________________
५७
प्रथमो भागः [परि०१-का. ३] तदपि न परीक्षाक्षमम् ।
यजते पचतीत्यत्र भावनायाः प्रतीतितः । यजाद्यर्थातिरेकेण युक्ता वाक्यार्थता ततः ॥ पाकं करोति यागं चेत्येवं भेदेऽवभासिते ।
कानवस्था भवेत्तत्र तत्प्रतीत्यनुसारिणाम् ॥ यजते यागं करोतीति हि यथा प्रतिपत्तिस्तथा स्वव्यापारं निष्पादयतीत्यपि सैव प्रतिपत्तिः, स्वव्यापारशब्देन यागस्याभिधानात्, निष्पादयतीत्यनेन तु करोतीति प्रतीतेः । यागं करोति स्वव्यापारं निष्पादयतीति नार्थभेदः । यागनिष्पत्ति निर्वर्त्तयतीत्यत्रापि यागनिष्पत्तिर्याग एव । निर्वर्त्तनं करणमेव, ततो यागं करोतीति प्रतीतं स्यात्, ततो नैते व्यपदेशा यथाकथञ्चिद्भेदपरिकल्पनपुरस्सराः, प्रतीयमानकरोत्यर्थविषयत्वात्, यागं करोति विदधात्येवमादिव्यपदेशवत्, ततो युक्तैवैतेभ्यः पदार्थतत्त्वव्यवस्था अनवस्थानवतारात् ।
[पुनरपि बौद्धो भेदकल्पनायामनवस्थां दर्शयति भाट्टश्च निराकरोति] अथ यजते यागं करोति यागक्रियां करोतीत्येवमनवस्थोच्यते तर्हि स्वरूपं संवेदयते स्वरूपसंवेदनं संवेदयते इत्यप्यनवस्था स्यात् । अथ स्वरूपं संवेदयते इत्यनेनैव स्वरूपसंवेदनप्रतिपत्तेः स्वरूपसंवेदनं संवेदयते इत्यादि निरर्थकत्वादयुक्तं, तर्हि यागं करोतीत्यनेनैव यागावच्छिन्नक्रियाप्रतिपत्तेर्यागक्रियां करोतीत्यादिवचनमनर्थकमेव व्यवच्छेद्याभावात् । यजते इत्यनेनैव यागावच्छिन्नक्रियाप्रतीतेर्यागं करोतीत्यपि वचनमनर्थकमिति चेत्, सत्यं, यदि तद्वचनादेव तथा प्रत्येति, यस्तु न प्रत्येति तं प्रति विशेषणविशेष्यभेदकथनपरत्वात् तथाभिधानस्य नानर्थक्यम् । शिलापुत्रकस्य शरीरं, राहोः शिर इत्यादिभेदव्यवहारा अपि न कथञ्चिद्भेदमन्तरेण प्रवर्त्तन्ते, गौणत्वप्रसङ्गात् । शिलापुत्रकस्य, राहोरित्युच्यमाने हि किमिह सन्देहः । तद्व्यवच्छित्तये शरीरं, शिर इत्यभिधानमन्यस्य कार्यादेर्व्यवच्छेदकमुपपन्नम् । तस्मिंश्च सति कस्येति संशयः स्यात्, तद्व्यपोहनाय शिलापुत्रकस्य राहोरित्यभिधानं श्रेयः, अवस्थातद्वतोः कथञ्चिद्भेदात् । शरीरं हि शिलापुत्रकस्यावस्था अवयवोपचयलक्षणावस्थान्तरव्यावृत्ता । शिलापुत्रकः पुनरवस्थाता, खण्डाद्यवस्थान्तरेष्वपि प्रतीतेः । एतेन राहुरवस्थाता शिरोऽवस्थायाः ख्यातः ।