________________
अष्टसहस्त्रीतात्पर्यविवरणम् इति च । प्रतिक्षिप्तश्चैवंविधो विधिवादो नियोगवादिनैवेति नास्माकमत्रातितरामादरः । अथ ततोऽन्यो धात्वर्थः सोऽपि न प्रत्ययार्थशून्यः कुतश्चिद्वाक्यात्प्रतीयते, तदुपाधेरेव तस्य ततः सम्प्रत्ययात् । प्रत्ययार्थस्तत्र प्रतिभासमानोऽपि न प्रधानं कर्मादिवदन्यत्रापि भावादिति चेत्, तर्हि धात्वर्थो यजनादिः प्रधानं मा भूत् प्रत्ययान्तरेऽपि भावात् प्रकृतप्रत्ययापायेऽपीति समानं पश्यामः । यदि पुनः क्रिया सकलव्यापिनी, धात्वर्थः सर्वधातुषु भावात् तदा सैव भावना किं नेष्यते ? सर्वार्थेषु सद्भावात् । यथैव हि जुहुयाज्जुहोतु होतव्यमिति लिङादयः क्रिया हवनावच्छिन्ना प्रतिपादयन्ति तथा सर्वाख्यातप्रत्यया अपि, पपाच पक्ष्यतीति पचनावच्छिन्नायाः क्रियाया एव प्रतिपत्तेः, पाकं करोति चकार करिष्यतीति, तथा च लिङादिप्रत्ययप्रत्याय्यः करोत्यर्थ एव वाक्यार्थ इत्यायातम् । स च भावनास्वभाव एवेति न धात्वर्थ एव वाक्यार्थतया प्रतीयते । नापि कार्यादिरूपो नियोगः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदंशेऽन्याप्रकारकतत्प्रकारकस्मरणे तादृशसंस्कारहेतुत्वावश्यकत्वेन वक्तुमशक्यत्वात्, अन्यथा जातित्वेन घटत्वप्रकारकसंस्कारादपि जातित्वांशे मोषदशायां घट इति स्मरणापत्तेः । न च प्रमेयाभाववदित्याकारकज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकाद् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभ इत्यपि वक्तुं शक्यम्, सांसर्गिकज्ञानस्य सार्वझ्यापत्तिभयेनोपनायकत्वानभ्युपगमात् । एतेन यत्र दशरथत्वादिसम्बन्धेन घटादिभ्रमो जातः तत्र तथाविधशक्तिग्रहोपपादनं सुकरमिति रघुदेवोक्तमपि अपास्तम् । तस्मादर्थवच्छब्दस्यापि शक्यतावच्छेदकत्वं युक्तम्, घटादिपदेष्वपि घटत्वादिकं घटादिपदं चेत्युभयं शक्यतावच्छेदकम्, तत्र जातिप्रकारकः शक्तिग्रहो विशिष्यापेक्षितः, पदप्रकारकस्त्विदं पदं क्वचिच्छक्तमिति सामान्यत एवेति विशिष्यागृहीतशक्तिकेभ्यः किञ्चिदाकारेणैव शाब्दबोध इति दिक् ।
किं नेष्यत इति, आख्यतार्थतयेति शेषः । तथा च लिङादीति, अत्र क्रियामात्रमर्थभावना, लिङादिनिष्ठा प्रवर्तना तु किं कथं केनेत्यंशत्रयवती शब्दभावनेति विशेषः । तदुक्तम्
'लिङोऽभिधा सैव तु शब्दभावना, भाव्यं तु तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोध: करणं तदीयं, प्ररोचना चाङ्गतयोपयुज्यते ॥ [
] इति ।