________________
अष्टसहस्त्रीतात्पर्यविवरणम् लक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं, विशेषस्मृतेरिति च व्यर्थम् । न हि विशेषस्मृतिव्यतिरेकेणापर: संशयः, उभयांशावलम्बिस्मृतिरूपत्वात्संशयस्य, दृश्यते च कान्यकुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः । तस्मात्करोतीति तदेव यज्यादिकमनियमेन प्रतीयमानं सामान्यतोदृष्टानुमानात्सामान्यम् ।
[बौद्धनारोपितसंशयदोषो भाट्टेन निराक्रियते] तदेतदपि प्रज्ञापराधविजृम्भितं प्रज्ञाकरस्य, करोत्यर्थसामान्यस्याध्यवसाये यज्याद्यर्थविशेषानवगतावेव तत्संशयोपगमात् । न च सामान्येऽध्यवसिते ततोऽन्यत्रविशेषेऽनध्यवसिते संशीतावतिप्रसङ्गः सामान्यविशेषयोः कथञ्चिदभेदात्, हिमवद्घटादीनां तु परस्परमत्यन्तभेदात् । एकत्र निश्चयेऽपि नानवगततदन्यतमे संशीतिर्यतोऽतिप्रसङ्गः स्यात्, नापि सामान्येनाक्षिप्ते तद्विशेषसंशयोपगमोऽस्ति यतस्तदाक्षेपपक्षनिक्षिप्तदोषोपक्षेपः, न चैवमनभिमततद्विशेषेष्वविशेषेण संशयोऽनुषङ्गी, स्मरणविषये एव विशेषेऽनेकत्र संशयप्रतीतेः ।।
[संशयलक्षणस्य विचारः] सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशय इति वचनात् [ ] । सामान्ये ह्युपलभ्यमाने तदविनाभाविनो विशेषस्यानुपलम्भेऽपि नाभावः सिद्ध्यति, तदभावे तस्याप्यभावप्रसङ्गात् । तदुक्तम्
निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।
सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥ [
न चैवं विशेषेऽदृश्यानुपलब्धेरेव संशयः, स्मृतिनिरपेक्षत्वप्रसङ्गात् । विशेषस्मृतिरेव संशय इति चेत्, न साध्यसाधनव्याप्तिस्मृतेरपि संशयत्वप्रसङ्गात् । सर्वसाधनानां संशयितसाध्यव्याप्तिकत्वापत्तेस्तत्स्मृतेरचलितत्वान्न संशयत्वमिति चेत्, तर्हि चलिता प्रतीतिः संशयः । सा चोभयविशेषस्मृत्युत्तरकालभाविनी, तदन्वयव्यतिरेकानुविधानात् । न पुनविशेषस्मृतिरेव सामान्योपलब्धिवत् । तदुभयांशावलम्बिनी स्मृतिः संशीतिरित्यपि फल्गुप्रायम्, तदविचलनेऽपि संशीतिप्रसङ्गात् । सामान्याप्रत्यक्षतायामपि कान्यकुब्जादिषु प्रथमतरमेव स्मरणात् संशयदर्शनान्न सामान्योपलम्भः संशयहेतुरिति चेत्, न, असिद्धत्वात् । तत्रापि हि