________________
प्रथमो भागः [परि०१-का. १६]
३६३ ___ व्यस्तं द्रव्यं द्रव्यपर्यायौ समस्तौ सहार्पितौ समाश्रित्य स्यात्सदवक्तव्यमेव सर्वमिति वाक्यस्य प्रवृत्तिः, द्रव्याश्रयणे सदंशस्य सहद्रव्यपर्यायाश्रयणे वक्तुमशक्तेरवक्तव्यत्वस्य विवक्षितत्वात् । तथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायौ
- अष्टसहस्त्रीतात्पर्यविवरणम्
एव तादृशनिश्चयविरहिणः कदाचिच्छक्त्याप्येकमात्रबोधः, उभयधर्मावच्छेदेन शक्तिग्रहेऽप्युदबोधकवशादेकधर्मावच्छिन्नमात्रस्मृतिसम्भवात् उभयधर्मावच्छिन्नस्मृतावपि योग्यतादिवशादेकधर्मावच्छिन्नस्य शाब्दबोधसम्भवाच्चेति । न चायुक्तं चैतत्, इत्थं शक्यतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमात्, तदुपगमे शक्तेरपि तत्त्वापत्तेः । न वा शक्त्यैक्यम्, सैन्धवादिपदेऽपि तदापत्तेः, सैन्धवादिपदमश्वे लवणे च शक्तमित्याकारकशक्तिग्रहस्याविशेषात्, अश्वत्वेनाश्वः शक्यो न लवणमित्यस्यापि चन्द्रत्वेन चन्द्रः शक्यो न सूर्य इत्यनेन तुल्यत्वात्, एकत्रैकतरधर्मावच्छिन्नस्यापि बोधोऽन्यत्र युगपदुभयधर्मावच्छिन्नस्यैवेत्यस्य चोक्तरीत्यैवोपपत्तेरधिककल्पनायां मानाभावादित्येके । चन्द्रसूर्यो पुष्पवन्तपदजन्यैकबोधविषयौ भवतामित्याकारिकैव शक्तिः एकयोक्त्या पुष्पवन्तौ इत्यादिकोशाल्लाघवाच्च । अत एव न चन्द्रसूर्यपर्यायता, नानार्थे गणनं वा, शक्तितदवच्छेदकतयोासज्यवृत्तितया च चन्द्रत्वेन चन्द्रः शक्यः सूर्यत्वेन च सूर्य इत्यादिर्न धीः, किन्तु चन्द्रत्वेन सूर्यत्वेन च चन्द्रसूर्यौ शक्यावित्येवेति सम्प्रदायमतमेव युक्तमित्यपरे । एकोच्चारणान्तर्भावेन नानार्थशक्तिस्थलेऽपि न सर्वत्र व्यासज्यवृत्तिधर्मावच्छिन्नप्रकारताक एव बोधः, पुष्पदन्तादिपदात्तथा बोधेऽपि तृतीयादेः करणत्वैकत्वादेः प्रातिस्विकरूपावच्छिन्नस्यैव नानार्थस्य बोधात् । तदुक्तं मित्रैः, पुष्पवन्तादिपदे करणत्वैकत्वादिशक्ततृतीयादिपदे चैकोच्चारणेन नानार्थानुभवजननव्युत्पत्तिनिश्चयादेकदैव नानार्थानुभवो नावृतिः इति । युक्तं चैतत्, तृतीयायास्तृतीयात्वेन करणत्वे एकवचनत्वेन चैकत्वे शक्तेः स्मारकशक्त्यै सम्भवादिति वदन्ति । अतिरिक्तशक्तिपक्षे शक्यशक्यतावच्छेदकभेदात्तृतीयादौ शक्तिः, पुष्पवन्तादिपदे तु व्यासज्यवृत्तिरेकैवेति युक्तम् । तदिह पुष्पदन्ततृतीयादिपदवत् सहापितसत्त्वासत्त्वोभयाश्रयबोधकं न किञ्चित्पदं व्युत्पादितमस्ति, प्रत्युत तथाजिज्ञासाया बाधितत्वज्ञाने तथाज्ञानस्य विपरीतव्युत्पत्त्या जायमानस्याप्यनिष्टत्वप्रतिसन्धानान्न तदर्थं कश्चित् प्रामाणिकः पदप्रयोग इति तदाऽवक्तव्यत्वेन ज्ञानस्यैवेष्टत्वात्, तदर्थं तुरीयभङ्गाभिधानं साधु सङ्गच्छते । अत एवैकक्षणे बोधद्वयं जायतामित्यादिस्थलेऽप्यवक्तव्यत्वाभिधानसाम्राज्यम्, बाधितेच्छाविषयत्वावच्छेदेनावक्तव्यत्वव्यवस्थानात् । न चैवं तुरीयभङ्गेऽनुगतावच्छेदकानुपलम्भः, अननुगतानामपि तेषामुपलम्भे स्यात्कारस्यैव कल्पवृक्षत्वात् । वस्तुत एकत्वावच्छिन्ने