________________
१२०
अष्टसहस्त्रीतात्पर्यविवरणम्
[ परस्परविरोधदोषस्य स्पष्टीकरणम् ]
वैनयिकानां तु सर्वमवगतमिच्छतां परस्परविरुद्धाभिधानं विरुद्धसंवेदनं प्रसिद्धमेव, सुगतमतोपगमे कपिलादिमतस्य विरोधात् । ततः सिद्धो हेतुः परस्परविरोधत इति तीर्थकृत्समयानां सर्वेषामाप्तत्वाभावं साधयति । यदि पुनः 'संविदद्वैतादीनां स्वतः प्रमितिसिद्धेः प्रमाणान्तरतः स्वपरपक्षसाधनदूषणवचनाभावान्न परस्परविरुद्धाभिधानं स्वसंवेदनैकप्रमाणवादिनां नापीन्द्रियजप्रत्यक्षैकप्रमाणवादिनां प्रत्यक्षप्रामाण्यस्य प्रत्यक्षत एव सिद्धेः, अनुमानादिप्रामाण्याभावस्यापि तत एव प्रसिद्धेः प्रमाणान्तराप्रसङ्गात्, तथानेकप्रमाणवादिनामपि स्वोपगतप्रमाणसङ्ख्यानियमस्य स्वत एव सिद्धेः प्रमाणान्तरस्योहस्याप्रसङ्गान्न विरुद्धाभिधानं सम्भवति' इति मतं, तदापि न तेषामाप्ततास्ति । अष्टसहस्त्रीतात्पर्यविवरणम्
हेतुत्वमुचितमलं मानसान्यत्वादेः कार्यतावच्छेदककोटौ निवेशेन । सामान्याश्रयलौकिकप्रत्यक्षसामग्र्यभावेऽपि सामान्येनोत्सर्गतो यावद्विशेषाश्रयेण भवितव्यमित्यूहकाले यावत्सामान्याश्रयज्ञानस्य सर्वसिद्धत्वात् । वस्तुत ऊह इत्यादिप्रतीतिसिद्धवैजात्यशालिज्ञाने स्वप्रयोज्यविजातीयोपयोगसम्बन्धेन सामान्यप्रत्यासत्त्यादिस्थानीयतत्तद्विचाराणां हेतुत्वान्न काचिदनुपपत्तिः घटादौ चरमसंयोगस्येव ज्ञाने विजातीयोपयोगस्य चरमकारणत्वाद् बाह्यहेतूनां तद्वारकतयैव हेतुत्वोपगमादिति । इत्थं चैतदवश्यं तत्तद्विचारफलीभूतमूहवैचित्र्यमभ्युपगन्तव्यम्, यतः सर्वोपसंहारेण व्याप्त्यादिग्रहः, नो चेत् सामान्यप्रत्यासत्त्या यावदाश्रयोपस्थित्यभ्युपगमेऽपि यावत्त्वेनोपस्थितिः कुत: ? न हि धूमत्वमेव धूमनिष्ठं यावत्त्वं, धूमवान् यावद्धूमवानित्यनयोरविशेषप्रसङ्गात् । तथा च यावान् धूमस्तावान् वह्निजन्मेत्यर्थप्रतिपत्तये ऊहप्रमाणमेव शरणं, सामान्यव्यभिचारानुपस्थितिसहकारेण विशेषसहचारज्ञानस्य यावद्धेतौ यावत्साध्यव्याप्तिनिश्चायकत्वमपि तत्त्वेन ग्रहं विनासम्भवदुक्तिकं, तद्ग्रहे चोहप्रमाणं विना नान्यस्य व्यापार इत्याद्यन्यदपि विभावनीयमवहितमानसैः ।
सामान्यलक्षणप्रत्यासत्तिप्रत्यर्थिनिर्जयात् ।
एवमूहप्रमाणस्य राज्यं निष्कण्टकं स्थितम् ॥
अथ प्रकृतम्, एवं तीर्थकृत्समयानां परस्परविरोधेन भ्रमजनकतया आप्तत्वाभावं प्रसाध्य स्वस्ववासनयाविरोधाभ्युपगमेऽपि प्रमाजनकत्वाभावेन तं प्रसाधयितुमाह-यदि पुन