________________
प्रथमो भागः [परि०१-का.१३]
३११
[बौद्धमते स्मृतेर्विचार:] ननु च नास्मन्मते कश्चित्किञ्चिन्नीलादिकं सुखादिकं वा संविदन्पूर्वसंविदितं तत्सदृशं तन्नामविशेषं च क्रमशः स्मरति, पूर्वसंविदितसंवेद्यमाननामविशेषयोः सहैव स्मरणात्, तत्संस्कारयोदृश्यदर्शनादेव सहप्रबोधात् । ततोऽयं किञ्चित्पश्यन्नेव तत्सदृशं पूर्वदृष्टं स्मर्तुमर्हति, तदैव तन्नामविशेषस्मरणात्, ततस्तस्येदं नामेत्यभिधानप्रतिपत्तेः, ततस्तस्य दृश्यस्याभिधानेन योजनाद् व्यवसायघटनान्न किञ्चिद् दूषणमित्यपरः, तस्यापि दृश्यमाननाम्नः पूर्वदृष्टस्य च तत्सदृशस्य
(भा०) सह स्मृतिरयुक्तैव ।
स्वमतविरोधात्, सकृत्स्मृतिद्वयानभ्युपगमात् कल्पनयोर्बाध्यबाधकभावात् । कथमन्यथाश्वं विकल्पयतोऽपि गोदर्शने कल्पनाविरहसिद्धिः ? नाममात्रेऽपि सहस्मृतिरयुक्तैव,
(भा०) तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात् ।
अध्यवसानाभावे स्मृतेरयोगात् क्षणक्षयादिवत् । न च युगपत्तदध्यवसाय: सम्भवति, विरोधात् ।
(भा० ) अन्यथा सङ्कला प्रतिपत्तिः स्यात् ।
नीलमिति नाम्नि नकारादीनां परस्परविविक्तानामप्रतिपत्तेः । किञ्चाभिलापस्य पदलक्षणस्य तदंशानां च वर्णानां नामविशेषस्य स्मृतावसत्यां व्यवसाय: स्यात् सत्यां वा ?
अष्टसहस्त्रीतात्पर्यविवरणम्
योजनासम्भवमाशङ्कते-ननु चेत्यादिना । दूषयति-तस्यापीति । ननु अश्वविकल्पकाले गोविकल्प इदन्त्वावच्छिन्ने तादात्म्येनाश्वज्ञानस्य तादात्म्येन गोज्ञानप्रतिबन्धकत्वादेव माभूत्, दृश्यमानदृष्टनाम्नोः स्मृतिस्तु समूहालम्बनरूपा बाधाभावाद्भवन्ती केन वार्यताम् ? इति अस्वरसादाह नाममात्रेऽपीत्यादि । नकारादीनां नकारेकारलकारानुस्वाराणामानुपूर्वीग्रहोपायश्च निर्विकल्पकक्षणिकज्ञानपक्षे न शोभते, तत्पृष्ठभाविसविकल्पकज्ञानं च नामयोजनापेक्षमिति नामग्रहे तदपेक्षायामन्योन्याश्रयादिदोषा दुर्निवारा इति द्रष्टव्यम् । सविकल्पकनिश्चयमात्रस्य नामयोजनापेक्षत्वे दोषान्तरमाह-किञ्चेत्यादिना ।