________________
२३१
प्रथमो भागः [ परि० १-का. ९]
भावैकान्ते पदार्थानामभावानामपह्नवात् ।
सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥९॥ पदार्थाः =प्रकृत्यादीनि पञ्चविंशतितत्त्वानि ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ [साङ्ख्यतत्त्वकारिका-३] इति वचनात् । तेषामस्तित्वमेवेति निश्चयो भावैकान्तः । तस्मिन्नभ्युपगम्यमाने सर्वेषामितरेतराभावादीनामभावानामपह्नवः स्यात् । ततः सर्वात्मकत्वादिप्रसङ्गः ।
[इतरेतराभावाभावे साङ्ख्यमते प्रकृतेः व्यक्ताव्यक्तभेदौ कथं भवेताम् ?]
तत्र व्यक्ताव्यक्तयोस्तावदितरेतराभावस्यापह्नवे व्यक्तस्याव्यक्तात्मकत्वे सर्वात्मकत्वम् । तथा च
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ [साङ्ख्यतत्त्वकारिका-१०]
इति व्यक्ताव्यक्तलक्षणभेदकथनविरोधः ।
[अत्यन्ताभावाभावे प्रकृतिपुरुषौ एकात्मकौ स्याताम् ।]
प्रकृतिपुरुषयोरत्यन्ताभावनिह्नवे प्रकृतेः पुरुषात्मकत्वे सर्वात्मकत्वमेव, तथा
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ [साङ्ख्यतत्त्वकारिका-११]
इति तल्लक्षणभेदकथनव्याघातः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
भावैकान्त इति भावैकान्तेऽस्तित्वमेवेत्यभ्युपगमे । अभावानाम्=अन्योन्याभावात्यन्ताभावप्रागभावप्रध्वंसाभावानाम् । प्रकृतेः पुरुषात्मकत्व इति प्रकृतौ पुरुष