________________
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वोपादानत्वप्रसक्तिः । न च सुखादयो विज्ञानाभिन्नोपादानाः स्युः । विज्ञानाभिन्नसहकारित्वं तु यथा सुखादीनां तथा रूपादीनामपीति ततस्तेषां विज्ञानात्मकत्वसाधने रूपादीनामपि तथात्वसाधनं स्यात् । तदुक्तं -
२०२
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् । इति [ तत्त्वोपप्लवसिंहः]
यदि पुनरिन्द्रियानिन्द्रियहेतुजत्वं विज्ञानाभिन्नहेतुजत्वमित्यभिधीयते तदपि न सुखादीनां ज्ञानत्वं साधयति, द्रव्येन्द्रियानिन्द्रियैर्व्यभिचारात् । इति नैकान्ततो ज्ञानात्मका सुखादय द्रव्यार्थत एव तेषां चेतनत्वोपपत्तेः, चेतनद्रव्यादात्मनोऽनर्थान्तरभूतानामचेतनत्वविरोधात् । एतेन ज्ञानादर्थान्तरभूतत्वात्सुखादीनामचेतनत्वमेवेति वदन्तोऽपाकृताः प्रत्येतव्याः, चेतनादात्मनोऽनर्थान्तरत्वेन कथञ्चिच्चेतनत्वसिद्धेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मनसि कृत्येति मन्तव्यम् । पूर्वं सर्वथाकथञ्चित्पक्षाभ्यां यद्दूषणमभ्यधायि तस्यैवेदं विवरणमिति न पौनरुक्त्यम्, व्यभिचारादिति द्रव्येन्द्रियानिन्द्रियोपादेयपरिणाम एवेत्यर्थः । प्रत्येतव्या इति नैयायिकादय इति शेषः । अनुमानं च तेषां सुखादयोऽचेतना ज्ञानभिन्नत्वात् घटवदिति द्रष्टव्यम् । अत्राचेतनत्वं यदि ज्ञानभिन्नत्वं तदा हेतुसाध्ययोरविशेषः । यदि च चैतन्यात् प्रविभक्तप्रदेशत्वरूपं तदा कालात्ययापदिष्टो हेतुरिति सुखस्य ज्ञानादन्यत्वरूपो भेदः प्रविभक्तप्रदेशत्वरूपभेदाभावश्चेत्यनेकान्त एव श्रेयान् ।
॥ सुखवादः ॥
अथ सुखस्य ज्ञानविशेषत्व एव चन्दनादिविषयकत्वं युक्तं सुखोत्पत्त्यनन्तरं चन्दनादिज्ञानं कल्पयित्वा तदुपनीतभानात्मकसुखानुभवाभ्युपगमस्य मानससामग्रीविच्छेदेन निर्युक्तिकत्वात् । न च चन्दनसुखमनुभवामीत्यत्र चन्दनादिजन्यतावच्छेदको जातिविशेष एव सुखस्योपरि भासते न तु चन्दनमिति वाच्यम्, तस्य घुसृणादिजन्यतावच्छेदिकया तदुभयजन्ये साङ्कर्यादुभयजन्यतावच्छेदकजात्यन्तराभ्युपगमे च तदवच्छिन्नोत्पत्तिकाले प्रत्येकजन्यकार्यप्रसङ्गात् तत्कार्ये तदितरसन्निधानस्य प्रतिबन्धकत्वादिकल्पने च महागौरवादिति चेत्, न एवं सति सुखस्य सविषयकत्वसिद्धावपीच्छाद्वेषयोरिव ज्ञानाभिन्नत्वे मानाभावात् । न च सुखस्य सविषयकत्वे विषयता द्विविधा प्रतिपत्त्यनु