SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५८ अष्टसहस्त्रीतात्पर्यविवरणम् तदन्यतमक्षणानिवृत्ताविव सकलतत्प्रागभावनिवृत्त्यसिद्धेर्घटोत्पत्तिप्रसङ्गासम्भवात् । व्यवहारनयार्पणात्तु मृदादिद्रव्यं घटादेः प्रागभाव इति वचनेऽपि प्रागभावाभावस्वभावता घटस्य न दुर्घटा यतो द्रव्यस्याभावासम्भवान्न जातुचिदुत्पत्तिर्घटस्य स्यात्, कार्यरहितस्य पूर्वकालविशिष्टस्य मृदादिद्रव्यस्य घटादिप्रागभावरूपतोपगमात्, तस्य च कार्योत्पत्तौ विनाशसिद्धः, कार्यरहितताविनाशमन्तरेण कार्यसहिततयोत्पत्त्ययोगात्, कार्योत्पत्तेरेवोपादानात्मकप्रागभावक्षयस्य वक्ष्यमाणत्वात् । तथा प्रमाणार्पणाद् द्रव्यपर्यायात्मा प्रागभाव इत्यभिधानेऽपि नोभयपक्षोपक्षिप्तदोषानुषङ्गः, प्रागभावस्य द्रव्यरूपतयेव पर्यायरूपतयाप्यनादित्वनिरूपणात् । न चानादेरनन्ततैकान्तः सिद्ध्यति, भव्यजीवसंसारस्यानादित्वेऽपि सान्तत्वप्रसिद्धः । ततो न सर्वदा कार्यानुत्पत्तिः पूर्वमप्युत्पत्तिर्वा घटस्य दुनिवारा स्यात् । ततो भावस्वभाव एव प्रागभावः । स चैकानेकस्वभावो भाववदेवेति न तदेकत्वानेकत्वैकान्तपक्षभावी - अष्टसहस्त्रीतात्पर्यविवरणम् पूर्वकालविशिष्टस्येति न च पूर्वपदार्थस्य प्रागभावगर्भत्वे आत्माश्रयः, घटतद्ध्वंसानाधारार्थत्वे च ध्वंसलक्षणेऽप्युत्तरकालपदार्थस्य प्रागभावगर्भत्वेऽन्योन्याश्रय इति वाच्यम्, कालविशेषावच्छिन्नस्वरूपसम्बन्धेन मृद्रव्यादेव प्रागभावव्यवहारोपत्तेः, सम्बन्धस्य च प्रागनुपस्थितस्यैव संसर्गतया सर्वैरुपगमात् । (शं०) हन्त एवं कालविशेषघटितसम्बन्धेन मृदादिद्रव्यादेव घटादिव्यवहारोपपत्तौ घटादिद्रव्यमपि नातिरिच्यते, न चेत्थमिष्टापत्तिः कर्तुं युज्यते, व्यवहारनयवादिनोऽतिसूक्ष्मेक्षिकायां परमाणुविश्रान्तौ तस्यापि सत्यासत्यत्वचिन्तायां सदद्वैतसिद्धौ सङ्ग्रहनयसाम्राज्यापत्तेरिति चेत्, न, मृदादिद्रव्याद् घटादिद्रव्यस्य प्रत्यभि ज्ञानादिना किञ्चित्कालस्थायित्वेन सिद्धस्य पृथगनुभूयमानत्वेन तन्मात्रत्वाकल्पनात्, प्रागभावादेस्तु तथा पृथगननुभूयमानत्वेनाधारमात्रस्वरूपत्वकल्पनात्, इत्थमेव व्यवहारनयप्रवृत्तेः, घटादिद्रव्ये आधारभिन्नत्वमुद्भूतमभावपर्याये तु तदभिन्नत्वं तथेति विवेकः । तस्य चेति कालविशेषविशिष्टमृदादिद्रव्यरूपत्वे घटादिप्रागभावस्य कार्योत्पत्तौ विशिष्टध्वंसो द्रष्टव्यः, कालविशेषघटितसम्बन्धेन मृदादिद्रव्यरूपत्वे च सम्बन्धविशेषावच्छिन्नप्रतियोगिताकः स इति तत्त्वम् । पर्यायरूपतयापीति नानाक्षणानुगतस्य प्रागभावपर्यायस्यैकस्यापि कल्पनादित्यर्थः । यद्यपि अनुगतगुणपर्यायाधारतया प्रत्यभिज्ञानविषयतया च न तदेकत्वं सिद्ध्यति, तथापि घटादौ घटप्रागभावादेरेकस्यैव हेतुत्वे लाघवात्तस्यैकत्वसिद्धिरिति परमार्थः । अनेकत्वेऽपि कथञ्चिदेकत्वं स्याद्वाददृष्टावविरुद्धमेव शरीरादिदृष्टान्तेन तद्वक्ष्यति-स चैकानेकस्वभाव इत्यादि । कारणस्येति न हि कपालमालारूपघटकार्यनाशे घटकारणं जायते,
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy