SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३७ प्रथमो भागः [परि० १-का. ९] भावदर्शनमनवसरमेव, तत्कारणाभावात् । प्रतिपत्तुर्भावदिदृक्षा भावदर्शनकारणमित्यपि अष्टसहस्त्रीतात्पर्यविवरणम् प्रति वा विशेषणज्ञानत्वेन हेतुत्वे मानाभावात्तद्विशेषणेन्द्रियसन्निकर्षतदसंसर्गाग्रहादिनैव तद्विशिष्टप्रत्यक्षोपपत्तेः सुरभिचन्दनमित्यादेश्चाकरे प्रत्यभिज्ञानतयैवोपपादितत्वादिति दिग् । तच्च यद्यभावविषयं स्यादिति घटत्वाद्यवच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्षे घटादिज्ञानस्य प्रतियोगिज्ञानविधया विशेषणतावच्छेदकप्रकारकज्ञानविधया वा हेतुत्वेऽपि शुद्धाभावदर्शनस्य सदा सम्भृतसामग्रीकत्वादिति भावः । न च अभावदर्शनस्याप्यधिकरणादिभावविषयकत्वात्कथमभावदर्शने सति भावदर्शनस्यानवसरप्राप्तत्वम् ? इति वाच्यम् अधिकरणमिश्रिताभावज्ञानस्य सङ्कलनात्मकत्वेन प्रथममभावावग्रहादिघटिताभावोपयोगेनाभावग्रहस्यैवाविच्युतौ सत्यां भावसंयोजनानुपपत्तिरित्यत्र तात्पर्यात् । ॥ अभावबुद्धौ प्रतियोगिज्ञानस्य कारणतावादः ॥ अभावबुद्धौ प्रतियोगिबुद्धेः, प्राञ्चोऽत्र यत्कारणतां वदन्ति तन्नव्यसिद्धान्तविमर्दपूर्वं स्वतन्त्रयुक्त्या परिभावयामः ॥ न्यायाम्बुधिर्दीधितिकारयुक्तिकल्लोलकोलाहलदुर्विगाहः । तस्यापि पातुं न पयः समर्थः, किं नाम धीमत्प्रतिभाम्बुवाहः ॥ [उपजाति:] अत्र प्रतियोगिज्ञानशून्यकालेनेत्याद्याकारकप्रतियोग्यमिश्रिताभावप्रत्यक्षवारणाय तत्र प्रतियोगिज्ञानस्य हेतुत्वमङ्गीकुर्वन्ति जीर्णाः । तन्मते नाभावज्ञानत्वं तत्प्रत्यक्षत्वं वा प्रतियोगिज्ञानकार्यतावच्छेदकम्, प्रमेयत्वादिनाऽभावग्रहेऽभावत्वसामान्यलक्षणाधीनाभावप्रत्यक्षे च व्यभिचारात् । नापि सामान्यतोऽभावलौकिकप्रत्यक्षत्वं प्रतियोगिज्ञानकार्यतावच्छेदकम्, घटज्ञानकाले पटाभावादिलौकिकप्रत्यक्षोत्पत्तिप्रसङ्गात् । नापि घटत्वावच्छिन्नप्रतियोगिताकाभावादिलौकिकप्रत्यक्षत्वं घटज्ञानादिकार्यतावच्छेदकम्, द्रव्यत्वादिना घटादिज्ञानोत्तरमपि तादृशाऽभावलौकिकप्रत्यक्षापत्तेर्दुरित्वात् । न च घटत्वविषयकघटज्ञानत्वेन तादृशहेतुत्वान्न अनुपपत्तिः, घटघटत्वनिर्विकल्पकोत्तरं तत्समूहालम्बनोत्तरं च तथाविधाभावलौकिकप्रत्यक्षापत्तेर्दुरित्वात् । किन्तु घटत्वावच्छिन्नविषयताशालिज्ञानत्वं कारणतावच्छेदकम्, घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षत्वं कार्यतावच्छेदकमिति बोध्यम् । नन एवमपि घटत्वेन पटभ्रमदशायां घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षापत्तिर्दारा । न चेष्टापत्तिः, तथाविधाभावप्रत्यक्षस्य प्रतियोग्यंशे घटत्ववैशिष्टयभ्रमजनकीभूतदोषस्य तदाऽसत्त्वेन घटत्वेन पटा
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy