________________
२८२
अष्टसहस्त्रीतात्पर्यविवरणम् यदभावे हि नियमतः कार्यस्योत्पत्तिः स प्रागभावः, यद्भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्तिर्विपत्तिर्वा, जलस्याभावेऽप्यनलस्यानुत्पत्तेः क्वचित्तद्भावे च तस्याविपत्तेः । क्वचिदन्धकारस्याभावे रूपज्ञानोत्पत्तेः स प्रागभावस्तस्य स्यादिति न मन्तव्यं, नियमग्रहणात् केषाञ्चिदन्धकारेऽपि रूपज्ञानोत्पत्तेः । तत एव नान्धकारं रूपज्ञानस्य प्रध्वंस:, तद्भावे नियमतस्तद्विपत्यप्रतीतेः । ततः सूक्तम् अन्यापोहलक्षणं 'स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोह' इति, तस्य कालत्रयापेक्षेऽत्यन्ताभावेऽप्यभावादतिव्याप्त्ययोगात् । न हि घटपटयोरितरेतराभावः कालत्रयापेक्षः, कदाचित्पटस्यापि घटत्वपरिणामसम्भवात्, तथा परिणामकारणसाकल्ये तदविरोधात्, पुद्गलपरिणामानियमदर्शनात् । न चैवं चेतनाचेतनयोः कदाचित्तादात्म्यपरिणामः, तत्त्वविरोधात् ।
– अष्टसहस्रीतात्पर्यविवरणम् वच्छिन्नभेदेऽपि तद्रव्यत्वावच्छिन्नभेदाभावश्रयणाद्वेति बोध्यम् । उपाध्यसाङ्कर्यमेव प्रदर्शयति-यदभावे हीत्यादि । नियमग्रहणादिति न च एवं सिद्ध्यभावे नियमतोऽनुमित्युत्पत्तेः सिद्धेनुमितिप्रागभावत्वप्रसङ्ग इति वाच्यम् । पूर्वपरिणामान्तर्भावेनेष्टत्वात्, अनुमितेरपि सिद्धित्वेन सिद्ध्यभावत्वेनानुमितिनिरूपितस्य कालिकव्याप्तिघटितनियमस्याभावाच्च । न हि घटपटयोरित्यादि, ननु एवं जीवेऽजीवभेदे कालत्रयापेक्षेऽत्यन्ताभाव लक्षणातिव्याप्तिः, न च सोऽत्यन्ताभाव एव, प्रतीतिवैलक्षण्यात्, नञाऽत्यन्ताभावबोधनेऽनुयोगिवाचकपदे सप्तम्या अन्योन्याभावबोधने च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तित्वस्य तन्त्रत्वाच्चात्यन्ताभावत्वादिना बोधने तथाव्युत्पत्तेराश्रयणेऽपि तथालक्षणस्यावश्यमृग्यत्वाच्चेति चेत्, सत्यम्, त्रैकालिकी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः [ ] इत्यत्र परिणामपदमहिम्ना धर्मत्वनियामकसम्बन्धबोधात्तृतीयातत्पुरुषाश्रयणाच्च संसर्गावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावत्वमिति तात्पर्यात् । इत्थं चान्योन्याभावलक्षणस्य तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वस्यैव लाभान्न दोषः । तत्त्वं क्लुप्ताधिकरणेऽतिरिक्तपदार्थे वेति पुनरन्यदेतत्, संयोगितादात्म्यस्यैव संयोगत्वे च 'तादात्म्यत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावत्वमन्योन्याभावत्वम्,' 'तदितराभावत्वं संसर्गाभावत्वम्' इति वदन्ति । Tतादात्म्यत्वस्यातिरिक्तस्य कल्पनायां गौरवाद्भेदत्वात्यन्ताभावत्वाद्यखण्डोपाधिरिति तु नव्याः । युक्तमेतत्, तत्तत्स्वरूपे तत्तद्भेदत्वादेर्यथाप्रतीति कल्पनाद् भावसङ्करस्येवाभावसङ्करस्याप्यदुष्टत्वात्, अभिलापभेदस्य च विवक्षावैचित्र्याद्यधीनत्वादिति दिग ।