________________
प्रथमो भागः [ परि० १ - का० ३]
निश्चयानुवादो युक्तः । ततो न प्रवृत्तिसामर्थ्येन प्रामाण्यं व्यवतिष्ठते ।
[सौगतः अविसंवादित्वेन ज्ञानस्य प्रमाणतां मन्यते तस्य निराकरणम् ]
(४) नाप्यविसंवादित्वेन, तदविसंवादस्यार्थक्रियास्थितिलक्षणस्यानवगतस्य प्रामाण्यव्यवस्था, हेतुत्वायोगात् । तस्यावगतस्य तद्धेतुत्वे कुतस्तदवगमस्य प्रामाण्यम् ? संवादान्तरादिति चेत्, न तदवगमस्याऽपि संवादान्तरात्प्रामाण्यनिर्णयेऽनवस्थाप्रसङ्गात् । अथाऽर्थक्रियास्थितिलक्षणाविसंवादज्ञानस्याभ्यासदशायां स्वतः प्रामाण्यसिद्धेरदोषः ।
[अभ्यासदशायां अविसंवादज्ञानस्य प्रमाणता स्वतः सिद्ध्यति इति बौद्धः मन्यते तस्य निराकरणम् ]
९९
कोऽयमभ्यासो नाम ? भूयः संवेदने संवादानुभवनमिति चेत्, तज्जातीयेऽतज्जातीये वा ? तत्रातज्जातीये न तावदेकत्र संवेदने भूयः संवादानुभवनं सम्भवति क्षणिकवादिनः । सन्तानापेक्षया सम्भवतीति चेत्, न सन्तानस्यावस्तुत्वादपेक्षानुपपत्तेः । वस्तुत्वे वा तस्यापि क्षणिकत्वसिद्धेः कुतस्तदपेक्षया सोऽभ्यासः ? सन्तानस्याक्षणिकत्वे वा यत्सत्तत्सर्वं क्षणिकमिति न सिद्ध्येत् । तज्जातीये भूयः संवादानुभवनमिति चेत्, न जातिनिराकरणवादिनः क्वचित्तज्जातीयत्वानुपपत्तेः । अन्यापोहलक्षणया जात्या क्वचित्तज्जातीयत्वमुपपन्नमेवेति चेत्, न अन्यापोहस्यावस्तुरूपत्वात्, तस्य वस्तुरूपत्वे वा जातित्वविरोधात् स्वलक्षणस्यासाधारणस्य वस्तुत्वोपगमात् । तदेवं सामान्यतः प्रमाणलक्षणानुपपत्तौ विशेषेणापि प्रत्यक्षादिप्रमाणानुपपत्तेर्न प्रमाणतत्त्वं विचार्यमाणं व्यवतिष्ठते, तदव्यवस्थितौ कुतः प्रमेयतत्त्वव्यवस्थेति विचारात्तत्त्वोपप्लवव्यवस्थितिः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रेक्षावदाचारविषयत्वादित्यादौ प्रेक्षावत्पदार्थाभ्रान्तत्वघटकप्रामाण्यज्ञापकान्वेषणे प्रागुक्तदोषजालोपनिपातो दुर्निवार इति प्रघट्टकार्थः । नाप्यविसंवादित्वेनेति एतेनान्यथा वेति पक्षो व्याख्यातः, एतच्च सौगताभिमतं प्रामाण्यं तत्त्वोपप्लववादिना दूष्यत इति बोध्यम् । तदव्यवस्थितौ =प्रमाणतत्त्वाव्यवस्थितौ कुत इति प्रमाणतत्त्वव्यवस्थाधीनत्वात् प्रमेयतत्त्वव्यवस्थितेरिति भावः । विचारादित्यतः पूर्वं तस्मादित्यध्याहार्यम्, तस्मात्प्रमाणतत्त्वप्रमेयतत्त्वाव्यवस्थानाद्विचारोत्तरं तत्त्वोपप्लवः सिद्ध्यतीत्यर्थः, एवं निर्गलिते तत्त्वो