SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९२ अष्टसहस्त्रीतात्पर्यविवरणम् त्थितोऽवगच्छतीति चेदिदमपि तादृगेव । स्वयमसुषुप्तोऽनन्यमनाश्च सुषुप्तान्यमनस्कप्रवृत्तिमिच्छापूर्वकत्वेन व्याप्तामवगच्छतीति ब्रुवाणः कथमप्रतिहतवचनपथ: स्वस्थैरास्थीयते ? । तदानुमानात्तदवगतेरदोष इति चेत्, न, अनवस्थाप्रसङ्गात्, तदनुमानस्यापि व्याप्तिप्रतिपत्तिपुरस्सरत्वात् तद्व्याप्तेरप्यनुमानान्तरापेक्षत्वात्, सुदूरमपि गत्वा प्रत्यक्षतस्तद्व्याप्तिप्रतिपत्तेरघटनात् । एतेन सन्तानान्तरे तद्व्याप्तेरवगतिरपास्ता, अनुमानात्तदवगतावनवस्थानाविशेषात्, प्रत्यक्षतस्तदवगतेरसम्भवाच्च, इति नानुमेया सुषुप्त्यादाविच्छास्ति तत्काला पूर्वकाला वा, तदनुमानस्यानुदयात्, तथा च सर्वज्ञप्रवृत्तेरिच्छापूर्वकत्वे साध्ये वक्तृत्वादेर्हेतोः सुषुप्त्यादिना व्यभिचारात्तदनियम एव । (भा०) ततश्चैतन्यकरणपाटवयोरेव साधकतमत्वम् । __ [वक्तुमिच्छापि सर्वज्ञवचने सहकारिणीति मान्यताया निराकरणम्] ननु च सत्यपि चैतन्ये करणपाटवे च वचनप्रवृत्तेरदर्शनाद्विवक्षापि तत्सहकारिकारणमपेक्ष्यते एवेति चेत्, (भा०) सहकारिकारणान्तरं न वै नियतमपेक्षणीयं, नक्तञ्चरादेः संस्कृतचक्षुषो वानपेक्षितालोकसन्निधेः रूपोपलम्भात् । न चैवं संवित्करणपाटवयोरप्यभावे विवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते, संवित्करण अष्टसहस्त्रीतात्पर्यविवरणम् - इच्छायाः स्वसमानाधिकरणज्ञानविषयत्वनियमेनाज्ञाततदसम्भव इत्यर्थः । तदनियम एवेति वागादिप्रवृत्तेरिच्छापूर्वकत्वानियम एवेत्यर्थः । ननु वचनमात्रे विवक्षाया हेतुत्वात्तन्नियमो भविष्यतीत्यत आह-ततश्चैतन्येत्यादि चैतन्यकरणपाटवे तावद्वचनं प्रति नियते हेतू, विवक्षा तु कण्ठाद्यभिघातजनकप्रवृत्तिजनके च्छाजनकेष्टसाधनताज्ञानविषयस्येष्टतासम्पादनार्थं क्वचिदुपयुज्यमाना न नियतहेतुर्वचनहेतोः, कण्ठाद्यभिघातस्य विनापीच्छां गात्रस्य स्खलनादावदृष्टविशेषादुपपत्तेस्तद्वदेव वीतरागस्याप्यनाकूतवाचस्तीर्थकरनामकर्मोदयसामर्थ्यादुपपत्तेरिति निगर्वः । ननु सुषुप्तावनाकूतवाचोदोषमहिम्नैव दर्शनाद्दोषजातेर्वाग्घेतुत्वं स्यात्तथा च न निर्दोषस्य सर्वस्य तदुपपत्तिरित्याशक्य आह भाष्यकृत्-न चेत्यादि वाक्प्रकर्षापकर्षयोर्दोषजातिप्रकर्षापकर्षाननुविधायित्वान्न तस्यास्तद्धेतृत्वमिति भावः । वाञ्छन्तो वेति वा
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy