________________
भिर्महारोगैः बाधते स्म । प्रतिष्ठानन्तरं हृदयमिव समुदायमनुशासतां तेषां देहोपचारनिमित्तं पालडीविस्तारेऽस्माकं विहारोऽभूत् । तत्रैव च परिचर्यारक्तान् अस्मान् प्रति एकदा संशोधनादिविद्याप्रवणैः विशेषतः पूज्योपाध्यायप्रवरं प्रति अनन्यां प्रीतिं वहद्भिः पूज्यैराचार्यवरैः श्रीमद्विजयप्रद्युम्नसूरीश्वरैः प्रेषित एक: सन्देशः । आश्चर्यमेकं दर्शयितुकामैस्तैराहूता वयं समुत्सुकमनसो गता आचार्याधिष्ठितां वसतौ । तत्र च तैः दशितमेकं ग्रन्थरत्नमस्मदाध्यात्मिकचेतनासञ्जीवकानामुपाध्यायप्रवराणां स्वहस्तलेखनपवित्रितपत्रं प्रतिकृतिरुपेणोपस्थितम् । अमूल्यं निधानमिव तदवलोक्य नेत्राभ्यां सहार्दीभूतमस्मच्चेतः । अक्षरदेहेन उपस्थितान् अस्मत्परोक्षगुरुनवलोक्य धन्यंमन्या शिरस्यारोप्य तद्ग्रन्थरत्नं निर्गलदश्रुभिः सह वन्दनाञ्जलिमर्पितवन्तो वयम् । स च ग्रन्थः नाम्ना आसीत् 'अष्टसहस्रीतात्पर्यविवरणम्' इति ।
इतः पूर्वमयं ग्रन्थः तपागच्छीयाचार्यवर्यश्रीविजयोदयसूरीश्वरैः सम्पाद्य उपलब्धसीमितसाधनानां साहाय्येन प्रकाशितोऽपि नूतनां सम्पादनविधामाश्रित्य प्रामाणिकप्रकाशनेषु स्थानं नालभत । बहुषु स्थानेषु पाठानां सन्दिग्धता, पठने दुरूहतापि बाधते स्माधिजिगमित्सूनामिति वन्दनाञ्जल्यर्पणक्षण एव अस्मच्चेतस्युत्पन्न आकूतः परिष्कृतसम्पादनविषयः । दार्शनिकग्रन्थेषु शिरोमणीयमानमिदमष्टसहस्रीतात्पर्यविवरणम् । प्रायः त्रिंशदधिकानि वादस्थानानि नव्यन्यायशैल्या मण्डितानि प्रकाण्डपाण्डित्यसूचकान्यस्मिन्नुपनिबद्धानि, विषयोऽपि चास्य द्रव्यानुयोगरूपः प्रथमत एव दुरूहोऽल्पमेधसामवधारयितुमिति अस्य सम्पादने न केवलं भाषापाण्डित्यमपि तु नव्यन्यायशैल्या अधिकारोऽप्यपेक्षितो, न केवलं तादृशोऽधिकारो किन्तु संशोधनसम्पादनविषया तान्त्रिकी (आधुनिकी) मतिरप्यपेक्षिता । एतादृशमेधारुच्यादिसम्पन्नानां वर्तमाने दुष्काल इति जानतामस्माकमाकूत विफल एवेति विषण्णहृदया एव प्रतिचलिता वयं स्ववसति प्रति ।
सन्ध्यासमये एकाकिनो विषादग्रस्तचित्ता वयमस्यैव मनोरथस्यास्मदस्तित्वावर्जकस्य चेतसि पुनः पुनरावर्तमानस्य परिपूर्तये योग्यसम्पादकगवेषणार्थं चिन्ताकुला उपविष्टाः स्म तदैव अस्मत्परोक्षगुरुप्रवराणां कृपयेव वन्दनार्थं उपस्थितोऽस्मत्प्रगुरुप्रवराणां सुशिष्यः न्यायादिविद्यावेदी दार्शनिकबोधसम्पन्नः संशोधनप्रवीणश्च वैराग्यरतिविजयाभिधो मुनिः । अविलम्बमेवास्मन्मुखेनाभिव्यञ्जितः स मनोरथरस्तेनापि तथैव स्वीकृत इति अकाले वृष्टिमिव प्रफुल्लितमस्मन्मनः ।
पूज्यपादोपाध्यायप्रवरैः स्वहस्तलिखिता प्रतिरधुना पुण्यपत्तन(पूणे)नगरीस्थितभाण्डारकर प्राच्यविद्यासंशोधनमन्दिरे सुरक्षिता वर्तते । सम्पादनकृतेऽपेक्षिता तस्य प्रतिकृतिः (Xerox) अस्माभिः लब्धसङ्केतेनानन्यगुरुभक्तिदत्तचित्तेन खेमचंददयालजीनामकविख्यातकूलप्रसूनेन श्रीयुता सुश्रावकेण भोगीलालेनाचिरेणैव प्रेषिता । शुभमुहूर्ते प्रदत्ता सा मुनिवराय । परमपूज्योपाध्यायप्रवराणां निजगुरूणां च प्रसादात् केवलं सानैकेनैव वर्षेण प्रकाशनार्थं सज्जीकृतः स ग्रन्थः सम्पादनकुशलेन मुनिवरेणेत्यहो तस्य श्रुतभक्तिरसिकता । परिशिष्टादिनिर्माणे प्रस्तावनादिलेखने च षण्मासी व्यतीता । एवं वर्षद्वयाणामन्तराले एवास्य ग्रन्थस्य सम्पादनं संशोधनं चाजनि । मन्यामहे खलु एष निजग्रन्थप्रकाशनकृते पूज्योपाध्यायप्रवराणामेव प्रासादः ।