________________
प्रथमो भाग: [ परि० १ - का० ९]
२४३
अष्टसहस्त्रीतात्पर्यविवरणम्
निर्विकल्पकमभाव इत्याकारकप्रत्यक्षं च जायते निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तस्येदृशप्रत्यक्षस्य यत्किञ्चित्प्रतियोगिज्ञानेऽसम्भवात् यावत्प्रतियोगिज्ञानस्य चासम्भवाद्, अभावत्वांशे निर्विकल्पकं त्वभावांशे यत्किञ्चित्प्रतियोगिवैशिष्ट्यविषयकत्वात् यत्किञ्चित्प्रतियोगिधीसाध्यमेवेति नानुपपत्तिः, इदन्त्वेन तमः प्रत्यक्षं त्वनुपपन्नमभावांशे निर्विकल्पकवद् यावत् प्रतियोगिधीकार्यतावच्छेदकाक्रान्तत्वादिति वाच्यम् । केवलाभावत्वनिर्विकल्पकापत्तेर्लाघवादभावांशत्यागेन घटत्वाद्यन्यप्रकारत्वानिरूपित विषयताकत्वस्यैव घटज्ञानादिकार्यतावच्छेदकत्वौचित्ये भावांशेऽपि निर्विकल्पकस्याभाव इत्याकारकप्रत्यक्षस्य चोच्छेदापत्तेः, निखिलविशेषणज्ञानकार्यतावच्छेदकाक्रान्तस्य यत्किञ्चिद्विशेषणज्ञानेऽसम्भवात् । किञ्चैवं घटपटोभयाभावप्रत्यक्षे गतिरिति लाघवाद् घटादिधियों घटत्वाद्यवच्छिन्नप्रकारत्वनिरूपिताभावविषयत्वस्यैव कार्यतावच्छेदकत्वात्केवलस्य भावप्रत्यक्षस्येवाभावप्रत्यक्षस्य नानुपपत्तिः । एतेन अभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमाद्विशेषसामग्रीं विना सामान्यसामग्रीमात्रात्कार्यानुत्पत्तेर्नाभावनिर्विकल्पकं नेत्याकारकप्रत्यक्षं वेत्यपि अपास्तम् । भावलौकिकप्रत्यक्षेऽपि तथा नियमापत्तेः, केवलभावप्रत्ययानुभवाद्भावप्रत्यक्षे तथा नियमानाश्रयणे च केवलाभावप्रत्ययानुभवादभावप्रत्यक्षेऽपि तथा नियमो न श्रद्धेयः । सत्तासत्तयोः केवलसप्रतियोगिकं नियमानुरोधेन सविकल्पकनिर्विकल्पकवेद्यत्वानेकान्तस्य व्यापकत्वं तु व्युत्पादितमधस्तादिति नैकतरपक्षपातो युक्तः । यत्तु अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वाकल्पने इन्द्रियसम्बद्धविशेषणतया फले जननीये घटत्वप्रकारकज्ञानस्य सहकारित्वमसम्भवि, ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकभावस्तयोरेव परस्परं सहकारित्वस्वीकारात्, अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वकल्पनपक्षे तु घटादिनिष्ठप्रतियोगितासम्बन्धावच्छिन्नप्रकारतानिरूपिततदभावनिष्ठाभावत्वावच्छिन्नविषयताशालिप्रत्यक्षत्वावच्छिन्नं प्रति घटमात्रनिष्ठधर्मावच्छिन्नप्रकारताशालिज्ञानत्वेन हेतुत्वं कल्प्यते, तथा च घटत्वादिप्रकारकज्ञानेन्द्रियसम्बद्धविशेषणतयोः कार्यतावच्छेदकयोः परस्परव्याप्यव्यापकभावेन ताभ्यां फले जननीये परस्परसहकारित्वस्य यौक्तिकत्वादिति, तदसत्, ययोः कार्यतावच्छेदकयोः परस्परं व्याप्यव्यापकभावस्तयोरेकेन फलेन जननीयेऽन्यस्य सहकारित्वमित्यस्यैव स्वीकारादुक्तयुक्त्या प्रतियोगिज्ञानहेतुत्वासिद्धेः,
१. अत्र ग्रन्थकृता 'निश्चयानुरोधेन' इति पाठ सुधारितो दृश्यते ( पत्र ६७ / अ पङ्क्तिः १६)