________________
आशीर्वचनम्
भगवतां श्रीमताम् अर्हतां शासने वैराग्यमार्ग एव महनीयः, दुःखगर्भ-मोहगर्भ-ज्ञानगर्भवैराग्येषु केवलं ज्ञानगर्भ एव वैराग्यो वास्तवः, नेतरौ । ज्ञानगर्भवैराग्यस्य निर्मितिः भवस्य प्रकृतिदर्शनेन, आत्मनः स्वभावदर्शनेन, धर्मस्य तत्त्वदर्शनेन भवति । तत्रापि धर्मस्य तत्त्वदर्शनं दर्शनशास्त्राणामवगाहनेन सुलभम् ।
सकलशास्त्रकारशिरोमणिभिः महामहोपाध्यायैः श्रीमद्यशोविजयैः दार्शनिकविचारधारानिर्बद्धा बहवो ग्रन्थाः प्रणीता वर्तन्ते, यैः ज्ञानगर्भो वैराग्यमार्गो लभ्यते । तेष्वेकतमः प्रशस्तो वृत्तिग्रन्थः श्रीअष्टसहस्त्रीतात्पर्यविवरणम् इत्याभिधामादधानोऽयं साम्प्रतं प्रकाश्यतां नीयते - 'श्रीमहोदयसूरिग्रन्थमालायाम्' इत्ययमानन्दावसरः ।
मनिवरेण श्रीवैराग्यरतिविजयेन दर्शनशास्त्रनिष्णातेन ग्रन्थस्यास्य सम्पादनमत्यन्तं परिष्कृतमाहितमित्येतत्तु नूनं भागद्वयविभक्तस्य परिशिष्टादिविशिष्टस्य ग्रन्थस्य समालोकनेन नितमामनुभूयते ।
महापुरुषाणां वचसां गौरवं विवर्धयन्नयं प्रयासो मम मनसि अभिलाषमेकं जनयति - यदयं मुनिराजो वितनोतु सदा सर्वदा एवंप्रकारामुत्तमां श्रुतसेवाम् ।
एतदेव किल आशीर्वचनम् ।
- विजयहेमभूषणसूरिः
वि. सं. २०६०, आषाढशुक्लतृतीया
श्रीपालनगरम् मुम्बापुरी