________________
१९
तच्छिष्याः पण्डितश्रीनयविजयाः, तेषां शिष्याः महोपाध्यायश्रीयशोविजयगणिवराः ॥
सर्वतोमुखीप्रतिभासम्पन्नानां न्यायाचार्याणां मुख्यं जीवनकृत्यमासीत् ग्रन्थनिर्माणम् । प्रायः सर्वेषु प्रचलितेषु विषयेषु तेषां लेखिनी अप्रतिहतप्रसरा प्रवाहिनीवासीत् । विशेषतः नव्यन्यायशैलीमण्डिते दार्शनिकक्षेत्रे वादबहुलाः ग्रन्थाः तेषां सारस्वती कीर्तिं गायन्तो विराजन्ते । कानिचित् नामानि अत्र प्रस्तूयन्ते ।
(१) नयोपदेशः, (२-३) नयामृततत्त्वतरङ्गिणी टीकोपेतः, (४-५) महावीरस्तवः न्यायखण्डनखाद्यटीकोपेतः, (६) उत्पादादिसिद्धिटीका, (७) तत्त्वार्थसूत्रप्रथमाध्यायविवरणम्, (८-९-१०) स्याद्वादरहस्यम् लघुमध्यमबृहदितित्रयात्मकम्, (११) पातञ्जलयोगसूत्रटीका, (१२) काव्यप्रकाशवृत्तिः, (१३) न्यायसिद्धान्तमञ्जरीशब्दखण्डटीका, (१४) अनेकान्तव्यवस्थाप्रकरणम्, (१५) अस्पृशद्गतिवादः, (१६) आत्मख्यातिः, (१७) जैनतर्कभाषा, (१८) ज्ञानबिन्दुः, (१९) तिङन्वयोक्तिः, (२०) सप्तभङ्गीनयप्रदीपः, (२१) नयरहस्यम्, (२२) न्यायालोकः, (२३-२५) वादमालात्रयम्, (२६) विषयतावादः, (२७) स्याद्वादकल्पलता, (२८) अष्टसहस्रीतात्पर्यविवरणमित्यादि ।
पूज्यपादोपाध्यायप्रवरैः रचितानां बहुधा कालकवलितानां ग्रन्थानां सङ्ख्या इदानीं वक्तुमशक्या । सम्प्रत्युपलभ्यमानानां सङ्ख्या अशीत्यधिकम् वर्तते । दार्शनिकक्षेत्रे तद्विरचितेषु ग्रन्थेषु मूर्द्धाभिषिक्ताः त्रयो ग्रन्थाः । स्याद्वादकल्पलता, (शास्त्रवार्तासमुच्चयटीका) न्यायखण्डनखण्डखाद्यम् (महावीरस्तवटीका) अष्टसहस्रीतातात्पर्यविवरणं च । प्रशस्तिदर्शनेन अष्टसहस्रीतातात्पर्यविवरणं विक्रमात् १७१८ सङ्ख्यवर्षानन्तरं रचितमिति निःशङ्कम् । अष्टसहस्रीतात्पर्यविवरणे स्वरचित पञ्चदशानां ग्रन्थानामुल्लेखः श्रीमद्भिरुद्धरणरूपेण कृतः । तद्यथा
अध्यात्ममतपरीक्षा, अनेकान्तप्रवेशः (अमुद्रितः), अनेकान्तव्यवस्था, आत्मख्यातिः उपदेशामृततरङ्गिणी (अमुद्रिता), ज्ञानबिन्दुः, ज्ञानसारः, तत्त्वार्थसूत्रप्रथमाध्यायटीका, नयरहस्यम्, नयोपदेशः, नयामृततत्त्वतरङ्गिणी, भाषारहस्यम्, वादमाला, स्याद्वादकल्पलता, स्याद्वादरहस्यञ्च । (अनेकान्तप्रवेशः, उपदेशामृततरङ्गिणी च सम्प्रति नोपलभ्येते, द्वितीयस्य तु नामापि प्रथमवारमत्रैव प्राप्यते ।) एवम् अष्टसहस्रीतात्पर्यविवरणस्य रचना उपर्युल्लिखितग्रन्थरचनानन्तर्भाविनीति । प्रतिमाशतके च अष्टसहस्रीविवरणस्योल्लेखो दृश्यतेऽतः विवरणं तद्पूर्ववति इति ज्ञेयम् । तात्पर्यविवरणस्य वैशिष्ट्यम् : (१) अष्टसहस्रीतात्पर्यविवरणम् दिगम्बरग्रन्थोपरि रचिता प्रायः प्रथमैव टीका श्वेताम्बरसम्प्रदाये । स्वस्य दिगम्बरकर्तृकग्रन्थविवरणे हेतुश्च विवरणकारैः प्रस्तावनाश्लोकेष्वेव दर्शितः
स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात् कश्चिद् दृष्टिवादार्णवोत्थः । तद्व्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् ।