SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ८ तपागच्छाधीशा अस्मत्प्रगुरुप्रवराः सम्पादकमुनिवरस्य गुरूवर्या आचार्योत्तमाः भगवन्तः श्रीमद्विजयरामचन्द्रसूरीश्वराः पूज्यपादोपाध्यायप्रवराणां वचनेष्वतीव बहुमानं वहन्तः आसन् । लालायिता इव ते महोपाध्यायप्रवराणां वचांसि पीयमानाः, पदे पदे तद्वचनान्याश्रित्योपदेशधारां प्रवाहयन्तश्च दृष्टा अस्माभिर्नैकवारान् । यदि ते तेजोऽधिनाथाः सम्पादनमिदमदर्शिष्यत् तदा अपूर्वां मुदं वहन्तः सम्पादकमुनिवरमान्तरैराशिषैरभिप्लावयिष्यत् । सबाह्याभ्यन्तरस्यास्य ग्रन्थस्य परिचयः सम्पादकेनैव प्रस्तुत इति नात्र तद्विस्तरः प्रतन्यते । अङ्गुलिनिदर्शनमात्रेणापि श्रुतभक्तिभाजनभाग्यवन्तोऽभूमः तेनैव धन्यं मन्यामहे निजात्मानम् । भगवदुपदिष्टं श्रुतधरैः रक्षितं, सूरिवरैः प्रकाशितार्थं च श्रुतनिधिमवलम्ब्य निराग्रहा, निरहङ्कारा निरपेक्षाश्च सन्तः जिज्ञासवो ग्रन्थमिदम् अध्ययेयुः तद्द्वारा च सर्वाङ्गसुन्दरां कैवल्यलक्ष्मीमपवाप्नुयुरिति शुभमभिलषति तपागच्छशिरोमणीनां पूज्यपादाचार्यप्रवरश्रीमद्विजयरामचन्द्रसूरीश्वरविनेयाजीवनगुरुचरणरत-वर्धमानतपोनिधि- आचार्यदेव श्रीमद्विजयगुणयशसूरीश्वराणां विनेयः श्री भोरोलतीर्थे उपधानतपोमालारोपणावसरे विक्रमस्य द्विसहस्राधिकषष्ठितमे संवत्सरे माघमासस्य शुक्लपञ्चमीतिथौ विजयकीर्तियशसूरिः
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy