शब्दो रूपादिवत्, प्रतिपादकस्तु स्वरूपे शाब्दीबुद्धिमुपजनयन्नभिधीयते इति चेत्, न तत्र वाच्यवाचकभावसम्बन्धाभावात्, तस्य द्विष्ठत्वेनैकत्रानवस्थितेः ।