SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४२ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानस्यात्मनिष्ठसमवायप्रत्यासत्त्येन्द्रियसम्बद्धविशेषणतायाश्च विषयनिष्ठप्रतियोगितासम्बन्धेन हेतुत्वं कल्प्यत इति तयोः कारणतावच्छेदकसम्बन्धयोर्वैयधिकरण्ये नैक पुरुषस्य घटत्वप्रकारकज्ञानकाले पुरुषान्तरीयेन्द्रियसम्बन्धविशेषणतासत्त्वे पुरुषान्तरीयाभावलौकिकप्रत्यक्षापत्तिरिति, तन्न, एतदात्मसमवेतज्ञानादिव्यक्ते रात्मान्तरे आपत्तिवारणाय तदात्मसमवेतत्वावच्छिन्नं प्रति तदात्मत्वेन तादात्म्येन हेतुत्वकल्पनात्तादात्म्यसमवायघटितसामानाधिकरण्येन एतदात्मविशिष्टं यद् घटत्वप्रकारकज्ञानम्, एककालीनत्वसम्बन्धेन तद्विशिष्टा यैतत्पुरुषीयेन्द्रियसम्बद्धविशेषणता सैवैतत्पुरुषीयाभावलौकिकप्रत्यक्षनियामिकेति सामग्रीव्याप्त्यभ्युपगमे दोषाभावात् । इदन्तु स्यात्, नव्यमते घटत्वप्रकारकज्ञानकाले पटाभावेन्द्रियसम्बद्धविशेषणतासत्त्वे भिन्नविषयकानुमितिसामग्रीविरहबलादात्मनि घटत्वावच्छिन्नविषयतानिरूपिताभावविषयताशालिप्रत्यक्षापत्तिर्दुर्वारा घटाभावलौकिकसन्निकर्षशून्यकाले तथाविधसामग्रयभावरूपकारणबलात्तादृशप्रत्यक्षोत्पत्तिवारणाय तादृशसामग्र्यभावेन फले जननीये तथाविधसन्निकर्षस्य सहकारित्वकल्पनात्तदानीमेककालीनत्वसम्बन्धेन तादृशसन्निकर्षादिविशिष्टविरोधिसामग्र्यभावरूपायाः सामग्र्या अक्षतत्वात्, तथा च घटाभाववृत्तिविषयतासम्बन्धेन प्रत्यक्षं प्रति तादात्म्येन घटाभावहेतुतामनायत्या कल्पयित्वा तादात्म्यप्रतियोगिताघटितसामानाधिकरण्यसम्बन्धेन घटाभावविशिष्टा येन्द्रियसम्बद्धविशेषणता तद्विशिष्टतथाविधविरोधिसामग्रयभावरूपायाः सामग्र्या एवात्मनि घटाभावप्रत्यक्षोत्पत्तौ नियामकत्वमभ्युपगन्तव्यमिति महागौरवम् । प्रतियोगिज्ञानहेतुतामते तु लौकिकविषयतयाऽभावप्रत्यक्षे स्वप्रकारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन ज्ञानत्वेनैव हेतुत्वादुक्तसम्बन्धप्रतियोगिताघटितसामानाधिकरण्येन ज्ञानविशिष्टेन्द्रियसम्बद्धविशेषणताभावादेवोक्तस्थले नाभावप्रत्यक्षं पटाभावे, तथा च विषयतासम्बन्धेनाभावप्रत्यक्षोत्पादकसामग्रीसहकारेणैव समवायेन तदुत्पादकसामग्र्याः कार्योत्पत्तिव्याप्यत्वान्नोक्तापत्तिरिति घटाभावादिप्रत्यक्षोत्पादकसामग्र्यामिन्द्रियसम्बद्धविशेषणतायां विशिष्यानन्तविषयवैशिष्ट्यानिवेशाल्लाघवमिति । अत्र ब्रूमः-एवं सति घटत्वेन पटज्ञानात्पटाभावसन्निकर्षे घटत्वेन पटाभावज्ञानं न स्यादिति घटत्वावच्छिन्नप्रकारतानिरूपिताभावविषयताशालिप्रत्यक्षत्वमेव घटज्ञानकार्यतावच्छेदकं वाच्यमिति तदज्ञानात्केवलाभावप्रत्यक्षापत्ति१निवारैव । न च घटत्वाद्यवच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वान्नाभावांशे
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy