________________
अष्टसहस्त्रीतात्पर्यविवरणम् [वेदवाक्येन यज्ञकार्ये प्रवर्त्तमानः पुरुषः स्वर्गादिफलमपश्यन् कथं प्रवर्तेत
इति शङ्कायां भाट्टस्य प्रत्युत्तरं]
स्यान्मतम्
व्यापार एष मम किमवश्यमिति मन्यते ।
फलं विनैव नैवं चेत् सफलाधिगमः कुतः ॥ इति । [ तदप्यसमीक्षिताभिधानम् अग्निष्टोमेन यजेत स्वर्गकामः [आप १०.२.८] इत्यादिवेदवाक्यसामर्थ्यादेव पुरुषेण तदा मम एष व्यापार इति प्रत्येतुं शक्यत्वात् । ममेदं कर्त्तव्यमिति फलमपश्यन् कथं प्रत्येतीति चेत्, प्रत्यक्षतः कथं प्रत्येति ? फलयोग्यतायाः प्रतीतेरिति चेद्, वाक्यादपि तत एव तथा प्रत्येतु । फलस्यातीन्द्रियत्वात्कथं तद्योग्यता ? स्वव्यापारस्य का प्रतीयते इति चेत्, प्रत्यक्षविषयस्य कथम् ? प्रतिपत्तुरभ्याससामर्थ्यात्प्रत्यक्षस्य विषये फलयोग्यतानिश्चय इति चेत्, तत एव च कर्तुः स्वव्यापारे तद्योग्यतानिश्चयोऽस्तु, सर्वथा विशेषाभावात् ।
[बौद्धो भेदं काल्पनिकं वक्ति, किन्तु भाट्टो वास्तविकं मन्यते]
यदप्यवादि प्रज्ञाकरेण
यजते पचतीत्यत्र भावना न प्रतीयते । यज्याद्यर्थातिरेकेण तस्या वाक्यार्थता कतः ? ॥ [प्रमाणवार्तिक० २.१३८] पाकं करोति यागं च यदि भेदः प्रतीयते ।
एवं सत्यनवस्था स्यादसमञ्जसताकरी ॥ [प्रमाणवार्तिक० २.१३९]
करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्ति निर्वर्त्तयति व्यपदेशा एते यथाकथञ्चिद्भेदपरिकल्पनपुरस्सराः । नैतेभ्योऽस्ति पदार्थतत्त्वव्यवस्थेति । शिलापुत्रकस्य शरीरमिति भेदव्यवहारो भेदमन्तरेणाऽपि दृश्यते ।
यथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा पुनदृष्टा करोतीति न हि क्रिया ॥ [प्रमाणवार्तिक० २.१४०] यजि क्रिया च द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतेः ॥ इति ।