SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि. १-का. १०] २७७ वक्तर्यनाप्ते इत्यत्र [का० ७८] तत्प्रतिक्षेपविस्तारवचनात् । तदिह पर्याप्तं - अष्टसहस्त्रीतात्पर्यविवरणम् (३) एवं हरेऽव विष्णोऽवेत्यादौ प्रत्येकपदज्ञानेऽपि समुदायशक्तिज्ञानाच्छाब्दबोधोदयाद्वाक्यस्फोटोऽपि सिद्ध एव । वस्तुतः पदैः पदार्थावबोधो वाक्येन वाक्यार्थावबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ, अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ विपरीतव्युत्पत्तिरहितस्यापि बोधप्रसङ्गात् । (शङ्का) तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभक्तेस्तत आनयनार्थकधातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानमपि हेतुरिति चेत्, तर्हि सिद्धो वाक्यस्फोटः घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानस्येव विशिष्यवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात्, अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । (शङ्का) वाक्यार्थस्य अपूर्वत्वात् कथं तत्र शक्तिग्रहः ? इति चेत्, अन्विताभिधानवादे पदेऽपि कथम् ? अन्वयस्यापूर्वत्वात् । यदि च पदशक्तिः पदार्थांशे ज्ञाताऽन्वयांशे चाज्ञातोपयुज्यत इति कुब्जशक्तिवादः, तदा ममापि वाक्यशक्तिरज्ञातैवोपयुज्यत इति वादाभ्युपगमस्तुल्यः । (शङ्का) अन्विते पदशक्तिग्रहो वृद्धव्यवहारदर्शनसहकृतेन मनसा चेत्, वाक्येऽपि तुल्यमेतत्, अत एव सर्वत्र वाक्यार्थो लक्ष्य इति भाट्टाः । वस्तुतः समुदितार्थे विशिष्टवाक्यस्यैव प्रथम शक्तिग्रहस्तदनन्तरमावापोद्वापाभ्यां प्रत्येकं तद्ग्रह इत्युपजीव्यत्वाद्वाक्यस्फोट आश्रयणीयः । न च पदत्वं वाक्यत्वं वा दुर्ग्रहम्, चरमवर्णप्रत्यक्षसमयेऽव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णवत्त्वरूपस्य तस्य सुग्रहत्वात् ।। __ (४-५) वाक्यं पदं चाखण्डमेव, न तु वर्णसमूहोऽनन्तवर्णकल्पने मानाभावात्ततद्वर्णोत्पादकत्वाभिमतवायुसंयोगनिष्ठं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात, उक्तं हि देवताधिकरणे भामत्यां-T'तारत्वादि वायुनिष्ठं वर्णेष्चावारोप्यत' इति । न च एवं वाचकोऽपि वायुसंयोग एव स्यात्, प्रत्यक्षोपलभ्य-'क'कारादेरेव तत्त्वस्यानुभविकत्वात् । तथा च तदेवेदं पदं तदेवेदं वाक्यमित्यादिधियाऽखण्डस्फोट: सिद्ध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेव वाचकत्वमिति अपास्तम् तेषां स्फोटातिरिक्तत्वाभावात्, उक्तवायुसंयोगानां मध्ये केषांचिद् गत्वेन केषांचिदोत्वेन केषांचिद्विसर्गत्वेनाभिव्यञ्जकत्वान्नानुपपत्तिः, अव्यवहितोत्तरत्व सम्बन्धेन 'घ'वत्त्वस्य टकारे ग्रहादेतादृशपदज्ञानकारणताया अविवादात. परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम्, अत एव 'घ'ज्ञानानन्तर
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy