SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २९७ प्रथमो भागः [परि० १-का. ११] __ (भा०) न किञ्चित्प्रमाणं सर्वात्मना भावमभावं वा ग्रहीतुमर्हति, अनियमप्रसङ्गात् । ताथागतानां हि भाव एव प्रमाणविषय इति । (भा०) भावप्रमेयैकान्तवादिनामभावप्रतिपत्तिरयुक्तिः । अतो न भावनियमप्रतिपत्तिः. कस्यचित्क्वचित्कथञ्चिदसत्त्वासिद्धः स्वस्वभावव्यवस्थित्ययोगात् । [यदि बौद्धोऽभावं प्रमाणस्य विषयं न मन्यते तर्हि तस्य प्रमाणद्वयसङ्ख्या न घटते] तेषां (भा०) तत्प्रमेयतोपसङ्ख्यानं प्रमाणद्वयनियमं विघटयति । भावनैरात्म्यस्य प्रमाणाकारणत्वात्प्रतिबन्धनियमो मा भूत् । प्रमाणनैरात्म्ययोस्तादात्म्यानिष्टेस्तदुत्पत्तिप्रतिबन्धस्य विरोधात्, नैरात्म्यात्प्रमाणस्योत्पत्तौ तस्य भावस्वभावत्वप्रसक्तेः, तयोः प्रतिबन्धान्तरोपगमे लिङ्गस्य त्रिविधत्वविरोधात् । तदप्रतिबन्धे प्रमाणान्तरसिद्धः कथं प्रमाणद्वयनियमविघटनं न घटेत् ?, तदुत्पत्त्यभावे प्रत्यक्षस्यानुमानस्य चानुदयात्, अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ इति वचनात् । [त० श्लो० १.११-२९] अष्टसहस्रीतात्पर्यविवरणम् भावधर्मभूताभावानभ्युपगमे भावा एव प्रमेयमित्यवधारणं न स्यात्, एवकारार्थानिरुक्तेः, अवस्तुभूतस्याप्यभावस्य ग्रहार्थं प्रमाणान्तरापत्तेढे एव प्रमाणे इत्यस्य व्याघातश्चेत्याहताथागतानां हीत्यादि । __ अर्थस्येति अर्थस्य=विषयस्य, असम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता सिद्धा, प्रतिबद्धस्वभावस्य धूमादिव्याप्तिनिरूपकस्वभावस्य वढ्यादेः, तद्धेतुत्वे= अनुमानज्ञानहेतुत्वे, समतुल्यम्, द्वयं =प्रमाणद्वयम्, विषयसत्त्वव्याप्यत्वमेव प्रमाणत्वे प्रयोजकमिति निष्कर्षः । ननु तदुत्पत्त्यभावात् प्रत्यक्षमनुमानं वाऽभावग्राहकं मा भूत्,
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy