SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ १२ मद्बन्धुमुनिश्रीप्रशमरतिविजयस्तु वस्तुत एतत्कार्योपलब्धयशसोऽर्धभागाधिकारी वर्तते । परिशिष्टादिनिर्माणे श्रुतसंरक्षकाचार्यदेवश्रीपद्मसागरसूरीश्वरशिष्यैः परोपकारैकरसिकैः श्रीमद् अजयसागरैरनन्यलभ्यं मार्गदर्शनम् कृतमिति । मुद्रणादर्शसंशोधनादिषु पूज्यपादतपागच्छाधिनाथाचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वराणामाज्ञावर्तिनीसाध्वी श्रीरोहिताश्रीशिष्याभिः विदुषीभिः साध्वी श्रीचन्दनबालाश्रीभिः, प्रस्तावनाप्रतिलिपिकरणे च साध्वी श्रीहर्षरेखा श्रीशिष्याभिः साध्वीश्रीजिनरत्नाश्रीभिः, संशोधनकार्ये च विद्यानुरागिणा पं. श्रीअमृतलालपटेलमहोदयेन साहाय्यमाचरितम् । षड्दर्शनाचार्याः पण्डिवर्य श्रीरजनीकान्तपरीखमहोदया : (M.A.) अत्रावसरे विशेषतः स्मृतिपथमवतरन्ति यदधीतविद्योऽहम् दार्शनिकशास्त्राणां बोधमुपलब्धवान् । सन्दर्भग्रन्थाश्चात्र सम्पादने उपयुक्ताः अधोलिखितज्ञानमन्दिरेभ्य उपलब्धाः । (१) आचार्यश्री कैलाससागरसूरिज्ञानमन्दिरम् (कोबा) (२) गीतार्थगङ्गा ( पालडी) (३) आचार्यश्रीविजयमित्रानन्दसूरीश्वरशास्त्रसङ्ग्रहः (पालडी) (४) आचार्यश्रीविजयदानसूरीश्वरजीज्ञानमन्दिरम् (कालुपुर) (५) पुखराजरायचंदशास्त्रसङ्ग्रहः (साबरमती) (६) जैनप्राच्यविद्याभवनम् (पालडी) सर्वैः ग्रन्थागारसञ्चालकैः निजश्रमादिकं अवगण्य सम्पादनेऽत्र साहाय्यमाचरितम् । ग्रन्थस्याक्षरसंयोजनं मुद्रणाकृतिप्रारुपसङ्कलना च श्रीअखिलेशमिश्रामहोदयेन (संचा० विरति ग्राफिक्स) विशेषप्रीतिपूर्वकं कृतम् । परिशिष्टानां मुद्रणं सङ्गणकयन्त्रे ( Computer) अकारादिक्रमनिर्माणं च श्रीकैलाससागरसूरिज्ञानमन्दिरमुद्रणालयविभागेन सहृदयतया कृतमिति सर्वेषां उपकतॄणां प्रति कृतज्ञताभावमभिव्यज्य, साहाय्यकानां श्रुतभक्तिमनुमोदयन् साधुवादांश्च समर्पयन् विरमति विमलवसतिः कुम्भायाजतीर्थम् २०६०, चैत्रबहुला षष्ठी वैराग्यरतिविजयः
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy