SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का. १३] ३१५ यथैव हि शब्दसंसृष्टार्थग्राहिसविकल्पकप्रत्यक्षवादिनामर्थोपयोगे सत्यपि स्मार्त्तशब्दानुयोजनापेक्षेऽक्षज्ञाने तदर्थो व्यवहितः स्यात्, स्मार्तेन शब्दानुयोजनेन इति तदर्थादक्षज्ञानं सविकल्पकं न स्यात्, तदभावेऽपि भावात् तद्भावेऽपि चाभावादिति दूषणम् अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् । अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ [ ] इति वचनात् समुद्भाव्यते, तथैव शब्दानुयोजनासहितार्थग्राहिविकल्पवादिनामपि सौगतानामिन्द्रियज्ञानमुपयोगे सत्यपि विकल्पोत्पत्तौ स्मार्त्तशब्दानुयोजनं विकल्पो यद्यपेक्षेत तदा तदिन्द्रियज्ञानं स्वविषयनामविशेषस्मरणेन तद्योजनेन च व्यवहितं स्यात् । तथा च नेन्द्रियज्ञानाद् व्यवसाय: स्यात् तदभावे भावात्तद्भावेऽपि चाभावादिति दूषणमुद्भावनीयं । ज्ञानोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् । विकल्पो यद्यपेक्षताध्यक्षं व्यवहितं भवेत् ॥ इति वक्तुं शक्यत्वात्, अर्थशब्देन प्रत्यक्षस्याभिधानाद्वा, क्वचिद्विषयेण विषयिणो वचनाद् धर्मकीर्तिकारिकाया एव तन्मतदूषणपरत्वेन व्याख्यातुं शक्यत्वात् । यथा च प्रागजनको योऽर्थोऽभिलापसंसृष्टार्थेन्द्रियबुद्धः स पश्चादपि स्मार्तशब्दानुयोजनेऽपि तस्योपयोगाविशेषादजनक एव तेनार्थापायेऽपि नेत्रधीः शब्दाद्वैतवादिनः स्यादिति धर्मकीर्तिदूषणं ___यः प्रागजनको बुद्धरुपयोगाविशेषतः ।। स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः ॥ [ ] इति वचनात् । तथा यदिन्द्रियज्ञानं स्मार्तशब्दयोजनात्प्रागजनकं सामान्य अष्टसहस्त्रीतात्पर्यविवरणम् वत्त्वात्तत्सामान्यप्रत्यक्षं न स्यादेव, तदाह-तदिन्द्रियेति । कारिकाया अपरावृत्तावप्यर्थशब्दस्य प्रत्यक्षपरत्वे नानुपपत्तिरित्याह-अर्थशब्देनेति । यदपि प्रागजनकस्यार्थस्य स्मार्त्तशब्दानुयोजनानन्तरं साभिलापबुद्धावप्यजनकत्वमेवेत्यादि दूषणान्तरं शब्दाद्वैतवादिनं प्रति धर्मकीर्तिना दत्तं तदपि तं प्रत्यावर्त्तत एवेत्याह-यथा चेत्यादिना । अध्यवसायः
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy