________________
प्रथमो भागः [परि०१-का. ३]
[शब्दात् शब्दव्यापारस्य भिन्ने मन्यमाने दोषानाह] यदि पुनरर्थान्तरभूत एव शब्दात् तद्व्यापार इति मतं तदा स शब्देन प्रतिपाद्यमानो व्यापारान्तरेण प्रतिपाद्यते चेत्, तर्हि तद्भाव्यः स्यात्, तद् व्यापारान्तरं तु भावनानुषज्यते, तदपि यदि शब्दार्थान्तरं तदा तद्भाव्यं व्यापारान्तरेण स्यात्, तत्तु भावनेत्यपरापरभाव्यभावनापरिकल्पनायामनवस्थाप्रसङ्गः ।
[भाट्टः शब्दात्तस्य व्यापारं भिन्नाभिनं मन्यते तत्रापि दोषानुद्भावयन्ति जैनाचार्याः]
अथ वाक्यात् तद्व्यापारः कथञ्चिदनन्तरम् विष्वग्भावेनानुपलभ्यमानत्वात्, कुण्डादेर्बदरादिवत् । कथञ्चिदर्थान्तरं च विरुद्धधर्माध्यासात्, तदनुत्पादेऽप्युत्पादात्तदविनाशेऽपि च विनाशादाकाशादन्धकारवदिति मतम् । तदाप्युभयदोषानुषङ्गः । स्यान्मतम्, अग्निष्टोमादिवाक्यमुपलभ्यमानं पुरुषव्यापारस्य साधकमिदमित्यनुभवाद्वाक्यस्थ एव तद्व्यापारो भावना वाक्यस्य विषयतां समञ्चति, तथाप्रतीतेः, अन्यथा सर्वत्र विषयविषयिभावसम्भावनाविरोधात् । [भाट्टो वदति यत् जैनैर्मान्यं ज्ञानमपि स्वव्यापाराद् भिन्नमभिन्न भिन्नाभिन्नं वेति त्रिषु पक्षेषु
दोषावतारः] संवेदनमपि हि भवतां स्वव्यापारं विषयीकुर्वत् तदनन्तरभूतमर्थान्तरभूतं वा कथञ्चिदुभयस्वभावं वा संवेदयत्, गत्यन्तराभावात् । प्रथमपक्षे न संवेद्यसंवेदकभावः, संवेदनतद्व्यापारयोः सर्वथानान्तरत्वाद्वाक्यतद्व्यापारयोः प्रतिपाद्यप्रतिपादकभाववत् । द्वितीयपक्षेऽपि न तयोस्तद्भावः, अनवस्थानुषङ्गात्तद्वत् । तृतीयपक्षे तु तदुभयदोषप्रसक्तेस्तद्वदेव कुतः संवेद्यसंवेदकभावः सिद्धयेत् ? अथ स्वार्थसंवेदनव्यापारविशिष्टं संवेदनमबाधमनुभूयमानं विकल्पशतेनाप्यशक्यनिराकरणं संवेद्यसंवेदकभावं साधयतीत्यभिधाने परस्यापि शब्दः स्वव्यापारविशिष्टः पुरुषव्यापारं भावयतीत्यबाधप्रतीतिसद्भावाद्वाक्यव्यापारो भावना वाक्यस्य विषयो व्यवतिष्ठते एवेति ।
[भाट्टेनारोपितान् दोषान् जैनाचार्याः निराकुर्वन्ति] तदनुपपन्नम्, वैषम्यात् । संवेदनेन हि संवेद्यमान स्वात्माऽर्थो वा तस्य विषयो न पुनः संवेदक: स्वात्मा तत्संवेद्यत्वेऽन्यस्य संवेदनस्यात्मनः संवेदक