________________
११८
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
तदवच्छिन्नफलस्य बहिरिन्द्रियजस्य मानसस्य वा द्विविधस्यापि घट इत्याकारकस्यैवोपगमात् । यत्तु घटत्वप्रकारतानिरूपितलौकिकविषयताया घटत्वज्ञानजन्यतावच्छेदककोटौ निवेशाद् घटो नास्तीत्यादौ घटाद्यंशे लौकिकसन्निकर्षघटितसामग्र्यभावान्नोक्तापत्तिः, ज्ञातघटादिज्ञानं च ज्ञानलक्षणात एवेति, तदसत्, घटत्वादिप्रकारतानिरूपितलौकिकविषयताया जन्यतावच्छेदकोटौ निवेशने सामान्यलक्षणजन्यघटादिमानसासङ्ग्रहात् । अथ सामान्यघटितसामग्रीव्याप्तौ घटत्वादिप्रकारकलौकिकप्रत्यक्षसामग्र्यादेस्तादृशसामग्रीत्वेन घटचक्षुःसंयोगत्वादिना वा न निवेशः, तादृशधर्माणां कारणतानवच्छेदकत्वात्, कारणतानवच्छेदकधर्मावच्छिन्नस्य सामग्रीव्याप्तिमध्ये निवेशनेनातिप्रसङ्गवारणे सर्वमतसिद्धबहुतरकार्यकारणभावविलयप्रसङ्गात्, तथा चालोकसंयोगावच्छिन्नचक्षुःसंयोगत्वादिनैव लौकिकप्रत्यक्षादिहेतवः सामग्रीव्याप्तिमध्ये निवेशनीया इति तादृशचक्षुःसंयोगादिसमवहितं घटत्वादिज्ञानं यदा यत्र कारणतावच्छेदकप्रत्यासत्त्या तदव्यवहितोत्तरक्षणे तत्र कार्यमित्येतादृशी सामग्रीव्याप्तिः स्वीकार्या । तत्र चक्षुसंयोगादिसमवहितत्वमेकक्षणवृत्तित्वसम्बन्धेन, नत्वेकदेशवृत्तित्वसम्बन्धेन, स्वविषयीभूतसामान्याश्रयत्वप्रत्यासत्त्या सामान्यज्ञानहेतुतामते तादृशसम्बन्धेन घटत्वज्ञानादीनां घटचक्षुःसंयोगादिसमानदेशतासम्भवेऽपि पटादौ घटत्वादिभ्रमजनकदोषकाले घटत्वादिज्ञानेन यावद्घटादिचाक्षुषजननादेकदेशवृत्तित्वनिवेशासम्भवात् । एवं च दोषाभावेऽपि पटादिचक्षुःसंयोगमादाय चक्षुःसंयोगादिकालवृत्तित्वविशिष्टसामान्यज्ञानमहिम्ना घटत्वादिज्ञानकार्यापत्तिः, घटचक्षुःसंयोगदशायां व्यभिचारेण सामग्रीव्याप्तौ दोषनिवेशस्याप्यसम्भवादिति चेत्, न, बाधाभावादिघटितसामग्रीव्याप्तावप्यस्य दोषस्य तुल्यत्वात्, तत्रापि घटाभावादिप्रकारकचाक्षुषनिश्चयाभावादिघटितसामग्रीव्याप्तौ सन्निकर्षादीनां घटचक्षःसंयोगत्वादिना निवेशासम्भावाच्चक्षुःसंयोगत्वादिनैव तेषां निवेशनीयतया पटादिचा:संयोगादिकाले विनैव घटचक्षुःसंयोगादिकं तज्जन्यतावच्छेदकीभूतघटत्वादिप्रकारकचाक्षुषत्वाद्यवच्छिन्नापत्तेः । अथ तत्तघटादिवृत्तिविषयतासम्बन्धेन ज्ञानत्वावच्छिन्नं प्रति तादृशसम्बन्धेनेश्वरज्ञानसाधारणज्ञानत्वेन हेतुता कल्प्यते, तथा च घटवृत्तिविषयत्वसमवायादिरूपकार्यतावच्छेदकप्रत्यासत्तिघटितसामानाधिकरण्यसम्बन्धेन तादृशज्ञानविशिष्टचक्षुःसंयोगाद्यात्मकविषयवृत्तिसामग्रीसमवहितघटाभावचाक्षुषाद्यभावस्यैव घटचाक्षुषत्वादिरूपकार्यतावच्छेदकावच्छिन्नव्याप्यत्वमभ्युपेयते, पटचक्षुःसंयोगादीनां च घटवृत्तिविषयतासम्बन्धेन ज्ञानाधिकरणेऽवृत्तेर्न तत्समवहितबाधाभावादिबलाद् घटचाक्षुषाद्यापत्तिरिति चेत्, तुल्यं प्रकृतेऽपि । न च पटे