________________
प्रथमो भागः [परि०१-का० ३]
७९ (भा०) अत एव न कश्चित्सर्वज्ञ इत्ययुक्तं, श्रुतेरविशेषादप्रमाणतापत्तेः ।
- अष्टसहस्त्रीतात्पर्यविवरणम् निषेधाच्च । अथ कारकाणां भावनायामेवान्वय इति नियमे ओदनस्य पाक इत्यत्र कर्मषष्ठी भावनाया धातुवाच्यत्वं साधयेत्, तत्रैव तु किं मानमिति चेत्, विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिर्हेतुरिति कार्यकारणभाव एवेत्यवेहि, तदुक्तं
सम्बोधनान्तं कृत्वोऽर्थः, कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥१॥ तथा यस्य च भावेन, षष्ठी चेत्युदितं द्वयम् ।
साधुत्वमष्टकस्यास्य, क्रिययैवावधार्यताम् ॥२॥ इति, [वैया० भू० सा० १६.१७]
एतत्कारिकाद्वयार्थो यथा-सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात्, समानवाक्ये निघातयुष्मदस्मदादेशाः (पा० वा० ८.१.२३) इत्यनेन समानवाक्य एव तन्नियमात्, पचति भवतीत्यादौ सूत्रभाष्यादिरीत्यैकवाक्यतासत्त्वादेव निघातस्वीकारात् (१) कृत्वोऽर्थः, =क्रियाभ्यावृत्तिगणने कृत्वसुज् इति विहितः, क्रियायामन्वेति, क्रियाया अभ्यावृत्तिः पुन:पुनर्जन्म तस्मिन् द्योत्य इति तदर्थात् क्रियायोगे तत्साधुतोक्तेः (२) तथा कारकं करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः कारकशब्दस्य क्रियापरत्वात्, (३) प्रथमो वतिः तेन तुल्यं क्रिया चेद् वतिरिति विहितः, तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् (४) धातुसम्बन्धाधिकारनिष्पन्नं धातुसम्बन्धे प्रत्ययाः (पा० ३.४.१) इत्यधिकृत्य तेषां विधानात् (५) असमस्त:=समासायोग्यो नञ्=प्रसज्यप्रतिषेधीय इत्यर्थः । न च तस्य क्रियान्वये मानाभावः, न त्वं पचसि न युवां पचथ इत्यादौ क्रियाया एव निषेधप्रतीतेः, घटो नास्तीत्यत्राप्यस्तित्वाभावस्यैव बोधात्, भूतले न घट इत्यत्राप्यस्तीत्यध्याहारेणैव तथा बोधकल्पनात्, प्रकारतासम्बन्धेन नञर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुताया एव युक्तत्वात् (६) यस्य च भावेन भावलक्षणं (पा० २.३.३७), षष्ठी चानादरे (पा० २.२.३) इति सूत्रद्वयेन विहितमपि क्रियायामेवान्वेति, पूर्वत्र भावशब्देन तद्योगे साधुत्वाख्यानादुत्तरत्र च यद्भावेनेत्यस्यार्थतो लाभादिति (७-८) । स च भावनाख्यो व्यापारः पचतीत्यादौ फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः, ततस्तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । न च नानार्थतापत्तिः, तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानुगमकस्य सत्त्वात्, आख्याते क्रियैकत्वस्यापि तेनैव व्यवस्थिते:
१. तुलना-स च इत्यारभ्य इत्यादि उह्यम् इति पर्यन्तस्य ग्रन्थस्य-वै० भू० सा० का०-२