________________
प्रथमो भागः [परि०१-का. ३]
३७ प्रसङ्गात् । नैरात्म्यादेरनाद्यविद्योपकल्पितत्वान्न तद्दर्शनादौ प्रवृत्तिरिति चेत्, कथमन्यपरिहारेण प्रवृत्तिर्न भवेत् ? परमब्रह्मणो विधिरेवान्यस्यानाद्यविद्योपकल्पितस्य नैरात्म्यादेः परिहार इति चेत्, कथमेवमन्यापोहवादिनोऽपि परापोहनमेव स्वरूपविधिर्न भवेत् ? तस्यान्याऽपोहवादविरोधान्नैवमिति चेत्, विधिवादिनोऽपि तथा विधिवादविरोधादन्यापोहाभ्युपगमो मा भूत् । परमार्थतोऽन्यापोहो विधिवादिना नैवाभ्युपगम्यते, तस्य प्रतिभाससमानाधिकरणत्वेन प्रतिभासान्तःप्रविष्टत्वसिद्धेः, परमपुरुषत्वात्, प्रतिभासस्वरूपवत्, तस्याप्रतिभासमानत्वे व्यवस्थानुपपत्तेरन्यथातिप्रसङ्गात् । शब्दज्ञानेऽस्यानुमानज्ञाने चान्यापोहस्य प्रतिभासनेऽपि तत्समानाधिकरणतया प्रतिभासनान्न ततोऽन्यत्वम् । तस्य च शब्दानुमानज्ञानस्य प्रतिभासमात्रात्मकत्वान्नार्थान्तरत्वमिति चेत् ? कथमिदानीमुपनिषद्वाक्यं प्रतिभासमात्रादन्यल्लिङ्ग वा यतस्तत्प्रतिपत्तिः प्रेक्षावतः स्यात् । तस्य परमब्रह्मविवर्त्तत्वाद्विवर्त्तस्य च विवर्तिनोऽभेदेन परिकल्पनात्ततस्तत्प्रतिपत्तिरिति चेत्, कथं तत्परिकल्पिताद्वाक्याल्लिङ्गाद्वा परमार्थपथावतारिणः परमब्रह्मणः प्रतिपत्तिः ? परिकल्पिताद् धूमादेः पारमार्थिक पावकादिप्रतिपत्तिप्रसङ्गात् । पारमार्थिकमेवोपनिषद्वाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत्, तर्हि यथा तत्पारमार्थिकं तथा साध्यसमं कथं पुरुषाद्वैतं व्यवस्थापयेत् ? यथा च प्रतिपाद्यजनस्य प्रसिद्धं न तथा
अष्टसहस्रीतात्पर्यविवरणम्
॥ 'प्रतिभासाद्वैतवादः ॥ परमब्रह्मणो विधिरेवेत्यादि, अधिकरणस्वरूपाभावस्येत्यर्थः । तस्य चेति' स्वरूपविधेरित्यर्थः सामान्यैकप्राणत्वादस्यान्यापोहवादे न विरोध इति भावः । विधिवादिनोऽपीति, तत्रापि सदद्वैतेनातव्यावृत्तेरभावात्मिकाया अस्पर्शादित्यर्थः । प्रतिभाससमानाधिकरणत्वेनेति, भातीतिक्रियासमानाधिकरणत्वेनेत्यर्थः । तथा चायं प्रयोगःअन्यापोहः प्रतिभासान्तःप्रविष्टः भातीतिक्रियासमानाधिकरणत्वात् भानस्वरूपवदिति । परमब्रह्मत्वेनेति तथा चोपनिषद्वाक्यादेब्रह्मत्वेन प्रतिभासादभेदो वाक्यत्वादिना च भेद इति रूपभेदान्न विरोध इत्यर्थः ।
१. तस्य इति अष्टसहस्रीसम्मतः पाठः ।