________________
प्रथमो भागः [ परि० १ - का० १६ ]
३७९
अष्टसहस्त्रीतात्पर्यविवरणम्
सप्तभङ्गाः, शब्दादिषु तु त्रिषु नयेषु प्रथमद्वितीयावेव भङ्गौ, वक्त्रभिप्रायो हि सङ्ग्रहादिरर्थप्रधानोऽर्थनयः, परार्थशब्द श्रवणोद्गतः शब्दादिश्रोत्रभिप्रायश्च शब्दप्रधानार्थोपसर्जनत्वात् शब्दनयः । तत्र शब्दसमभिरूढापेक्षया सविकल्पको वचनपथः, सञ्ज्ञाक्रियाभेदेनाभिन्नार्थप्रतिपादकत्वेऽपि भेदजिज्ञासारूपविकल्पसाहित्यात्, एवंभूतस्तु क्रियाभेदाद्भिन्नमेवार्थं तत्क्षणे स्थापयतीति निर्विकल्पकः, तदुत्तरं भेदजिज्ञासारूपविकल्पविरहादिति भङ्गद्वयमेवावतिष्ठते, अवक्तव्यत्वभङ्गस्तु व्यञ्जननये न सम्भवत्येव, तस्यार्थप्रतिपत्तुः शब्दश्रवणोद्गताभिप्रायविशेषत्वात्, अवक्तव्यत्वस्य तु शब्दाभावविषयत्वादिति । शब्दानुपलब्धिगम्यस्याप्यवक्तव्यत्वस्यानुमानादिगम्यार्थस्येव प्रमाणसंप्लववादिनां शब्दप्रमाणविषयत्वं नायुक्तिमत् व्यञ्जनपर्याये सप्तभङ्ग्यभावे च तस्या व्यापकत्वप्रवादस्याप्रामाणिकत्वापत्तिः, तथापि वक्तव्यत्वरूपे व्यञ्जनपर्याये प्रतिपक्षेणावक्तव्यत्वेन सह भङ्गद्वयमेव भवति, अवक्तव्यत्वोपाधीनां बुद्धिविशेषानुगतानां यावतामेव स्यात्पदेनोपस्थितिसम्भवे तृतीयभङ्गस्यानतिप्रयोजनत्वात् सप्तभङ्ग्या व्यापकत्वप्रवादस्यार्थपर्यायमादायैवोपपत्तेरेवमवक्तव्यत्वसप्तभङ्ग्यामपि तृतीयभङ्गस्य प्रथमभङ्गे प्रवेशाद् भङ्गद्वयपरिशेषो व्याख्येयः, तस्यापि व्यञ्जनपर्यायत्वात्, व्यञ्जनपर्यायशब्देन व्यञ्जनपर्यायनिष्ठप्रतियोग्यनुयोगिभावसम्बन्धाश्रयस्यैव ग्रहणात् । न च भङ्गद्वये स्याद्वादहानिः, सप्तभङ्ग्या एव स्याद्वादत्वादिति शङ्कनीयम्, "को जीव ?' इत्यादिप्रश्ने 'स्यादौपशमिकादिभावयुक्तो जीव' इत्याद्येकभङ्गोत्तरेऽपि स्यात्कारलाञ्छनतया स्याद्वादत्वस्य मलयगिरिप्रभृतिभिरभियुक्तैः समर्थितत्वात् । उत्थाप्याकाङ्क्षया यथाकथञ्चित्सप्तभङ्ग्यवतारस्य सुलभतायाश्चास्माभिर्नयोपदेशादौ प्रदर्शितत्वादिति युक्तं पश्यामः । एतेन
इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो । [ विशेषावश्यकभाष्यं २१८४]
इति नियुक्तिप्रतीके ऋजुसूत्राद्विशेषिततरत्वं शब्दस्य सप्तभङ्ग्याक्रान्ततया यन्महाभाष्यादावुपदर्शितं तदविरुद्धमित्युक्तं भवति, वक्तव्यत्वातिरिक्तस्थले तत्सावकाशताया न्याय्यत्वात्, शब्दावच्छिन्नार्थग्राहित्वेन च शब्दनयस्यार्थनयत्वानापत्तेरिति भावनीयम् ॥१६॥
१. पच्चुप्पन्नग्गाही उज्जुसुओ नयविहो मुणेयव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो || छाया - (प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः । इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः ||)