SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि. १-का. १३] ३१३ [बौद्धः स्वलक्षणसामान्ययोर्भेदं साधयति] नन्वर्थक्रियाकारिणः परमार्थसतः स्वलक्षणत्वात्, ततोऽन्यस्यानर्थक्रियाकारिणः संवृतिसतः सामान्यलक्षणत्वात्तयोः कथमभेद: स्यात् ? । यदेवार्थक्रियाकारि तदेव परमार्थसत् । अन्यत्संवृतिसत् प्रोक्ते ते स्वसामान्यलक्षणे ॥ [ ] इति वचनात्, तयोरभेदे सांवृतेतरस्वभावविरोधात् इति कश्चित्, सोऽपि स्वदर्शनानुरागी न परीक्षकः, स्वेनासाधारणेन रूपेण लक्ष्यमाणस्य सामान्यस्यापि स्वलक्षणत्वघटनाद्विशेषवत् । यथैव हि विशेषः स्वेनासाधारणेन रूपेण सामान्यासम्भविना विसदृशपरिणामात्मना लक्ष्यते तथा सामान्यमपि स्वेनासाधारणेन रूपेण सदृशपरिणामात्मना विशेषासम्भविना लक्ष्यते इति कथं स्वलक्षणत्वेन विशेषाद्भिद्यते ? यथा च विशेषः स्वामर्थक्रियां कुर्वन् व्यावृत्तिज्ञानलक्षणामर्थक्रियाकारी तथा सामान्यमपि स्वामर्थक्रियामन्वयज्ञानलक्षणां कुर्वत् कथमर्थक्रियाकारि न स्यात् ? तद्बाह्यां पुनर्वाहदोहाद्यर्थक्रियां यथा न सामान्य कर्तुमुत्सहते तथा विशेषोऽपि केवलः, सामान्यविशेषात्मनो वस्तुनो गवादेस्तत्रोपयोगात् इत्यर्थक्रियाकारित्वेनापि तयोरभेदः सिद्धः । एकस्माद् द्रव्यात्कथञ्चिदभिन्नत्वसाधनाच्च सामान्यविशेषपरिणामयोरभेदोऽभ्युपगन्तव्यः । तथा च सामान्यं व्यवस्यन्नपि कथञ्चित्तदभिन्नस्वलक्षणं न व्यवस्यतीति कथमुपपत्तिमत् ? । अष्टसहस्त्रीतात्पर्यविवरणम् निश्चिनुयात् । सामान्येऽपि स्वलक्षणशब्दप्रवृत्त्यविरोधमुपपादयति-स्वेनेत्यादि । सामान्यविशेषात्मन इति केवलस्य विशेषस्य गवादित्वेनानुपलक्षणात्तत्र प्रवृत्त्ययोगादिति भावः । तदक्तं वाक्यपदीये 'गौः स्वरूपेण न गौ प्यगौौत्वाभिसम्बन्धात्तु गौरिति,' [ ] गोत्वसामान्यक्रोडीकृता व्यक्तिर्गोव्यवहारहेतुरित्येतदर्थः, सामान्यविशेषबशलाकारस्य गोः स्वरूपेण तथात्वमिति तु ज्यायः, अभेदः=तुल्यत्वम्, । एकस्मादित्यादिना चापृथक्त्वमभिहितमिति विशेषः, तदभिन्नं =सामान्याभिन्नम्, इतीत्यनन्तरं सौगतवचनमिति शेषः, कथमुपपत्तिमत् ? =कथं प्रमाणोपपन्नम् ? । १. तदभिन्नत्व इति अष्टसहस्रीसम्मतः पाठः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy