________________
प्रथमो भागः [परि०१-का. १४]
३२५ ततोऽन्यस्य भङ्गस्यासम्भवात् । तत्संयोगजभङ्गस्यापि कस्यचित्तत्रैवान्तर्भावात् कस्यचित्तु पुनरुक्तत्वाद्विधिकल्पनाया एव सत्यत्वात् तयैकमेव वाक्यमिति न मन्तव्यं, प्रतिषेधकल्पनायाः सत्यत्वव्यवस्थापनात् । विध्येकान्तस्य निराकरणात् प्रतिषेधकल्पनैव सत्येत्यपि न सम्यक्, अभावैकान्तस्य निराकरणात् । तदपेक्षयापि नैकमेव वाक्यं युक्तम् । सदर्थप्रतिपादनाय विधिवाक्यमसदर्थकथनार्थं तु प्रतिषेधवाक्यमिति वाक्यद्वयमेव, सदसद्वर्गास्तत्त्वम् इति वचनात् [ ]। प्रमेयान्तरस्य शब्दविषयस्यासम्भवादिति च न चेतसि विधेयं, प्रधानभावार्पितसदसदात्मनो वस्तुनः प्रधानभूतैकैकधर्मात्मकादर्थादर्थान्तरत्वसिद्धेः, सत्त्ववचनेनैवासत्त्वचनेनैव वा सदसत्त्वयोः क्रमार्पितयोः प्रतिपादयितुमशक्तेः । सदसदुभयविषयं वाक्यत्रयमेवेति चायुक्तं, सहो भयवाक्यस्यावक्त व्यत्वविषयस्य व्यवस्थितेः । तथापि वाक्यचतुष्टयमेवेति चायुक्तं, सदसदुभयावक्तव्यत्वविषयस्य वाक्यान्तरत्रयस्यापि भावात्—विधिकल्पना (१), प्रतिषेधकल्पना (२), क्रमतो विधिप्रतिषेधकल्पना (३), सहविधिप्रतिषेधकल्पना च (४), विधिकल्पनासहविधिप्रतिषेधकल्पना च (५), प्रतिषेधकल्पनासहविधिप्रतिषेधकल्पना च (६). क्रमाक्रमाभ्यां विधिप्रतिषेधकल्पना च (७), सप्तभङ्गीति व्याख्यानात् ।
[प्रत्यक्षादिविरुद्धापि सप्तभङ्गी सम्भवति न वा ?] न चैवं प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनापि सप्तभङ्गी स्यादिति शक्यं वक्तुम्, अविरोधेन इति वचनात् । नानावस्त्वाश्रयविधिप्रतिषेधकल्पना सप्तभङ्ग्यपि प्रसज्यते इति च न चिन्त्यम् एकत्र वस्तुनि इति वचनात् ।
अष्टसहस्रीतात्पर्यविवरणम्
विरोधेनेत्यस्य गतार्थत्वात्, प्रश्नस्य च क्वाचित्कत्वाच्छिष्यजिज्ञासयेव क्वचिद् गुरोजिज्ञापयिषयैव सप्तभङ्गीप्रयोगसङ्गतेः प्रश्नवशादित्यस्यापि लक्षणेऽप्रवेशात् । नानावस्तुनि सत्त्वासत्त्वादिबोधकवाक्येऽतिप्रसङ्गवारणायैकत्र वस्तुनीति । एकत्र रूपरसादिधर्मसप्तकबोधकेऽतिप्रसङ्गवारणाय सत्त्वासत्त्वादीति । खण्डवाक्ये तद्वारणाय पर्याप्तिः । प्रमाणसप्तभङ्गीवन्नयसप्तभङ्ग्या अपि लक्ष्यत्वान्न तत्रातिव्याप्तिः, नययोगादिति सूत्रकृद्वचनात् । प्रमाणनयसप्तभङ्ग्योः पृथक् पृथक् लक्ष्यत्वे तु सकलादेशत्वविकलादेशत्वे विशेषणे देये । एकत्र वस्तुन्येकपर्यायनिरूपितविधिनिषेधकल्पनामूलसप्तधर्मप्रकारकोद्देश्यशाब्दबोध