________________
प्रथमो भागः [परि. १-का. ३]
१२७ सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत् ॥ इति ।
[मीमांसाश्लोकवार्तिकम् चोदनासूत्रम् ११७] आगमोऽपि न तावन्नित्यः सर्वज्ञस्य प्रतिपादकोऽस्ति, तस्य कार्ये एवार्थे प्रामाण्यात् स्वरूपेऽपि प्रामाण्येऽतिप्रसङ्गात् । स सर्ववित् स लोकविद् इत्यादेः हिरण्यगर्भः सर्वज्ञ [ ] इत्यादेश्चागमस्य नित्यस्य कर्मार्थवादप्रधानत्वात् । तात्पर्यासम्भवादन्यार्थप्रधानैर्वचनैरन्यस्य सर्वज्ञस्य विधानासम्भवात् । पूर्वं कुतश्चिदप्रसिद्धस्य तैरनुवादायोगात् । अनादेरागमस्यादिमत्सर्वज्ञप्रतिपादनविरोधाच्च । नाप्यनित्यस्तत्प्रणीत एवागमस्तस्य प्रकाशको युक्तः, परस्पराश्रयप्रसङ्गात् । नरान्तरप्रणीतस्तु न प्रमाणभूतः सिद्धो यतः सर्वज्ञप्रतिपत्तिः स्यात् । असर्वज्ञप्रणीताच्च वचनान्मूलवजितात् सर्वज्ञप्रतिपत्तौ स्ववचनात्किन्न तत्प्रतिपत्तिरविशेषात् । तदुक्तं
न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधनः । न च मन्त्रार्थवादानां तात्पर्यमवकल्प्यते ॥१॥ [तत्त्वसङ्ग्रहः-३१८७]
- अष्टसहस्त्रीतात्पर्यविवरणम्
धर्मिणः सर्वज्ञस्यैकदेशो धर्मस्तद्रूपस्येत्यर्थः, अस्मिन् पक्षे 'दृष्टो न चैकदेशोऽस्ति लिङ्गं वेति' वक्ष्यमाणसामानाधिकरण्योपपत्तिरिति ध्येयम् । तत्र गम्यगमकसमुदायमध्याल्लिङ्गमेकदेशो ग्राह्य इति त्वाकरे स्पष्टम् । अनिश्चितपक्षधर्मत्वस्य हेतोरगमकत्वादनिश्चिते च धर्मिणि हेतोः पक्षधर्मत्वनिश्चयस्य कर्तुमशक्यत्वान्न केनापि लिङ्गेन सर्वज्ञानुमानं भवतीत्यर्थः । अतिप्रसङ्गादिति अलाबूनि निमज्जन्तीत्यादेरपि प्रामाण्यप्रसङ्गादित्यर्थः । कर्मार्थवादप्रधानत्वादिति हिरण्यगर्भं प्रकृत्य स सर्वविदित्याद्यभिधानस्य कर्मकाण्डफलीभूतहिरण्यगर्भस्तुतिमात्रपरत्वादित्यर्थः । तात्पर्यासम्भवादित्यनन्तरं यथाश्रुत इति शेषः । आदिमदित्यादि अनादिनित्यागमो यदि सर्वज्ञमादिमन्तं प्रतिपादयति तदा स किमभूद् भवति भविष्यति वा? कल्पत्रयेऽपि विरोध एवेति भावः । न च मन्त्रार्थवादानामिति वेदो द्विविधो मन्त्रब्राह्मणभेदात्, तत्र ये वेदभागाः प्रयोगसमवेतमर्थं प्रकाशयन्तः स्वोच्चारणमात्रेण साध्यकर्मणि विनियुज्यन्तेऽभियुक्तयाज्ञिकैश्च मन्त्रत्वेन समाख्यायन्ते ते मन्त्रास्ते च ऋग्यजुःसामभेदेन त्रिप्रकाराः, अवशिष्टो भागो ब्राह्मणं, तच्च विध्यर्थवादभेदाद् द्विधा, तत्र विधिलिङादिगर्भो वाक्यसन्दर्भः, अर्थवादः स्तुतिनिन्दाभेदाद् द्विविधः,