________________
प्रथमो भाग: [ परि० १ - का० ३]
४५
[विधिप्रतिपादकवाक्यमन्यार्थस्याऽपोहं करोति न वेति विकल्पं दूषयति]
किञ्च शब्दाद् द्रष्टव्यो रेऽयमात्मा इत्यादेरात्मद्रष्टव्यतादिविधिस्तदद्रष्टव्यतादिव्यवच्छेदरहितो यदीष्यते तदा न कस्यचित्प्रवृत्तिहेतुः प्रतिनियतविषयविधिनान्तरीयकत्वात्प्रेक्षावत्प्रवृत्तेः । तस्य चातद्विषयपरिहाराविनाभावित्वात् कटः कर्त्तव्य इति यथा, न हि कटे कर्त्तव्यताविधिरतद्व्यवच्छेदमन्तरेण व्यवहारमार्गमवतारयितुं शक्यः । परपरिहारसहितो विधि: शब्दार्थ इति चेत्, तर्हि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकान्तवादस्य प्रतिष्ठा ? प्रतिषेधैकान्तवादवत् ।
स्यान्मतम्, परपरिहारस्य गुणीभूतत्वाद्विधेरेव प्रवृत्त्यङ्गत्वेन प्राधान्याद्विधिः शब्दार्थ इति । कथमिदानीं शुद्धकार्यादिरूपनियोगव्यवस्थितिर्न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यङ्गतया प्रधानत्वोपपत्तेः, नियोज्यादेस्तत्रापि गुणीभावात् । तद्वत्प्रेरणादिस्वभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् तदितरस्य सतोऽपि गुणभावाध्यवसायाद्युक्तो नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु स्वाभिप्रायात् कस्यचित्प्रधानभावेऽपि पराभिप्रायात्प्रधानत्वाभावात् । तदन्यतरस्यापि स्वभावस्या - व्यवस्थितेर्नैकस्यापि शब्दार्थत्वमिति चेत्, तर्हि पुरुषाद्वैतवाद्याशयवशाद्विधेः प्रधानत्वेऽपि ताथागतमताश्रयणादप्रधानताघटनात् सोऽपि न प्रतिष्ठामापद्येत विप्रतिपत्तिसद्भावाविशेषात् ।
[विधिरेव वाक्यस्यार्थः सर्वत्र प्रधानमिति मन्यमाने दोष: ]
स्यान्मतिरेषा ते विधेरेव सर्वत्र प्रधानता, प्रवृत्त्यङ्गत्वोपपत्तेः, न पुनः प्रतिषेधस्य, सर्वथा प्रवृत्त्यङ्गतानुपपत्तेः । क्वचित्प्रवर्त्तितुकामो हि सर्वस्तद्विधिमन्वेषते तत्र पररूपप्रतिषेधान्वेषणे परिनिष्ठानुपपत्तेः पररूपाणामानन्त्यात् क्वचित्प्रतिषेद्धुमशक्तेश्च, तद्धि पररूपं न तावत्स्वयमप्रतिपद्य क्रमशः प्रतिषेद्धुं शक्यम्, प्रतिषेधस्य निर्विषयत्वप्रसङ्गात् । नापि प्रतिपद्य, तत्प्रतिपत्तेरपि पररूपप्रतिषेधापेक्षत्वात् तस्यापि च प्रतिपन्नस्यैव प्रतिषेधेऽनवस्थानुषङ्गात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
परिकल्पनापि चैषा, हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वा भावो न जात्वस्याः ॥ इति
[ षोडशकप्रकरण १६-७.१०]