________________
अष्टसहस्रीतात्पर्यविवरणम् [अवस्थामन्तरेणावस्थावान् कश्चिन्नास्ति इति बौद्धेन मन्यमाने भाट्टः प्रत्युत्तरयति]
सांवृतोऽवस्थाता, अवस्थाव्यतिरेकेणानुपलब्धेरिति चेत्, न उभयासत्त्वात् । अवस्थातुरसत्त्वे सांवृतत्वे वावस्थायाः सत्त्वासांवृतत्वविरोधात् खपुष्पसौरभवत् कृत्रिमफणिफटादिवच्च ततो वस्तुस्वभावाश्रय एव यागं करोतीति व्यपदेशः सत्यप्रतीतिकत्वात् । संविदमनुभवतीत्यादिव्यपदेशवत् ।
तथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा च निर्बाधा करोतीति क्रियेष्यते ॥ यजिक्रियापि भावस्याऽविशेषादपरैव हि ।
सामानाधिकरण्येन देवदत्ततया गतेः ॥ [करोतिक्रिया सामान्यं यज्यादिक्रिया विशेषाः तयोः सामान्यविशेषयोः भेदोऽस्ति
इति भाट्टेनोच्यमाने बौद्धो दोषानारोपयति] द्विजो हि व्यापृतेतरावस्थानुयायी स एवायमित्येकत्वप्रत्यवमर्षवशान्निश्चितात्मा परमार्थात्सन्नेकः । यागस्तु तद्व्यापारः प्रागभूत्त्वा भवन् पुनरपगच्छन्ननित्यतामात्मसात्कुर्वन् भेदप्रत्ययविषयस्ततोऽपर एव, कथञ्चिद्विरुद्धधर्माध्यासात् । तथा यागेतरव्यापारव्यापिनी करोतीति क्रियानुस्यूतप्रत्ययवेद्या तद्विपरीतात्मनो यागादर्थान्तरभूता सर्वथाप्यप्रतिक्षेपार्हानुभूयते, यजते यागं करोति देवदत्त इति समानाधिकरणतया देवदत्तेन सहावगतेः । सर्वथा तदैक्ये तद्विरोधात् पटतत्स्वात्मवत् । किं करोति देवदत्तः ? यजति पचतीति प्रश्नोत्तरदर्शनात् करोतीति निश्चितेऽपि यज्यादिषु सन्देहाच्च । तथा हि, यस्मिन्निश्चीयमानेऽपि यन्न निश्चीयते तत्ततः कथञ्चिदन्यत् । यथान्यदेहे निश्चीयमानेऽप्यनिश्चीयमाना बुद्धिः । करोतीति निश्चीयमानेऽप्यनिश्चीयमानश्च यज्यादिरिति । स्यान्मतम्
करोत्यर्थयज्याद्यौँ विभिन्नौ यदि तत्त्वतः ।
अन्यत्सन्दिग्धमन्यस्य कथने दुर्घट: क्रमः ॥ [ न हि करोतीति क्रियातो विभिन्नायां यज्यादिक्रियायां सन्देहे ततोऽन्यत्र करोत्यर्थे निश्चिते प्रश्नः श्रेयान्, अनिश्चिते एव प्रश्नस्य साधीयस्त्वात् । ततः करोत्यर्थयज्याद्यर्थयोस्तादात्म्यमेषितव्यम्, तत्रैव प्रश्नोत्तरदर्शनादिति । तदेतदनुप