________________
प्रथमो भागः [परि० १-का. १६]
३७७
अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यमादेशविशेषितम् = उभयप्रधानावयवाभेदेनापितं स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितकविशेष्यताकौपादानिकबोधेच्छाविषयीकतमिति यावत् । यथाश्रुते घटपदस्य देशपरस्यावृत्त्याः प्रकारताद्वयनिरूपितविशेष्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोधपर्यन्तमनुधावनम्, एवमग्रेऽपि बोध्यम् । उक्तन्यायेन पञ्चमभङ्गप्रदर्शनायाह
सब्भावे आइट्ठो देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३८]
सद्भावे अस्तित्वे यस्य घटादेर्धर्मिणो देश आदिष्टो देशश्चापर उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः तद् द्रव्यं अस्ति चावक्तव्यं च भवति, विकल्पवशाद=उक्तोभयधर्माक्रान्तदेशद्वारेण धर्मिणो विवक्षावशात्, तेन प्रथमतृतीयभङ्गसंयोगेनान्यथासिद्धिव्युदासः, केवलधर्मविवक्षाया देशाविशेषितद्रव्य एव सम्भवात, देशद्वारा द्रव्ये उभयधर्मविवक्षाया एव युक्तत्वादिति बोध्यम् । षष्ठं भङ्ग दर्शयितुमाह
आइट्ठो सब्भावे देसो, देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.३९] यस्य वस्तुनो देश एकोऽसत्त्वे नियतोऽपरश्च सत्त्वासत्त्वाभ्यां युगपद् आदिष्टः तद् द्रव्यं तथा विकल्पवशान्नास्ति चावक्तव्यं च भवति, केवलद्वितीयतृतीयभङ्गव्युदासः प्राग्वद्भाव्यः । सप्तमं प्रदर्शयति
सब्भावासब्भावे देसो, देसो य उभयहा जस्स ।
तं णत्थि अवत्तव्वं च होइ दवियं विअप्पवसा ॥ [का० १.४०]
यस्य देश एक: सद्भावे अपरो असद्भावे अन्यश्चउभयथा नियतस्तद् द्रव्यं तथाविकल्पवशादस्ति नास्त्यवक्तव्यं च भवति, विशिष्टविवक्षया केवलभङ्गत्रयव्युदासः । न चात्राष्टमवचनविकल्पपरिकल्पनापि सम्भवदवतारा, तन्निमित्ताभावात्, सावयवात्मकस्य निरवयवात्मकस्य तन्निमित्तस्य चतुर्थादिषु प्रथमादिषु चान्तर्भावात्, गत्यन्तरस्य चासत्त्वात् ।