________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[अधुना जैनाचार्याः तत्त्वोपप्लववादं निरस्य स्वमतेन प्रमाणस्य प्रमाणतां साधयन्ति]
इत्येतदपि सर्वमसारं, तत्त्वोपप्लवस्यापि विचार्यमाणस्यैवमव्यवस्थितेरनुपप्लुततत्त्वसिद्धिनिराकरणायोगात् । अथ 'तत्त्वोपप्लवः सर्वथा न विचार्य:, तस्योपप्लुतत्वादेव विचारासहत्वादन्यथानुपप्लुततत्त्वसिद्धिप्रसङ्गात् । केवलं तत्त्ववादिभिरभ्युपगतस्य प्रमाणप्रमेयतत्त्वस्य विचारक्षमत्त्वात्तत्त्वोपप्लवसिद्धि:' इति मतं तदपि फल्गुप्रायं, यथातत्त्वमविचारितत्वात् । न ह्यदुष्टकारकसन्दोहोत्पाद्यत्वेन संवेदनस्य प्रमाणत्वं स्याद्वादिभिर्व्यवस्थाप्यते, बाधारहितत्वमात्रेण वा, नापि प्रवृत्तिसामर्थ्येनान्यथा वा, प्रतिपादितदोषोपनिपातात् । किं तर्हि ? सुनिश्चितासम्भवद्बाधकत्वेन । न चेदं स्वार्थव्यवसायात्मनो ज्ञानस्य दुरवबोधम् । अष्टसहस्त्रीतात्पर्यविवरणम्
१००
पप्लववादिपूर्वपक्षे सिद्धान्तमाह स्याद्वादी - इत्येतदपि सर्वमसारमित्यादि । किं तर्हि सुनिश्चितासम्भवद्बाधकत्वेनेति ननु किमिदं प्रामाण्यज्ञापकाभिधानम् उत स्वरूपाभिधानं, नाद्यो ज्ञापकत्वस्येवादुष्टकारकसन्दोहोत्पाद्यत्वादेरपि त्यागायोगात्, ज्ञानधर्मत्वेनाभ्यासानभ्यासकाले ज्ञाप्यज्ञापकभावस्य व्यवहारान्तर्भावानन्तर्भावाभ्यां तद्व्यवस्थायाश्च सर्वत्र वक्तुं शक्यत्वात्, स्ववृत्तितयाभ्यस्तज्ञानगृहीतेन तेन तज्जातीयत्वलिङ्गावतारद्वारा पूर्वज्ञानप्रामाण्यग्रहसाम्ये एकतरपक्षपातायोगाच्च, अत एव न द्वितीयोऽपि, स्वप्रकाशमहिम्ना स्वस्येवोक्तस्य सर्वस्य प्रामाण्यस्यापि स्वधर्मत्वेन ग्रहणाविशेषात्, स्वधर्मोऽपि योग्य एव ग्राह्यो नायोग्यः, अन्यथा स्वर्गप्रापणशक्तेरपि ग्रहणप्रसङ्गादित्यतीन्द्रियादुष्टतादिघटितादुष्टकारकसन्देहोत्पाद्यत्वादेस्त्याग इति चेत्, तर्ह्यसन्निकृष्टसर्वदेशकालगर्भमसम्भवद्बाधकत्वमपि प्रामाण्यं त्यज्यताम्, (शङ्का) तस्य स्वप्रकाशमहिम्ना स्वाश्रयाग्राह्यत्वादिति चेत्, अत्रायमस्माकमाकरग्रन्थ:
ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम्, तदितरत्त्वप्रामाण्यमिति । (प्रमाणनयतत्त्वालोकः १.९९.) प्रमाजनकत्वं प्रामाण्यं भ्रमजनकत्वमप्रामाण्यमित्येतदर्थः अर्थाव्यभिचारित्वोक्तावनुत्पादिताग्निज्ञाने धूमपरामर्शेऽव्याप्तेर्वारणायार्थपदस्थाने प्रमेयपदमभिषिञ्चतामाचार्याणामत्रैव स्वारस्यात्, धूमस्याग्न्यव्यभिचारित्वेऽपि प्रमेयाग्निव्यभिचारित्वस्याग्निप्रमाव्यभिचारेणैवोक्तिसम्भवात्, अव्यभिचारित्वपदेन नियतत्वस्य साक्षादुक्तावनन्यथासिद्धत्वपूर्ववर्त्तित्वयोराक्षेपतो लाभाच्च, जनकत्वं च योग्यव्यक्तावन्वयव्यतिरेकसहचारज्ञानादिसध्रीचीनप्रत्यक्षगम्यं परैरप्युपगम्यत एवेति प्रमाजनकत्वरूपप्रामाण्यस्याप्रमा