SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का. १६] ३७५ नन्वस्तित्वमेव वस्तुनः स्वरूपं, न पुनर्नास्तित्वं, तस्य पररूपाश्रयत्वादन्य अष्टसहस्त्रीतात्पर्यविवरणम् ताभ्यां निर्दिष्टो घटोऽवक्तव्यो भवति, सत्त्वमनूद्य घटत्वविधाने सत्त्वस्य घटत्वेन व्याप्ततया घटस्य सर्वगतत्वापत्त्या तथाभ्युपगमे प्रतिभासव्यवहारविलोपात्, असत्त्वमसूद्य घटत्वविधानेऽप्यभावमात्रस्य घटत्वप्रसङ्गो, घटत्वमनूद्य सदसत्त्वविधानेऽपि घटमात्रस्य सदसत्त्वे, पटादीनां प्रागभावादीनां चाभावप्रसक्तिरिति विशेषणविशेष्यभावलोपात् सन्नसन्नित्येवं घटोऽवाच्य एव, अनेकान्तपक्षे तु कथञ्चिदवाच्यत्वान्न दोषः । न च अनया रीत्या नीलोत्पलमित्यादावपि विशेषणविशेष्यभावखण्डनादवाच्यत्वप्रसङ्ग इति दूषणं देयम् । तत्रापि स्यात्पदमध्याहृत्यैव तत्कृतप्रतिनियमेन विशेषणविशेष्यभावव्यवस्थितेः, एकान्तपक्षे त्ववाच्यत्वस्वीकारादेव । न च नीलोत्पलमित्यादेः सम्भवाभिप्रायेणैव प्रयोगाद् अदोषः, तथापि नियमाभिप्रायेण स्यादवाच्यत्वाक्षतेः सम्भवनियमाभ्यां प्रथमद्वितीययोरेव भङ्गयोरारम्भे तृभाभ्यामवाच्यत्वाक्षतेरिति दिग् ॥१०॥ यद्वा व्यञ्जनपर्यायोऽर्थान्तरभूतस्तदतद्विषयत्वात्तस्य, घटार्थपर्यायस्त्वन्यव्यावृत्तेनिजः, ताभ्यामाद्यद्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्यः, अन्यतरमनूद्यान्यतरविधाने व्यवस्थितरूपविपर्यासेन व्यवहारविलोपप्रसङ्गात्, अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवक्तव्यः ॥११॥ यद्वा सत्त्वमर्थान्तरभूतम्, अन्त्यविशेषो निजः, तदुभयं प्रवृत्तिनिवृत्त्यविषयत्वादनन्वयाच्चावाच्यम्, प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः ॥१२॥ अथवा सन्द्रुतरूपाः सत्त्वादयो घट इत्यत्र दर्शनेऽर्थान्तरभूता रूपादयः, निजं सन्द्रुतरूपम्, ताभ्यामादिष्टो घटोऽवक्तव्यः, अरूपादिव्यावृत्त्या रूपादिव्यवस्थायामरूपाद्यात्मकघटताया रूपादीनामवाच्यत्वात्, अरूपादिरूपत्वे च रूपादीनां तत्स्वरूपस्यैवाभावे के सन्द्रुतरूपतया विशेष्या ये घटरूपतामास्कन्देयुः ? इत्येवमप्यवाच्यः । अनेकान्तवादे च कथञ्चिदवाच्यः ॥१३॥ इयमेव रीतिरसन्द्रुतरूपा रूपादयो घट इति पक्षेऽपि भावनीया । तत्र रूपादीनामर्थान्तरभूतत्वादसन्द्रुतरूपत्वस्य च निजत्वात्ताभ्यामादिष्टस्यावक्तव्यतायाश्च प्राग्वद्विशेष्यलोपादेव सिद्धेः । कथञ्चित्पक्षस्य च जैनानां सर्वत्राप्यदुष्टत्वात् । पूर्वपक्षे रूपादिषु घटत्वं पर्याप्तमत्र तु रूपादिप्रत्येकवृत्ति नाना तत्, कथञ्चित्सौसादृश्याच्चैकत्वव्यवहार इत्येतावान्
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy