________________
प्रथमो भागः [परि०१-का० ३]
१२३ तथाहि-तीर्थच्छेदसम्प्रदायास्तथैकान्तवादिनो नाऽनाविलज्ञाना अविशिष्टवागक्षबुद्धीच्छादिमत्त्वादविशिष्टपुरुषत्वादेर्वा रथ्यापुरुषवत्, इति नैतेषामाप्तता । तत्प्रतिषेधवादिनां पुनः स्याद्वादिनां नातः कश्चिदविशिष्टवागादिमानविशिष्टपुरुषो वा, तस्य युक्तिशास्त्राविरोधिवाक्त्वेनाभ्युपगतत्वात्, करणक्रमव्यवधानाद्यतिवर्तिबुद्धित्वात्, इच्छारहितत्वाद्विशुद्धपुरुषातिशयत्वादिति । यथा वागादिकं निर्दोषज्ञाननिराकरणसमर्थं न तथा स्याद्वादन्यायवेदिभिरभिष्ट्रयमाने भगवतीति परमगहनमेतत्, अयुक्तिशास्त्रविदामगोचरत्वादकलङ्कधिषणाधिगम्यत्वात् ।
(भा०) इत्थं सिद्धं सुनिश्चितासम्भवबाधकप्रमाणत्वम् । तेन कः परमात्मा चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबन्धनानामत्यये भवभृतां प्रभुः । सकलस्याद्वादन्यायविद्विषामाप्तप्रतिक्षेपप्रकारेण हि स्याद्वादिन एवाप्तस्या
- अष्टसहस्रीतात्पर्यविवरणम्
अनुमितिविषयाभावप्रतियोगि करोति, तत्र तदभावमनुमापयतीत्यर्थः, अविशिष्टवागादेरेव तदभिमतवृत्तित्वात्तस्य च निरावरणज्ञानाभावव्याप्यत्वादिति भावः । न पुनस्तत्प्रतिषेधवादिषु एकान्तनिराकरणवादिषु जैनाभिमतेषु सर्वज्ञेषु वाद्येकत्वेऽप्युत्कर्षद्योतकं बहुवचनं, तथा वागादिकमनाविलज्ञानं निराकरोति, विशिष्टस्यैव तस्य जैनाभिमतसर्वज्ञवृत्तित्वात्, तस्य चानाविलज्ञानव्याप्यत्वादिति भावः । इति एतत् परमगहनं दुर्बोधम्, अतात्पर्यज्ञानामिति शेषः । तात्पर्यज्ञास्तु वागक्षेत्यादि धर्मिभेदेन विशिष्टाविशिष्टपरतया योजयन्त आवृत्तावप्युद्देश्यार्थैक्येनैकवाक्यतां च समर्थयन्तो न गहनमनुप्रविशन्तीति ध्येयम् । अत्र चैकान्तवादित्वावच्छेदेनाविशिष्टवागादिनानाविलज्ञानाभावः साध्यमानस्तदभिमते सर्वज्ञेऽपि सिद्धयत्यनेकान्तवादित्वसामानाधिकरण्येन च विशिष्टवागादिना साध्यमानमनाविलज्ञानं जैनाभिमतसर्वज्ञे सिद्ध्यति शृङ्गग्राहिकया सर्वज्ञप्रसिद्धेर्दुष्करत्वादित्यभिप्रायवान् विवृणोतितथा हि इत्यादि । भाष्ये कः परमात्मेति तात्पर्यविवरणम्, आत्मत्वस्यैव 'क'पदशक्यतावच्छेदकत्वात् । चिदेवेति घटो नील एवेत्यत्रेव सर्वावच्छेदेन विशेषणसम्बन्धस्यैवकारार्थत्वात्, सर्वविषयावच्छिन्नज्ञानवानित्यर्थः । लब्ध्युपयोगेत्यादि तत्त्वे नियामकाभिधानं भवभृतां (भवेतां) प्रभुरिति भवं यन्तीति क्विपि भवेतो भवभृतस्तेषां गुरुः प्रभुरिति कारिकावयवव्युत्पत्तिस्वारस्यादुक्तं वृत्तौ चिदेव ज्ञ एवेति एतावता