________________
प्रथमो भागः [परि. १-का. ३]
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा सत्ता सा महानात्मा यामाहुस्त्वतलादयः ॥ [वाक्यपदीयम्-३.१.३४]
अष्टसहस्त्रीतात्पर्यविवरणम्
पचतीत्यादौ दृश्यमाना भावना तु अन्यैव ततः, सर्वार्था आख्यातसामान्यशक्या, अत एव सर्वाख्यातेषु वर्तते वाचकत्वेन । शब्देन हीति तथा च फलान्वितधात्वर्थान्वितार्थभावनाकत्वं शब्दभावनात्वमित्यर्थः । सन्मात्रमिति अत्र स्थाने, अन्यत्र
सम्बन्धिभेदात् सत्तैव, भिद्यमाना गवादिषु ।।
जातिरित्युच्यते तस्यां, सर्वे शब्दा व्यवस्थिताः ॥१॥ [वाक्यपदीयम् ३.१.३३] इति कारिकाऽस्ति, तदर्थो-गवादिशब्दानां ब्रह्मसत्तावाचित्वम्, गोत्वादेस्तु प्रयोगोपाधितया लाभ इति । एवं च सर्वशब्दाविशेष इति प्रकृतकारिकया कारकासम्पृक्तस्य शुद्धस्य भावस्य धात्वर्थत्वं प्रतिज्ञायते । तामिति तां=सत्ताम्, महानात्मा शुद्धं ब्रह्म, यां त्वतलादयो भावप्रत्यया आहुरिति तेषां खलु सत्तासामान्यमर्थः, घटपटाद्युत्तरत्वादीनां च प्रकृतिजन्यबोधप्रकारो धर्मो घटत्वादिः, न चैवं घटत्वत्वस्यापि वाच्यत्वापत्तौ गौरवम्, तत्तद्व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वेनात्र लघुगुरुविचारानवकाशात् । अत एव वार्त्तिककारैः तस्य भावस्त्वतलौ इति सूत्रे (पा० ५.१ ११९) यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्व-तलौ इत्युक्तम्, यस्य गुणस्य विशेषणस्य भावाद= आश्रयत्वाद् द्रव्ये विशेषे शब्दनिवेशः=शब्दप्रवृत्तिस्तस्मिन् वाच्ये त्व-तलाविति तदर्थः । तथा च रूपादिशब्देभ्यो जातौ प्रत्ययः, रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात्, पकत्रादिशब्दानां क्रियाप्रकारकबोधजनकत्वेन तेभ्यः क्रियायाः सम्प्रत्ययः, संसर्गप्रकारकबोधजनकत्वमते च संसर्ग इत्यादिव्यवस्था सूपपादा । यद्वा सर्वे भावाः स्वेनार्थेन भवन्ति स तेषां भाव-इति वात्तिके पक्षान्तरोक्तेः भवन्ति वाचकत्वेन प्रवर्त्तन्त इति भावाः स्वेन स्वरूपेणार्थेन भवन्ति प्रवर्त्तन्तेऽतः स तेषामर्थानां भावः प्रवृत्तिनिमित्तमिति तदर्थाच्छब्दोऽपि त्वप्रत्ययार्थः, अर्थवच्छब्दस्यापि द्रव्ये प्रकारत्वात्, अदृष्टार्थकदशरथादिपदेषु तत्तच्छब्दवाच्यत्वेनैव बोधस्य सर्वसिद्धत्वात् दशरथत्वादिना शाब्दबोधस्योपपादयितुमशक्यत्वात्, अदृष्टदशरथादीनां दशरथत्वादिप्रकारकबोधाभावेन विशेषणग्रहाभावाद् दशरथत्वविशिष्टादौ शक्तिग्रहासम्भवेन पदजन्यदशरथत्वादिविशिष्टपदार्थोपस्थितेरभावात् । प्रमेयवान् इत्यनुभवजन्ये संस्कारे प्रमेयत्वांशे मोषवशाद्दशरथत्वमात्रप्रकारकस्मृतिजनकोद्बोधकवशाद्दशरथत्वप्रकारक स्मरणस्यापि