SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का. १६] ३५३ (भा०) तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत । यतोऽवश्यं दर्शनं नियतस्वविषयानुपलम्भव्यावृत्तिलक्षणं परं विषयानुपलम्भात्मकं न प्रमाणयेत् । न हि स्वयं प्रमाणानभ्युपगमे स्वार्थप्रतिपत्तिः । न चाप्रतिपन्नमर्थं परस्मै प्रतिपादयितुमीशः परमुपालब्धुं वा, पराभ्युपगतस्यापि प्रमाणस्य प्रतिपत्तेरयोगात्, पराभ्युपगमान्तरात्तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । (भा० ) तदेकोपलम्भनियमः स्वपरलक्षणाभ्यां भावाभावात्मानं प्रसाधयति । तदभावे न प्रवर्तेत नापि निवर्तेत प्रमाणान्तरवत् । स्वस्यार्थस्य चैकस्यैवोपलम्भो हीतरस्यानुपलम्भः, तस्य विधायक एवान्यस्य निषेधकः, तत्र प्रवर्तक एव वा परत्र निवर्तकः, इति तदेकोपलम्भनियमात्कस्यचित् प्रवृत्तिनिवृत्ती सिद्धयतः । तदभावे सन्तानान्तरप्रमाणादिवत् प्रवर्तकान्न कश्चित्प्रवर्तेत निवर्तकाच्च न निवर्तेत, अप्रमाणात्प्रवृत्तौ निवृत्तौ वा प्रमाणान्वेषणस्य वैयर्थ्यादतिप्रसङ्गाच्च । ततः प्रमाणं प्रत्यक्षमन्यद्वा स्वार्थोपलम्भात्मना परार्थानुपलम्भात्मना च क्रमापितेन सदसदात्मकं सिद्धम् तद्वत्प्रमेयमपि इति सर्वं वस्तु क्रमार्पितद्वयाद् द्वैतं को नेच्छेत् ? सर्वस्य विप्रतिपत्तुमशक्तेरनिच्छतोऽपि तथा संप्रत्ययात् । [सर्वं वस्त्ववक्तव्यं कथं ? इति प्रश्ने सति जैनाचार्या उत्तरयन्ति ___ यत् प्रत्येकः शब्द एकमेवार्थं ब्रूते न चानेकान् ।] कथमवक्तव्यं सर्वमिति चेत्, उच्यते । (भा०) निष्पर्यायं भावाभावावभिधानं नाञ्जसैव विषयीकरोति, शब्दशक्तिस्वाभाव्यात् । अष्टसहस्त्रीतात्पर्यविवरणम् तदनभ्यपगमे=समनन्तरप्रत्ययप्रामाण्यानभ्यपगमे । किंसाधनः=किंप्रमाणकः । तदेकोपलम्भनियमः तस्य दर्शनस्यैकोपलम्भे स्वलक्षणपरिच्छेदे संसर्गतया प्रकारतया वा परलक्षणव्यावृत्तिध्रौव्यम् । अवक्तव्यत्वभङ्गमुपदर्शयितुमुपमक्रमते-कथमवक्तव्यमित्यादिना भाष्ये । निष्पर्यायंक्रमरहितम, अभिधानं वचनं, भावाभावौ, अञ्जसैव परमार्थेनैव, न विषयीकरोति शब्दशक्तिस्वाभाव्यात एकं पदमेकया वृत्त्यैकमेवार्थं बोधयतीति स्वभाव
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy