________________
प्रथमो भागः [परि. १-का. ९]
२४१
अष्टसहस्त्रीतात्पर्यविवरणम्
इन्द्रियसम्बद्धविशेषणताया घटत्वप्रकारकज्ञानस्येव पटत्वप्रकारकज्ञानस्यापि सहकारित्वं स्वीकरणीयम्, अन्यथेन्द्रियसम्बद्धविशेषणताबलात्पटत्वावच्छिन्नाभावप्रत्यक्षस्य पटत्वप्रकारकज्ञानशून्यकालेऽप्युत्पत्त्यापत्तेः, तथा च पटत्वप्रकारज्ञानसत्त्वे इन्द्रियसम्बद्धविशेषणतारूपकारणबलाद् घटाभावप्रत्यक्षापत्तिः, न चेष्टापत्तिः, तदा घटाभावांशे पटभ्रमजनकदोषाभावेन पटस्य घटज्ञानासत्त्वे च घटस्याभावेन नेत्याकारकप्रत्यक्षपर्यवसानात् । न च घटाभावादिनिष्ठेन्द्रियसम्बद्धविशेषणताया घटत्वाद्यवच्छिन्नविषयतानिरूपिताऽभावनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षहेतुत्वे तस्यां घटत्वप्रकारकज्ञानस्य सहकारित्वान्नोपदर्शितापत्तिः । न च पटत्वप्रकारकपटज्ञानकाले घटाभावांशे तज्ज्ञानजनकीभूतदोषसत्त्वे घटत्वावच्छिन्नप्रतियोगिताकाभाव प्रत्यक्षानुपपत्ति: घटाभावनिष्ठविशेषणतायाः फलजनने पटत्वप्रकारकज्ञानतथाविधदोषादीनामपि सहकारित्वादिति वाच्यम्, विषयभेदेनेन्द्रियसम्बद्धविशेषणतायाः कारणताधिक्यप्रसङ्गात् । न च प्रतियोगिज्ञानहेतुतामतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणतायाः कारणताबाहुल्यं विना न निस्तारः, पूर्वोपदर्शितापत्तेस्तन्मतेऽपि सम्भवादिति वाच्यम् । तन्मते लौकिकविषयतासम्बन्धेनाभावप्रत्यक्ष प्रति स्वप्रकारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन ज्ञानत्वेन हेतुत्वकल्पनेनानुपपत्तेरभावात्, उक्तसम्बन्धघटितसामानाधिकरण्येन ज्ञानविशिष्टाया एकस्या अपरस्याश्च तत्तदोषविशिष्टाया इन्द्रियसम्बद्धविशेषणताया अभावलौकिकप्रत्यक्षनियामकत्वे घटत्वप्रकारकज्ञानसत्त्वे घटाभावसन्निकर्षे आद्यायाः, पटत्वप्रकारकज्ञानसत्त्वे घटाभावांशे पटभ्रमजनकदोषसत्त्वे च द्वितीयायाः सम्पत्त्या अभावलौकिकप्रत्यक्षोत्पत्तेः तदसत्त्वे च तदनुत्पत्तेरिति । स्यादेतत् नव्यमतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणताया न कारणताधिका तद्धर्मावच्छिन्नप्रतियोगिताकाभावसन्निकर्षे तदन्यधर्मप्रकारकज्ञानस्यैव तदभावांशे तत्प्रकारकभ्रमजनकदोषत्वाभ्युपगमेन घटत्वप्रकारकज्ञानकाले इन्द्रियसम्बद्धविशेषणतारूपकारणबलादभावप्रत्यक्षस्य घटाभावे आपत्तेरिष्टापत्तिपरिहरणीयत्वात, तदा दोषध्रौव्येण घटाभावांशे पटभ्रमात्मकस्यैव तस्य स्वीकारादिति, मैवम्, तथापि नव्यैरिन्द्रियसम्बद्धविशेषणतायाः सहकारिता घटत्वप्रकारकज्ञानत्वादिना नानाविधा स्वीकार्या, प्राचीनैस्तूपदर्शितसम्बन्धेन ज्ञानत्वेनैवेति प्राचीनमत एव लाघवात्, एवं चाभावलौकिकप्रत्यक्षजनकसामग्रीव्याप्ताविन्द्रियसम्बद्धविशेषणतायामेककालीनत्वोपदर्शितसम्बन्धघटितस्वसामानाधिकरण्योभयसम्बन्धेन ज्ञानत्वेनैव घटत्वप्रकारकज्ञानादीनां निवेशः कर्त्तव्यो न तु प्रातिस्विकरूपेणेत्यपि प्राचीनमते लाघवं द्रष्टव्यम् । यत्तु नव्यमते विशेषणतावच्छेदकप्रकारक