________________
॥ प्रथमः परिच्छेदः ॥
(श्रीमद्भट्टाकलङ्कदेवविरचित अष्टशतीभाष्यस्य मङ्गलाचरणम्) उद्दीपीकृतधर्मतीर्थमचलज्योतिर्ज्वलत्केवलालोकालोकितलोकलोकमखिलैरिन्द्रादिभिर्वन्दितम् ॥ वन्दित्वा परमार्हतां समुदयं गां सप्तभङ्गीविधिं । स्याद्वादामृतगर्भिणीं प्रतिहतैकान्तान्धकारोदयाम् ॥१॥
तीर्थं सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधे, र्भव्यानामकलङ्कभावकृतये प्राभावि काले कलौ । येनाचार्यसमन्तभद्रयतिना तस्मै नमः सन्ततं,
कृत्वा विव्रियते स्तवो भगवतां देवागमस्तत्कृतिः ॥२॥ ( शार्दूल०)
अष्टसहस्त्रीतात्पर्यविवरणम्
(मङ्गलाचरणम् )
ऐन्द्रमहः प्रणिधाय न्यायविशारदयतिर्यशोविजयः । विषमामष्टसहस्त्रीमष्टसहस्त्रया विवेचयति ॥ १ ॥
सिताम्बरशिरोमणिर्विदितचारुचिन्तामणिविधाय हृदि रुच्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छलद्बहलतर्कवर्णोदकच्छटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥२॥ (पृथ्वी)