________________
प्रथमो भागः [परि०१-का. ३]
प्रेरणाविषयः कार्यं न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ॥७॥ [प्रमाणवार्तिकालङ्कार २.९३] (६) कार्यप्रेरणयोः सम्बन्धो नियोग इत्यपरे । प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणायोगो नियोगस्तेन सम्मतः ॥८॥ [प्रमाणवार्तिकालङ्कार २.९४] (७) तत्समुदायो नियोग इति चापरे । परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोऽस्मात् कार्यप्रेरणयोर्मतः ॥९॥ [प्रमाणवार्तिकालङ्कार २.९५] (८) तदुभयस्वभावविनिर्मुक्तो नियोग इति चान्ये । सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन न तत्कार्यं प्रेरकं कुत एव तत् ॥१०॥ [प्रमाणवार्तिकालङ्कार २.९६] (९) यन्त्रारूढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन्नियोगे सति तत्र सः । विषयारूढमात्मानं मन्यमानः प्रवर्तते ॥११॥ [प्रमाणवार्तिकालङ्कार २.९७] (१०) भोग्यरूपो नियोग इत्यपरः । ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् ॥१२॥ [प्रमाणवार्तिकालङ्कार २.९८] स्वामित्वेनाऽभिमानो हि भोक्तुर्यत्र भवेदयम् । भोग्यं तदेव विज्ञेयं तदेवं स्वं निरुच्यते ॥१३॥ [प्रमाणवार्तिकालङ्कार २.९९]
अष्टसहस्त्रीतात्पर्यविवरणम्
आशुविनाशिनो यागस्य कालान्तरभाविस्वर्गं प्रति साक्षात् साधनताया बाधितत्वात्, परम्परया तत्साधनत्वस्य च परम्पराघटकापूर्वानुपस्थित्यैवानुपस्थितेः, कार्यत्वमपि नात्र विधिना बोधयितुं शक्यम्, योग्यताभावात्, शाब्दे च योग्यताज्ञानस्य हेतुत्वात्, प्रकृते हि कामिकार्यत्वान्वये इष्टसाधनत्वमन्वयप्रयोजकं रूपं योग्यता, तच्च दुर्ग्रहमिति । तस्मात्कार्यमपूर्वमेव विध्यर्थस्तस्मिन् यागस्य विषयतयान्वयः, कार्यत्वेन कार्यसामान्य एव शक्तिग्रहेऽपि च योग्यताबलादपूर्वव्यक्तेर्लाभः, न हि यागविषयकमन्यत् कार्यं सम्भवति ।