________________
॥ ॐ ऐं सरस्वत्यै नमः ॥
॥ न्यायविशारदन्यायाचार्यमहोपाध्यायश्रीयशोविजयगणिसद्गुरुभ्यो नमः ॥
प्रस्थानम्
आप्तमीमांसा :
इयम् आप्तमीमांसा । देवागमस्तोत्रम् - इत्यस्याः प्रसिद्धिः ।
आचार्यश्रीसमन्तभद्रस्वामिप्रणीता स्तुतिरेषा वस्तुतः अनेकान्तवादस्थापनोद्देशेन विहितः
परीक्षाग्रन्थः ।
द्विविधा खलु दार्शनिकशास्त्राणां प्रवृत्तिः, लक्षणशास्त्रं परीक्षाशास्त्रं च । तत्र लक्षणशास्त्रे निजनिजदर्शनाभिमतमूलतत्त्वानां स्वरूपावधारणाय विमर्शः क्रियते । परीक्षाशास्त्रे पूर्वोत्तरपक्षस्थापनद्वारा दर्शनान्तरीयाभिमततत्त्वानां विरोधमुद्भाव्य परीक्षा क्रियते । लक्षणशास्त्रे लक्षणानाम् अव्याप्त्यादिदोषराहित्यसम्पादकयुक्तीनां संयोजनेन स्वमतस्थापनमेव वर्तते प्राधान्येन । परीक्षाशास्त्रे पुनः परमतखण्डनमपि । तदियमाप्तमीमांसा स्तुतिव्याजेन रचितः परीक्षाग्रन्थः ।
विषयदर्शनम् :
विवादाध्यासितजिनधर्मिकाऽऽप्तत्वाऽनाप्तत्वप्रकारकसंशयजनकविप्रतिपत्तौ स्तुत्यत्वेनाभिमतः जिन एव आप्त इत्यन्ययोगव्यवच्छेदपूर्विका विधिकोटिरत्र परीक्ष्या । अस्यां कोटयै अन्ययोगव्यवच्छेदांशे प्रदर्शितानां व्यभिचाराणां निराकरणं कृतं स्तुतिकृद्भिः प्रथमश्लोकत्रयेण । चतुर्थपञ्चमश्लोकयोराप्तत्वधर्माश्रयस्य पुरुषविशेषस्य संसाधनद्वारेण सर्वज्ञत्वस्थापनं विहितम् । षष्ठे श्लोके निर्दोषत्वहेतुना अन्ययोगव्यवच्छेपूर्विकाया आप्तत्वप्रकारकनिश्चयजनिकाया जिनविषयिण्याः विधिकोटेः स्थापनम् । निर्दोषत्वहेतौ स्वरूपासिद्धिपरिहारार्थं च युक्तिशास्त्राऽविरोधिवाक्त्वरूपो हेतुरप्यत्रैवोपस्थापितः स्तुतिकारैः । इदमेव च परीक्षाशास्त्रस्यास्य मूलम् । सप्तमश्लोकादारभ्य शततमश्लोकपर्यन्तं दर्शनान्तरीयाणां वादानां युक्तिशास्त्रविरोधित्वं प्रदर्श्य निजार्हद्दर्शनस्य तदविरोधित्वमनेकान्तवादाश्रयेण साधितम् । अन्त्येषु चर्तुर्दशसु श्लोकेषु प्रमाणनयसप्तभङ्गीमुपपादयद्भिः स्याद्वादसंस्थितिः कृता स्तुतिकरैः ।
परीक्षाप्रधानेऽस्मिन् शास्त्रे अनेकान्तवादस्य निर्दोषत्वसिद्ध्यर्थं दशपरिच्छेदा उपकल्पिताः । प्रत्येकस्मिन् चतुर्णां कोटीनामुत्थापनं कृत्वा अनेकान्तवादाश्रयणपूर्वकं वस्तुतत्त्वे सप्तभङ्गीसङ्गतिः