________________
३१४
अष्टसहस्त्रीतात्पर्यविवरणम्
[स्वलक्षणस्य लक्षणं ] __अथ न द्रव्यं नापि तत्परिणाम: सामान्यं विशेषो वा स्वलक्षणम् । किं तर्हि ? ततोऽन्यदेव किञ्चित् सर्वथा निर्देष्टुमशक्यं प्रत्यक्षबुद्धौ प्रतिभासमानं तदनुमन्यते । एवमपि जात्यन्तरं सामान्यविशेषात्मकं वस्तु स्वलक्षणमित्यायातं, तस्यैव परस्परनिरपेक्षसामान्यविशेषतद्वद्रव्येभ्योऽन्यस्य प्रत्यक्षसंविदि प्रतिभासनात्, निरन्वयक्षणक्षयिनिरंशपरमाणुलक्षणस्य सुष्ठप्रत्यक्षेणालक्षणात् । तत्र च व्यवसायोऽक्षजन्मा स्वाभिधानविशेषनिरपेक्षः किन्न स्यात् ? यतोऽयं स्वलक्षणमशब्दं न व्यवस्येत् । ततः,
(भा०) सामान्यवत्स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् । ततो न किञ्चित्प्रमेयमनभिलाप्यं नाम,
श्रुतज्ञानपरिच्छेद्यं, शब्दयोजितस्य श्रुतविषयत्वोपपत्तेः ।
(भा०) प्रत्यक्षस्यानभिलाप्यत्वे स्मार्तं शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिन्द्रियज्ञानात्सामान्यव्यवसायो न स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् जात्यन्तरं= पानकरसन्यायेन सङ्कलनात्मकं, न व्यवस्येत्=नार्थावग्रहरूपतया गृह्णीयात्, नाभिलापेन योजयेत् =ईहिताभिलापवैशिष्ट्येन नावेयात् । श्रुतज्ञानेति श्रुतज्ञानजनितसंस्कारमात्रोपनीतशब्दप्रकारकग्रहविषयस्य श्रुतनिश्रितमतिज्ञानविषयत्वोपपत्तेरित्यर्थः । अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति नयाश्रयणाद् घटत्वेनैव घटतन्नाम्नोमंतिज्ञानेऽभेदभानं, नाम्नः सविकल्पकसामग्रीग्राह्यतया प्रातिस्विकरूपेण वा तद्व्यक्ती तद्व्यक्तिस्वरूपतत्ताया इव नामतदवयवेष्वपि नामतदवयवानामेव स्वरूपतः तत्र प्रकारत्वसम्भवात्, घटोऽयमित्यपायधारणोत्तरं घटनामकत्वेन घटपदवाच्यत्वेन श्रुतज्ञानोदयध्रौव्यमते तु यथाश्रुत एवार्थः । एतत् 'स्वसमयरहस्यमस्मत्कृतज्ञानबिन्द्वादितोऽवसेयम् ।
प्रत्यक्षस्य स्मार्त्तशब्दानुयोजनापेक्षत्वे शब्दाद्वैतवादिनं प्रति यत्सौगतेन दूषणं दत्तं, तत्तं प्रत्यावर्तेतेति वक्तुमुपक्रमते-प्रत्यक्षज्ञानस्येत्यादि स=प्रत्यक्षज्ञानगृहीतोऽर्थः, व्यवहितो भवेत् स्मार्तेन शब्दानुयोजनेनान्तरितः स्यात्, तथा च स्मृतिसामग्रया बल
१. प्रत्यक्षस्य इति अष्टसहस्रीसम्मतः पाठः ।