SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् (श्रीमद्विद्यानन्द आचार्य-विरचित-अष्टसहस्रीटीकायाः मङ्गलाचरणम्) श्रीवर्द्धमानमभिवन्द्य समन्तभद्रमुद्भूतबोधमहिमानमनिन्द्यवाचम् । शास्त्रावताररचितस्तुतिगोचराप्त मीमांसितं कृतिरलक्रियते मयाऽस्य ॥१॥ (वसन्ततिलका) श्रेयः श्रीवर्धमानस्य परमजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलवाचश्च - अष्टसहस्त्रीतात्पर्यविवरणम् स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात्कश्चिद् दृष्टिवादार्णवोत्थः । तद्व्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥३॥ (शालिनी) अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यः स्वोत्प्रेक्षिताथै ररुचिविषयतां तत्र नैकोऽपि नेतुं जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥४॥ (स्रग्धरा) समन्तभद्रोऽत्र हि कारिकाणां कर्त्तानुवक्ता त्वकलङ्कदेवः । व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥५॥ (उपजाति:) श्रेय इति अलङ्करणे इत्यत्रान्वयि, श्रीवर्द्धमानस्येति अत्र श्रिया आर्हन्त्यलक्षणया वर्द्धमानस्येति व्युत्पत्त्या श्रीवर्द्धमानपदेन तीर्थकरसामान्योपस्थितिसम्भवेऽपि 'योगाढिबलवती' इति न्यायाद् व्यक्तिविशेष एव विश्रामे निश्चयनयेनैकभक्तौ सकलभक्तिसिद्धावपि व्यवहारनयमते विषयबहुत्व एव तदतिशयसिद्धेस्तत्र तत्र व्यवस्थापितत्वात् सकलजिनस्तुतेरेवात्र तात्पर्यविषयत्वात् तात्पर्यविषयान्वयानुपपत्त्यास्य पदस्य तीर्थकरसमुदाये लक्षणेत्यभिप्रेत्य विवृणोति-परमजिनेश्वरसमुदयस्येति, तेन समुदयस्य पदार्थतया वाक्यार्थतया वा कथं लाभः ? इत्याशङ्काया नावकाशः । शाब्दबोधे लक्ष्यस्य भानं च लक्ष्यतावच्छेदकरूपेण शक्यतावच्छेदकरूपेण वेति पुनरन्यदेतत् । जिनेश्वरसमुदयसमन्तभद्रयोः स्तुत्य-स्तोत्रोः स्तवनमावृत्त्या विशेषणविशेष्यभावकामचारेण, तदमलवाचश्च तद्विशेषणतयेति बोध्यम् । स्वातन्त्र्येण तदभिवन्दनविवक्षायां तु, अनिन्द्यवाचमित्यत्रानिन्द्या चासौ वाक् चानिन्द्यवाक् तामिति कर्मधारयः । समन्तेत्यादि समन्ततो भद्रं यस्यां तादृशी, या मुत्, तद्भूतस्तत्स्वरूपो यो बोधस्तस्य महिमा यस्याः सकाशात् सा तथा तामिति तद्विशेषणम्, अनुच्छिद्यमाना
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy