Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
Catalog link: https://jainqq.org/explore/004023/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीपालनगर जैन श्वे. मू.देरासर टस्ट प्राच्यसाहित्य पुनः प्रकाशन - श्रेणि ग्रंथाइक - ४ शतप्रकरणप्रासाद-सूत्रणसूत्रधार -पूर्वधरमहर्षि वाचकप्रवा श्रीउमास्वातिभगवत् प्रति स्वोपज्ञभाष्योपरि श्रीसिद्धसेनगणितटीकया समलकृतं श्रीतत्त्वार्थाधिगमसूत्रम। [द्वितीयो विभागः] पुन: प्रकाशनप्रेरका: समतासिन्धु-भाननिधि - चारित्रन - पू. पंन्यासप्रवर श्रीपझविजयजीगणिवर - प्रथमशिष्यरत्न - धर्मतीर्थप्रभावक सिदान्तयंरक्षकारखण्डबालवहाचारी - पूज्यापादाचार्यदेव श्रीमद् विजायमित्रानन्दसूरीश्वराः। सम्पादक: भव्यदर्शन विजयो मुनिः।। प्रकाशक: श्रीश्रीपालनार जैन श्वे. मदराशर ट्रस्ट: वीरसंवत - २५९६ विक्रमसंवत - २०४४ For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ श्रीश्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट - प्राच्यसाहित्य पुन: प्रकाशन - श्रेणि ग्रंथाड्क - ४ पञ्चशतप्रकरणप्रासाद-सूत्रणसूत्रधार - पूर्वधरमहर्षि वाचकप्रवरश्रीउमास्वातिभगवत् प्रणीतं स्वोपज्ञभाष्योपरि श्रीसिद्धसेनगणिकृतटीकया समलकृतं श्रीतत्त्वार्थाधिगमसूत्रम्। [दितीयो विभागः] पुनः प्रकाशनप्रेरका: समतासिन्धु-ज्ञाननिधि - चारित्ररत्न - पू.पंन्यासप्रवर श्रीपद्मविजयजीगणिवर - प्रथमशिष्यरत्न - धर्मतीर्थप्रभावक सिध्दान्तसंरक्षकाखण्डबालब्रह्मचारि - पूज्यापादाचार्यदव श्रीमद् विजयमित्रानन्दसूरीश्वराः। सम्पादक: भव्यदर्शन विजयो मुनिः। प्रकाशक: श्रीश्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट: वीरसंवत - २५१८ विक्रमसंवत - २०४४ For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ પુન: પ્રકાશન પ્રસંગે.. જૈનશાસનની શાસ્ત્રસંપત્તિનો કોઈ તાગ પામી શકાય એવો નથી. એ શાસ્ત્રગ્રંથોમાં સમગ્રવિશ્વનું તત્વજ્ઞાન સમાયેલું છે. વાચકપ્રવર શ્રીઉમાસ્વાતિજી મહારાજાની, તત્ત્વોનો સંગ્રહ કરવાની કળાકુશળતાને ન્યાય આપતા કાલિકાલસર્વજ્ઞ શ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજાએ કહ્યું છે કે - “તત્ત્વોનો સંગ્રહ કરવામાં ઉમાસ્વાતિજી મહારાજ શિરમોર છે." તેઓ ૫૦૦ મહાન ગ્રંથોના રચયિતા છે. એમાં તેઓશ્રીનું મહાશાસ્ત્ર 'તત્વાર્થસૂત્ર' આબાલગોપાલ પ્રસિદ્ધ છે. એની ગરિમા-મહિમાથી આકર્ષાઈને શ્વેતાંબર - દિગંબર આચાર્યાદિ મુનિઓએ લગભગ ૨૫ જેટલા સંસ્કૃત વિવેચનો લખ્યા છે. એમાં પ્રાચીન મહર્ષિ શ્રીસિદ્ધર્ષિગણિની ટીકા ઘણું ઘણું વૈશિધ્ય ધરાવે છે. ઘણાં વર્ષો પૂર્વે બે | ગ્રંથરત્નના પુન: પ્રકાશનરૂપે પુનરુદ્ધારની ખૂબ આવશ્યકતા હતી. અમારે ત્યાં બે-બે ચાતુર્માસ કરી ઉપકારની વર્ષા વર્ષાવનાર ધર્મતીર્થપ્રભાવક પૂઆ.ભ. શ્રીમદ્ વિજયમિત્રાનંદસૂરીશ્વરજી મહારાજાએ આ ગ્રંથના પુન: પ્રકાશનની પ્રેરણા કરી, એનો સહર્ષ સ્વીકાર કરી અમારા ટ્રસ્ટના જ્ઞાનખાતા તરફથી આ ગંધ પુન: પ્રકાશિત થઈ રહ્યો છે. - પરમ પૂજ્ય તપોગચ્છાધિપતિ પરમશાસનપ્રભાવક વ્યા. વા. શાસન સંરક્ષક સાચા સંઘહિતચિંતક આ.ભ.શ્રીમદ્ વિજય રામચન્દ્ર સૂરીશ્વરજી મ.સા.ની દિવ્યકૃપા પુન: પ્રકાશનમાં પ્રેરકબળ બની છે. પુન: પ્રકાશનમાં, પૂર્વ પ્રકાશક શ્રેષ્ઠિ દેવચંદ લાલભાઈ પુસ્તકોદ્ધાર ફંડ ના અમે આભારી છીએ. શ્રીશ્રીપાળનગર જૈન છે.મૂ.દેરાસર ટ્રસ્ટ તથા શ્રીશ્રીપાળનગર જૈન છે. મૂ. ઉપાશ્રય ટ્રસ્ટની સ્થાપનાના ચક્રો વિ.સં.ર૦રર માં ગતિમાન થયા. સં. ૨૦ર૬ માં શ્રીશ્રીપાળનગર બિલ્ડીંગ તૈયાર થયું. જૈનો આવીને વસવા લાગ્યા. સં. ૨૦૨૯ માં ગગનચુંબી, આમૂલચૂલ સંગેમરમરનું દેરાસર તથા વિશાળ ઉપાશ્રય તૈયાર થયાં. જૈનમંદિરમાં ભૂમિગૃહમાં તથા ઉપર ના ગભારામાં પધરાવવા માટે મેવાડના દેલવાડા ગામથી ૫૭ ઈંચના શ્રી મુનિસુવ્રતસ્વામી તથા ૫૧ ઈંચના શ્રી આદિનાથ ભગવાનના નયનરમ્ય પ્રાચીન જિનબિંબો મળી ગયાં. પરમ પૂજ્ય સંઘકૌશલ્યાધાર સિદ્ધાંતમહોદધિ કર્યસાહિત્યનિપુણમતિ સુવિશાલગચ્છાધિપતિ સંયમત્યાગતપોમૂર્તિ આ. ભ. શ્રીમદ્ વિજયપ્રેમસૂરીશ્વરજી મહારાજાના પટ્ટધરરત્ન પરમશાસનપ્રભાવક વ્યાખ્યાનવાચસ્પતિ સુવિશાલ ગચ્છાધિપતિ પૂ. આ. ભ. શ્રીમદ્ વિજયરામચન્દ્રસૂરીશ્વરજી મ. સા. ના વરદહસ્તે શાનદાર પ્રતિષ્ઠા મહોત્સવ ઉજવાયો, તે જ સમયે પૂ.આ.ભ. શ્રીજીના સમુદાયના પૂ. મુનિભગવંતોની આચાર્યપદવીઓ થઈ. પ્રતિષ્ઠા મહોત્સવ બાદ દિન-પ્રતિદિન સવાંગીણ વિકાસ થતો રહ્યો. એક પછી એક પૂ. આચાર્યભગવંતાદિ મુનિભગવંતોના ચાતુર્માસો, ઉપધાનાદિ એકથી એક ચઢિયાતા ધર્માનુષ્ઠાનો થતા રહ્યા. જૈન પાઠશાળા, આયંબિલખાતું વગેરે સંસ્થાઓ ઉદય પામી એની સુવાસ પણ ચોમેર પથરાઈ. અહીંનો જ્ઞાનભંડાર પણ સમૃદ્ધ છે, * શ્રીસંઘ પણ છવદયા, દેવદ્રવ્ય, પ્રભુભકિતના મહોત્સ, વૈયાવચ્ચ વગેરેમાં ભારે ઉદારતાથી લાભ લે છે. વર્ષીતપના સામૂહિક પારણાં પણ દરસાલ કરાવાય છે. શાનખાતામાંથી પ્રાચીન-અર્વાચીન ગ્રંથપ્રકાશનોનું કાર્ય પણ ચાલું થયું છે. આ ગ્રંથ ટ્રસ્ટની શ્રુતભક્તિના ગૌરવમાં વધારો કરશે એમાં શંકા નથી. તીર્થોદ્ધાર તેમજ જીર્ણોદ્ધારમાં આ ટ્રસ્ટે લાખો રૂપિયા ખર્ચા છે અને ખર્ચવાનું કાર્ય અવિરત ચાલું છે. લિ. ટ્રસ્ટીમંડળ લાલચંદ છગનલાલજી લાગઠા સોહનલાલ રૂપાજી હુકમચંદ ભેરૂમલજી જુગરાજ પુખરાજજી રાંકા (સ્વ. પુખરાજ હીરાચંદજી રાંકાના સ્થાને) For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ મુંબઈ-વાલકેશ્વર-શ્રીપાલનગરવિભૂષાગ 16*34 યુગાદિદેવ શ્રી ઋષભદેવ પરમાત્મા For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ મુંબઈ-વાલકેશ્વર-શ્રીપાલનગરવિભૂષણ ભૂમિગૃહના મૂળનાયક વીસમા તીર્થપતિ શ્રીમુનિસુવ્રતસ્વામી For Personal & Private Use Only www.jainglibrary.org Page #8 -------------------------------------------------------------------------- ________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिविनेयरत्नानां न्यायतीर्थन्यायविशारदपदसमलङ्कृतानाम् उपाध्यायश्रीमङ्गलविजयानाम् अभिप्रायः। -- -- नमो नमः श्रीप्रभुधर्मसूरये । अयि भाग्यवन्तः सज्जनमहोदयाः ! आर्यावर्तेऽस्मिन् प्राक्काले चतुर्थारकलक्षणेऽनेके महात्मानः स्वपरदर्शने सञ्जातास्तथाऽस्मिन् पञ्चमारकेऽपि बहवः स्वपरदर्शनज्ञाः समभूवन् , दर्शनान्यपि पोढा मुख्यतया प्रचलितानि । अपि च तैः सर्वैदर्शनकारमहानुभावैः स्वकीयस्वकीयदर्शने यानि यानि तत्त्वान्यभिमतानि सन्ति तत्प्रतिपादकानि शास्त्राण्यपि स्वानुकूलयुक्तियुक्तानि निपुणबुद्धिशालिगम्यानि निरूपितानि । अधुनाऽपि विद्यन्ते तेषां समस्तानां महाशयानां प्रधानतयोद्देशस्तु मोक्षनिरूपणविषयक एव । किञ्च तैर्निरूपितं शास्त्रं पूर्णमपूर्ण वेति न चर्च्यते प्रस्तुतत्वात् , परन्तु तेषां मध्ये गीर्वाणगिरायां जैनदर्शनविषयकं श्रीउत्तराध्ययनभगवतीप्रभृतिसूत्रग्रन्थरत्नेभ्यः पूज्यपादभगवदुमास्वातिमहर्षिणा सङ्ग्रहीतं तत्त्वार्थसूत्राख्यं शास्त्रं खोपज्ञभाष्ययुक्तं यदाऽऽलोकितं तदा निर्णायीदमेव शास्त्रं सम्पूर्णतया मोक्षमार्गनिरूपणपरम् । अत्र प्रतिपादकशैल्यपि अतीव गम्भीरा मुमुक्षोमुक्तिमार्गस्याश्वाश्वासनीभूतार्थाद् विश्वासाधायिनी । अत्रत्यः क्रमोऽपि योऽपूर्वो वर्तते सोऽपि स्पष्टतया प्रदर्श्यते-- अस्य दशाध्यायात्मकस्य शास्त्रस्योत्थानभूतं सम्पूर्णतया मोक्षमार्गप्रदर्शकं महामङ्गलस्वरूपं प्रथमाध्यायस्य प्रथमं सूत्रम्-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्येव प्रथममुपन्यस्तम् । किश्च दर्शनान्तरे तु न तादृशः क्रमः, किन्तु ज्ञानमेव केवलं मोक्षसाधकं प्रज्ञप्तम् । यदि च क्रियां विनापि ज्ञानादेव केवलाद् मोक्षप्राप्तिः स्यात् तर्हि समग्रोऽष्टाङ्गयोगप्रकारो व्यर्थः स्यात् , तस्मात् पूर्णश्रद्धापूर्वकज्ञानचारित्रद्वारा एव मोक्षप्राप्तिरित्युपर्युक्तो मार्ग एव मोक्षसाधक: स्यानापरः। किश्चैतत् सूत्रमवलम्ब्यैव सकलं शास्त्रं प्रवृत्तम्, अर्थादिदमेव सूत्रं सम्पूर्णशास्त्रविरचने बीजभूतम् । अधुना विषयविभागोपर्यपि दृष्टिपातः क्रियते । तथाहि-तावत प्रथमाध्याये सम्यगदर्शनज्ञानयोर्निरूपणावसरेऽत्रात्यन्तोपकारिजीवतत्त्व-नय-निक्षेप-प्रमाणप्रभृतीनामपि निरूपणमत्यन्तगम्भीररूपेण कृतम्, अर्थात् शब्दतः सक्षेपतयाऽर्थतो विशदरूपेण निरूपणमकारि । . द्वितीयेऽध्याये जीवानां स्वतत्त्वरूपौपशमिकादिभावपञ्चकानां व्याख्यानं जीवस्वरूपप्रदर्शनपूर्वक तथेन्द्रियाणां द्रव्यमावभेदपूर्वकनिरूपणसहकृतजन्मयोनि-शरीरपञ्चकानामपि प्ररूपणं सम्यक्तया कृतम् । तृतीये नरकस्थानभूतनरकावास-नरकसङ्ख्यानिर्देश-जम्बूद्वीपस्थमेरुभरतादिक्षेत्रप्ररूपणापुरस्सरद्वीपसमुद्रपरिधिप्रभृतीनां निरूपणेन सह मनुष्यतिरश्चामपि स्पष्टरूपेण भेदनिरूपणं कृतम्। For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ अभिप्रायः चतुर्थे देवयोनिप्रदर्शनेन देवविभागं विस्तृतरूपेण निरूप्याध्यायोऽयं पूर्णीकृतः। पश्चमे जीवानां साक्षात् परम्परया चोपकारिभूतानां धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायपुद्गलास्तिकायकालेत्यजीवतत्त्वानां लक्षणप्रभेदावगाहप्ररूपणपूर्वकं सुस्पष्टतया निरूपणं कृतम् । षष्ठसप्तमाष्टमेषु च जीवानां संसारमोक्षावस्थासाधकबाधकानां स्वरूपं युक्तिपूर्वकं प्रदर्शकमास्रवबन्धाख्यं तत्त्वद्वयं विस्तरेण प्रतिपादितम् । नवमेऽध्याये मोक्षसंसारावस्थासाधकबाधकानां लक्षणस्वरूपभेदप्रभेदनिरूपणपूर्विका संवरनिर्जराख्यतत्त्वद्वयी प्ररूपिता। दशमे मोक्षस्वरूपप्रतिपादकं मोक्षतत्त्वं निरूपितम् । __किश्च यथाऽस्य स्वोपज्ञभाष्यभूपितस्य सूत्रस्योपरि अनेकाष्टीका सम्प्रत्यप्युपलभ्यन्ते तथैव केवलसूत्रोपर्यपि सम्प्रदायान्तरिका वार्तिकवृत्त्यादिरूपा बहवष्टीका दृष्टिपथमवतरन्ति । तासु सासु टीकासु मदीयं मनस्तु पूज्यपादभगवसिद्धसेनगणिविरचितवृत्त्या यादृशमाकृष्टं तादृशं न कयाऽपि टीकया । पठिता अपि प्रायोऽनेकाष्टीकाः, परन्तु न्यायशैलीपूर्वकसिद्धान्तप्ररूपणमतीवगम्भीररूपेणात्र यादृशं प्रतिभाति तादृशमन्यत्र न । अत्र तु भवभीरुणा श्रीमता भगवता सिद्धसेनमुनिवरेण तथाविधमपि कष्टसाध्य कार्य सम्पूर्णतया कृतम् । वृत्तिरपि सार्धद्वाविंशतिश्लोकसहस्रप्रमाणा विशालकाया गम्भीरार्थप्रतिपादिका दृश्यते । अपरञ्च तत्र सूत्रार्थनिष्कर्षरूपाणि वाक्यान्यपि प्रचुरतयोपलभ्यन्तेऽत एव ज्ञायते प्रौढपाण्डित्यसूचिकेयं वृत्तिः प्राचीनतरापि। भाष्यमपि सर्व विशदरूपेण व्याख्यातमनेन महर्पिणा, अन्यैस्तु स्वकीयस्वार्थसाधकत्वं तत्राविलोक्य नैतदुमास्वातिप्ररूपितमित्युक्त्वा विलुम्पकैविलुम्पितं, परन्तु न तत्र तादृशापलापकार्यकरणे मनागपि अधोदृष्टम् । किञ्च भवभीरुणा श्रीसिद्धसेनगणिना तु पूज्यतया सूत्रसहितं भाष्यं प्रामाणीकृत्य व्याख्यातम् । पडधिकद्विशत (२०६)तमे पृष्ठे भाष्यवृत्तिगतोल्लेखस्य मावार्थस्तु प्रक्षिप्तकारस्य प्रमत्तत्वकथनद्योतकं, न तु पूज्यपादभाष्यकारस्य, यतस्तत्त्वरत्नानामाकरमर्पयितुरुपकारस्थाने दोपारोपणं कः सुधीः कुर्यात् ।। किञ्च वृत्तिकारमहाशयानामाशयानभिज्ञेन केनचित् पण्डितंमन्येनाक्षेपो वृत्तिकारोपरि कृतः, स तु निनान्तभ्रममूलकोऽवगन्तव्यः । __ अपरश्चेयं वृत्तिरपि सूत्रभाष्यसमेता जैनसमाजस्य भाग्योदयेन महानुभावैः सज्जनमहोदयैर्देवचन्द्र लालभाइ जैनपुस्तकोद्धारसंस्थाकार्यवाहकैर्विपुलद्रव्यव्ययपूर्वकं महत्पुण्यस्वायतीकृत्य मुद्रापिता । किञ्च तादृशग्रन्थरत्नस्य प्रशंसनीयं संशोधनकार्य महापरिश्रमपूर्वकमनेकग्रन्थसम्पादकानुवादकविवेचकविद्वद्वर्यप्रोफेसर हीरालाल रसिकदास कापडिया एम्. ए. इत्युपाधिधारिणा विशिष्टप्रस्तावनाटिप्पण्यादिविषयविभागविशदपूर्वकं कृतं तेन पाठकानां पठनपन्था अतीव सरलः कारितः । यादृशं संशोधनकार्यमन्यैः कर्तुं दुःशकं तादृशमनेन महाशयेन कृतम् । पाठान्तराण्यपि न विस्मृतानि । अन्तत एतत्संस्थाकार्यवाहकश्रेष्टिवर्यजीवनचन्द्रसाकरचन्द्रप्रभृतयः श्रद्धापूर्वकसंशोधनकार्यकर्तारः प्रोफेसरहीरालालमहाशया अपि धन्यवादमर्हन्ति । एते सर्वेऽपि एतादृक्साहित्योद्धारकार्यकरणे निरन्तरदक्षा भवन्त्विति शासनदेवं प्रति विज्ञप्यते न्यायतीर्थमुनिमङ्गलविजयेन । . For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ સકલાગમરહસ્યવેદી પ્રૌઢગીતાર્થ જ્યોતિર્વિદ્ પ.પૂ. આચાર્યદેવ શ્રીમદ્ વિજયદાનસૂરીશ્વરજી મ.સા.ના પટ્ટાલંકાર સચ્ચારિત્રચૂડામણિ કર્મશાસ્રનિપુણમતિ સુવિશાલ ગચ્છાધિપતિ પ.પૂ. આચાર્યદેવ શ્રીમદ્ વિજયપ્રેમસૂરીશ્વરજી મહારાજ સાહેબ. For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only सच्चारित्रचूडामणी सिद्धांतमहोदधि कर्मसाहित्यनिपुणमति सुविशालगच्छाधिपति स्व. पू. पाद आचार्यदेव श्रीमद विजय प्रेमसूरीश्वरजी महाराजा ना अजोड पट्टालंकार परमशासनप्रभावक व्याख्यानवाचस्पति तपागच्छाधिपति शासनसंरक्षक पूज्यपाद आचार्यदेव श्रीमद विजय रामचन्द्रसूरीश्वरजी महाराजा. Page #12 -------------------------------------------------------------------------- ________________ किञ्चिद् विज्ञापनम् चिरत्नग्रन्थरत्नगवेषकाः ! सानन्दं निवेदयामि तत्रभवद्भ्यः शेमुषीशालिभ्यो यदुत बार्थोल्पसूत्रस्य श्रीतत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य ग्रन्थरत्नस्य प्रथमविभागप्रस्तावनाप्रान्ते द्वितीयं विभागं यथामति संशोध्य धीधन करकमले समर्पयिष्यामीति याऽभिलाषा प्रदर्शिता मया तत्पूर्तिः सञ्जाता सम्प्रति देवगुरुकृपाकटाक्षेण । परं न चार्य मे प्रयासो विघ्नविकलः, यतो लघिष्ठभ्रातुः खुशमनलालस्य वर्षद्वय पर्यन्तानारोग्येण न केवलं नानाकदर्थना मम सञ्जाताः, किन्तु तत्परलोकगमनेन चिरस्थायी मर्मस्पर्शी उद्वेगश्वानुभूतो मया । किञ्च 'श्रीमोहनलालजीजैन सेन्ट्रललाइब्रेरी' सत्कक -संज्ञकप्रत्याधारेणाब्धे अद्यावध्यप्रकाशितैतद्विभागमुद्राप्यमाणपुस्तिकाकर्मणि गरीयांसं तापं समन्वभवम्, अशुद्धि पाठपातादिप्राचुर्यात् । श्रीयुतजीवनचन्द्रद्वारा प्राप्ता श्रीविजयसिद्धिमूरिवरसत्का ख-प्रतिरपि तद्दूरीकरणे न प्रभविष्णुरभूत् । अतः प्रायः सार्धपष्टाध्यायात् गेतिसंज्ञा निर्धारितस्या मदीयजन्मभूमि' सूर्यपुरस्थ 'जैनानन्दपुस्तकालय' प्रत्या आधारेण मुद्राप्यमाणा पुस्तिका कथमपि सम्पूर्णतामा निन्ये । एवं महता कष्टेन विहितायां पुस्तिकायां 'एशियाटिक सोसायटी ऑफ़ बेन्गॉल ' इति संज्ञया सुप्रसिद्धसंस्था मुद्रापितस्य घ-संज्ञितस्य पुस्तकस्य साहाय्येन सूत्रभाष्यपाठानां संशोधनसमये महती चिन्ताऽऽपतिता यत् किं करणीयं शेषसन्दिग्धस्थलपरिस्खलनापरिमार्जने प्रकाशक महाशयाय निवेदितेऽस्मिन् सङ्कटे तेन कतिपयमासान्तरे कस्याश्चन प्रतेः प्रतिलेखो मह्यं प्रददे । तत्र प्रतिलेखकस्य प्रमादात् लिपेरनभिज्ञानत्वाच्च शुद्धा अपि पाठा अशुद्धीभूता दृष्टिगोचरमागताः, तथापि किमपि साहाय्यमलेभि ङ -संज्ञकया नया प्रत्या, अतो मूलप्रतिप्रापणे प्रयत्नोऽकारि किन्तु स न सफलीबभूव । एवं पुस्तकपञ्चकसाहाय्येन कथमपि निष्पादिता मुद्रणालयोचितपुस्तिका यन्त्रालये एव प्रेषिता । अत्रायं हेतुर्यद् ग्रामानुग्रामविहारकरणप्रवृत्तानामागमोद्धारक - व्याख्याप्रज्ञजैनाचार्य श्री आनन्दसागरसूरिवराणामेकत्र स्थिरताऽभावात् तत्सविधे पुस्तिकाप्रेषणे नावकाशः, विलम्बकरणं तु दुःसहं द्वितीय विभागपाठनतत्परजनानां वारंवार पृच्छनादिस्वात् । सत्यामप्येवंविधपरिस्थित्यां ग्रन्थस्यास्य द्वितीयवेलाशोधनपत्राणि (revised proofs ) तु मया प्रहितानि जैनागमप्रसिद्धि सेवाहेवा किनां सार्वसिद्धान्तप्रवीणानां श्रीमतां आनन्द For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ किश्चिद् विज्ञापनम् सागरसूरिपादानां सविधे । एभिः सूरिसत्तमैर्विहारावस्थायामपि यावच्छक्यं पाठस्थलच्छायादिमिः सङ्कलय्य संशोधितानि तानि पत्राणि । ___२४० पृष्ठेषु तु मुद्रितेषु एवं विधमपि साहाय्यं दत्तुमसमर्था अभूवन् सखिरा विहारादिव्यग्रचित्ताः। तथापि संशोधनकर्मणि स्वसौजन्यख्यापकेन यावता साहाय्यदानेनानुगृहीतोऽस्मि तावता तेभ्यो ददामि शतशो हार्दिकान् धन्यवादान् । अपरश्चावशिष्टस्य विभागस्य संशोधने मुख्यत्वेनोपकर्तृणां दक्षिणविहारिमुनिवरश्रीअमरविजयशिष्यश्रीचतुरविजयानां नामधेयं कीर्तयाम्यनेकशः। . अत्रेदमपि निवेदनमावश्यकं यद् १०४पृष्ठमुद्रणानन्तरं प्रकाशकेनान्यत् प्रतियमलं मामदायि । तत्र एका च-संज्ञका प्रतिः अमदावादस्थडहेलेतिनामकोपाश्रयभाण्डागारसत्का, ज-संज्ञका तु एतदपेक्षया प्राचीना कतिपयजीर्णपत्रमया 'जैनानन्दपुस्तकालय'. सत्का यत्सहायतया ग-प्रतिलिखितेति मां प्रतिभाति । एतत् प्रतियुगलमभूत किमप्युपयुक्तं सन्देहनिराकरणावसरे । छ-सञ्ज्ञप्रतिरुपाध्यायानां न्यायतीर्थन्यायविशारदेतिपदवीद्वयविराजितॄणां श्रीमङ्गलविजयानां यदुपयोगः क्वचिदेव कृतोत्र मया । अन्तेऽस्य २०६८० श्लोकप्रमाणकस्य ग्रन्थस्य प्रकाशनेन जैनतत्त्वजिज्ञासूनां प्राच्यपाश्चात्यविपश्चिता साहाय्यकारिणः, मदीयसूचनानुसारेण प्रो. यकोबी-विन्टर्निटस लॉयमेन्गरिनोप्रमुखविद्वद्वरेभ्योऽग्रवचनरूपां प्रस्तावनासम्बन्धिनी वा लेखसामग्री विज्ञप्तिपत्रद्वारा याचमानस्य च श्रेष्ठिप्रवरस्य श्रीयुतसाकरचन्द्रात्मजजीवनचन्द्रस्य प्रयासमिममनुमोदयन् , ग्रन्थस्य द्वितीयस्यापि विभागस्य शुद्धिपत्रकस्य विधातृणां न्यायव्याकरणतत्त्वज्ञानविषयकनानाग्रन्थप्रणेतणां उपाध्यायश्रीमङ्गलविजयानां कृतज्ञतापूर्विकामुपकृति संस्मरन् कृपापीयूषपाथोधिभ्यो विवेकविचक्षणेभ्यः स्खलनासम्बन्धिनीं च क्षमा याचमानो विरमाम्यस्माद् विज्ञापनाप्रस्तावाद् विबुधवृन्दारविन्दमकरन्देन्दिन्दरो हीरालालः । 4 df For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ प्रस्तावना " परब्रह्माकारं सकलजगदाकाररहितं सरूपं नीरूपं सगुणमगुणं निर्विभु-विभुम् । विभिन्न सम्भिन्नं विगतमनसं साधुमनसं पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे ॥" इह हि निःसीमसंसारपारावारनिमज्जनत्रस्तानामाधिव्याध्युपाधिग्रस्तानां परिस्फुरज्जन्मजरामरणमोहानां करालकलिकालकवलितशेमुषीसन्दोहानां सङितरुचीनां भव्यसत्त्वानां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसिद्धिः सौजन्यसौशील्यसारल्यशेवधीनां सार्वसिद्धान्तसारपीयूषपानपीवराणां श्रीजिनेश्वरशासनप्रभावनाप्रभाऽऽविर्भावभास्कराणामिति मत्वा परोपकृतिकर्मकर्मठैः श्वेताम्बरपरम्परानुसारेण पञ्चशतप्रकरणप्रणेतृभिरप्रतिमप्रतिभामण्डलैर्वाचकाखण्डलैः श्रीउमास्वातीतिसुभगनामधेयैन केवलं सन्दृब्धस्तत्त्वार्थाधिगमसूत्रनामा व्यक्तविषयात्मको महामूल्यो ग्रन्थः, किन्तु सङ्कलितोऽयं भवसन्ततिदारिकाभिरशेषक्लेशनिराकारिकाभिरुपोद्धातरूपिकाभिः सम्बन्धकारिकाभिः, समलङ्कृतश्च गीर्वाणगीर्गुम्फितेन सूत्रार्थप्रदीपकेन सरलसरससुश्लिष्टस्वोपज्ञभाष्येणेति समवगम्यते प्रथमविभागगवेषकैः। अद्याद्ययावदनुद्धृतस्यास्यं प्रन्थस्य प्रस्तावना प्रस्तूयते प्रतिज्ञापालनार्थ मन्दमेधसाऽपि मया ।। अवतार्यते तावन्मीमांसाभूमिकायां प्रश्नोऽयं यत् प्रथमं केन जैनमुनिरत्नेन संस्कृतभाषायां सिद्धान्तप्रणयनमकारि । प्रत्येकतीर्थङ्करशासने द्वादशाङ्गी रच्यते गणधरनामकर्मोदयवर्तिभिर्वीजबुद्धिभिर्गणधरदेवैः । तत्र दृष्टिवादसञकं द्वादशाङ्गं प्रायो गीर्वाणगीगुम्फितं समस्ति । उक्तं च श्रीवर्धमानसूरिभिरवतरणरूपेण आचारदिनकरे निजप्रणयने___"मुत्तूण दिहिवायं कालियउक्वालियंगसिद्धतं । थीबालवायणत्थं पाययमुइयं जिणवरेहिं ॥" अनेन निरस्यते मतमिदं केषाश्चिद् यदुत श्रीवीरनिर्वाणसमयानन्तरमेव जैनैः संस्कृतभाषाज्ञानं सम्पादितम् । अपरञ्च एतन्निरसने निम्नलिखिते गाथे अप्युपयुक्ते "सकया पागता चेव दुहा भणितीओ आहिया। सरमंडलम्मि गिजते पसत्था इसिभासिता ॥" -स्थानाङ्गे सप्तमे स्थानके ३९४तमे पत्रे १ श्रीसिद्धसेनगणिवरैर्भाष्यकारिकेति नाम निरदेशि विंशतितमे पृष्ठे। २-३ छाया-मुक्त्वा दृष्टिवादं कालिकोत्कालिकाङ्गसिद्धान्तम् । स्त्रीबालवाचनार्थ प्राकृतमुदितं जिनवरैः॥ संस्कृता प्राकृता चैव द्विधा भणिती आहिते। स्वरमण्डले गीयते प्रशस्ते ऋषिभाषिते॥ For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावना "सकया पायया चेव भणिईओ होति दोणि वा। सरमण्डलम्मि गिज्जते पसत्था इसिभासिया ॥" ___-अनुयोगद्वारे सू० १२७, १३१तमे पत्रे . एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यधावधि । अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः । किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनामामभावा, परन्तु वर्तमानकाले समुपलब्धं साहित्यमाश्रित्य तत्त्वार्थाधिगमसञ्ज्ञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देहो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् । बालस्त्रीमन्दमूर्खानामप्युपकारिणीं प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि सस्वार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैर्वाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् । वाचकवारिधिसत्तासमये संस्कृतभाषाया। प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतदभाषाद्वारा सुप्रचारस्यावलोकन, तेषां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकवलेन तैस्तत्त्वार्थपत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते।' १छाया प्राय उपरिवत् । भन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीभार्यरक्षितसूरयोऽन्त्याचकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः । श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां (श. २, उ. ८, सू. ६७८) निर्देशः । स चायम् "बहीवे णं भंते | दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणराजिस्सति गोयमा। णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसज्जिस्सति ।" जम्बद्वीपे भदन्त । द्वीपे भारते वर्षेऽस्यामवसर्पिण्या देवानुप्रियाणां कियन्तं कालं पूर्वगतमनसंक्ष्यति । गौतम । द्वीपे भारते वर्षे ऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति ।। किश्च निन्नावतारितोऽप्युल्लेखो वरीवर्तिः "वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ । उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो ॥ वरिससहस्से पुण्णे, तित्थोग्गालिऐं वद्धमाणस्स । नासि ही पुव्वगतं, अणुपरिवाडिएँ जं जस्स ॥" [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् । उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः॥ वर्षसहने पूर्णे तीर्थोद्गालिते वर्धमानस्य । नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य ॥] ३ प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसङ्क्षिप्तसरलशुद्धशैल्या वाचकवर्यैः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवर्यसमयात् प्राक्कालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां अन्यनिर्माणे न केवलं समर्था आसन् , किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यातू । For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीदेवगुप्तसूरिविचार: यद्यपि द्वितीये विभागेऽस्मिन् न कोऽपि सम्बन्धः साक्षात् समस्ति श्रीदेवगुप्तसूरिप्रस्तावस्य तथापि प्रथमविभागगतसम्बन्धकारिकाप्रणेतृत्वपरिचयप्रकाशनपटु किमपि वक्तव्यं नासङ्गतिमङ्गति । संशोधनार्थ मया समासादितासु सर्वासु तत्त्वार्थाधिगमसूत्रप्रतिषु श्रीदेवगुतीया टीका श्रीसैद्धसेनीयायाः पूर्वमुल्लेखिता दरीदृश्यते । तत्र केनापि कारणेन भवितव्यमिति तर्के सति प्रतिभाति विकल्पोऽयं यदुत श्रीदेवगुप्तसूरयः श्रीसिद्धसेनसरिभ्यः पूर्वगामिनो ज्यायांसो वा भवेयुः । अथवैतैः प्रणीतायाष्टीकायाः सम्बन्धकारिकाटीकाया एवोपलब्धिः पूर्वोल्लेखने कारणं भवेत् । गन्धहस्तिपदपरामर्शः.' गन्धहस्तिपदमुपलभ्यते श्वेताम्बरीये दिगम्बरीये च साहित्ये । तावत् प्रथमं श्वेताम्बराणां साहित्य लक्ष्यीकृत्य किश्चिदुच्यते । शक्रस्तवेत्यपरनामधेये 'नमोत्थुणं'नाग्नि प्राचीने स्तोत्रे 'पुरिसवरगन्धहत्थीण' इति परमकारुणिकचतुस्त्रिंशदतिशयधारिधर्मदेवश्रीतीर्थङ्करस्य विशेषण विद्यते, परन्तु न चास्यात्र किमपि विशिष्टं प्रयोजनं वर्तते । वृद्धवादिश्रीदेवसूरिशिष्यरत्नश्रीसिद्धसेनदिवाकराणां गन्धहस्तिरूपेणोल्लेखोऽकारि न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिभिः स्वनिर्मिते वीरस्तुतिरूपे न्यायखण्डखाये (श्लो. १६, पृ. १६) निम्नलिखितपङ्क्तिप्रणयनेन "अनेनैवाभिप्रायेणाह गन्धहस्ती सम्मतौ" किन्तु भ्रान्तिमूलकोऽयमुल्लेख इत्यवगम्यते, यतः श्रीयशोविजयान् विहाय न केनापि प्रन्थकारेण श्रीसिद्धसेनदिवाकराणां विषये तेषां सुनिश्चितां काञ्चन कृति तद्गतावतरणसमुद्धरणप्रसङ्गं वाऽऽश्रित्य 'गन्धहस्तीति विशेषणं प्रायुजि । अपरश्च श्रीसिद्धसेनदिवाकराणां जीवनवृत्तान्तस्य ये प्राचीना अर्वाचीनाश्च प्रबन्धाः सम्प्राप्यन्ते तत्रापि तेषां पदवीरूपेण उपनामरूपेण वा गन्धहस्तिपदं न दृष्टिपथमवतरति । तेषां दिवाकरेत्युपाधिस्तु दरीदृश्यतेऽन्यान्यस्थलेषु, यथाहि-श्रीहरिभद्रसूरिवरकृते पञ्चवस्तुनामके ग्रन्थे (गां. १०४८) सन्मतितस्य श्रीअभयदेवसूरिकृतायां व्याख्यायां च प्रथमे पृष्ठे । किञ्च गन्धहस्तिनामधेयाः केऽपि सूरय आसन्नित्यनुमीयते जम्बूद्वीपप्रज्ञप्तेः श्रीशान्तिचन्द्रवाचकविहितप्रमेयरत्नमञ्जूषाऽभिधवृत्तिगतेन निम्नलिखितेन पद्येन १ एतत्सम्पादकमतेन ‘सम्मति' नाम वास्तविकम् । २ श्रीभद्रेश्वरविरचितकथावलीगतः श्रीसिद्धसेनप्रबन्धः, प्रभावकचरित्रगतो वृद्धवादिप्रबन्धातर्गतः श्रीसिद्धसेनप्रबन्धः, प्रबन्धचिन्तामणिगतः श्रीसिद्धसेनप्रबन्धश्च । ३ "आयरियसिद्धसेणेण सम्मईए पट्ठिअजसेणं । दूसमणि दिवागर'कप्पत्तणओ तदक्खेणं ॥" - ४ “सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणे।" For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना "सर्वानुयोगसिद्धान् वृद्धान् प्रणिदध्महे महिमऋद्वान् । प्रवचनकाञ्चननिकषान् सूरीन् गन्धहस्तिमुखान् ॥२॥" .. अपरश्च दशमशताब्दीयैः सन्मतिटीकाकारैः श्रीअभयदेवसूरिभिः सन्मतितकस्य द्वितीय काण्डगताद्यगाथाव्याख्यायां तत्त्वार्थाधिगममूत्रस्य प्रथमाध्ययस्य नवमात् द्वादशपर्यन्तानां सूत्राणामवतरणपूर्वकं ५९५तमे पृष्ठे यत् प्रोक्तं तृतीयकाण्डस्य चतुश्चत्वारिंशद्गाथागतहेतुवादपदव्याख्याऽवसरेऽग्रिमं सूत्रमवतार्य यच्चे ६५१तमे पृष्ठे समुद्गीणं ताभ्यामपि निर्देशाभ्यां गन्धहस्तीति सुभगनामधेयाः केऽपि मुनिवरा बभूवुरिति समर्थ्यते। किञ्च कोट्याचार्येत्यपराभिंधानैः श्रीशीलाङ्कसूरिभिः स्वकीयायामाचाराङ्गटीकायां निम्नलिखितौ " 'शस्त्रपरिज्ञा 'विवरणमतिबहुगहनं च गन्धहस्तिकृतम्" (पृ. १) " 'शस्त्रपरिज्ञा 'विवरणमतिगहन मितीव किल कृतं पूज्यैः। __ श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥" (पृ. ८२) --उल्लेखौ कृतौ । अनेनापि दृढीभवति पूर्वोक्तं मन्तव्यम् । अपरञ्च गन्धहस्तिनामनिर्देशपूर्वकाणि यान्यवतरणानि समुपलभ्यन्ते तानि समग्राणि स्वल्पेन परिवर्तनेन युक्तानि भावसाम्यपुरस्सराणि वाधिगम्यन्ते तत्त्वार्थभाष्यस्य श्रीसिंहसूरीणां प्रशिष्यैः श्रीभास्वामिनां शिष्यैः श्रीसिद्धसेनगणिवरैर्विरचितायामस्मिन् ग्रन्थे प्रसिद्धिं च नीतायां टीकायाम् । तद्यथा (१) "निद्रादयो यतः समाधिगताया एव। (१) “आह च गन्धहस्ती-'निद्रादयः दर्शनलब्धेः उपयोगघाते प्रवर्तन्ते, चक्षुर्दर्शना- समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, वरणादिचतुष्टयं तूमोच्छेदित्वान्मूलघातं नि- दर्शनावरणचतुष्टयं तू द्गमोच्छेदित्वात् समूलहन्ति दर्शनलब्धिमित्यतो" | घातं हन्ति दर्शनलब्धिमिति।" -तत्त्वार्थ( अ. ८, सू. ८)वृत्तौ -प्रवचनसारोद्धारटीकायां (पृ. १३५) ३५८तमे पत्रे - (२) "या तु भवस्थकेवलिनो द्विविधस्य (२) " यदाह गन्धहस्ती-भवस्थसयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोह- केवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य नीयसप्तकक्षयादपायसद्व्यक्षयाचोदपादि सा वा दर्शनमोहनीयसप्तकक्षयाविर्भूता सम्यग्दृष्टिः सादिरपर्यवसानेति ।" सादिरपर्यवसाना इति ।" . -तत्त्वार्थ(अ. १, सू. ७)वृत्तौ (पृ. ६०) -नवपदवृत्तौ ८८तमे पत्रे विशेषशतके च १ “अस्य च सूत्रसमूहस्य व्याख्या गन्धहस्तिप्रभृतिभिर्विहितेति न प्रदश्यते ।" २" तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेह प्रदर्यते विस्तरभयात्।" . ३ अत इम एव गणिवरा ‘गन्धहस्ति'बिरुदधारिण इति पण्डितसुखलालाः। ४ अयमेव पाठो गन्धहस्तिनामपूर्वको वर्तते श्रीदेवेन्द्रसूरिकृतप्रथमकर्मग्रन्थ( गा. १२)टीकायाम् । ५ १२४८तमे वैक्रमीयाब्दे श्रीसिद्धसेनसूरिभी रचितेयम् । ६ श्रीजिनचन्द्रैः श्रीदेवगुप्ताचार्यैस्त्युत्तरनामधेयैः १०७३तमे वैकमीऽन्दे प्रणीतेयम् । ७ उपाध्यायश्रीसमयसुन्दरकृतोऽयं ग्रन्थः। ३मत For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना २१ (३ ) "तत्र याऽपायसद्व्यवर्तिनी (३) “यदुक्तं गन्धहस्तिना तत्र-याश्रेणिकादीनां सद्व्यापगमे च भवति | ऽपायसद्र्व्यवर्तिनी अपायो-मतिज्ञानांशः अपायसहचारिणी सा सादिपर्यावसाना, " सद्रव्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी -तत्त्वार्थ(अ. १, सू.७)वृत्तौ (पृ. ५९) श्रेणिकादीनां च सद्रव्यापगमे भवत्यपाय सहचारिणी सा सादिसर्पयवसाना इति" .. -नवपदवृत्तौ ८८तमे पत्रे विशेषशतकेच (४) "प्राणापानावुच्छ्वासनिःश्वासक्रिया- (४) " यदाह गन्धहस्ती-प्राणापानौ लक्षणी" उच्छ्वासनिःश्वासौ इति ।" । -तत्त्वार्थ(अ. ८, सू.१२)वृत्तौ (पृ.१६१) -धर्मसङ्ग्रहणीवृत्तौ ४२तमे पत्रे (५)" हरयो विदेहाश्च पश्चालतुल्याः" (५) “यदाह तत्त्वार्थमूलटीकाकृत् गन्ध- -तत्त्वार्थ(अ.३, सू.१०)वृत्तौ (पृ. २५३) हस्ती-.. 'हरयो विदेहाश्च पश्चालादितुल्याः' इति" __-बृहत्क्षेत्रसमासंविवृतौ १९तमे पत्रे । • (६) “सम्यक्त्वं च मोहशुद्धदलिकानु- (६) "एतासु च प्रेमद्वेषप्रत्ययक्रियाद्वयभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वक्रिया- स्थाने सम्यक्त्वमिथ्यात्वक्रिये गन्धहस्तिप्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्ष- नोक्ते, तयोश्च शुद्धमिथ्यात्वमोहदलिकानुभवगजीवादिपदार्थविषयाश्रद्धा, जिनसिद्धगुरू- | प्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयश्रपाध्याययतिजनयोग्यपुष्पधृपप्रदीपचामरातपत्र- द्धारूपा, जिनसिद्धाचार्योपाध्यायसाधुयोग्यनमस्करणवस्त्राभरणानपानशय्यादानाद्यनेक- पुष्पधूपप्रदीपचामरातपत्रनमस्करणवस्त्रानपानवैयावृत्त्याभिव्यङ्गन्या च सम्यक्त्वसद्भाव- शय्यादानाद्यनेकवैयावृत्त्याभिव्यङ्गया, शुद्धसंवर्धनपट्टी सद्वेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भ- सम्यक्त्वादिभाववृद्धिहेतुर्देवादिजन्मसद्वेद्यवन्धकारणम्" | कारणं सम्यक्त्वक्रिया ।" -तत्त्वार्थ(अ. ६, म.६)वृत्तौ (पृ. ११) -नवतत्त्वप्रकरणभाष्ये ३१तमे पत्रे (७) “समन्तानुपातक्रिया स्त्रीपुरुषनपुं- (७) "पूर्वव्याख्यानं तु गन्धहस्त्यसंकपशुसम्पातदेशे उपनीयवस्तुत्यागः। प्रमत्त- भिप्रायेण कृतम्" संयतानां वा भक्तपानादिकेऽनाच्छादितेऽवश्य- -नवतत्त्वप्रकरणभाष्ये ३३तमे पत्रे त्याज्ये समन्तादनुपातो भवति सम्पात्यसत्त्वा- तचैवम् – “समन्तात् सर्वत उपनिपतनमुपनिनाम् ।" पात-आगमनं ख्यादीनां सम्पात्यसत्त्वानां वा -तत्त्वार्थ(अ. ६, सू. ६)वृत्तौ (पृ. १२)। यत्र देशे भोजनादौ वा स समन्तोपनिपातः।" -नवतत्त्वप्रकरणभाष्ये ३०तमे पत्रे १ श्रीमलयगिरिसूरिकृतेयम् । २ श्रीमलयगिरिसूरिकृतेयं धृत्तिः । ३ श्रीअभयदेवसूरिविरचितमिदम् । : For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना (८) "अत एव च भेदः प्रदेशानामवय-1 (८) "यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यावानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोप- दिषु भेदोऽस्ति ।" लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परि- -स्याहामञ्जयाँ ६३तमे पृष्ठे कलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत.।" -तत्त्वार्थ(अ. ५, सू.६) वृत्तौ (पृ. ३२८)। अथ दिगम्बरसाहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते । शकीयदशैकादशशताब्दीयेषु दिगम्बरीयशिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोऽत्रोपयुक्तो विशेषतः । दिगम्बरपरम्परानुसारेण आप्तमीमांसादिप्रणयिभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराहस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायोऽयम् । अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्त्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति । यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक, किन्तु श्रीदेवनन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपादसमयादपि । परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः "उक्तं च पुनर्गन्धहस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋषिदासधन्य-सुनक्षत्र कार्तिकेय-नन्द-शालिभद्रा-ऽभय-वारिपेण-चिलातपुत्रा इति ।” अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनवमशताब्दीपर्यन्तेत्यनुमीयते । किञ्च 'गन्धहस्ति'सञ्ज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम् "भगवद्भिमास्वातिपादैराचार्यवरासूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिबध्नन्तः स्याद्वादविद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः ।" १ श्रीहेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराह्वया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमल्लिषेणसूरिप्रणीता। २ प्रेक्ष्यतां दिगम्बरसाहित्यगवेषकश्रीयुतजुगलकिशोररचितः स्वामिसमन्तभद्रनामको निवन्धः (पू. १४१-१४३)। For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ २३ अपरश्च गन्धहस्तिमहाभाष्यकर्तारः श्रीसमन्तभद्राचार्या दिगम्बरीया एवेति सुनिश्वयो न सञ्जायेत निम्नलिखित पदवीक्षणोनोत्पद्यमानशङ्काया निरसनं विना । " अथो गुरुथन्द्रकुलेन्दुदेव - कुलादिवासोदित निर्ममत्वः । समन्तभद्रः १७ श्रुतदिष्टशुद्ध- तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ वृद्धस्ततोऽभूत् किल देवसूरि : १८, शरच्छते विक्रमतः सपादेः । " सहस्रावधानिश्रीमुनिसुन्दरसूरिकृताया गुर्वावल्या अवतरणमिदम् । अनेन श्रीसमन्तभद्रसमयो यो ध्वन्यते स एव दिगम्बरसम्प्रदाये श्री समन्तभद्र समयरूपेण सुप्रतिष्ठितः । अतः समुपतिष्ठति शङ्का यदुत किमिमे श्वेताम्बरीया दिगम्बरीया वा । एवं परिस्थित्यां सत्यां दिगम्बरीयश्री समन्तभद्राचार्यैर्गन्धहस्तिनाम्नी टीका प्रणीतेति निर्णयात्मकं कथनं दुःशकं प्रतिभाति । वाचकविचार: वाचकशब्दस्यार्थत्रितयं समस्ति – (१) पूर्ववित्त्वं, (२) उपाध्यायत्वं, (३) वचकवंशीयत्वं च । श्रीउमास्वातीनुद्दिश्य उपाध्यायत्वं न सङ्गच्छते, औचार्यरूपेण तेषां सुप्रसिद्धस्वात् । एते वाचकवंशे सञ्जाता अतस्तेषां वाचकत्वं श्रीधनगिरि - सिंहगिरिवत्, न तु विद्ययेत्यपि पक्षो नादरणीयः तत्समये पूर्वानुच्छेदात्, अनधिकारिषु पदवीप्रदानासम्भवात्, स्वस्य वाचकरूपेण स्वयं ग्रन्थकारकृतनिर्देशाद, घोषनन्दिक्षमणानामेकादशाङ्गवित्त्वरूपेणैव न तु वाचकपद्द्द्वारोल्लेखात्, उच्चैर्नागरस्य वाचकवंशस्य शाखारूपेण कथनस्यानुपलब्धेश्व | पण्डितसुखलालैर्वाचकवंशीयत्वेनैव तेषां वाचकत्वमिति कल्पना कृताऽस्ति, किन्तु साऽसमीचीना भाष्यगत प्रशस्तेः समुचितानवधारणात् तदुत्पत्तेः, अतः प्राथमिक एव अर्थोऽत्र स्वीकर्तव्यः । किश्व न कस्यापि श्वेताम्बर मुनिवरस्यास्य विषये विसंवादो दृश्यते । भाष्यं तत्कर्तृत्वं च प्रस्तावना " १ 'समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः" इति जिनसहस्रनामगतपद्यार्थसूचितः समन्तभद्रो नात्र विवक्षितः, तस्य 'जिन' शब्दस्य पर्यायत्वात् । महर्षिबुद्धस्यापि पर्यायोऽयम्, परन्तु सोऽप्यत्रानपेक्षणीयः । २ इमे श्वेताम्बराचार्याः । ३ इयं तु अद्ययावत् नैवोपलब्धा । ४ एतदुल्लेखः समस्ति निम्नलिखितगाथायाम् "" “ वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं ॥ ५ प्रेक्ष्यतां सभाष्यसटीकस्य तत्त्वार्थाधिगमसूत्रस्य प्रथमो विभागः (पृ. १, ३, १० ) । ६ विलोक्यतामाङ्ग्लभाषानिबद्ध उपोद्घातः ( ५. ५ ) । सूत्रभाष्यगत विशिष्टताऽपि व्यनक्ति तेषां पूर्ववित्त्वम् । ७ For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ २४ प्रस्तावना भाष्यं स्वोपज्ञं समस्ति न वेति प्रश्न उत्तरतो विचारयिष्यते । अत्र तावत् तद समीक्ष्यते । एकत्रिंशत् सम्बन्धकारिका दशमाध्यायस्य सप्तमसूत्रस्य विवरणात्मिका द्वात्रिंशत् लोकाः प्रशस्तिश्च भाष्यस्याङ्गानीति ज्ञायते । यद्येषां सूत्ररूपेण गुम्फितेन मूलग्रन्थेन सहाङ्गाङ्गि भावरूपः पक्षः कक्षीक्रियते तर्हि भाष्ये तद्विवरणं किं नास्तीति प्रश्नस्य सन्तोषकारि समाधानं दुःशकम् | श्वेताम्बरटीकाकारादिभिर्भाष्यस्य स्वोपज्ञत्वं स्वीकृतं, दिगम्बरैस्तु अनादृतम् । एवं सत्यपि मुद्रिततत्त्वार्थ जवार्तिकप्रान्ते श्री अमृत चन्द्रकृते तत्त्वार्थसारे च पूर्वोक्ता द्वात्रिंशत् श्लोका अङ्कादिरूपस्वल्पपरिवर्तन पूर्वका दृष्टिपथमायन्ति । अष्टमः श्लोक औमास्वातिक इति मत्वा श्रीहरिभद्रसूरिवरैः शास्त्रवातासमुच्चयसञ्ज्ञायां स्वकीयकृतौ ६९३तमपद्यरूपेणोदधारि । सम्बन्धकारिकाणामेकोनत्रिंशत्तमा तथैवोद्धृता श्रीमुनिचन्द्रसूरिभिर्धर्मविन्दुवृत्तौ । क्वचित् आह उक्तं चेत्यादि निर्देशपुरस्सरं तदुल्लेखरहितानि वा यानि कतिपयानि पद्यानि भाष्ये दृश्यन्ते तान्यपि भाषाशैलीसमानत्वाद् भाष्यकारस्यैव सम्भपेयुः । शैली-साम्प्रदायिकाभिनिवेशा-ऽर्थविकासरूपैस्त्रिभिर्दृष्टिबिन्दुभिः परीक्ष्यमाणयोः भाष्यसर्वार्थसिद्धयर्भाष्यस्य प्राचीनता पोस्फुरीति । अतस्तुष्यतु दुर्जन इति न्यायेन यदि भाष्यस्य स्वोपज्ञता न स्वीक्रियते तर्ह्यपि उपलब्धव्याख्या निकाये भाष्यस्य सर्वोपरि प्राचीनतेति कथने न मनागपि सन्देहो निष्पक्षप्रतिभाशालिनां सम्भवति । याकिनी महत्तरानुश्री हरि भद्रसूरिशेखर-श्रीसिद्धसेनगणिवरप्रभृतिभिः समस्तैः श्वेताम्बर मुनिवर्यैर्भाष्यस्य स्वोपज्ञत्वं स्पष्टतयाऽङ्गीकृतमिति निर्विवादम् । प्रो. यकोबी - प्रो. विन्टर्नित्स - पं. सुखलालाद्याधुनिक विद्वद्वरैरपि तथैव कृतम् । अनेन किं न फलति यदुतेदं मतं प्रामाणिकम् ? । भवतु, द्वे युक्ती अपि निर्दिश्येते । तावत् कतिपयासु सम्बन्धकारिकासु भाष्येऽपि कुत्रचिदुपदेक्ष्यामः वक्ष्यामि वक्ष्याम इति प्रतिज्ञाद्वारा ये विषयाः सूचितास्तेषां प्ररूपणं सूत्रेषु दृश्यते, न तु भाष्ये । अतोऽनुमीयते सूत्रभाष्ययोरेककर्तृत्वमर्थाद् भाष्यस्य स्त्रोपज्ञता वरीवर्ति । अपरश्च मूलकारव्याख्याकारयोर्यत्र भिन्नव्यक्तित्वं वर्तते तत्र प्रायः सूत्रपाठानां विसंवादिस्वरूपं तदर्थविषयकं विकल्पजालं सन्दिग्धत्वं सूत्रपाठभेदश्चेति दरीदृश्यते । निदर्शनार्थ समीक्ष्यतां सर्वार्थसिद्धिप्रमुख दिगम्बरटीका साहित्यं श्रीबादरायणप्रणीतस्य ब्रह्मसूत्रस्य शारीरकसूत्रेत्यपराह्नस्य व्याख्याव्रजं वा । ईदृक्परिस्थितेरभावो भाष्ये समर्थयति तत्स्वोपज्ञत्वमिति मे मतिः । सूत्रभाष्ययोर्वैशिष्टयम् १ सन्तुल्यतामयं निम्नलिखितया श्री औपपातिकसूत्रगतया गाथया - "बीआण पुणरवि अग्गिदड्ढाणं अंकुरुप्पत्तीण भवइ । " एवमेव सिद्धाणं कम्मबीए दड्ढे पुनरपि जन्मुपत्ती न भवइ ॥ For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना २५ तत्त्वार्थसूत्रे स्वोपज्ञे भाष्ये च कतिपया उल्लेखाः सन्ति ये श्वेताम्बरीयागमादिषु ग्रन्थेषु दिगम्बरीयप्रधानभूतेषु वा न दृष्टिपथमवतरन्ति । ते चैमे ( १ ) तत्त्वार्थसूत्रे (१-४) तत्त्वसप्तकस्य निर्देश: । जैनसम्प्रदायद्वये तु पुण्यपापपूर्वकं सप्तकमिदमर्थात् नेवतत्त्वनिरूपणम् । एवं सति विरोधप्रसङ्ग इति चेन्न, 'शुभः पुण्यस्य' 'अशुभः पापस्य' इति सूत्रद्वयेन पुण्यपापयोस्तत्त्वरूपेण सूत्रकारैः स्वीकृतिः । किञ्च पुण्यपापयोः फलस्वातन्त्र्यमपि प्रदर्शितं सम्यक्त्व हास्य रतिपुंवेदशुभायुर्नामगोत्राणि पुण्यम्' इति सूत्रग्रथनेन । 4 ननु प्रज्ञापना- स्थानाङ्गा - ऽनुयोगद्वारेषु जीवाजीवेति तत्त्वद्वयं निर्दिष्टम् । किमने - नास्त्रवादेरपलापो वक्तुं न शक्यते १ नैव, किन्तु सत्यमेतद् यदुत पुण्यपापयोः स्वतन्त्रतत्त्वरूपेणाङ्गीकृतिर्न कृता वाचकमुख्यैः, एकनिष्टदृष्ट्या प्ररूपितं तत्त्वसप्तकम् | । 1 ( २ ) अस्मिन् ग्रन्थे (१ - ३४ ) नयानां प्रथमं पञ्चविधता प्रदर्शिता । तदनन्तरं ( १-३५ ) पञ्चमस्य त्रैविध्यं प्रतिपादितम् । तत्र साम्प्रतमित्येकस्य नयस्य संज्ञा समस्ति साऽन्यत्र कुत्रापि न दृश्यते । एवं नयनिरूपणे वैशिष्टयं वर्तते । नैगमस्य सङ्ग्रह व्यवहारयोरन्तर्भावं कृत्वा श्रीसिद्धसेनदिवाकरैर्नयस्य सङ्ख्या पड् निर्धारिता । किञ्च विशेषावश्यकभाष्ये (गा. २२६४) नयपश्चकप्रपञ्चो विद्यते स औमास्वातिकपरम्पराप्रतिबिम्वरूप इत्यनुमीयते । अनुयोगद्वारे वसतिप्रदेशविषयकनयवर्णनावसरे शब्दसमभिरूढैवम्भूतानां गणनैकरूपेण कृता । १ एतदुल्लेखसमर्थनाय कतिपयान्यवतरणादीनि दीयन्ते यथाहि ( अ ) " " अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव संवरनिज्जर किरिया हिगरणबंधप्पमोक्खकुसला " इत्यादि श्रावकज्ञानसमृद्धिवर्णनं भगवत्याम् । ( आ ) उत्तराध्ययन सूत्रे मोक्षमार्गगतिसञ्ज्ञकेऽध्ययने निम्मलिखिता गाथा--- " जीवाजीवा य बंधो य, पुण्णं पावासवो तदा । संवरो निज्जरा मोक्खो, संते ए सहिया नव ॥ १४ ॥ " (इ) वाचकवर्यप्रणीतायां प्रशमरतौ १९० तमपद्यादारभ्य २२१तमपर्यन्तानि पद्यानि । (ई) श्रीदेवेन्द्रसूरिविनिर्मितधर्मरत्नप्रकरणवृत्त्युद्धृता १०७ गाथाः । २ " अस्यां प्रज्ञापनायां षत्रिंशत् पदानि तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरम परिणामसञ्ज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना । प्रयोगपदे क्रियापदे चाश्रवस्य कायवाङ्मनः कर्म योग आश्रव' इति वचनात् । कर्मप्रकृतिपदे बन्धस्य प्ररूपणा । समुद्रातपदे केवलिसमुद्धात प्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणाम् शेषेषु तु स्थानादिषु पदेषु क्वचित् कस्यचित् " इति प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरयः । " ३ इदमनुसृत्य कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभिस्त्रिषष्टिशलाकापुरुषचरिते श्रीदेवानन्दसूरिभिः समयसारे, न्यायतीर्थन्यायविशारदोपाध्यायश्री मङ्गल विजय जैनतत्त्वप्रदीपे च तत्त्वसप्तकविरचनाऽकारीति प्रतिभाति। ४ सज्ञाऽभिनवत्वे समीक्ष्यतां पञ्चमे सूत्रे निक्षेपस्थाने न्यासपदप्रयोगः । ४ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ २६ प्रस्तावना (३) श्राद्धानां गुणवतशिक्षात्रतानां यो क्रमोऽस्मिन् ग्रन्थे (७-१६) समादृतः स श्वेताम्बरपरम्परायां न नयनगोचरतां गतः। अत्रेदं ध्येयं यदुत व्रतग्रहणे क्रमस्य गौणत्वम् , न त्वमुकक्रमेण तद्ब्रहणस्य प्रतिपादनं कुत्रचिद् विद्यते । (४) अष्टमेऽध्याये षविंशे सूत्रे पापपुण्यप्रकृतिविभागप्रदर्शनावसरे पुरुषवेद-हास्यरति-सम्यक्त्वमोहनीयेति प्रकृतिचतुष्कं पुण्यरूपेण व्यावर्णितम् । कर्मप्रकृतिप्रमुखकर्मग्रन्थादिषु नवतत्वविषयकेषु विविधेषु च ग्रन्थेषु द्विचत्वारिंशत् पुण्यप्रकृतयः प्रदर्शितास्तत्र न एतच्चतुष्कस्य समावेशः कृतः। एतद्विरोधपरिहारकरणे टीकाकारा नालमिति स्वयं कथयन्ति द्वितीये विभागे १७८तमे पृष्ठे । एषा मान्यताऽऽसीदन्येपामिति तु निर्दिष्टं तैः १७९तमे पृष्ठे । अनुकूलतया यद् वेद्यते-अनुभूयते तत् पुण्यम् , प्रतिकूलतया तु यद् वेद्यते तत् पापमितिकथनपूर्वकं कस्मिंश्चिन्मासिके आगमानुरागीत्युपनामधारिणा केनापि भाष्यगतव्याख्यायाः सङ्गतिः साधितेति मां स्फुरति। (५) नवमेऽध्याये द्वाविंशे सूत्रे प्रायश्चित्तस्य नवविधत्वं निरदेशि । उत्तराध्ययना. दिषु तु तस्य दशविधता प्रोक्ताऽस्ति । परन्त्वेतदभिप्रायभिन्नतयोः समाधानं टीकाकारैः समसूचि २५३तमे पृष्ठे इत्यानन्दस्य प्रसङ्गः।। - छेदमूलप्रायश्चित्तयोरैक्यं कथञ्चित् साधयितुं शक्यते । यतः साधुपर्यायस्यांशतश्छेदनं छेदः, सर्वथा छेदनं मूलम् । एवं छेदविवक्षया मूलस्यापि छेदेति सञ्ज्ञा स्यात् । अनवस्थाप्यप्रायश्चित्तेऽमुकं कालं पर्यन्तं महाव्रतारोपणं न विधीयते इति निष्कर्षः, परिहारेऽप्येवम्। उपस्थापनशब्देन स्थितिकरणात्मकोऽर्थो ध्वन्यते । प्रायश्चित्तस्य चिरकालेन पारं गत्वा स्थेयमित्यर्थात्मकः पाराञ्चिकः । अनेनोपस्थापनेऽनवस्थाप्यपाराश्चिकयोरन्तर्भावः । अपरश्च पाराश्चिकस्य प्रायश्चित्तस्य सद्भावश्चतुर्दशपूर्वधरानाश्रित्य । तेषामनुपलब्धौ एतदनुल्लेखोऽपि समीचीन इति केचित् । १सर्वार्थसिद्धौ वार्तिकद्वयेऽपि सूत्रपाठभेदः समस्ति । २ नवतत्त्वप्रतिपादनपरिष्कृतानां कतिपयानां ग्रन्थानां नामानि सूच्यन्ते, यथाहि(अ) श्रीदेवगुप्तसूरिसूत्रितं नवतस्वप्रकरणम् । श्रीअभयदेवसूरिसन्हब्धेन भाष्येण विभूषितम् । (आ) श्रीजयशेखरसूरिविरचितं नवतत्त्वप्रकरणम् । (इ) चिरन्तनाचार्यकृतावचूरि-श्रीसाधुरत्नप्रणीतावचूर्णि-श्रीदेवेन्द्रसूरिनिर्मितवृत्ति-गृहन्नवतत्त्वप्रक्षिप्तगाथातदवचूर्णिविभूषितं नवतत्त्वप्रकरणम् । ( ई ) श्रीभाग्यविजयादिकृतनवतत्त्वस्तवनादिगूर्जरगीर्गुम्फितो ग्रन्थसङ्ग्रहः। एतत्पृथइनामनिर्देशार्थ विलोक्यतां श्रीजैनग्रन्थप्रकाशकसभाद्वारा प्रसिद्धिं नीतस्य नवतत्वविस्तरार्थस्य विषयानक्रमणिकायात्रयोदशं प्रा ३ त्रिंशत्तमेऽध्ययने एकत्रिंशत्तमायां गाथायाम् । For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना (६) भगवती-ज्ञाताधर्म-स्थानाङ्गादिषु सुप्रसिद्धेष्वागमेषु लोकान्तिका नवविधाः प्रज्ञप्ताः, तत्त्वार्थे त्वष्टविधाः । अत्र समाधानमिदम्-लोकस्यान्ते भवा-ब्रह्मलोकपर्यन्तवासिनो लोकान्तिका इति लोकान्तिकशब्दस्य व्युत्पत्तिमनुलक्ष्य सूत्रं निरमायि सूत्रकारैः। अथ भाष्यगतपाठानां परामर्शः क्रियते । तथाहि(१)१-८ भाष्ये सम्यग्दर्शनसम्यग्दृष्टयोरर्थान्तरता प्रकटीकृता । (२)२-१७ भाष्ये उपकरणेन्द्रियस्य द्वैविध्यं निर्दिष्टम् । एतदुद्दिश्य प्रोक्तं टीकाकारैः "आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति ।" (३) षण्णवतेरन्तरद्वीपानां निर्देशो नास्त्यधुनोपलभ्यमाने भाष्ये, किन्तु तथाविध आसीदित्यवगम्यते टीकाकारवचनात् (पृ. २६७ )। इदं स्मरणीयं यदेतागुल्लेखे दिगम्बगणां सम्मतिः, श्वेताम्बराणां तु विमतिः । अनेनानुमीयते यदुत केनापि तादृक् वर्णनं श्रीसिद्धसेनगणिवरेभ्यः प्राक्काले तत्समये वा भाष्ये प्रक्षिप्तम् , तदनन्तरं केनचित् तद् भाष्यान्निरस्तं तत्स्थाने च श्वेताम्बरसम्प्रदायानुसारि निदर्शनं पुनः कृतम् । अथवा शुद्धं भाष्यमुपलब्धम् । (४) ८-३२ भाष्ये द्वितीयसंहननस्य सज्ञाऽर्धवज्रर्षभनाराचमिति, परन्तु नान्यत्र तथाविधमभिधानं समवलोक्यते । (५) पर्याप्तीनां सुप्रसिद्धषट्रसङ्ख्यास्थाने पश्चेत्युल्लेखः, किन्तु इदं न विस्मरणीयं यद् राजप्रश्नीयसूत्रे ९८तमे पत्रे भाषामनसोरैक्यं मत्वा पञ्चानां निर्देशः समस्ति ।' (६) दशविधयतिधर्मवर्णनप्रसङ्गे भिक्षोदशप्रतिमाप्ररूपणेऽष्टमी सप्तरात्रिकी नवमी चतुर्दशरात्रिकी दशमी त्वेकविंशतिरात्रिकीति प्रतिपादितम्, किन्तु न चेयं पद्धतिरागमानुसारिणी। (७) निर्ग्रन्थनिरूपणे पुलाकबकुशादीनां यत् श्रुतं निर्दिष्टं तच्चागमविसंवादि। दिगम्बरग्रन्थेषु तु तथाविधो निर्देशः समस्ति । . एवं कचित् श्वेताम्बरीयागमेभ्यः पृथग्रूपा, कुत्रचिद् सम्प्रदायद्वयान्यतरा कर्हिचिद् दिगम्बरामतानुसारिणी च प्ररूपणा श्वेताम्बरमान्ये मूलग्रन्थे भाष्ये च वर्तते । १ तच यथा"एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन पण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते।" 'भाष्येषु' इति प्रयोगेण भाष्यस्य विविधा हस्तलिखिताः प्रतयः सम्भवेयुरथवा 'टीकासु' इत्यर्थकोऽयं प्रयोगः स्यात् । २ स चायम् "देवे अहणोववण्णमित्तए चेव समाणे पंचविहाए पजनीए पजत्ती भावं गच्छइ......." ३ विलोक्यतां मदीयाऽऽर्हतदर्शनदीपिकाभिधा कृतिः (पृ. १०३४-१०३५)। For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ २८ प्रस्तावना सूत्रभाष्यपाठमीमांसा तत्त्वार्थाधिगमसूत्रभाष्यगतानां कतिपयानां पाठानां शाब्दिकार्थिकसादृश्यमजैनग्रन्थेष्वपि दरीदृश्यते । तत्र महर्षिश्रीपतञ्जलिप्रणीते योगदर्शने श्री व्यासपिविरचिते भाष्ये च शब्द-विषय-प्रक्रिया-सम्बन्धिनी समानता तु यथातत्त्वार्थ योग० (१) भवप्रत्ययो नारकदेवानाम् । (१) भवप्रत्ययो विदेहप्रकृतिलयानाम् । (१-२२) (१-१६) (२) शेषा मनुष्यास्तिर्यग्योनिजाः सोप- (२) आयुर्विपाक कर्म द्विविधम्-सोपक्रम क्रमा निरुपक्रमाश्चापवायुषोऽनपवायुषश्च निरुपक्रमं च । तत्र यथाऽऽर्द्रवस्त्रं वितानीतं भवन्ति ।........ . लघीयसा कालेन शुष्येत् तथा सोपक्रमम् । यथाहि संहतस्य शुष्कस्यापि तृणराशे- यथा च तदेव सपिण्डं चिरेण संशुष्येद रवयवशः क्रमेण दह्यमानस्य चिरेण दाहो एवं निरुपक्रमम् । यथा वानिः शुष्के कक्षे भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो मुक्तो वातेन वा समन्ततो युक्तः क्षेपीयसा युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थस्या- | कालेन दहेत् तथा सोपक्रमम् । यथा वा स शु दाहो भवति तद्वत् ॥ यथा वा सङ्घयाना- एवानिस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्विरेण चार्यः करणलाघवार्थ गुणकारभागहाराभ्यां दहेत तथा निरुपक्रमम् । (३-२२ भा०) राशिं छेदादेवापवर्तयति, न च सङ्खयेयस्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखार्तः कर्मप्रत्ययमनाभोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति ॥ किञ्चान्यव-यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति, स एव च वितानितः सूर्यरश्मिवायुभिर्हतः क्षिप्रं शोषमुपयाति । (२-५२ भा०) (३) सम्यग्दर्शनज्ञानचारित्राणि मोक्ष- (३) विवेकख्यातिरविप्लवा हानोपायः । मार्गः। (१-१) | (२-२६) (४) कायवाङ्मनःकर्म योगः। (६-१), (४) क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मस आस्रवः । (६-२) वेदनीयः । (२-१२) १-२ एते द्वे दृष्टान्ते वर्तेते आवश्यकनियुक्तौ ( गा० ९५६ ) विशेषावश्यके (गा० ३०६१ ) च। For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना तत्त्वार्थ - योग (५) शुभः पुण्यस्य । (६-३) अशुभः (५) ते हादपरितापफलाः पुण्यापुण्यपापस्य । (६-४) | हेतुत्वात् । (२-१४) .. (६) सकषायाकषाययोः साम्परायिके (६) (२-१२ )। सति मूले तद्विपाको र्यापथयोः । (६-५) | जात्यायु गाः। (२-१३) (७) हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विर- (७) अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा तिव्रतम् । (७-१) यमाः । (२-३०) (८) हिंसादिष्विहामुत्र चापायावद्यदर्श- | (८) वितर्कबाधने प्रतिपक्षभावनम् । नम् । (७-४) (२-३३) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानन्तफला इति प्रतिपक्षभावनम् । (२-३४) (९) दुःखमेव वा । (७-५) (९) दुःखमेव सर्व विवेकिनः । (२-१५) (१०) मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि स- (१०) मैत्री करुणामुदितोपेक्षाणां सुखस्वगुणाधिकक्लिश्यमानाविनेयेषु । (७-६) | दुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसाद नम् । (१-३३). (११) मिथ्यादर्शनाविरतिप्रमादकषाय- (११) प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। योगा बन्धहेतवः । (८-१) | (१-६) अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । (२-३) (१२) सकषायत्वाज्जीवः कर्मणो योग्यान् (१२ ) द्रष्टृदृश्ययोः संयोगो हेयहेतुः । पुद्गलानादत्ते । (८-२) स बन्धः। (८-३) (२-१७) (१३) आस्रवनिरोधः संवरः । (९-१) (१३ ) योगश्चित्तवृत्तिनिरोधः । (१-२) . (१४) स गुप्तिसमितिधर्मानुप्रेक्षापरीषह- (१४ ) अभ्यासवैराग्याभ्यां तनिरोधः । जयचारित्रैः। (९-२) तपसा निर्जरा च । (१-१२ ) यमनियमासनप्राणायामप्रत्याहार(९-३) | धारणाध्यानसमाधयोऽष्टावङ्गानि (२-२९) (१५) पृथकत्वैकत्ववितर्कसूक्ष्मक्रियाप्रति- (१५) वितर्कविचारानन्दास्मितारूपापातिव्युपरतक्रियाऽनिवृत्तीनि। (९-४२)। नुगमात् सम्प्रज्ञातः । (१-१७) तत्र शब्दार्थतत् त्र्येककाययोगायोगानाम् । (९-४३) ज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । एकाश्रये सवितर्के पूर्वे । (९-४४) वितर्कः (१-४२) स्मृतिपरिशुद्धो स्वरूपशून्येवार्थ १ एतत्स्थाने जैनदर्शने ‘अनुमत 'शब्दस्य प्रयोगः । प्रेक्ष्यता तत्त्वार्थसूत्रम् (६-९)। For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ प्रस्तावना तत्त्वार्थ योग श्रुतम् । (९-४५) विचारोऽर्थव्यञ्जनयोग- मात्रनिर्भासा निर्वितर्का । (१-४३) एतसङ्क्रान्तिः । (९-४६)। | यैव सविचारा निर्विचारा च सूक्ष्मविपया व्याख्याता । (१-४४) (१६) मोहक्षयाज्ज्ञानदर्शनावरणान्तराय- (१६) तारकं सर्वविषयं सर्वथाविषयमक्रम क्षयाच केवलम् । (१०-१) चेति विवेकजं ज्ञानम् । (३-५४) । (१७) (९-३) कृत्स्नकर्मक्षयो मोक्षः। (१७) तद्भावात् संयोगाभावो हानं तद् (१०-३) दृशेः कैवल्यम् । (२-२५) . तत्वार्थसूत्रे (६-११) 'ज्ञानावरण 'प्रयोगः, योगदर्शने (२-५२, ३-४३) 'प्रकाशावरण 'प्रयोगः। तत्त्वार्थे( ८-१२)भाष्ये 'वज्रर्षभनाराचसंहनन 'प्रयोगः, योगदर्शने (३-४६) 'वज्रसंहनन'प्रयोगः । तत्त्वार्थे (६-१४) 'केवलि 'शब्दः, योगदर्शन(२-२७)भाष्येऽप्ययं शब्दः । योगदर्शने (२-४ ) अविद्यायाः प्रधानता, यथा जैनदर्शने मिथ्यात्वस्य । योगदर्शने (२-२४) अनादिसंयोगस्याधीनतारूपेणाविद्याया उल्लेखः, यथा जैनदर्शने अनादिबन्धस्याधारो मिथ्यादर्शनम् । योगदर्शने (२-३९, ३-१६) संयमजनितविभूतीनां दिग्दर्शनम् एवं तत्त्वार्थेऽपि । वाचकसमयपरामर्श: प्रणीतप्रवचनोन्नतिहेतुप्रशमरति तत्त्वार्थाधिगम-पूजाप्रकरणाद्यनेकमहाशास्त्राणां पूर्वगतवेदिनां श्रीउमास्वातिवाचकवर्याणां सत्तासमयनिर्णयात्मकानि साधनानि स्वल्पानि प्राप्यन्ते । भाष्यान्तगतप्रशस्तौ तेषां तदीक्षागुरुप्रगुर्वादीनां वा समयनिर्देशो नास्ति । उच्चै गरशाखोल्लेखस्तु वर्तते किन्तु किमियं कल्पसूत्रस्थविरावलीनिर्दिष्टोऽय॑शान्तिश्रेणिकनिर्गता चास्ति न वेति शङ्कास्पदम् । एवं परिस्थित्यां सर्वार्थसिद्धर्भाष्यस्य प्राचीनतेति निर्णयः कञ्चन प्रकाशं जनयति । अनेन वैक्रमीयपश्चगीपष्ठीशताब्दीतो वाचकवर्या नार्वाचीना इति फलति । समयनिर्णये विविधानि मतान्तराण्यवतरणानि च सहायकारीणि, परन्तु तत्तत्कर्तृविषयकं ज्ञानमपि न यथास्थितमिति निरुपाया वयम् । १ समीक्ष्यतां यदुक्तं शौचप्रकरणमाश्रित्य तत्त्वार्थटीकाया द्वितीये विभागे ७७तमे पृष्ठे । २ प्रेक्ष्यतां चन्द्रकुलाम्बरनिशाकरश्रीशान्तिसूरिसङ्कलिते स्वोपज्ञवृत्तिविभूषिते च धर्मरत्नप्रकरणे ६६तमं पत्रम्। ३ एतेषां सत्तासमयो वीरनिर्वाणात् ४७१ वर्षप्रायः । ४ एतदर्थ विलोक्यन्तां ४४, ५१, ७५, १०९, १६२ इत्याद्यात्मकानि पृष्ठानि प्रथमस्य विभागस्य । ५ एतत्स्थलानि ४४, ११०, १६२ इत्याद्यङ्कितानि पृष्टानि । अत्र पाणिनिप्रणीतव्याकरणगते अवतरणे पूर्वस्य शब्दप्राभृताभिधग्रन्थगते इत्यनुमीयते तत्त्वाथेटीकायाः ५०तमपृष्ठावलोकनेन । ६ अनेन ( अ. ३, सू. १) भाष्यगतः खण्डनात्मक उल्लेखोऽनुवीचि ( भा० ७,३ )-पेडा ( भा० १०,६)देशीशब्दप्रयोगोऽपि ज्ञेयौ। For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीसिद्धसेनगणीनां समय: श्रीसिद्धसेनगणीनां परिचये स्वनिर्मिततत्त्वार्थटीकाप्रशस्तिः साधनम् । परन्तु तत्र तेषां तद्गुर्वादीनां वा समयनिर्देशात्मक उल्लेखो न विद्यते । एवं सति टीकानिरूपणेनैव तेषां समयस्य निर्णयः कथञ्चित् भवेत् । तत्र निर्दिष्टग्रन्थावतरणादीनां मूलस्थलानामवगमने मार्गः सरलः स्यात् । एभिर्वसुबन्धु-धर्मकीर्त्यादिविदुपां नामधेयान्युल्लिखितानि । धर्मकीर्तेः समयः सप्तमा शताब्दी। अनेनेदं स्फुटं भवति यदुतैते नैतेषां पूर्वगामिनः । यद्यपि हिमवन्तपट्टावल्याद्याधारण श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इत्यवगम्यते तथापि पण्डितसुखलालाभिप्रायो यदि स्वीक्रियते तर्हि श्रीआचाराङ्गटीकायां तत्प्रणेतृभिः श्रीशीलाङ्कसरिभिः कृताभ्यामुल्लेखाभ्यामेतेषां सत्ता नवमशताब्दीतो पूर्विकेत्यनुमीयते। सङ्ख्यावन्त इतिहासज्ञा निर्णय करिष्यन्तीति तेभ्यः प्रार्थयामि सहृदयसाक्षरकृपाकाङ्क्षी हीरालालः। १-३ ग्रन्थसूचीविशिष्टनरनगरादिसूचिरवतरणानामकाराद्यनुक्रमश्च मया रच्यमाना वर्तन्ते, परन्तु प्रकाशनविलम्बनसहनाक्षमेण प्रकाशकेनात्र तन्मुद्रापणं दुःशकं भाति । ४ तर्करहस्यदीपिकायाः ८१तमे पत्रेऽयमुल्लेख: . “ यथोक्तं श्रीगन्धहस्तिना महातर्के-द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिभ्या।" 'तदुक्तं च प्रवचने ' इत्युल्लेखपुरस्सरेयं पतिरवतरणरूपेणावतारिता श्रीदेवगुप्तसूरिभिस्तत्त्वार्थटीकायां द्वितीये पृष्ठे । यदीयं सन्दब्धा पण्डितसुखलालमतानुसारेण श्रीगन्धहस्तिभ्योऽभित्रैः श्रीसिद्धसेनगणिभिस्तर्हि श्रीदेवगुप्तसूरयः एतत्पूर्वानुगामिनो नेत्यनुमीयते। इयं पतिः श्रीसिद्धसेनगणिगुम्फिततत्त्वार्थटीकायां न दृश्यते मया । कदाचित् सत्यामपि श्रीगन्धहस्तीति नामपूर्वकाणां विविधानां निर्देशानामत्र सर्वाङ्गीणसादृश्याभावेन श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इति मे मतिः । अपरश्च सम्बन्धकारिकाटीकाप्रारम्भगतेन तृतीयेन पद्येनानुमीयते यदुतैतट्टीकाया विस्तृततरा अपि कतिपया विकृतय आसन् । तासु विशालतमकाया विवृतिः श्रीगन्धहस्तिप्रणीता स्यादिति मा भाति । निर्णयात्मकनिर्देशकरणे तु विशेषज्ञा अलम् । For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र-लालभाइ-जैनपुस्तकोद्धारग्रन्थाङ्केवाचकवर्यश्रीउमास्वातिसंहब्धस्य स्वोपज्ञभाष्ययुतस्य तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतायां व्याख्याया ॥द्वितीयो विभागः॥ -PER अथ षष्ठोऽध्यायः ६ भा०-अत्राह-उक्ता जीवाजीवाः । अथास्रवः क इत्याअध्याय-सम्बन्धः । बन्या स्वप्रसिद्धयर्थमिदं प्रेक्रम्यते ॥ री०-अत्राह-उक्ता जीवाजीवा इति सम्बन्धः । अत्र-एतस्मिन् जीवाजीवादिपदार्थसप्तके प्रकृते जीवाश्चाजीवाश्च द्रव्यतः पर्यायतश्च स्थित्युत्पत्तिप्रलयस्वभावा ब्याख्याताः। अथ तयोरनन्तरोद्दिष्ट आस्रवः क इति, प्रश्नपरिसमाप्तौ इतिशब्दः । क आस्रव इत्येव मन्यते प्रष्टा । वस्तुतश्चेतनाचेतनलक्षणजीवाजीवपदार्थद्वयसद्भाव एव । आस्रवस्तु यदि जीवोऽथापि जीवपर्यायः सर्वथा जीव एवास्तु । अथाजीवस्तत्पर्यायो वा तथा सति अजीव एव । नापि चेतनाचेतनव्यतिरेकि पदार्थान्तरमस्तीति, अतः स्वरूपं पृच्छतिकोऽयमास्रव इति । आचार्यस्तुभयविशिष्टमास्रवं चेतसि निधायाहात्र-आस्रवप्रसिद्धयर्थमिदं प्रक्रियते ॥ अत्र जीवादिपदार्थसप्तके जीवाजीवावमिधाय लक्षणविधानाभ्यो प्रेधानाधिकारिका(१)भ्यामास्रवप्रसाधनार्थमिदं प्रस्तूयते । अथवा अत्रेत्यध्यायाभिसम्बन्धः । अत्र-अध्याये आस्रवो विचार्यते--स्वरूपेणाख्यायत इत्ययमभिप्रायः सूरेः । आस्रवःक्रियाविशेषः । स चात्मकायाद्याश्रयो न जीवोन जीवपर्यायः केवलः, न वाऽजीवो नापि तत्य यिः, उभयाश्रयत्वात् । न च पदार्थान्तरं जीवाजीवाभ्यामतो भेदेनास्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते सूत्रम्-कायवामनकर्म योगः ॥६-१॥ टी.-ननु चायमसङ्गतार्थः सम्बन्धोऽन्यस्मिन् प्रस्तुतेऽन्यस्य व्याख्येयत्वेनोपन्या साद,आस्रवसम्बन्धमभिधाय योगःसूत्रेणोपन्यस्त इति । उच्यते. आस्रवः योगशम्दे हेतुः प्रतिज्ञातः, स एव च व्याख्यायते, किन्तु तब्याख्यानपरिकरार्थ योगो. पन्यासस्तन्मूलत्वादास्रवस्येति । अथवा पश्चमाध्यायपर्यन्ते सूत्रेऽमिहितं-योगस्तु परस्ताद वक्ष्यते । स चायं योगः कायादिभेदः, तत्प्रणाडिकयैवास्रवस्वरूपनिख १ प्रक्रियते' इति घन्टी. पाठः । २ 'प्राधान्याधि' इति ग-पाठः । ३ 'परिपाकार्थ' इति ग-पाठः । For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ पणमिति । एतदुक्तं भवति-आस्तां तावदर्थव्याख्याऽसौ सान्यारिकी, इदमेवाभिधानमनिर्धारितार्थ न प्रतिपत्तुमुत्सहामहे योग इति । किंस्वरूपो योगः १ कतिप्रकारो वेत्याह—कायवा. मनःकमें योग इति । कृतद्वन्द्वानां कायादीनामात्मनः करणानामभेदवृत्तीनां कर्मपदेन सह षष्ठीसमासः । कर्म व्यापारः क्रिया चेष्टेत्यनान्तरम् । एतत् कर्म योगस्यार्थः कायादिसम्बन्धि यथासम्भवं योग उच्यते, वीर्यान्तरायक्षयोपशमज नितेन पर्यायेणात्मनः सम्बन्धो योगः । स च वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्यः । अथवा युनत्तयेनं जीवो वीर्यान्तरायक्षयोपशमजनितं पर्यायमिति योगः। स च कायादिभेदात् त्रिविधः । साधकंगमनादिभाषणचिन्तास्वात्मनः । तत्र कायः-शरीरं आत्मनो वा निवासः पुद्गलद्रव्यघटितः स्थविरस्य दुर्बलस्य वाऽध्वालम्बनयष्टिकादिवद विषमेधूपग्राहकस्तद्योगाजीवस्य वीयपरिणामः-शक्तिः-सामथ्ये काययोगः, यथाऽ. मिसम्पकोद् घटस्य रक्ततापरिणामः तथाऽऽत्मनः कायकरणसम्बन्धाद वीर्यपरिणतिः, तथाऽऽस्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्यमाना वाकृतकरणतामापद्यन्ते । अनेन च वाकरणेन सम्बन्धादात्मनो यद् वीर्यसमुत्थानं भाषकशक्तिः स वाग्योगः सत्यादिभेदाचतुर्विधः । पुद्गलाश्च वस्तुतो न सत्यादिभेदभाजः, किन्तु ज्ञानमेव सत्यादिभेदमुच्यते तब्यवहारो वा, तथापि तदलाधानसाधकतमत्वाद् वागपि सत्यादिभेदेनोपचर्यते । तथाऽऽत्मना शरीरवता सर्वप्रदेशैहीता मनोवर्गणायोग्यस्कन्धाः शुभादिमननार्थ करणभावमालम्बन्ते, तत्सम्बन्धाचास्मनः पराक्रमविशेषो योगः सत्यादि विकल्पाचेतुधैव । अत्रापि मनोवर्गणायोग्यस्कन्धा न सत्यादिव्यपदेश्याः परमार्थतः, किन्तु नोइन्द्रियावरणक्षयोपशमसमुद्भतमनोविज्ञानपरिणतावात्मनो बलाधानकारित्वादात्मसहचरितत्वादुपचारतः सत्यादिव्यपदेश इति । अमुमेवार्थ भाष्येण स्पष्टयति ___ मा०-कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष योगस्य त्रैविध्यम् निधो योगो भवति ॥ टी-कायिक कर्मेत्यादि भाष्यम् । एकैकस्य कायादेः कर्म भवति, नावश्य समुदितानामेवेत्यस्यार्थस्य प्रतिपादनार्थमभिसम्बनिन् भाष्यकारः प्रत्येकमपि कर्मशब्द कायिकं कर्म वाचिकं कर्म मानसं कर्मेत्याह । भवतु नाम कायकर्म केवलं भूदकतेजोमारुतवनस्पत्यादिषु, वाकर्म मनःकर्म वा कस्मिन्नेकस्मिन् दृष्टमिति, न बूमो यथा कायकर्मेतरद्वयनिरपेक्षं तथा वाकापीतरद्वयानपेक्षं मनःकर्म वा, किं तर्हिी कायव्यापाराभावेऽपि का 'कस्वाद गम०' इति ग-पाठः । २ 'स्वात्मः' इति ग-पाठः । ३ 'तेन च' इति पाठः । ४ 'सम्बन्धस्वादास्मन' इति पाठः । ५ 'चतुर्विधैव' इति ग-पाठः । ६ ककं दृष्ट' इति ख-पाठः । ७ तद्भय' इति ग-पाठः। .. For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ व्याख्या सूत्र १) ... स्वोपक्षमाप्य टीकालङ्कृतम् यस्तो वाग्व्यापारो दृष्टोप्रणिहितचेतसः, तथा कायवाग्व्यापाराभावेऽपि कदाचिन्मनोव्यापार एव केवलो दृष्टः कचित्, अतः समुदिताः कायादय-आत्माधिष्ठिता एककाच क्रियाहेतवः। तत्र कायप्रयोजनं कायिकं, कायेन वा निवृत्तं, तत्र वा भवं, एवं वाचिकमानसे अपि वाच्ये । इतिशब्दः कर्मेयत्ताप्रतिपादनार्थः । एतावत् कर्मात्मनः कर्तुः शरीरैकत्वपरिणामादमिनं करणं भवति, वीर्ये निव] अन्योन्यानुगतिपरिणामाद् द्रव्यरूपाः कायादियोगा भावयोगं वीर्य निवर्तयन्ति । यथा कर्तुः शरीरस्य आगमने निर्वयेऽप्यादौ कारणममिनमेकत्वादेवमेते अपीति। अत एष एव शरीरात्मप्रदेशपिण्डः प्रतिविशिष्टक्रियाकारित्वव्यवच्छिन्नस्त्रिविधो योगो भवति । तिस्रो विधा यस्यासौ त्रिविधः । तदेव प्रतिविशिष्टक्रियाकारित्वमुपसूचयतित्रिविधयोगानां भा०-कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुःकाय' योगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः । मनो से योग्यपुद्गलात्मप्रेदशपरिणामो मनोयोगः ॥ टी०-त्रिविध इति मूलभेदकथनम्, उत्तरभेदास्तु पञ्चदश भवन्ति । तद्यथा - औदारिककायेन योगः औदारिककाययोगः औदारिककायावष्टम्भोसप्तविधत्तम पजातक्रियाभिसम्बन्ध औदारिककाययोगः, तियअनुष्याणामेव, केव लिसमुद्घातकाले च प्रथमाष्टमसमययोरिष्टः, स एव कार्मणसहचरित औदारिकमिश्रकाययोगः, केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु समस्ति । औदारिकादिशरीराणां च द्वितीयाध्याये ( सू० ३७-४९) स्वरूपमभिहितम् । औदारिककार्मणशरीरद्रव्यमिश्रुत्वात् मिश्रव्यपदेशः । यथा गुडमिश्रमन्नं न तु गुड इति व्यपदिश्यते अकेवलत्वाद,असम्पूर्णत्वादेवौदारिकयोगः सम्पूर्णोऽन्यव्यतिमिश्रत्वादौदारिकमिश्रकाययोगः। औदारिकस्य च प्राधान्यात् तेन निर्देशो विहितः । विविधक्रियाकारणो वैक्रियकायस्तेन योगः। स च नारकदेवानां तिर्यग्मनुष्याणां च विभूतिप्राप्तानाम्, एषामेव चौदारिकेण सह ग्रहणकाले वैक्रियमिश्रकाययोगः । पूर्ववन्मिश्रशब्दार्थः सर्वत्र । प्रयोजनार्थमाहियत इत्याहारकः काययोगः । स च साधोरेवर्द्धिप्राप्तस्य, स एवौदारिकेण सहाहारकमिश्रकाययोगो ग्रहणकाले भवति । सर्वकर्मप्ररोहबीजं सांसारिकसुखदुःखभाजनं कर्मैव कार्मणशरीरं तेन योगः कार्मणकाययोगः । स च विग्रहेसमापत्तौ केवलिसमुद्घाते वा त्रिचतुर्थपञ्चमसमयेषु भवति। कर्मणि वा भवं कार्मणम् । न च कर्मकार्मणयोरैक्यम् । कार्मणस्य कर्मणा निष्पादितत्वात् , किन्तु कर्मकार्मणवर्गणानां सदृशत्वात् तथैव तस्य व्यपदेशः कार्मणमिति । तैजसशरीरमाहारपाचनसमर्थमवियुक्तं कार्मणयोगेनेति न भेदेनोपात्तं स्वातन्त्र्यस्वाभाव्यात् । एवं काययोगः सप्तविधः प्रदर्शितः ॥ चतुर्धा वाग्योगस्तत्र निश्चयव्यवहारो यथार्थः सत्यः पापाद विरतव्यमिति ‘निर्वतयन्ति ' इति क-ख-पाठः । २ 'ध्याणां केवलि.' इति ग-पाठः । ३ 'अन्न' इति क-ग-पाठः। ४ 'कारणार्थ ' इति ग-पाठः । ५. समापनः ' इति ग-पाठः । For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ यथा, तद्विपरीतोऽसत्यः पापं नाम नास्ति किश्चिन् । उभयलक्षणः सत्यानृतो यथा-इमा गावश्वरन्ति, पुंसामपि तत्र सम्भवादुभयलक्षणयोगात्। असत्यानृतो यथा—हे देवदत्त ! ग्राम गच्छेत्यादि । तथा मनोयोगोऽपि, वाचा विना न चिन्तयते (?) । एतान्येवार्थान्तराणि भावनीयानि सत्यादिभेदेन ॥ भा०--स एकशो द्विविधः । शुभश्चाशुभश्च ॥ प्रत्येकयोगस्य द्वैविध्यम् टी–स त्रिविधो योगः कायादिसंज्ञः एकशो द्विविधो भवति । ___एकश इति एकैकः कायादियोगाद् द्विभेदः प्रतिपत्तव्यः । को पुन: स्तौ भेदावित्याह-शुभश्चाशुभश्चेति । उपादानपरिहारार्थमुभयोरुपक्षेपः । अन्यतरोपक्षेपे अन्यतरो गम्येत वा न वा । उभयपरिज्ञाने तु सति परीक्षितगुणदोषोऽन्यतरमुपादास्यतेऽन्यतरं च परित्यक्ष्यतीति । तत्र काययोगः शुभश्चाशुभश्च, एवं वाग्योगो मनोयोगश्च । शुभंपुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुभः । शेषं पापमेव नारकादिजन्मफलं, संसारानुबन्धि तद्धेतुत्वादशुभः॥ भा०–तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः ॥ कायिकयोगस्य भेदाः .. टी.-तत्रेति तयोः शुभाशुभयोरशुभस्तावदाख्यायते । किं पुनः " प्रयोजनं क्रमोल्लङ्घने ? । अयमभिप्रायो भाष्यकृतः-प्रागशुभः कथ्यमानः संवेगमुत्पादयति, दुःखानुबन्धित्वात्, संविनश्च श्रोतजनः शुभेऽपि योगे संसारानुबन्धिनि न प्रवर्तिष्यते, संसारानुबन्धित्वादिति । तत्र हिंसास्तेयाब्रह्मादीनि कायिकः । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे"ति वक्ष्यते (अ०७, सू०८)। कायिकयोगः केवलोऽसंशिषु मह्यादिषु प्रसिद्धः सिद्धान्ते, मनोव्यापारवर्जितः प्राणिनां प्राणहन्ता योऽपि योगत्रयभाव प्राणी तस्याप्युपसर्जनीभूतमनोवाग्व्यापारस्य कायिकयोग एव हिंसकत्वेनोद्भूतशक्तित्वाद् विवक्षितः,अन्यत्र गतचित्तस्यान्यविषयां च वाचं भाषमाणस्य प्रमादिनः, तथा परोऽचिन्तितार्थेन वाग्योगेन हिनस्ति अन्यः पुनर्मनोव्यापारेणैव कायवाकक्रियानिरपेक्षः करोति हिंसाम् अपरः कायवाननोव्यापारवान् प्राणिनः पिनष्टीत्येवं तेषु यः केवलः कायव्यापारः स विवक्ष्यते । तथा परपरिगृहीतस्यानिसृष्टस्य चादानं तृणादेरपि स्तेयम् । तच वक्ष्यते लक्षणतः "अदत्तादानं स्तेयम्," (अ० ७,सू० १०) एतदपि प्रत्येकयोगवर्ति समुदायवर्ति च व्याख्याय केवलकायव्यापाररूपं ग्राह्यम् । अब्रह्मापि समुपजातवेदोदयस्य चेतनारेतनवस्तुविवरलिङ्गाकृतिविश्यमासेवनं स्वावयवनोदजनितं च स्पर्शसुखं, तच्च वक्ष्यते-"मेथुनमब्रह्म" (अ०७, मू०११), अत्रापि केवलकायव्यापारः सम्भवात् उपयुज्य वाच्यः, काङ्क्षामोहसद्भावात् । पृथिव्यादिष्वाहारभयमेथु १. चिन्ताविनायते ' इति ग-पाठः, ' चिन्ताविनयत' इति तु क-पाठः । २ ‘मह्यादिष्वसंशिषु' इति पादः । For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ स्त्रं १ स्वोपज्ञभाष्य-टीकालङ्कृतम् नपरिग्रहसंज्ञासम्भवान् । आदिशब्दाद् दहनच्छेदनालेखनहास्यधावनवल्गनलङ्घनावरोहणास्फोटनप्रभृतिकर्मविशेषाः कायिको योगः ॥ वाचिकयोगप्रदर्शनार्थमाह भा०–सावद्यानृतपरुषपिशुनादीनि वाचिकः ॥ वाचिकयोगस्य भेदाः टी०-सत्यमपि वचः सावयं वाचिकं कर्माशुभं यथा-हन्यन्तां - तस्कराः, व्यापाद्यन्तां हिंस्राः । अनृतमयथार्थमेव अचौरं चौरं [कार]माक्रोशयति । परुष-स्नेहरहितं यथा-घिर जाल्म ! मूर्खस्त्वं पापाचार इति । पिशुनं सत्यमपि प्रीतिशून्यतापादनादन्यस्य परोक्षस्य सतो दोपसूचकं वचः । अन्योक्तकार्येषु देवदत्तो यत इदं चेदं चानेनाकारीति । आदिशब्दादसत्यच्छलश(शाठ्य?)दम्भोल्लण्ठिकाकटुकसन्दिग्धमितविकथाश्रितः प्रवचनविरोधी वाचिकः सर्वः ॥ ___मनोयोगनिरूपणार्थमाहमानसिकयोगस्य भेदाः भा०-अभिध्याव्यापाऱ्यांसूयादीनि मानसः ॥ ___टी-सदा सत्त्वेष्वभिद्रोहानुध्यानं अभिध्या, यथा-अस्मिन् मृते सुखं वसामः । सापाय उत्पादनारम्भो व्यापादः, . यथा-अस्त्यस्याऽमित्रं शक्रपविहन्त तमेव प्रकोपयामीति । ईया परगुणविभवाद्यक्षमा, यथा-सुभगेयमस्मै रोचते तत् कथमियं द्वेष्यति । तथा प्रागयं द्रमकदाजीवोऽधुना तु धनदायते तत् कथमयं दरिद्रः स्यादिति । असूया क्रोधविशेष एव, यथा-राजपल्यभिरतोऽयं तथापि शुद्धवृत्तमात्मानं मन्यत इति । आदिग्रहणेनाभिमानहर्षशोकदैन्यमन्युमिथ्याभिसन्धिरागद्वेषपरपरिभवात्मविस्मयासहिष्णुतागातिरौद्रध्यानपरिग्रहः । ___ एवं तावदकुशलयोगनिर्धारणं कृतम् । अथ कुशलाः काययोगाः कीदृशा भवन्तीत्यत आह भा०--अतो विपरीतः शुभ इति ॥१॥ टी०-अतः अकुशलात् काययोगाद् वाग्योगान्मनोयोगाचाऽभिहितलक्षणाद् विपरीतः ___ कुशलः शुभा द्रष्टव्यः । तद्यथा--अहिंसा अस्तेयं ब्रह्मचर्यमित्यादीनि शुभयोगस्य भेदाः काययोगः शुभः । असावद्यादिवचनमागमविहितभाषणं च कुशलमित्य नेन द्वितीयव्रतपरिग्रहः । अनभिध्यादिधर्मशुक्लध्यानध्यायिता वेति मनोयोगः कुशलः, मूर्छालक्षणः परिग्रह इति मनोव्यापार एव । तथा निशि भक्तविरतिरित्येवमु १'अभ्युक' इति पाठः। २'मानसिकः' इति पाठः। ३ कुत्सित आजीवो यस्य स कदाजीवः। ४'रतोऽनेन' इति पादः। For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ पयुज्योत्तरगुणा अपि योगविभागेन वाच्याः । तदेतत् सूत्रं समस्तकुशलाकुशलचारि कृतमस्ति, शेषमकुशलम् अध्यात्मचिन्ताप्रधानाः समादिशतीति ॥ १॥ कायादियोगस्वरूपमभिधाय तत्त्वमूत्रप्रकृतमास्रवमिदानीमभिसम्बध्नाति–योऽयं योगशब्दाभिधेयः संसारिणः पुंसः क्रियाकलापः सूत्रम्--स आस्रवः ॥ ६-२॥ टी–स इति तच्छब्देन कायादियोगाभिसम्बन्धः, आस्रवन्ति तेन कर्माण्यात्मन इत्यास्रवः । पुंसि संज्ञायां घः प्रसिद्धः। स तत्प्रणालिकयाऽनेकप्रकारकर्मास्रवणादास्रवः । प्रयोगावेशाचार्टीकृतस्य पुंसो यथासम्भवं कषायादिक्रियापरिगतिभाजः कर्मसम्बन्धप्रसिद्धिः, कायादिव्यापाररूपेणापरिगतस्यात्मनः कर्मवन्धतत्कलोपभोगमोक्षाभावादवश्यमेवंविधपरिणामापत्तिमभ्युपैतीति, एनमेवार्थ भाष्येण दर्शयति भा०–स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति ॥ टी०–स एष इत्यादि । स इति प्रागुद्दिष्टस्य निर्देशः । एष इत्युपप्रदर्शने, यथा स एष धीमानिति अनैकान्तवादिनो (१) निर्जिताः,तिस्रो विधा यस्य सः, त्रिप्रकारोऽपि कायवाङ्मनोयोगः । अपिशब्दः समुच्चये । एकैकोऽपि समुदायोऽपि, आस्रवः संज्ञा नाम अस्येत्यास्रवसंज्ञः। संज्ञाशब्दोपादानादन्वर्थसंज्ञाकथनम् । तदेवान्वर्थसंज्ञत्वं दर्शयति भा०-शुभाशुभयोः कर्मणोरास्रवणादास्रवः, सरसः सलिलावाहिनिर्वा हिस्रोतोवत्॥२॥ टी०-शुभाशुभयोरित्यादिना । शुभाशुभे-पुण्यापुण्ये कर्मणी पुद्गलात्मके च जो वक्ष्यमाणलक्षणे तयोः कर्मणोराज्ञेवणं-ग्रहणं तेन क्रियाविशेषेणो पादानात् स तादृशः क्रियाकलापः आस्रवः, तथापरिणामतो जीव: कर्मादत्ते, अन्यथा त्वभाव एव कर्मबन्धस्येति । स च द्रव्यभावभेदाद् द्विप्रकार आस्रवः । तत्र द्रव्यास्रवप्रदर्शनेन भावास्रवं प्रतिपादयन्नाह-सरसः सलिलावाहिनिर्वाहिस्रोतोवदिति । सलिलमावहति तच्छीलं सलिलावाहि, तथा सलिलं निर्वहतीति सलिलनिर्वाहि सलिलावाहिनिर्वाहिणी च ते स्रोतसी चेति सलिलावाहनिर्वाहिस्रोतसी ताभ्यां तुल्य आस्रवः सलिलावाहिनिर्वाहिस्रोतोवदास्रवः । स्रोतो-विवररन्धं कस्य सम्बन्धि ? सरसः-तडागस्य । किंप्रयोजनं तत् स्रोतः १ सलिलावाहि सलिलप्रवेशप्रयोजनम् , एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्व १ 'एसी' इति क-पाठः । २ 'क्षभावादतशपमेवं ' इति क-पाठः । ३ · रास्रवणादू प्रहणात् ' इति पाठः । For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ सूत्रे ३-४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् ७ दास्स्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे रेन्धं निर्गमे निर्झरणे कारणमा स्रवः, कर्माण्यास्रवन्त्यनेनात्मनोपयान्तीति भावनीयम् ॥ २ ॥ प्रथमे सूद्वधा योग व्याख्यातः - शुभश्वाशुभश्च । तत्र यः शुभः स किं सर्वस्याविशेपेण कर्मण आस्रव इष्यते आहोस्वित् कस्यचिदेव ? अशुभेऽप्येवं विकल्प इत्येवं सन्देहे सति विमति निराकरणार्थमिदमाह-न सर्वस्य कर्मणः शुभो योग आस्रवः । किं तर्हि ? सूत्रम् — शुभः पुण्यस्य ॥ ६-३ ॥ टी० - शुभपरिणामानुबन्धात् शुभो योगः । द्विचत्वारिंशद्भेदं कर्म पुण्यं वक्ष्यते तस्यैवास्रवः शुभो योगः पुण्यस्य, न जातुचित् पापस्यापीति, एतद् विषृणोति भाष्येण- शुभो योगः पुण्यस्यास्रवो भवति ॥ ३ ॥ ---- भा० टी० - प्राणातिपातादिनिवृत्त्यादयः सत्यादयोऽपरिग्रहता धर्मध्यानादयश्च शुभो योगः, स पुण्यस्यैवासवो न पापस्येत्यर्थान्निश्चितमिदमिति मन्यमानो भाष्यकारः ॥ ३ ॥ शुभः पुण्यस्यैवेत्युक्ते तत्प्रत्यनीकनिवृत्तिरैकान्तिकी दीपज्वलनवचसस्तमोऽपगमवा पृथक् प्रयत्नः सूत्रेण कार्य इत्यर्थलब्धव्याख्यानाभिप्रायेणाह - सूत्रम् - अशुभः पापस्य ॥ ६-४ ॥ टी० - प्राणातिपातादिलक्षणस्त्रिविधोऽप्यशुभः पापस्य व्यधिकाशीतिभेदस्यास्त्रवो भवति । उभयनियमश्चात्र न्याय्यः, शुभो योगः पुण्यस्यैवास्रवो भवति, न कदाचित् पापस्य, एवमशुभः पापस्यैव, न कदाचिच्छुभस्यास्रवः । शुभः पुण्यस्यैवेति च पापनिवृत्तिराख्यायते, न तु निर्जराहेतुत्वनिषेधः । स हि पुण्यस्य निर्जरायाश्च कारणं शुभो योगः || भा०-तत्र सद्वेद्यादि पुण्यं वक्ष्यते । शेषं पापमिति ॥ ४ ॥ 0 टी. - तत्रेति तयोः पुण्यापुण्ययोः । पुण्यं तावत् सद्वेद्यादि वक्ष्यते ऽष्टमेऽध्याये (सू० २६) । सद्वेद्यमादिर्यस्य तत् सद्वेद्यादि । आदिग्रहणात् सम्यक्त्वहास्यर तिपुरुषवेदशुभायुर्नामगोग्रहणं तत् पुण्यमुदात्तगतिशरीर संस्थानसंहननाङ्गोपाङ्ग निर्वर्तनं, शक्तीष्ट स्पर्शरसरूपगन्धशब्दानुभवनिमित्तं विशिष्टकुलरूपलक्षणशील प्रतिभादेशकालपरिजनप्रियत्वापादकं सद्धर्मानुबन्धि, तस्य शुभयोग आस्रवो भवति, एवं पुण्यं कर्म विनिश्चित्य पापविनिश्चयायाह - शेषं पापमिति । उपयुक्तादन्यच्छेषम् । अष्टप्रकारे मूलकर्मणि द्विचत्वारिंशदुत्तरप्रकृतयः पुण्यम् । तद्यथा-सहेद्यं देवनरतिर्यगायूंषि उच्चैर्गोत्रं पञ्चेन्द्रिया जातिः मनुष्यगतिनाम मनुष्यगत्या - नुपूर्वी देवगतिः देवगत्यानुपूर्वी पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि प्रथमसंहननसंस्थाने शुभवर्णादिचतुष्कं अगुरुलघुनाम पराघातनाम उच्छ्रासनाम आतपनाम उद्योतनाम प्रशस्त विहायोग तित्र सबादरपर्याप्तप्रत्येक स्थिर शुभसुभगसुखरादेययशः १' बन्धे' इति ङ-पाठ । द्विचत्वारिंशत् पुण्यप्रकृतयः For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ द्वथशीतिः प तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ कीर्तिनिर्माणतीर्थकरनामानि । शेषा यशीतिः प्रकृतीनां पापमुच्यते। पञ्च ज्ञानावरणानि, नव . दर्शनावरणानि, असद्वेद्यं, पड्विंशतिधा मोहनीयं सम्यक्त्वसम्यग्मिथ्या महत्वप्रकृतिद्वयवर्जितम् । यस्मादनयोर्बन्धो नास्ति । मिथ्यात्वमेव ह्येकं बद्धं तथा परिणमते, नरकायुः नीचैर्गोत्रं पञ्चविधमन्तरायं, नरकगति नरकगत्यानुपूर्वी, चतस्रो जातयः संहननसंस्थानानि दश अप्रशस्तवर्णादिचतुष्कं उपघातनाम अप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनामानि । तदेवं शुभाशुभौ योगी पुण्यापुण्ययोरास्रवौ यथाक्रममेव भवतः, न व्यतिरेकेणेति निरूपितम् ॥ ४॥ आस्रवाधिकारमपेक्षमाणः प्रश्नयति-किमयमास्रवः संसारिणां समानफलारम्भहेतुर्भवत्याहोस्विदन्यस्यान्यादृशोऽन्यस्य वाऽन्यथेति । उच्यते-प्राणिनामानन्त्येऽपि उभयथाऽऽत्ममेदसामोद् भवत्यास्रवः॥ सूत्रम्-सकषायाकषाययोः साम्परायिकर्यापथयोः॥६-५॥ टी०-कषः-कर्म भवेत् तस्य आयो-लाभः-प्राप्तिः कषायः क्रोधादिभेदः कर्महेतु भवहेतुर्वा, सह कषायेण वर्तत इति सकषायः, अविद्यमानः कषायोऽसूत्रगतशब्दानां कषायः । इतरेतरयोगद्वन्द्वात् षष्ठीद्विवचनमनित्यत्वानियमस्य , आहि__व्युत्पत्तिः ताग्न्यादित्वाद् वा कामतः पूर्वनिपातः, बहुवक्तव्यत्वाद् वाऽभ्यर्हित त्वादुभयोरपि पूर्वनिपातः । सम्परेत्यसिन्नात्मेति सम्परायः-चातुगेतिकः संसारः । समित्ययं समन्ताद्भावे सङ्कीर्णादिवत् पराभृशार्थे सम्परायते च, स सम्परायः प्रयोजनमस्य कर्मणः साम्परायिक--संसारपरिभ्रमणहेतुः । ईरणमियो गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावरजङ्गमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्था-मार्गः प्रवेशो यस्य कर्मणस्तदीयोपथं, एवंविधगतिः उपादानं कर्मकषायस्य, गतिरत्रोपलक्षणमात्र, योगमात्रप्रत्ययत्वात्, गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः । अकषायो वीतरागः सरागश्च । तत्र वीतरागस्त्रिविधः-उपशान्तमोह एकः, क्षीणमोहकेवलिनौ च कात्स्येनोन्मूलितकर्मकदम्बको, सरागः पुनः संज्वलनकषायवानपि अविद्यमान उदयोऽकषाय एव, मन्दानुभावत्वमनुदराकन्यानिर्देशवद्, अतश्चोपपन्नमिदं "उच्चालियम्मि पाए, इरियासमियस्स संकमठाए । वावजेज कुलिंगी, मरेज जोगमासज्ज ॥१॥" -ओघनिर्युक्तौ गा० ७४७ १. वेत्वद रा.' इति ग-पाठः। २ छाया उचालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी मियते तं योगमासाद्य ॥ For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ मूत्रं ५ स्वोपज्ञभाष्य-टीकालङ्कृतम् "ने य तस्स तन्निमिनो बंधो सुहुमोवि देसितो समए ।"-ओघ० गा० ७४९ "सुद्धस्म उ संपत्ती अफला वुत्ता जिणवरेहिं । " तदेवं सकषायाकषाययोर्योगस्य यथाक्रमं साम्परायिकर्यापथयोः कर्मणोरास्रवो भवति । कर्मग्रहणमास्रवग्रहणं चानुवर्तते । एनमेवार्थ भाष्येण स्पष्टयति भा०–स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्प. आम्रवस्य वैविध्यम् रायिकर्यापथयोरास्रवो भवति, यथासङ्ख्यं यथासम्भवं च सकषायस्य योगः साम्परायिकस्य । अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥५॥ टी-स एष त्रिविधोऽपि योग इत्यादि । प्रकृतोपयोगाभिसम्बन्धार्थस्तच्छब्दः, एष इत्युपदर्शनार्थः । स एष योगः शुभाशुभभेदस्त्रिविधोऽपि-मनोवाकायलक्षणः । अपिशब्दाद् व्यस्तः समस्तो वा सकषायस्य कर्तुःसाम्परायिकस्य-संसारपरिभ्रान्तिकारणस्य कर्मण आस्रवो भवति । यथोक्तम्-“ पंढमे समए बद्धपुडा बितिए समए वेदिता ततिए समए निजिण्णा सेआले अकम्मं वावि भवति " (इति) पारमौर्षवचनात् त्रिसमयावस्थान एव वेदितव्यः । सकषायाकषाययोद्वयोरपि साम्परायिककर्मबन्धाशङ्कायामीर्यापथकर्मबन्धारेकायां च द्वयोरपीदमाह-यथासङ्ख्यमिति । यथाक्रमं सकपायस्य साम्परायिककर्मास्रवः । यथासम्भवमिति । यस्य यावान् योगः सम्भवत्येकेन्द्रियाणां तावत्काययोगः द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां कायवाग्योगौ संज्ञिपञ्चेन्द्रियाणां मनोवाकाययोगः अकषायस्य संज्वलनवतिनः उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः केवलिनो वाकाययोगावित्येवं यथासम्भवग्रहणं समर्थितं भवति । योगो व्याख्येय इत्यनुकर्षणार्थश्चशब्दः । एतदेव यथासंख्यक दर्शयति भाष्येण-सकषायस्येत्यादि । सकषायस्य योगःसाम्परायिकस्य कर्मण आस्रवः, अकषायस्येयोपथस्यैवास्रवो न साम्परायिकस्यापीति, एकसमयस्थितेरिति एकस्मिन् समये स्थितिः-अवस्थानं यस्य कर्मण इति । भाषितपुंस्कत्वादेवं निर्देशः । वेद्यमानकर्मसमयो मध्यमः स एव स्थितिः कालः । आद्यो बन्धसमयस्तृतीयः परिशाटसमय इति ॥ ५॥ साम्परायिकश्चर्यापथश्च द्विविधोभिहित आस्रवस्तत्र साम्परायिककर्मास्रवभेदाः कियन्त इत्युच्यते १-२छाया न च तस्य तनिमित्तो बन्धः सक्ष्मोऽपि देशितः समये। शुद्धस्य तु सम्पत्तिरफलोका जिनवरैः । ३ 'प्रथमे समये बद्धस्पृष्टा द्वितीये समये वेदना तृतीये समये निर्जरणं, एष्यत्कालेऽकर्म वाऽपि भवति । ४ 'मार्षाद वचनाद' इति क-पाठः। For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ १० तत्त्वार्थाधिगमसूत्रम् सूत्रम् -- इन्द्रियकषायात्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ६-६ ॥ [ अध्यायः ६ टी० - इन्द्रियादीनां चतुर्णां कृतद्वन्द्वानां संहत्योत्तर भेदैर्निर्देशः । पञ्च चत्वारः पञ्च पञ्चविंशतिः संख्या येषां ते पञ्चचतुः पञ्चपञ्चविंशति संख्याः । पूर्वस्येति निर्देशसामर्थ्यात् साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदा भवन्तीति एतदेव भाष्यकारो विशकलयति भाष्येण - भा०- - पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥ टी - पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याहेत्यादि भाष्यम् । पूर्व - प्रथमं कर्म । किंकृतं प्राथम्यमित्याह – सूत्र क्रमप्रामाण्यादिति । सूत्रे परिपाटीक्रमस्तस्याप्तोक्तत्वात् प्रामाण्यम् । आचार्येण हि सूत्रे साम्परायिककर्मास्रव एव प्रथम - मुपन्यस्तोऽस्तमेव विवृणोति - साम्परायिकस्याह । सम्परायकारणस्य कर्मण आस्रव इति सूत्रकारः प्रागेवमुवाच अतः साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदाः - प्रकाराः संख्यायन्ते यथाक्रमम् । पञ्चेन्द्रियाणि प्राग्व्यासाम्परायिकास्नवस्य ख्यातस्वरूपाण्यात्मनो लिङ्गादिभूतानि । मूलभेदतश्वत्वारः कषायाः ४९ भेदाः क्रोधादयो वक्ष्यमाणोत्तरषोडशभेदाः । पञ्चावतानि हिंसादीनि लक्षतो वक्ष्यमाणानि । क्रियाः पञ्चविंशतिरिहैव सूत्रे व्याख्यास्यन्ते । एवमेते एकान्नचत्वारिंशदात्मनः परिणतिविशेषाः साम्परायिकस्य कर्मण आस्रवभेदा भवन्ति । तत्रेन्द्रियकषायानुल्लङ्घयाव्रतान्येव व्याचष्टे भाष्यकारः । किं पुनरत्र प्रयोजनमिति ? उच्यते-अयमभिप्रायो भाष्यकारस्य - हिंसादीन्यत्रतानि सकला स्रवजालमूलानि तत्प्रवृत्तावात्रवेष्वेव प्रवृत्तिस्तन्निवृत्तौ च सर्वास्रवेभ्यो निवृत्तिरित्यस्यार्थस्य ज्ञापनार्थं सूत्रोक्तक्रममतिक्रम्यातानि व्याचष्टे भाष्यकारः । सूत्रबन्धशोभाहेतोरिन्द्रियादिसन्निवेशः ॥ भा०- पश्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेत्येवमादयो वक्ष्यन्ते (अ० ७, सू०८-१२ ) ॥ डी० – पञ्चैव न न्यूनातिरिक्तानि व्रतानि विरतिलक्षणानि वक्ष्यन्ते । तद्विपरीतानि अत्रतानि - प्राणातिपातादिप्रवृत्तिस्वभावानि, हिंसादीनि कृतद्वन्द्वनिर्दिष्टानि सप्तमेऽध्याये लक्षणतोऽभिधास्यन्ते । तच्च लक्षणमुपलक्षयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति । प्रमत्तस्य- कषायादिपरिणतिभाजो योगस्तद्धेतुकं यत् प्राणव्यपरोपणं सा हिंसा । इतिशब्दोऽवधारणे । एतावदेव लक्षणं हिंसायाः परिपूर्णप्रपञ्चेन व्याख्यास्यते, एवंलक्षणा हिंसा आदि १ 'अव्रतकषायेन्द्रियक्रियाः' इति क-पाठः । For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् येणामनृतादीनामात्मपरिणामानां त एवमादयो वक्ष्यमाणा हिंसादयः साम्परायिकस्य भा०—चत्वारः क्रोधमान माया लोभाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते ( अ० ८, सू० १० ) ॥ टी० - चत्वारः क्रोधादयः । अव्रतानन्तरं कषायगौरवप्रतिपादनार्थमाह- क्रोधादयोऽप्रीतिगर्वपरवश्चनामूर्च्छालक्षणाः कषायाः, अनन्तः - संसारस्तमनुबध्नन्ति तच्छीलाश्चानन्तानुबन्धिनो वक्ष्यमाणलक्षणास्ते आदिर्येषां तेऽनन्तानुबन्ध्यादयः । आदिशब्दग्रहणादप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनग्रहणम् । अनन्तानुबन्धिनश्वत्वारः क्रोधादयः, अप्रत्याख्यानाश्वत्वारः क्रोधादयः, प्रत्याख्यानावरणाश्चत्वारः क्रोधादयः, तथा संज्वलनाश्चत्वार एव क्रोधादयः, इत्येवमेते षोडश कषाया वक्ष्यन्ते लक्षणतः । एते च साम्परायिकस्य कर्मण आस्रवाः, तथा तेषु कषायेषु सत्सु - आस्रवास्तथा— भा० - पञ्च प्रमत्तस्येन्द्रियाणि ॥ टी० - पञ्च प्रमत्तस्येन्द्रियाणि स्पर्शनादीनि स्पर्शादिषु विषयेषु कषायादिपरिणतियुजः साम्परायिकस्य कर्मण आस्रवा भवन्ति । तदनन्तरं ११ तद्यथा - भा० - पञ्चविंशतिः क्रियाः । तत्रे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । -सम्यक्त्व- मिथ्यात्व-प्रयोग- समादाने यपथाः कायाधिकरण- प्रदोषपरितापन - प्राणातिपाताः दर्शन-स्पर्शन-प्रत्यय-समन्तानुपाताऽना भोगाः स्वहस्त - निसर्ग- विदारणा- नयना - नवकाङ्क्षा आरम्भ - परिग्रह-माया मिथ्यादर्शनाऽप्रत्याख्यानक्रिया इति ॥ ६ ॥ टी० - पञ्चविंशतिः क्रिया इन्द्रियकषायात्रतैः इन्द्रियादयश्च आभिः सङ्कीर्णाः शुद्धाश्च परस्परव्यतिकीर्णाव्यतिकीर्णरूपा एकास्रवत्वं प्रतिपद्यन्ते । पञ्चविंशतिरेवात्मनः सकषायकर्मणः क्रियारूपाः परिणामाः, तत्र तेषु साम्परायिककर्मास्रवेषु इमे ये वक्ष्यन्ते लक्षणतः, क्रिया एव प्रत्ययः - कारणं येषां साम्परायिककर्मास्त्रवाणां ते क्रियाप्रत्ययाः- क्रियाकारणकाः यथासङ्ख्यं येन सङ्ख्याविशेषेण क्रियाः प्रसिद्धास्तदत्र यथासङ्ख्यमुच्यते, यथासङ्ख्यं या या सङ्ख्या क्रियाणां प्रत्येतव्या - विज्ञेयाः । तद्यथेत्यनेनोदाहरति तान् क्रियाविशेषान् सम्यक्त्वमिथ्यात्वेत्यादि । इमाः पञ्चविंशतिक्रियाः सकषायस्य कर्तुः साम्परायिकस्य कर्मण आस्रवा भवन्ति, यथासम्भवं व्याख्येयाः । तत्र सम्यक्त्वक्रिया - सम्यक्त्वकारणम् । सम्यक्त्वं च मोहशुद्धदलिकानुभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वपञ्चविंशतेः क्रियाणां क्रिया - प्रशमसंवेग निर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणजीवादिपदार्थविवेचनम् विषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजन योग्य पुष्पधूपप्रदीपचामरातपत्रनमस्करणवस्त्राभरणान्नपानशय्यादानाद्यनेकवैयावृत्याभिव्यङ्गया च सम्यक्त्व सद्भावसंवर्धनपट्वी सद्वेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भकारणम् । अतो विपरीता मिथ्या For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ १२ तस्वार्थाधिगमसूत्रम् [ अध्यायः 'स्वक्रिया तत्त्वार्थाऽश्रद्धानलक्षणा । सा त्रिविधा-अभिगृहीता १ अनभिगृहीता र संदेहतः ३ । तत्राभिगृहीता त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानाम्, अनभिगृहीताऽनभ्युपगतदेवताविशेषाणां तत्त्वार्थश्रद्धानं, सन्दिग्धं मिथ्यात्वं प्रवचनोक्तमक्षरमर्थ पादं वा स्तोकमप्यश्रद्दधानस्य भावतो यद् भवति ।। आत्माधिष्ठितकायादिव्यापारः प्रयोगः, तत्र योगत्रयकृता ( तं ) पुद्गलानां ग्रहणं प्रयोगक्रिया धावनवलनादि: : कायव्यापारो वा, हिंस्र परुषानृतादिवाग्व्यापारो वा, अभिद्रोहाभिमानेर्ष्यादिव्यापारो वा प्रयोगक्रिया ॥ अपूर्वापूर्वविरतिप्रत्या मुख्यमुत्पद्यते यत् तपखिनः सा समादानक्रिया । अन्ये व्याचक्षते - द्विविधा समादानक्रिया, समादीयते येन विषयस्तत् समादानम् - इन्द्रियं तस्य ( सर्वोपघातकारि ) देशोपघातकारि वा समादानक्रिया ।। ईर्यापथकर्मणो याति ( हि ? ) निमित्तभूता बध्यमानवेद्यमानस्य सेर्यापथक्रिया । अत्र च काश्चित् साम्परायिककर्मण आस्रवः, काश्चिच्च न ॥ कायक्रिया द्विविधाः प्रदुष्टस्य मिथ्याegeमो यः पराभिभवात्मको वाङ्मनस निरपेक्षः सा तु परतः कायक्रिया, प्रमत्तसंयतस्यानेककर्तव्यतासु बहुप्रकारा दुष्प्रयोगकायक्रिया || अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रति तदधिकरण - परोपघातिकूटगलपाशादिद्रव्यजातं तद्विषयाऽधिकरणक्रिया । सा द्विधानिवर्तने संयोजने च । तत्र मूलोत्तरगुणभेदाद् द्विधा निवर्तने मूलगुणाधिकरणक्रिया पञ्चानामौदारिकादिशरीराणां निर्वृत्तिः, उत्तरगुणनिर्वर्तना पाणिपादाद्यवयवानां, अथवा असि-शक्ति-तोमरादीनां मूलगुणनिर्वर्तना, उत्तरगुण निर्वर्तन। तेषामेव पानोज्ज्वलीकरणपरिचारादिका । संयोजनाधिकरणक्रिया तु विषगरहलांकुटधनुर्यन्त्रादीनाम् || प्रादोषिकी द्विविधा- जीवाजीवद्वैविध्यात् । जीवप्रादोषिकी तावत् पुत्रकलत्रादिस्वपरजनविषया । अजीवप्रादोषिकी तु क्रोधोत्पत्तिनिमित्तभूत कण्टकशर्करादिविषया ॥ परितापिका तु द्विविधापरितापप्रधाना स्वपरपरितापप्रधाना - स्वपर परिता पजननी । तत्र स्वदेहपरितापकारिणी पुत्रकलश्रादिवियोग दुःखभाराद्यतिपीडितस्यात्मनस्ताडनशिरस्स्फोटनादिलक्षणा । परपरितापकारिणी पुत्रशिष्यकलत्रादिताडनम् || प्राणातिपातक्रियाऽपि द्विविधा - स्वपरव्यापादनभेदात् । अत्र स्वप्राणातिपातजननी गिरिशिखरप्रपातज्वलनप्रवे राजलप्रवेशास्त्रपाटनादिका । परप्राणातिपातजननी तु मोहलोभक्रोधाविष्टा प्राणव्यपरोपणलक्षणा क्रियते । अत्रापि विचिन्त्य पञ्चके साम्परायिककर्मण आस्रवो वक्तव्यः ॥ दर्शनक्रिया द्विधा - जीवाजीवविषयत्वात् । तत्र प्रमादिनो नृपनिर्याणप्रवेशस्कन्धावारसन्निवेशनटनर्तकमलमेष वृषयुद्धादिष्वालो कनादरो यः सा जीवविषया दृशिक्रिया । देवकुलसभाप्रपोदकाशयत्र पुस्ताद्यालोकनलक्षणा रागार्द्रचेतसोऽजीवविषया दर्शनक्रियाः । स्पर्शनक्रिया द्विविधा - जीवाजीवभेदात् । तत्र जीवस्प - र्शनक्रिया योषित्पुरुषनपुंसकाङ्गस्पर्शनलक्षणा रागद्वेषमोहभाजः । अजीवस्पर्शनक्रिया मृगरोमकुतवपदृशाटकनी ल्युपधानादिविषया || प्रत्ययक्रिया तु यदपूर्वस्य पापादानकारिणोऽधिकरणस्योत्प्रेक्ष्य स्वस्वबुद्ध्या निष्पादनम् ॥ समन्तानुपातक्रिया स्त्रीपुरुष नपुंसक पशुसम्पातदेशे उपनीयवस्तुत्यागः । प्रमत्तसंयतानां वा भक्तपानादिकेऽनाच्छादितेऽनश्यत्याज्ये समन्तादनुपातो For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञमाप्प-टीकालङ्कृतम् भवति सम्पात्यसत्त्वानाम् ॥ अनाभोगक्रिया अप्रत्यवेक्षिताप्रमार्जिते देशे शरीरोपकरणनिक्षेपः॥ स्वहस्तक्रिया अभिमानारूषितचेतसाऽन्यपुरुषप्रयत्ननिर्वृत्या या स्वहस्तेन क्रियते॥चिरकालप्रवृत्तपरदेशिनि पापार्थे भावतो यदनुज्ञानं सा निसर्गक्रिया पराचरिताप्रकाशनीयसाक्यप्रकाशीकरणं विदारणक्रिया । भाषाद्वयाभिज्ञःपुरुषो यथैकं विचारयति अहेत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषया जीवितादिपदार्थप्ररूपणं (वा)॥स्वयं नयनक्रिया अन्यैवोऽऽनायनं स्वच्छन्दतो नयनक्रिया।अनवकाङ्क्षाक्रिया द्विधा-स्वपरभेदतः। तत्र स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः, तथा चानाद्रियमाणः परमपि नावकाङ्क्षतीति परानवकाङ्क्षाक्रियेति॥ भूम्यादिकायोपघातलक्षणा शुष्कतृणादिच्छेदलेखनादिका वाऽप्यारम्भक्रिया स्वपरभेदतः॥ बहूपायार्जनरक्षणमूर्छालक्षणा परिग्रहक्रिया ॥ मायाक्रिया तु मोक्षसाधनेषु ज्ञानादिषु मायाप्रधानस्य प्रवृत्तिः विरुद्धफललिप्सया मिथ्यादर्शनमार्गेण सन्ततप्रयाणमन्यं साधयामीत्यनुमोदमानस्य मिथ्यादर्शनक्रिया ॥ संयमविधातिनः कषायाधरीन् प्रत्याख्येयान् न प्रत्याचष्ट इत्यप्रत्याख्यानक्रिया । इतिशब्दः साम्परायिकक्रियेयत्तावधारणार्थः । एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरभीत्याऽव्याख्याताः साम्परायिककर्महेतवः, काश्चित् परस्परतः किश्चिद्भेदभाजः काश्चिद् विविक्तार्थाः सङ्कपतः कायवाङ्मनोदुश्चरितलक्षणाः सूक्ष्मसूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिश्चरितकलापसङ्ग्रहाय, प्रवचनाभिज्ञेन तु युक्त्यागमाभ्यां विशेष्य व्याख्येया इति ॥ एतत् पुनरिन्द्रियादिनिमित्तं साम्परायिकं कर्म बनता जीवानां किं सर्वेषां समानं भवति, उत सतीन्द्रियादिमत्वे साम्परायिककर्मबन्धभाजा परस्परेण विशेषः १। अस्ति विशेष: च सपरिणामजनितः । परिणामोऽनेकरूपस्तद्भेदात् कर्मबन्धभेद इत्याहसूत्रम्-तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः॥६-७॥ टी.-आशयपरिणामानुरूप्येण कर्तृणां बन्धमात्राः सत्स्विन्द्रियादिषु निमित्तेषु प्रतिविशिष्टा भवन्ति नियमतः, न तुल्यास्तद्विपरीता वा । कदाचित् तुल्यपरिणामानां तुला अपि विषमपरिणामानामतुल्याश्चेत्येवमर्थ भाष्येण प्रपश्चयति भा०-ऐषामकोनचन्वारिंशत्साम्परायिका(स्रवा) तीनबन्धविशेषाणां हेतवः भावात् मन्दभावात् ज्ञातभावादज्ञातभावाद वीर्यविशेषादधि करणविशेषाच विशेषो भवति-लघुर्लघुतरोलघुतमस्तीवस्ती. बतरस्तीव्रतम इति । तद्विशेषाच बन्धविशेषो भवति ॥७॥ टी-एषामेकोनचत्वारिंशत्साम्परायिकास्रवाणामित्यादि भाष्यम् । एषामिति चितारयति' इति क-पाठः; "विप्रतारयति' इति प्रतिभाति । २ ' साम्परायिकानामेषा. ' इति घ-पाठः । For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ 1 अनन्तरसूत्रोपन्यस्तेन्द्रियादिसम्बन्धमाचष्टे । कियन्तः पुनस्ते इति सङ्ख्यया निश्चयार्थमाहएकोनचत्वारिंशदिति । स्वशब्देनैवोक्तत्वाद् बहुत्वस्य न पुनर्बहुवचनं सङ्ख्याशब्दात् । ईर्यापथव्यवच्छेदायाह — साम्परायिकास्त्रवाणामिति । सम्परायः प्रयोजनं कर्मैव नान्यत् तस्यास्रवाः - प्रवेशमार्गास्तेषां विशेषो भवतीति सम्बन्धनीयम् । कुत इत्याह- तीव्र भावादित्यादि । तीव्रादिभ्यः कृतद्वन्द्वेभ्यः । पञ्चमी हेतौ । भावोऽप्यधिकरणवत् पृथग् व्याख्येय इत्याशङ्कायां प्रत्येकमभिसम्बन्धं दर्शयति - तीव्रभावात् मन्दभावात् ज्ञातभावादज्ञात भावादिति । तीव्र: - प्रकृष्टो भावः - परिणामस्तस्मात् तीव्रभावाद्धेतोः कर्मबन्धविशेषः, सातिशयश्च तीव्रपरिणामः, तद्यथा - तीव्रस्तीत्र तरस्तीव्रतमः । कारणभेदच कार्यभेदानुविधायी । कार्यast कारण भेदमवगमयतीति, अतः परिणाममात्रापेक्षया आत्मा कर्म बनाति । तथा मन्दस्तीवः स्वल्पो भावस्तस्माच्च कर्मभेदोऽवश्यंभावी, स्वल्प एवान्तरः परिणामो यदा मृदुर्भवति तदा कर्मबन्धोऽपि स्वल्पपरिणामापेक्षत्वान्मृदुरेव भवति, न जातुचित् तीव्रभावतुल्यो बन्धः । यथा सिंहस्य हन्तुर्गोघातिनश्च समानेऽपि प्राणातिपाते निवृत्तेऽपि गणितजघनाभिष्टश्रवणोद्भूतपरितोषनिर्भरचेतसः केसरिव्यापादिनः शौर्याभिनिवेशात् प्रदीपिततीव्र भावस्य बहुलं भवति कर्मबन्धः । स चापि तीव्रो भावः कदाचिदधिमात्रः कदाचिदधिमात्रमध्यः कदाचिदधिमात्रमृदुः कदाचिन्मध्याधिमात्रः कदाचिन्मध्यमः कदाचिन्मध्यमृदुः कदाचिन्मृद्वधिमात्रः कदाचिन्मृदुमध्यः कदाचिन्मृदुरिति नानाध्यवसायापेक्षत्वात् । इतरस्य तु सर्वजन निन्द्यस्य धिक्काराद्युपघातकवचनाकर्णनापारचिन्तोद्वृत्तस्य कृतेऽपि कर्मणि मन्दपरिणतेः स्वल्पः कर्मबन्धो भवति । तथा ज्ञातभावादज्ञातभावाच्चेति । ज्ञातस्य भावो ज्ञातभावः । ज्ञातमस्यास्तीति अर्शआदिपाठादेव ज्ञात आत्मा, ज्ञानाद् उपयुक्तस्य तस्य यो भावः -- परिणामः स ज्ञातभावः -- अभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अपर एतद्विपरीतः स खल्वज्ञातभावोऽनभिसन्धाय प्राणातिपातकारीत्यत्रापि पूर्ववदेव कर्मबन्धविशेषो द्रष्टव्यः । यो हि मृगमेवाभिसन्धाय व्यापादयामीति शिली - मुखक्षेपमाचरति, यत्र स्थाणुं विध्यामीति कृताभिसंधि पत्रिणममुञ्चद्विनिपातितश्चान्तरालवर्ती तेन पत्रिणा मृगः कपोतो वा, तुल्यप्राणातिपातक्रिययोरप्यनयोर्निमित्तविशेषाद् बन्धविशेशेऽवसेयः, प्राच्यस्य प्रकृष्टो बन्धः, पाश्चात्यस्यानभिसन्धेः कषायादिप्रमादवशवर्तिनः पूर्व कादल्पः कर्मबन्धः यस्मान्न विना रागात् क्षेपः शरस्य संभवति, राग प्रमादः । यत एवमाह – अज्ञानसंशयमिथ्याज्ञान रागद्वेपस्मृत्यनवस्थानधर्मानादरयोग दुष्प्रणिधनमित्यष्टप्रकारः प्रमादः प्रकृष्टकपायलेश्यावलाधानाज्ञानप्रभवः पौरुषेयपरिणामसमुत्थानः कटुविपाको नरकपाताहितसंस्कारः तीव्रादिसातिशयः मध्यकषायलेश्योदयालाधानो मध्यममध्यतरा - दिभेदः प्रतनुकपालेश्यापरिणतिप्रमाद्वलाधिष्ठानव (सनावासित्वान्मन्दमन्दतरादिभेदः । तथा वीर्यविशेषाधिकरणविशेषाच्चेति । वीर्यान्तरात्रकर्मक्षयोपशमजा लब्धिः वीर्यम् , १' चिन्तोद्धतस्य' इति पाठः । १४ For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ १५ सूत्र ७1 स्वोपज्ञभाष्य-टीकालङ्कृतम् आत्मनः शक्तिः सामर्थ्य महाप्राणता । तच्च वज्रर्षभनाराचसंहननीयापेक्षमेव त्रिपृष्ठादीनां संरब्धसिंहपाटनादिलक्षणम् । सिंहादीनां च मदजलावसेकपिच्छिलीकृतगण्डस्थलमुखमहावारणादिविदारणाभिव्यक्तं तस्य विशेषः-अतिशयस्तस्माद् वीर्यविशेषात् कर्मबन्धविशेषः । अत्राप्यधिमात्रादिभेदप्ररूपणा पूर्ववत् कायो। मन्दप्राणस्य तु कृच्छेण धृतोऽपि न तागुत्कर्षविशेषो भवति यादृयो महाप्राणस्य, अतो वीर्यातिशयः कर्मबन्धनिमित्तमस्तीति । अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रत्यधिकरणं तन्निर्वर्तनासंयोजनादिभेदं वक्ष्यते । तविशेषाच तदतिशयात् कर्मबन्धातिशयः । प्रतिदिवसमेव हि निघृणमनसो निर्भयाः प्राणिप्राणव्यापत्तये मृषास्तेयादिकृतवक्रश्रुतीः सृजन्ति ते चाधिकरण विशेषाः क्लेशोपादानं प्रति प्रकर्षवर्तिनः कूटगलयन्त्रपात्रपाशदेय इत्यादिकादधिकरणविशेषाच्च विशेषो भवति बन्धस्येति । अज्ञातभावाच संचेतयतां भवति कर्मबन्धस्तथा सप्तमेऽध्याये वक्ष्यामः ॥ लघुरित्यादिना तीव्रान्मन्दस्यापकर्म दर्शयति । तथा ज्ञातभावादज्ञातभावस्य वीर्यातिशयान्मध्यमन्दवीर्ययोरधिकरणातिशयाच्च मध्यमन्दाधिकरणविशेषयोरपकर्षोऽवगन्तव्यः, तथा मध्यमन्दप्रतिद्वन्द्विनः प्रकृष्टस्य प्रदर्शनं तीव्रस्तीव्रतरस्तीव्रतम इति । तीव्रमन्दग्रहणात् मध्यपतितस्य मध्यमभावस्यापि ग्रहणम् । मध्यमो मध्यमतरो मध्यमतमः। एते च तीवमध्यमन्दाः प्रकर्षापकर्षवर्तित्वादधिमात्रादिभेदेन भित्त्वा व्याख्येयाः। इतिशब्दः समस्तसाम्परायिककर्महेतुसङ्ग्रहार्थः । तद्विशेषाञ्च बन्धविशेषो भवतीति तदित्यनेन तीवमध्यमन्दाः परामृश्यन्ते । तीव्रादीनां विशेषस्तद्विशेषस्तस्मात् तद्विशेषाद् बन्धविशेष इत्यतः सतीष्वपीन्द्रियकषायावतक्रियासु तीव्रमावाद्यपेक्ष एव कर्मबन्धः सिद्धः ॥ ७ ॥ भा०-अत्राह-तीव्रमन्दादयो भावा लोकप्रतीताः। वीर्य च जीवस्य क्षायोपशामकः क्षायिको वा भाव इत्युक्तं (अ० २, सू० ४-५)। अथाधिकरणं किमिति । अत्रोच्यते टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः । अत्रेत्यतिक्रान्तसूत्रव्याख्यानावसाने परःप्रश्नयत्यजानानः--तीव्रमन्दायो भावाः ।आदिग्रहणात् ज्ञाताज्ञातभावपरिग्रहः। एते लोकमतीताः। लोक्यत इति लोकः-प्रेक्षापूर्वकारी शिष्टजनः, सामान्येन वा रथ्यापुरुषादिलोकस्तस्य प्रतीतास्तीवादयः प्रकर्षापकर्षादिलक्षणा इति, नैषां लक्षणं प्रष्टव्यं वीर्य चात्मनो वीर्यान्तरायकर्मक्षयोपशमप्रयोजनः क्षयप्रयोजनो वा भावः--आत्मनो भवनं परिणामविशेषः, शक्तिलक्षण इत्युक्तंनिश्चितम् । अथाधिकरणं किं तीवादिगोचरत्वाद् विप्रतिपत्तेश्चाधिकरणविषय एव प्रश्नः, प्रथमतरं वाऽतिसंक्षिप्तमुक्तमधिकरणम् , अधुना तद्विस्तरार्थिना तीव्रादिभावपरिज्ञानानन्तरमधिकरणं पृच्छयते--किंम्वरूपमधिकरणमिति । अत्रोच्यते इत्याहाचार्यः । अत्र-अधिकरणस्वरूपप्रश्न अभिधीयते तेषां तीवादीनां [द्विविधा । For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ अधिकरणस्य वैविध्यम् सूत्रम्-अधिकरणं जीवाजीवाः ॥६-८॥ टी०-अथवा यस्मिन् सति त्रिविधास्रवप्रवृत्तिस्तदधिकरणमनिर्धारितभेदम्, अतस्तद्भेदनिर्दिधारयिषयेदमाचष्टे-अधिकरणं जीवाजीवाः ॥ साम्परायिककर्मबन्धः प्रस्तुतस्तस्य विषय आस्रवोऽधिकरणम् । तीव्रादीनां जीवाजीवविषयत्वात्, जीवानजीवान् वा विषयीकृत्य सत्त्वाः प्रवर्तन्ते तीव्रादिभावेन । ते च जीवा अजीवा वा तीव्रादिभावेन भवितुः परिणन्तुरात्मनो विषयमुपेताः साम्परायिककर्मबन्धहेतवो भवन्तीति दुर्गतिप्रस्थाननिमित्तत्वादधिकरणशब्दवाच्याः । ननु चाधिकरणिकी क्रिया प्रागेवंविधैवोक्ता, किमर्थ पुनरधिकरणमुच्यते । चरितार्थत्वादन्यतरोपदेश एव ज्यायानिति, अत्रोच्यते । पूर्वत्र क्रियासहायद्रव्यादानमाविवक्षया कीर्तितमाधिकरणिक्यम् , इह पुनरासवोत्कर्षापकर्षोपादानसामर्थ्यादनभिहितविशेपकृत्यार्थमिदमुच्यते-जीवाजीवाः। इतरेतरयोगद्वन्द्वः। द्विवचनप्रसङ्ग इति चेत् तन्नः । व्यक्त्या पर्यायभेदस्य विवक्षितत्वादिति, जीवाजीवाधिकरणमित्यस्तु सूत्रे लघुत्वादित्युच्यते जीवाजीवावेवाधिकरणमिति समानाधिकरणकल्पस्येत्याशङ्कायां जीवाजीवद्रव्यमात्रसम्प्रतीतेरास्रवविशेषाभावः स्यात् । आस्रवस्य हि क्रियालक्षणस्य जीवाः कारणं-निमित्तमिष्यन्ते ॥ स चैवं सति न सिध्यतीति पुरातन एव पाठः साधीयान् । तस्मादास्रवस्यात्मपरिणामस्य प्रयोगलक्षणस्य बाह्यश्चेतनोऽचेतनो वा पदार्थ उत्पत्तौ निमित्तमिति हिंसादिपरिणामो जीवाधिकरणोजीवाधिकरणश्चेत्येनमेवार्थ भाष्येण स्फुटयति भा०-अधिकरणं द्विविधम्-द्रव्याधिकरणं भावाधिकरणंच । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ॥८॥ टी-अधिकरणं द्विविधमित्यादि भाष्यम् । दुर्गत्यधिकारादधिकरणम् । तच्चै(क)कशो द्विप्रकारं, जीवविषयं जीवा(द्रव्या )धिकरणं भावाधिकरणं च । अजीवविषयमपि द्रव्याधिकरणं भावाधिकरणं च । समुच्चयार्थश्वशब्दः । द्रव्यमेवाधिकरणं द्रव्याधिकरणम् । एवं भावाधिकरणमपि । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । तत्रेति तयोर्द्रव्यभावाधिकरणयोर्द्रव्याधिकरणं तावदुच्यते । छिद्यते येन परशुवासीव्यधनादिना तत् छेदनम् । मिद्यते येन मुद्गरकोणकादिना तद् भेदनम् । आदिग्रहणात् त्रोटनविशसनोद्वन्धनयन्त्राभिघातादि वक्ष्यमाणं निर्वर्तनादिसूत्रे ।। ननु चादिग्रहणादेव नानाविधशस्त्रान्तर्भावोऽपि द्रव्यरूपत्वात् किमर्थ भेदेनोपादानं शस्त्रस्येति ? । उच्यते-संख्याविशेषनिर्धारणार्थ दशैव प्रकाराः शस्त्रस्येति । चशब्दोऽवधारणार्थः। द्रव्यशस्त्रं दशविधमेव परश्वैधदहनविषलवनस्नेहक्षाराम्लानि अनुपयुक्तस्य च मनोवाकायास्त्रयः। एतेन द्रव्याधिकरणेन जीवाजीवौ विषयीकृत्य साम्परायिकं कर्म बध्यते । तद्यथा-पाणिपादशिरोधरादीनां परश्वादिना छेदः । अमिना दहन १' करणतायां कस्येत्याशङ्कायां ' इति प्रतिभाति । २ 'इदिवहन. ' इति क-पाठः । For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ स्वोपक्षभाग्य-टीकालङ्कृतम् संवनानाम् । विषेण मारणम् । लवणेन पृथिव्यादिकायाधुपघातः । स्नेहेन घृततैलादिना बेलामेवोपघातः । क्षारेण सकलत्वङ्मांसाधवकतनम् । अम्लेनाप्यारनालादिना पृथिव्यादि. कायोपषातः । अनुपयुक्तस्य च कायादयो यां चेष्टामभिनिवर्तयन्ति तया तया कर्म वध्यत इति । अथ भावाधिकरणं कतिप्रकारमित्याह-भावाधिकरणमष्टोत्तरं शतम् । माव:वीवादिपरिणाम आत्मनः, स एवाधिकरणं तच्चाष्टोत्तरशतमेदमष्टोत्तरशतं भेदानामागाम्पनन्तरं सूत्रेण भावयिप्यत इत्येदुभयमाख्यातं यत् प्राक् पृष्टं परेण जीवाधिकरणमजीवाधिकरणं च, नातः परमन्योऽधिकरणभेदोऽस्तीति ॥८॥ / सूत्रम् तत्र-आद्यं संरम्भसमारम्भारम्भकृतकारितानुमंत कषायविशेषत्रिनिनिश्चतुश्चैकशः॥९॥ री०-तत्रेत्यनेन सम्बन्ध सूचयति, तयोर्जीवाजीवाधिकरणयोरनन्तरसूत्रप्रस्तुत योर्जीवाधिकरणं तावदुच्यते, आर्य संरम्भसमारम्भेत्यादि सूत्रम् ॥ मा०-भाचमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत् समासतमोनिका त्रिविषम् । संरम्भः १ समारम्भः २ आरम्भः ३ इति । भेदप्रभेदाः - एतत् पुनरेकशः कायवाङ्मनोयोगविशेषात् त्रिविर्ष भवति। - तद्यथा-कायसंरम्भः वाक्संरम्मः मनःसंरम्भः, कायसमासमाषाक्समारम्भःमनःसमारम्भः; कायारम्भः वागारम्भः मनआरम्भ इति॥ री०-आदौ भवमाद्यम् । इतिशब्दः शब्दपदार्थकः । किंकृतं पुनरावत्वं किंवा सदापमित्याह-सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । सूत्रक्रमः-सूत्रानुपूर्वी सूत्रसभिवेश तत्त्रामाण्यादापम् । किं तत् ? जीवाधिकरणमित्याह सूत्रकारः। तत् जीवाधिकरणं समा सतः-संक्षेपतः त्रिविध-त्रिप्रकारम्। प्रकारत्रयप्रदर्शनायाह-संरम्भा संरम्मादीनां प्याच्या समारम्भ आरम्भ इति । तत्र प्राणातिपातादिसंकल्पावेशः संरम्मः । तत्साधनसनिपातजनितपरितापनादिलक्षणः समारम्भः । प्राणातिपावादिक्रियानिवृत्तिरारम्भः । एतदिति जीवाधिकरणं परामृशति । पुनःशब्दः क्रियान्याइ. स्पर्धा सकद मिचं संरम्भादिमेदेन जीवाधिकरणं मिद्यते । एकश इत्येकैकम् । संरम्मापिकरणादि कायवाङ्मनोयोगावशेषात् त्रिविधं भवति । कायादयः प्राय व्याख्यातस्वरूपाः । कायसंरम्माधिकरणं वाकूसंरम्माधिकरणम्, एवं समारम्भारम्भयोरपि कायादिभेदेन पत्रैविध्यं वाच्यम् । योगभेदेन विकल्प्य संरम्मादीनधुना क्रियाद्वारेण योगान् विकल्पयति मा०–तदप्येकशः कृतकारितानुमतविशेषात् त्रिविष भवति । तयथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः, कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः कृतमनःसंरम्भः कारितमनःसंरममा 'मति- इस्पपि पाठः। For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ १८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ अनुमतमनः संरम्भः इति । एवं समारम्भारम्भावपि । तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् ॥ टी० - संरम्भं कायेन करोति वाचा करोति मनसा करोतीति । एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते चेति विकल्पत्रयमेव । कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थम् । कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थम् । अनुमतिवचनं प्रयोजकस्य मानसपरिणाम प्रदर्शनार्थम् । एतदेव भाष्यकारो दर्शयति - तद्यथा - कृतकायसंरम्भ इत्यादिवचननवकेन । यथाssaौ कायसंरम्भः कृतकारितानुमतभेदेन विकल्पितः, एवं समारम्भारम्भ त्वपि कृतकारितानुमतविकल्पितौ वाच्यो । समारम्भं करोति समारम्भं कारयति समारम्भमनुमन्यते काये - नेत्यादिर्नवधा विकल्पना । तथाऽऽरम्भं करोति कारयति अनुमोदते चेति नवैव विकल्पा वेदितव्याः । तदपीत्यादिना पुनश्चतुर्धा भिनत्ति । कृतकायसंरम्भादिकरणादि पुनरेकैकं कषायविशेषाच्चतुर्विधं भवति । कषायाः प्रागभिहितलक्षणाः । सामान्येन विशेषो भेदस्तद्भेदाच्चतुर्विधं भवति । भा०—तद्यथा - क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकासंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारित काय संरम्भः मायाकारितकाय संरम्भः लोभकारितकाय संरम्भः क्रोधानुमतकाय संरम्भः मानानुमतकाय सरम्भ मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ ॥ टी० - तद्यथेत्यादिना दर्शयति यथाभिहितलक्षणान् विकल्पान् क्रोधकृतकायसंरम्भः । एवं मानमायालोभकृतसंरम्भ इत्यपि वाच्यम् । एवं क्रोधकारितकायसंरम्भः मानमायालोभकारित काय संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतकाय संरम्भः मानमायालो भानुमतकाय संरम्भ इत्यपि वाच्यम् । एवं वाङ्मनः संयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यम् । एवमित्युक्तप्रकारेण वाग्येोगेनापि क्रोधादिविशिष्टेन वाच्यम् । क्रोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितवाक्संरम्भः मानमायालोभकारितवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यम् । एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्तो. वाच्याः । क्रोधकृतमनः संरम्भः मानमायालो भकृतमनः संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमनःसंरम्भ इत्यपि वाच्यम् । क्रोधानुमतमनः संरम्भः मानमाया लोभानुमतमनः संरम्भ इत्यपि वाच्यम् । एवमेते षट्त्रिंशद्भेदाः, तद्यथा - क्रोधकतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः । तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति । क्रोधकृतकायसमारम्भ इत्येवमतिक्रान्तग्रन्थः १'० कल्पेन' इति ग-पाठः । For Personal & Private Use Only タ Page #48 -------------------------------------------------------------------------- ________________ सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् पुनरावर्तनीयः । ततश्च द्वितीया षट्त्रिंशत् लभ्यते । तथा क्रोधकारितकायारम्भ इत्यप्यभ्यावर्तमाने ग्रन्थे षट् त्रिंशदेव विकल्पानां प्राप्यते । एवमेषा षट्त्रिंशत् त्रिप्रकाराऽपि पिण्डिताऽष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति--- भा० – तदेवं जीवाधिकरणं समासेनैकशः षट् त्रिंशद्विकल्पं जीवाधिकरस्य भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ॥ विकल्पसङ्ख्या संरम्भः संकल्पः, परितापनया भवेत् समारम्भः । प्रणवस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः ॥ ९ ॥ १९ कृत कारित अनुमत * डी० —तदेवं जीवाधिकरणं समासेनेत्यादि यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन - संक्षेपेण एकैकं संरम्भाधिकरणं समारम्भाधिकरणं आरम्भाधिकरणं च षट्त्रिंशद्विकल्पं भवति । त्रिविधमपीति समुच्चयेऽपिशब्दः । तिस्रोऽपि षट्त्रिंशतः शतमष्टोत्तरं विकल्पानां भवतीति भाष्यानुसारणमवसायैव सूत्र एव स्फुटीकरणाय पुनरुच्यते, संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा प्रत्येकं वा विशेषशब्देनाभिसंबन्धसामर्थ्यात् संरम्भादिविशेषै रिति तृतीयानुपपत्तिः क्रियावादिपदार्थान्तराभावात्, न वाक्यशेषोपपत्तेः प्रविश पिण्डीमिति यथा तथेहापि क्रियापदावधारणमेकैकं मिद्यात्, एकमेकं त्रींस्त्रीन् भेदान् कुर्यादिति वा, योगादीनामानुपूर्व्यवचनं पूर्वापर विशेषणत्वात् । तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादीनां संरम्भसमा- कृतकारितादि यन्त्रम् । रम्भविशेषाः षट्त्रिंशद् विकल्पाः स्फुटीक्रियन्ते यन्त्रेण । उद्धृतक्रोधप- काय कषाय रिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथम विकल्पः । तथा आविर्भूतमानपरिणाम आत्मा करोति स्वयं कायेनेति द्वितीयः । तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति १२ १२ १२ तृतीयः । तथा लोभकषायग्रस्तः करोति स्वयं कायेन संरम्भमिति ३६ ३६ ३६ चतुर्थः । एवं कृतेन चत्वारो विकल्पाः । कारितेन चत्वारः । अनुमत्यापि चत्वारः । एते द्वादश कायेन लब्धाः। तथा वाचा द्वादश, मनसाऽपि द्वादश, एते षट्त्रिंशत् संरम्भेण लब्धाः । तथा समारम्भेणापि षट्त्रिंशत्, आरम्भेणापि षट्त्रिंशत्, इत्येवमष्टोत्तरं विकल्पशतं भवति । का पुनर्भावना १ योगनिमित्तं हि कर्म बध्यते " कायवाङ्मनः कर्म योगः " ( अ० ६, सू० १ ) इति वचनाद्, बन्धस्थितिः । कोपादिकषायाञ्जनवशीकारात् स्वयं करणपरिणतौ सत्यां कारितानुमतिपरिमाणद्वारेण च प्राणातिपातादिसंकल्प परितापनाव्यापत्तयः साम्परायिककर्मबन्धहेतवो भवन्तीति प्रतिपादितं प्राक् । कायादयो व्यस्ताः समस्ताथ बन्धहेतवः । समस्तास्तु प्रधानोपसर्जनतया च बन्धहेतव इति प्रतीतम् । एवमेतज्जीवाधिकरणं विकल्प्य भावनीयमिति ॥ ९ ॥ Y काय बाकू * मनः १ ‘सकषायः' इति घ- पाठः । २ 'आरम्भः प्राणिबधः' इति घ- पाठः । ३ ' णामद्वारेण' इति ङ-पाठः । For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ तत्त्वार्याधिगमसूत्रम् [अन्यायः ६ मा०-अत्राह-अथाजीवाधिकरणं किंमिति १ । अनोच्यते___टी-अत्राहेत्यादिना सम्बन्ध प्रतिपादयति । अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अथाजीवाधिकरणं किमिति । अथेत्यानन्तर्यार्थः। जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक् निरदेशि सूत्रकारेण तत् किमिति-किंस्वरूपं-किस्वभावं तत ? । इतिकरणः प्रश्नेयत्ताप्रतिपादनार्थः । एवं प्रश्ने अत्रोच्यते इत्याहाचार्यः । अत्र प्रश्नेऽनुरूपमुत्तरमभिधीयतेसूत्रम्-निर्वर्तनानिक्षेपसंयोगनिसर्गा दिचतुर्दित्रिभेदाः परम् ॥ १०॥ री-निर्वर्तनादयः कृतद्वन्द्वा यथाक्रमं कृतद्वन्द्वैरेव न्यादिभिः समानाधिकरणा द्रष्टव्याः । अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बध्यतेऽजीवाधिकरणं, तन्निवते. 'नादिभेदाच्चतुर्धा अजीवविषयान् निर्वर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन निर्वर्तनादीनां व्याख्या रागद्वेषवानात्मा साम्परायिकं कर्म बनाति, निर्वय॑मानमजीवद्रव्यम् । निर्वर्तना निवर्त्यमानप्रयोजना । 'निर्वयेति भावसाधनो वा । सा द्विधा मलोत्तरगुणभेदात् । निक्षिप्यतेऽऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव। स चतुर्विघोऽप्रत्यवेक्षितादिभेदात्। भावसाधनो वा। संयोजनं संयोगः एकत्वीकरणं वा मिश्रणम् । तद् वेधा आहारोपकरणभेदात, निसर्जनं निसर्गः त्यागः उज्झनम् । तत् त्रिधा कायादिभेदात् । परवचनमनर्थक पूर्वाधवचनात् , अस्मिन् वा सति आद्यवचनमनर्थकं अर्थापत्तिसिद्धेरितिघेत तन्न। अन्तरङ्गताप्रतिपादनार्थत्वात् आद्यशब्दस्य बहिरङ्गताप्रतिपादनार्थत्वाच्च परशब्दस्येति विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमित्यमुमेवार्थ भाष्येण स्पष्टयति भा०-परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत् समासतम्बतुर्विधम् । तद्यथा-निर्वर्तना निक्षेपः संयोगो निसर्ग इति । टी-परं बहिरङ्गम्, इतिकरणशब्द: पदार्थकः । प्रतिविशिष्टपुरुषप्रणीतसूत्रक्रमस्य प्रमाणत्वात् परं-बहिरङ्गमप्रधानमजीवाधिकरणमाह। जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणम् । इष्टाभिधायी वा परशब्दः । प्रायोगिका वैस्रमा वा निर्वर्तनादयोऽध्यवसेयाः । आयं च जीवविषयत्वाद् भावाधिकरणमुक्तं फर्मबन्धहेतुर्मुख्यतः। इदं तु द्रव्याधिकरणमुच्यते । परम्-अमुख्यं निमित्तमात्रत्वात् । तदजीवाधिकरणं समासतः-संक्षेपतः चतुष्प्रकारं भवति । समासग्रहणान्मृलोत्तरगुणादिभेदःशरीरादिः शस्त्रकल्पश्च व्यामः मूक्ष्मप्रभेद आपादितो भवति ।। तद्ययेत्यादिना चतुरो विकरमान् स्वरूपतः पटति-निर्वतेनेत्यादि । इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः। प्राग् व्याख्याताः शब्दनिभेदद्वारेण निर्वर्तनादयः । अधुना भेदद्वारेण स्वरूपकथनमेषां क्रियते •षया निर्वर्तनानिक्षेपसंयोगनिसांनि कुर्वन्' इति ग-पाठः । १ निर्वतेवेति' इति ग-पाठः। For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ सूत्रः १०.] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०—त निर्वर्तनाधिकरणं द्विविधम्- मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च । तत्र मूलगुणनिर्वर्तना पञ्च शरीराणि वाङ्मनः प्राणापानाश्च । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ टी० - तत्रेत्यादि । तत्र तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते । निर्वर्तनैवाधिकरणं निर्वर्तनाधिकरणम् । अधिकरणमिति समानाधिकरणः, भावसाधनपक्षे षष्ठीतत्पुरुषःनिर्वर्तनाया अधिकरणम् । एवमन्यत्रापि योज्यम् । तद् द्विविधं - द्विप्रकारम् । प्रकारद्वयप्रदर्शनार्थमाह- मूलगुणेत्यादि । चशब्दः समुच्चये । मूलं चासौ गुणश्च मूलगुणः । मूलमाद्यं प्रतिष्ठा संस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणम् । स हि निर्वृत्तः सन् अधिकरणीभवति कर्मपधस्य । तथाऽङ्गोपाङ्गसंस्थानमृद्वादितैक्ष्ण्यादिरुत्तरगुणः सोऽपि निर्वृत्तः सन्नधिकरणीभवति कर्मबन्धस्योत्तरगुण एव निर्वर्तनाधिकरणम् । तत्र मूलगुणनिर्वर्तना - पश्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा । अनुक्तोऽपि च प्रत्यासत्तेर्गम्यते, अतो मूलगुणनिर्वर्तनाधिकरणम् । औदारिकादीनि पञ्च शरीराणि । तानि च द्वितीयाध्याये व्याख्यातानि प्रकृतवस्तुनि योज्यन्ते । औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणमात्मनो भवति, बन्धनिमित्तत्वात् । उत्तरगुणनिर्वर्तनाधिकरणमौदारिकस्याङ्गोपाङ्गसृजाकर्णवेधावयवसंस्थानादि । निर्वर्तनाधिकरणस्य वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य स्वरूपम् संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्य तूत्तरगुण निर्वर्तनाधिकरणमङ्गोपाङ्गकेशदशननखादिकगू, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रम्यनिर्मापितं संस्थानं मूलगुण निर्वर्तनाधिकरणम्, उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गःदि, कार्मसङ्घातलक्षणस्य कार्मणस्यापि तद्योग्यद्रव्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, उत्त रगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्युष्णलक्षणस्याशितपीतपावकशक्तिभाजो लब्धिप्रत्ययस्य च पेरनिग्रहानुग्रहकारिणः स्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्याप्युत्तरगुणनिर्वर्तना नैवास्तीति ॥ वाङ्मनः प्राणापानाश्चेति । चशब्दान्मूलगुणनिर्वर्तनाभिसंबन्धः । वाङ्मनोवर्गणायोग्यद्रव्यनिर्मापितौ वाङ्मनः संस्थानविशेषौ मूलगुणनिवर्तनाधिकरणम् । तथा प्राणापान वर्गणायोग्य निर्मापितौ उच्छास निश्वासाकारौ मूलगुण निर्वर्तनाधिकरणम् । एषामप्युत्तरगुणनिर्वर्तना न सम्भवत्येवेति । मूलगुणनिर्वर्तनाधिकरण मित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वर्तनामाचिख्यासुराह - काष्ठपुस्तचित्रकर्मादीनीति । कर्मशब्दः प्रत्येकमभिसम्बध्यते । तत्र काष्ठकर्म कुट्टिमपुरुषादीनां कृतिः, अत एवोत्तरगुणनिर्वर्तनोच्यते । प्रसिद्धपुरुषाद्याकृतेः प्रतिबिम्ब निर्वर्तनादेव पुस्तचित्रकर्मणी अपि वाच्यम् । पुस्तकर्म सूत्रचीवरकादिग्रथितकृत्रिमपुत्रकादिकं, चित्रकर्मात्यन्तप्रसिद्धम् । आदिग्रहणात् लेप्यपत्र १' परितो गृहानु• ' इति सग-पाठः । , २१ For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ तस्वार्याधिगमसूत्रम् [ अध्यायः ६ छेधजलकर्मभूकर्मपरिग्रहः । शस्त्रमप्यनेकाकारमाख्यातं कृपाणादि । वधस्थानता मूलगुणनिर्वर्तनाधिकरणं, तीक्ष्णतोज्ज्वलताद्युत्तरगुणाधिकरणमिति ॥ अधुना निक्षेपाधिकरणस्वरूपनिर्धारणायाह मा०-निक्षेपाधिकरणं चतुर्विधम् । तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरण दुष्प्रमार्जितनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणमिति ॥ टी–निक्षेपाधिकरणं चतुर्विधमित्यादि । तद्यथेत्यादिना चतुरः प्रकारानादर्शयति। अप्रत्यवेक्षिते-चक्षुषाऽनिरीक्षिते भूप्रदेशे निक्षेप्यस्य दण्डकादेः स्थापनमधिकरणं, प्रत्यवेक्षितेऽपि भूप्रदेश दुष्प्रमार्जिते रजोहरणेनाप्रमार्जिते वा निक्षेपोऽधिकरणं भवति । सुप्रमार्जितं त्वेकतस्त्रिरिति । तद्विपरीतं दुष्प्रमार्जितम् । सहसेति शक्त्यभावाच्चेतयतोऽप्यप्रत्यवेक्षितदुष्प्रमार्जितदेशे निक्षेपोऽधिकरणस्येतरोऽपि सहसा निक्षिपतः, अनाभोगोऽत्यन्तविस्मृतिः, नहीदं स्मरति प्रत्यवेक्षिते सुप्रमार्जिते च देशे निक्षेप्तव्यम् , तथाविधस्य निक्षेपोऽधिकरणमिति ॥ इदानीं संयोगाधिकरणद्वैविध्यमिति प्रदर्शनायाह भा०-संयोगाधिकरणं विविधम्-भक्तपानसंयोजनाधिकरण उपकरणसंयोजनाधिकरणं च। टी-संयोगाधिकरणं विविधमित्यादि । तत्र भक्तमशनखाद्यस्वाधभेदाद विधा । तस्य संयोजनं पात्रे मुखे वा व्यञ्जनगुडोपदंशफलशाकादिना सह, तथा द्राक्षादाडिमपानकाद्यपि प्रासुकजलारनालादि च खण्डशर्करामरिचादिमिः, ए[व]तद्भक्तपानसंयोजनाधिकरणम् , उपकरणसंयोजनाधिकरणम् । __ सम्प्रति निसर्गाधिकरणत्रैविध्यप्रतिपादनायाह मा०—निसर्गाधिकरणं त्रिविधम्-कायनिसर्गाधिकरणं वानिसर्गाषिकरणं मनोनिसर्गाधिकरणमिति ॥ १० ॥ टी-निसर्गाधिकरणमित्यादि । कायः-शरीरमौदारिकादिभेदं तस्य निसर्गोन्यायापेतमुज्झनमविधिना स्वच्छन्दत इतियावत् । शस्त्रपाटनामिजलप्रवेशोद्वन्धनादिमिः । वाचोऽपि त्यागः-प्रेरणं शास्त्रोपदेशाहते । मनसश्चेति । अत्र बहियापारापेक्षया शरीरादीनामजीवनिसर्गाधिकरणत्वमुक्तम् । जीवाधिकरणे चात्मनः परिस्पन्दोऽन्तःपरिणामो योगः। मूलगुणनिवर्तनाधिकरणेऽवस्थानमात्रमेषामिति विशेषः ॥१०॥ देशनिशेपा०' इत्यपि पाठः । अस्य व्याख्या किं न कृतेति प्रश्नः । ३ ‘च संस्थान• ' इति ग-पाठः । For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ सूत्र ११] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अत्राह-उक्तं भवता ( अ० ६, सू० ५ ) सकषायाकषाययोर्योगः साम्परायिकेर्या पथयो रास्रव इति । साम्परायिकं चाष्टविधं वक्ष्यते ( अ० ६, सू० २८ ) । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति । । अत्रोच्यते - सत्यपि योगत्वाविशेषे प्रकृतिं प्राप्यासवविशेषो भवति । तद्यथा टी० - अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । अत्र सामान्यास्रव विचारे भवतोक्तम् । किमुक्तमिति उक्तस्यानुवादं करोति - सकषायाकषाययोर्यन्धकयोर्योगःकायादिव्यापारो यथासंख्यं साम्परायिकेर्यापथयोः कर्मणोरास्रवो भवति । इतिशब्द एवशब्दार्थे । एवमुक्तं भवतेति । साम्परायिकं चाष्टविधं ज्ञानावरणादिभेदेनाभिधास्यते कर्म जातिभेदेन । एवं सति फलभेददर्शनात् सन्देहबीजसम्भवः । तस्मात् प्रष्टव्यम् - किं सर्वस्य ज्ञानावरणादेरष्टविधस्यापि कस्यापि कायादियोगोऽविशिष्टः - सामान्यलक्षण आस्रव आहोस्वित् प्रतिविशेषो - भेदः कर्म प्रति कश्चिदस्तीति । इतिकरणं प्रश्नेयत्तां दर्शयति । अत्रोच्यते इत्याहाचार्यः । अस्ति भेद इति संगिरामहे । योगसामान्येनाभेदे भवत्यपि योगसामान्येनैकरूपपुद्गलग्रहणे सति वक्ष्यमाणास्रवविशेषैः कर्मजातेः फलभेदः, यथा आहारः कश्चिदेकरूपोऽपि जग्धः प्राप्य जठरं रस- रुधिर - मांस- मेदो-मज्जा-स्थि-शुक्र-मलविशेषभावेन परिणमते, तथैकप्रयोगचितेऽस्य कर्मण आस्रवभेदसम्भवे सति अष्टधा परिणामः प्रकृर्ति प्राप्येति । प्रकृतिः - स्वभावः । किञ्चित् कर्म ज्ञानावरणस्वभावं किञ्चिद् दर्शनावरणस्वभावं इत्येवमष्टविधमपि भिन्नस्वभावं वक्ष्यते, अतः प्रकृतिमाश्रित्य आस्रवभेदः । तद्यथेत्यनेन तथास्स्रवभेदं प्रति प्रकृतिं प्रत्यक्षीकरोति । नाप्यक्रमन्यस्तयोस्तावदाद्ययोः प्रकृत्योरास्रवभेदः । २३ सूत्रम् - तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ।। ६-११ ॥ - टी० - प्रदोषादयः कृतद्वन्द्वा अपि तच्छब्देन सह विहितषष्ठीतत्पुरुषसमासाः सूत्रकृता निर्दिष्टाः । तयोः प्रदोषादय इति सामान्येनाभिनिर्वृत्ते समासे पश्चादिदमुच्यते - तयोरिति कयोः प्रदोषादय आस्रवा इत्याह- ज्ञानदर्शनावरणयोरिति । ज्ञानं च दर्शनं च ज्ञानदर्शने, आवरणम् - आच्छादनं ज्ञानदर्शनावरणयोरिति । एनमेवार्थ भाष्येण स्पष्टयति भा०-- आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो ज्ञानावरणीयकर्मण मात्सर्यम् अनन्तराय आसादनं उपघात इति ज्ञानावरणास्रवा भवन्ति । एतैर्हि ज्ञानावरणकर्म बध्यते । एवमेव दर्शनावरणस्येति ॥ ११ ॥ आस्रवाः १ 'भरणस्याखवा' इति घ-पाठः । For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ टी० - आस्रवो ज्ञानस्य ज्ञानवतामित्यादि भाष्यम् । उक्तलक्षण आस्रवस्तमभिसम्बध्नन् प्रदोषादिना एकैकेनैकवचनात् । तमेवाह - आस्रव इति । कस्यास्रवः प्रदोषादिः किंविषयो वेति शङ्कायां साम्परायिकाष्टविधकर्मप्रस्तावात् प्रतिविशिष्टानुपूर्वीव्यवस्थातश्चाद्यप्रकृतिमेव सम्बध्नाति - ज्ञानस्येति । ज्ञानस्य सम्बन्धिनः प्रदोषादयो ज्ञानविषयास्तदावरणस्य कर्मण आस्रवा भवन्ति । ज्ञानं चेतना आत्मनः स्वरूपं इति । तत्प्रतिपिपादयिषयेदमाह-एतैर्हि ज्ञानावरणकर्म बध्यते । यस्मादेतैः करणभूतैःअध्यवसायविशेषैः प्रदोषादिभिरात्मना स्वपरिणामैः कर्म ज्ञानावरणाख्यं बध्यते उपादीयते गृह्यते तस्मादेव आखवा इति । एवं ज्ञानावरणास्रवानाख्याय तत्तुल्यत्वाद् दर्शनावरणस्यातिदेशं करोति - एवमेव दर्शनावरणस्येति । एवमेवेत्यनेनातिदेशं प्रतिपादयति, यथा ज्ञानावरणस्यास्रवाः प्रदोषादयस्तथा दर्शनावरणस्यापि कर्मण एत एवास्रवा बोद्धव्याः । दर्शनं चक्षुरचक्षुरवधिकेवलभेदम् | सामान्यमात्रोपयोगश्चेतनादिविशेषः, तस्यावरणं नवधा, निद्रादयोsपि हि यथोक्तलक्षणाचक्षुर्दर्शनादि विघातकारित्वात् तदावरणम्, अत्राप्युपघात इति । इतिशब्देनाद्यार्थे नालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयः परिगृह्यन्ते दर्शनावरणीयकर्मण इतिशब्दस्तु ज्ञानदर्शनावरणयोरास्त्र वेयत्ताप्रदर्शनार्थः । एवमुक्तेन प्रका रेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्र दर्शनावरणस्य आस्रवा भवन्तीति प्रतिपादितम् ॥ ११ ॥ आस्रवाः २४ इदानीमसद्वेद्यसद्वेद्ययोरास्त्रवाचिन्त्यन्ते, यथाऽनयोः कर्मप्रकृत्योर्नियमेनायमास्रवक लापः । तद्यथा- दुःखशोकादिभिर्भूतत्रत्यनुकम्पादिभिश्च यथाक्रममसद्वेद्यसद्वेद्ययोरास्त्रत्रकलापोsवगन्तव्यः सूत्रद्वयेन - सद्वेद्यस्यास्रवाः असद्वेद्यस्यास्रवाः सूत्रम् — दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसदेद्यस्य ॥ ६-१२ ॥ सूत्रम् - भूतव्रत्यनुकम्पा दानं सरागसंयमादि योग: क्षान्तिः शौचमिति सद्वेद्यस्य ॥ ६-१३ ॥ टी०—– दुःखादयः कृतद्वन्द्वाः षडप्यास्रवा भवन्त्यसद्वेदनीयस्य कर्मणः । भूतव्रत्यनुकम्पादयोऽपि पञ्चाविहितद्वन्द्वाः सदनीयस्य कर्मण आस्रवा द्रष्टव्याः । तत्र प्रथमसूत्रभाष्यम् भा० - दुःखं शोकः तापः आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणानि उभयोश्च क्रियमाणानि असदेद्यस्यास्रवा भवन्तीति ॥ १२ ॥ For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ २५ सूत्र १३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-दुःखं शोकस्ताप इत्यादि । तत्र दुःखयतीति दुःख वधलक्षणं विरोधिद्रव्या तरोपनिपातादभिमतवियोगानिष्टश्रवणादसवेद्योदयापन्नः पीडालक्षणः दुःखादीनां लक्षणानि परिणाम आत्मनो दुःखमित्यर्थः । अनुग्राहकस्नेहादिव्यवच्छेदे वैलव्य विशेषः शोकः। अभिमतद्रव्यवियोगादिपारिभाव्यादाविलान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । परितापसंयुक्ताश्रुनिपाताङ्गविकारप्रचुरविलापादिव्यक्तम् आक्रन्दनम् । प्राणिप्राणवियोजनं वधः कशायभिघातश्च संक्लेशप्रवणः । स्वपरानुग्रहनाथनमनुकम्पाप्रायं परिदेवनम् । शोकादयस्तु सर्वे दुःखजातीया एव, तथापि पृथगभिधानमकारि सूत्रकारेण, तद्विषयासंख्येयत्वेऽपि कतिपयविशेषसम्बन्धेन तज्जात्याख्यानात् । इतिशब्द आद्यर्थे । आदिग्रहणाच निरनुकम्पत्वावाहनविहेठनदमनबन्धाङ्गोपाङ्गवेदनासंक्लेशजननतीवाशुभपरिणामप्राणिवधादयः परिगृह्यन्ते । आत्मा च परचोभयं च तेषु स्थितानि दुःखादीन्यात्मपरोभयस्थानि । तद् विवृणोति-आत्मस्थानीति । स्वात्मनि वर्तमानानि यथोक्तलक्षणानि दुःखादीनि सर्वज्ञप्रणीतागमनिरपेक्षाणि असद्वेद्यस्य कर्मण आस्रवा भवन्ति । विदेश्वेतनकर्मणो ग्रहणम् । असदिति वेद्यते यत् तदेतदसवेद्यम्, अप्रशस्तत्वात् । तथा परस्य क्रियमाणानि स्वात्मव्यतिरिक्तस्य चेतनावतः पदार्थस्योत्पाद्यमानानि । एतान्येव दुःखादीनि स्वात्मपरयोरपि क्रियमाणान्यसवेद्यस्य कर्मण आस्रवा भवन्तीति पूर्व स्वात्मन एव दुःखाद्युत्पादयन्ति शस्त्रपाटना-ऽग्निप्रवेश-भृगुप्रपातादिना, परस्यैव वा शस्त्रादिना दुःखाद्युत्पादयन्तिउभयस्थानि तु अधमणेसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयोः क्षुत्कृत एव दुःखादिः सम्भवति ॥ १२ ॥ एवमसद्वेद्यास्त्रवान् निरूप्य सद्वेद्यास्रवनिरूपणार्थमाह भा०- सर्वभूतानुकम्पा अगारिष्वनगारिषु च प्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमः अकामनिर्जरा बालतपोयोगः क्षान्तिः शौचमिति सदेद्यस्यास्रवा भवन्ति ॥ १३ ॥ टी.-सर्वभूतानुकम्पेत्यादि द्वितीयसूत्रभाष्यम् । सर्वाणि च तानि भूतानि चेति .. सर्वभूतानि, भवन्ति अभूवन भविष्यन्ति च (इति भूतानि) पृथिव्यप्तेजोभाष्यगतशब्दानां 'वायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाख्यानि तेषु । अनुकम्पा दया घृणेत्य. नर्थान्तरम् । अगारं-गेहं खंण्डणीपेपणीचुल्लयुदकुम्भमार्जनीव्यापार१'बाधालक्षणं ' इति ङ-पाठः । २ ' दयापेक्षः' इति ङ-पाठः । ३ 'बन्धः' इति हु-पाठः । ५ ' चेतन माचरतः' इति ङ-पाठः । ५ 'तपो योगः' इत्यपि संभवति । - विचार्यताम्-"खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी । पञ्च सना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥१॥" व्याख्या For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ २६ तच्चार्थाधिगमसूत्रम् [ अध्यायः ६ योगः अनिवृत्तानां वा कार्यटिकादीनां गृहस्थलिङ्गभाजामाचारोऽगारशब्दवाच्यः, तद्योगादगारिणस्तेष्वगारिषु, गृहस्थेष्वित्यर्थः । तद्विपरीता अनगाराः कुतश्चित् पापस्थानान्निवृत्ताः कुतश्चिन्न निवृत्ताः सर्वे पाखण्डिनः श्रावकाः सर्वारम्भव्यावृत्तिभाजो वा यतयस्तेषु चानगारिषु प्राणातिपातादिनिवृत्तित्रतसम्पन्नेषु अनुकम्पाविशेषः - प्रकृष्टानुकम्पा अतिशयवती । यत् तेषु दानं भक्तपानवस्त्र पात्राश्रयादेर्दीनानाथवनीयकादिषु अगारिष्वनगारेषु च ज्ञानदेर्शनाचरणसम्पन्नेषु त्वेकान्तकर्मनिर्जराफलं च भवति । अथवाऽनुग्रह बुद्ध्याऽऽर्द्रीकृतचेतसः परपीडामात्भसंस्थामिव कुर्वतोऽनुकम्पनमनुकम्पा । स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दानम् । रञ्जनाद रागः -संज्वलनलोभादिकषायाः तत्सहवर्ती सरागः । संयमनं संयमः - प्राणिवधा ग्रुपरतिः । सरागस्य संयमः सरागसंयमः । मूलगुणोत्तरगुणसम्पल्लोभाद्युभयभाज इतियावत् । संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिः अणुव्रत गुणत्रत शिक्षात्रत विकल्पा । विपयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादुपभोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो निर्जरणं - पापपरिशाटः पुण्यपुद्गलोपचयश्च, परवशस्य चामरणमकामनिर्जरायुषः परिक्षयः । मिथ्याज्ञानोपरक्ताशया बालाः शिशव इव हिताहितप्राप्तिपरिहारविमुखाः तपो जलानलप्रेवेशे हिनी साधन गिरिशिखरभृगुप्रपातादिलक्षणं तेन तादृशा तपसा बालानां योगो बालसम्बन्धित्वाद् वा तपोऽपि बालं तेन बालतपसा योगो बालतपोयोगः । अथवा बालं तपो येषां ते बालतपसः । लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । दण्डभावनिवृत्त्यर्थं योगाभिधानम् । धर्मप्रणिधानात् क्रोधनिवृत्तिर्मनोवाक्कायैः क्षान्तिः, क्रोधकषायोदय निरोधः उदितस्य वा कथञ्चिद् वैफल्यापादनम् । क्षमा सहनं, क्षमेरुदितो दैवादिकस्य क्षान्तिः, अन्यस्य तु क्षमैव । लोभकषाय विशेषाणामुपरमः शौचम् । स हि कषायस्तृष्णालक्षण आन्तरो मलस्तत्प्रक्षालने शौचं रक्तस्यात्मवाससः सन्तोषवारिणा विमलतापादनं, निरुद्धवाक्कायमनोऽकुशलप्रवृत्तेश्वरणं तपोऽनुष्ठायिनः प्रायो निर्जराफलम्, तदेकदेशानुष्ठायिनस्तु सद्वेद्यास्रवः । तथा द्रव्यशौचं स्नेहगन्धलेपापकर्षलक्षणं प्रासुकजलादिना क्रियमाणमास्रवः सद्यस्य भूयसा जायते । इतिशब्दः प्रकारार्थ आद्यर्थो वा । धर्मानुरागः 'धनिषेवणशीलव्रत पौषधोपवासरतितपोऽनुष्ठानबालवृद्धतपस्विग्लानवैयावृत्त्यानुष्ठानधर्माचार्य मातृपितृभक्ति सिद्धचैत्यपूजाशुभ परिणामाच सदेद्यस्यास्रवा भवन्तीति ॥ १३ ॥ सद्वेधस्यान्येऽप्यास्रवाः एवमभिधाय सदसत्प्रकारस्य वेदनीयकर्मण उपादानहेतूनधुना दर्शनचारित्रमोहभाजो मोहनीयस्य संसारपद्धतिलताबीज स्यात्मलाभहेतव उच्यन्ते १' दर्शनचरण ' इति ङ-पाठः । २ 'प्रवेशेऽमिनीसाधन गिरि ० ' इति ङ-पाठः । For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य–टीकालङ्कृतम् सूत्रं १४ ] २७ सूत्रम् — केवलिश्रुतसङ्घधर्मदेवावर्णवादी दर्शनमोहस्य ॥ ६-१४ ॥ भा०- भगवतां परमर्षीणां केवलिनामर्हत्प्रोक्तस्य च साङ्गोदर्शनमोहस्यास्त्रवाः पाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रत साधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादी दर्शनमोहस्यास्रवा इति ॥ १४ ॥ टी० - भगवतामित्यादि भाष्यम् । षण्णामर्थादीनां भगाभिधानात् तद्योगाद् भगवन्तः तेषां भगवतामिति । अर्थादयो नृपैरपि सम्भवन्तीति तद् व्यवच्छेदायाह - परमर्षीणामिति । प्रकृष्टा ऋषयः सम्यग्दर्शनज्ञानाचरणसम्पन्नाः ते चाकेवलिनोऽपि भवन्तीति, अतः haलिनामित्याह । सकलज्ञानावरणक्षयसमुद्भूतः समस्तज्ञेय विषयोऽवबोधः साक्षात्परिच्छेदी चेतनापर्यायः केवलं तल्लाभात् केवलिनस्तेपामवर्णः रागद्वेषमोहसमावेशादसद्द्भूतदोषोद्भावनं सत्यवाक्प्रयोगो वा निन्दाप्रख्यापनं वा वदनं वा दोषभाषणमवर्णस्य केवलिनोऽवर्णबादः वादोऽवर्णवादः । तद्यथा - 1 - दिगम्बरत्वाद् विगतत्रपाः क्रमोपयोगभाजः समवसरणभूमावष्कायभूम्यारम्भानुमोदिनः सर्वोपायनिपुणा अपि दुष्कदुरुपचारमार्गोपदर्शिन इत्याद्यवर्णोद्भासनम् । तस्वार्थश्रद्धानलक्षणं दर्शनं तत् मोद्दयति-आच्छादयतीति दर्शनमोहस्तस्यास्रवो भवति, मिथ्यात्वादेरित्यर्थः । आर्हन्त्यनामकर्मोदयादर्हन्तःतीर्थकरास्तैः प्रोक्तं-प्रकर्षेणोपदिष्टं अविपरीतं यथावस्थितज्ञेयानुसारि श्रुतम् । कारणे कार्यो-. पचारं कृत्वा प्रोक्तमित्युक्तम् । चशब्दः समुच्चये । अङ्गानि द्वादशाचारादीनि दृष्टिवादान्तानि उपाङ्गान्यौपपातिकप्रभृतीन्यङ्गार्थानुवादीनि । सहाङ्गोपाङ्गैर्वर्तत इति साङ्गोपाङ्गम् । तस्य च श्रुतस्य-प्रवचनस्यावर्णप्रख्यापनं अविदग्धप्राकृतभाषानिबद्धं श्रुतस्यावर्णवादः व्रतकायप्रायश्चित्तप्रमादोपदेश पुनरुक्तताबहुलं कुत्सितापवादप्रायमित्येवमाद्यवर्णोद्भासनं श्रुतज्ञानस्येति । चत्वारो वर्णाः साधुसंयती (साधी)श्रावकश्राविकाख्याः । वर्ण्यन्त इति वर्णा- भेदास्तेषु चतुर्षु वर्णेषु भवधातुर्वर्गः सङ्घो - गणः । अथवा सम्यक्त्व-ज्ञान- संवर-तपांसि चत्वारो वर्णा- गुणास्तद्भवश्वातुर्वर्गः, चतुर्णां वर्णातामयं चातुर्वर्णः सङ्घः, न तु सुगतशिष्याणां भौतानां वा । तस्य चतुर्विधस्य सङ्घस्यावर्ण: । साधवस्तावत् सचित्ताद्याभवद्व्यवहारपरायणाः परिपेलवचासंयतादीनामवर्णवादः ह्यशौचाचाराः जन्मान्तरकृतकर्मोदयजनित केशोल्लुश्च नातापन दुःखानुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदानाः भूयोऽपि दुःखिता एव भविष्यन्तीत्यवर्णोद्भावनम् । एवमेव च संयतीनामवर्ण भाषणम् । तथा श्रावक श्राविका - णामपि निन्दनमनेकप्रकारम्-न स्नानं धर्मार्थमेषाम्, न च द्विजातिभ्यो दान, नं प्रपादिकरणम्, हरिकेशकल्पाः खल्वेतं, गोशृङ्गमेषां गेहाङ्गगद्वारि निखायतामित्याद्यवर्णप्रकाशनम् । For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [अध्यायः ६ सामान्येन वा सङ्घस्यावर्गख्यापनम् । काकभृगालसारमेयानामपि समुदायः सङ्घ एवोच्यते । तेन सङ्घोऽगौरवास्पदम् । यच्चाभिधीयते-तीर्थकरानन्तरत्वात् सङ्घः सपर्याहस्तदपि स्वमनीषापरिकल्पनमात्रमित्याद्यवर्णोद्भावनम् । तथा पञ्चमहाव्रतसाधनस्य धर्मस्यावर्णभाषणं, पञ्चसंख्यापरिच्छिन्नानि महान्ति व्रतान्यणुव्रतापेक्षयः जायन्ते तानि साधनमस्य धर्मस्य पश्चमहाव्रतसाधनः, मनोवाकायैः कृतकारितानुमतिभिश्व प्राणिवधादिनिवृत्तयो महाव्रतानि, रजनिभोजनाधाकर्माद्यशेषोत्तरगुणाक्षेपो महाव्रतैरेव, अतः क्षमादेर्दशलक्षणकस्य धर्मस्यावर्णवादो दर्शनमोहस्यास्रवः, न पशुविशसनादेर्धाभासस्य, मायासुनुप्रणीतस्य चारम्भकस्य । कः पुनस्तस्यापवादः अभ्युदयापवर्गहेतुर्धर्मो न प्रत्यक्षादिना प्रमाणेन विषयीक्रियते । ने चाsप्रमाणकोऽस्तीति वक्तुं पार्यते । न च पुद्गला धर्मशब्दवाच्याः पुद्गलत्वादेव । नाप्यात्मपरिणामो धर्मः आत्मशब्दपरिणामवाच्यत्वात् क्रोधादिपरिणामवदित्याद्यवर्णभाषणम् । चतुर्विधानांच देवानामवर्णवादः। चतस्रो विधा येषां ते चतुर्विधाः-भवनपति-व्यन्तर-ज्योतिषिक-वैमानिकाः । चशब्दः समुच्चयार्थः । तेषां चावर्णवादो दर्शनमोहस्यास्रवः । परस्परप्रवीचाराः खलु देवाः षण्ढवत् । अपरे बलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमासेवन्ते देवानामवर्णवादः स्तब्धलोचनपुटास्तथाऽत्यन्तासद्भूतदोषप्रख्यापनशुक्रशोणितवल्युपहारा शिनो देवाः। अहल्यायै जार इन्द्रः कृतभगसहस्रः छात्रैधेर्षित इत्याद्यशिष्टव्यवहारावघोषणं देवानामवर्णवादः । इतिशब्देनाद्यर्थेन तीव्रमिथ्यात्वपरिणामोन्मार्गदेशनधामिकजनतासंदूषणसर्वत्रसिद्धदेवानर्थाभिनिवेशासमीक्षितकारितासंयतपूजाप्रयोगा दर्शनमोहस्य संसारपरिद्धिमूलनिमित्तस्यानन्तसंसारानुबन्धिनो मिथ्यात्वस्यास्रवा द्रष्टव्याः ॥ १४ ॥ अथ चारित्रमोहनीयस्य क आस्रव इत्युच्यतेसूत्रम्-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ ६-१५॥ मा०-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्यास्रवो भवति ॥१५॥ टी०-कषायाः-कोपादयः तेषामुदितिः उदयः स निमित्तत्वेनापदिश्यते । अस्य कोपादेः कषायस्य तीव्रा:-प्रकृष्टाः परिणामा-आत्मनोऽवस्थाविशेषाः शब्दादि विषयेषु गायमीाल - त्वमनृतवादित्वं वक्रता परदाररतिप्रियता स्त्रीवेदवन्धहेतवः, ऋजुसमा... चारता मदक्रोधकषायादिना स्वदाररतिप्रियता अनीालुत्वं पुरुषवेदव न्धहेतवः, तीव्रक्रोधादिना पशूनां वधक्षणनमुण्डनरतित्वं स्त्रीपुरुषेध्वनङ्गसेवनशीलता शीलवतगुणधारिणः पापण्डयोषित्सव्यभिचारकारिता तीव्र विषयानुबन्धिता च नपुंसकबन्धहेतवः, उत्प्रासनदीनाभिलाषिताकन्दर्पोपहासनबहुप्रलापहासशीलता हास्य 'यद्वाऽभि० ' इति क-पाठः। २' तथा ' इति इ-पाठः। ३ स्नात्रैषित' इति क-स-पाठः । .भन्यकोपादेः' इति ङ-पाठः । सीता नोकषाय For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ सूत्र १६] २९ वेदनीयस्यास्रवः, स्वशोकोत्पादशोचनपरदुःख निष्कारणशोकमूकताभिनन्दिता शोकवेदनीयस्य, विचित्र परिक्रीडनपर चित्तावर्जन बहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननादीनि रतिवेदनीयस्य, परराजप्रादुर्भावनरतिविनाशपापशीलताकुशलक्रियाप्रोत्साहनास्तेयादयस्त्वरतिवेदनीयस्य, स्वयंभयपरिणाम भयोत्पादन निर्दयत्वत्रासनादीनि भयस्य, सद्धर्मप्रसक्तचतुर्वर्णकुशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साया आस्रवा भवन्ति ॥ स्वोपज्ञभाष्य-टीकालङ्कृतम् कषायोदय । दित्यादि भाष्यम् । कषः - संसारः कर्म वा तस्य आयास्तेषामुदयो - विपाकस्तस्मात् कारणभूताद् यस्तीत्रः - प्रकर्षप्राप्त आत्मनो - भवितुः परिणामचारित्रमोहस्यास्रवो भवति । तद्यथा — परमधार्मिकाणां साधूनां गर्हणया धर्माभिमुखानां च विघ्नकारितया देशविरतिजनान्तरायकरणेन मधुमद्यगांसाविरतिगुणदर्शनेन चारित्रगुणसन्दूषणेनाचारित्रदर्शनेन परस्य कषायनोकषायोदीरणेन चरणगुणोपघातकारिकपायनोकपाय वेदनीयं चारिमोहं बनातीति ॥ १५ ॥ अथायुश्चतुष्टयस्य यथायथं क आत्रेवक्रम इति पृष्टे ब्रूमः - चतुर्णामाद्यस्य नियतकाल पाकस्य सूत्रम् — बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ ६–१६ ॥ भा०—बहारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति ॥ १६॥ टी० - बहुः - विपुलः - प्रभूतः आरम्भणमारम्भः - प्राणिप्राणव्यपरोपणं अनवरतखण्डनीपेषणी चुल्लयुदकुम्भप्रमार्जनी व्यापारो वा । बहुवासावारम्भथ बहारम्भः । परिग्रहणं परिग्रहः - मूर्च्छा-गा - ममत्वमान्तरेषु शरीरादिषु ब्राह्येषु च वस्तुषु क्षेत्र वास्तु हिरण्यसुवर्णादिषु स्नेहः । बहुश्चासौ परिग्रहश्च बहुपरिग्रहः तयोर्ब्रहारम्भपरिग्रहयोर्भावो बहारम्भपरिग्रहत्वम् तथा परिणाम आत्मनः । चशब्दः समुचितौ । तामेव भाष्येण दर्शयति । भावप्रत्ययं च प्रत्येकमभिसम्बध्नाति - बहारम्भता बहुपरिग्रहता चेति । नरकाः पापक सवानामधिवासा अनादिकालप्रसिद्धास्तेषु भवा नारकास्तेषां नारकाणां यदायुः - जीवनं तस्यास्रवो भवति । तेषु नारकेषु वा भवे यदायुरिति सम्बन्धः । अपरे ब्रुवते - बहारम्भाः परिग्रहा यस्यासौ बद्दारम्भपरिग्रहस्तद्भावो बहारम्भपरिग्रहत्वम् । चशब्दादागमोक्तं च कारणद्वयमभिसम्बध्नाति । कुगपाहाराभ्यवहारित्वमसकृत् पश्चेन्द्रिय सवबह्वारम्भपरिग्रहताया व्यापादश्चेत्यस्मिन् पक्षे भाष्यं न सम्यग् गमितं स्यात् । अपरे व्याचव्याख्यान्तरम् क्षते – बहारम्भपरिग्रहत्वं चशब्दात् कषायोदयात् तीव्रपरिणामश्चानुकृष्यते । एवमेव बद्दारम्भपरिग्रहकुणपाहारपश्चेन्द्रियवधा आसेविता भा १' भाधवा इति' इति पाठः । २ ' सम्बध्यते ' इति ङ-पाठः । For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ वतो बहुलीकृता नारकायुष आस्रवाः । एत एव प्रपञ्च्यमाना भेदमने प्रतिपद्यन्ते, मिथ्यादृष्टया श्रेष्ठाचारता गिरिराजिशैलस्तम्भकीचकडङ्गग्रन्थिकृमिरागसदृशकोपादिकषायता परपरितापकरप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरताविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वाभाव्यकृष्णलेश्यापरिणामरौद्रध्यानान्यास्रवप्रपञ्चो नारकस्यायुषः ॥ १६ ॥ उक्तो नारकस्यायुषो हेतुस्तत्समनन्तरं तैर्यग्योन्यायुष उच्यते सूत्रम्-माया तैर्यग्योनस्य ॥ ६-१७ ॥ भा०-माया तैर्यग्योनस्यायुष आस्रवो भवति ॥ १७ ॥ टी०-माया शाठयं वक्रता मनोवाकायिकी च कंकुणग्रन्थितुल्या । तिर्यञ्चःपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः नारकमनुष्यदेववर्जास्तेषां योनिस्तिर्यग्योनिः, योनिः-उत्पत्तिस्थानं,तत्र भवं तैर्यग्योनमायुस्तस्यास्रवो जायते । माया मिथ्यात्वावष्टम्भाधर्मदेशनारम्भपरिग्रहकूटकमेनीलकापोतलेश्यापरिणामातेध्यानोन्मार्गप्रज्ञापनामार्गप्रणाशसातिचारव्रतशीलताच वसुधाराजिसदृशकोपाद्यल्पारम्भसहाया, प्राधान्यख्यापनायैकाकिन्याः खलु मायायाः कृतं ग्रहणं सूत्रकारेण, स्पष्टीकृतमेवमाचक्षाणेनेति ॥ १७॥ उक्तस्तैर्यग्योनायुष आस्रवः । अथ मनुजायुष आस्रवः क इत्यत्रोच्यतेसूत्रम्-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥६-१८॥ भा०-अल्पारम्भपरिग्रहत्वं स्वभावमादेवाजेवं च मानुषस्यायुष आस्रवो भवति ॥ १८॥ टी०-आरम्भपरिग्रहावुक्तलक्षणौ । अल्पः-स्तोकः । अल्पारम्भपरिग्रहयोर्भावः अल्पारम्भपरिग्रहत्वम् । आत्मनो मन्दपरिणामता आरम्भे परिग्रहे च, स्वभावः-सहजोधर्मः सहज मार्दवं न तु कृत्रिमम् । प्रकृत्यैव जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतस्थानेषु गवरहितः मृदोर्भावः मार्दवं--मृदुता । तथा सहजमार्जवमृजो वो यथावस्थितमनोवाकायविषयवक्रतात्यागः । चशब्दः कारणान्तरसमुचितौ । एतदेव भाष्येण स्पष्टयति-अल्पारम्भपरिग्रहत्वमित्यादिना । अल्पारम्भत्वम्-अल्पप्राणातिपाताद्यनुष्ठायित्वम् , अल्पपरिग्रहत्वम्-अल्पेच्छता, शब्दादिविषया वाऽल्परागता, स्वभावमार्दवं स्वभावजैव भद्रता, स्वभावार्जवं प्रकृत्यैवर्जुता । चशब्दान्मिथ्यादर्शनातिविनीतत्वं, सुखप्रज्ञापनीयता वालुकाराजिसदृशरोपता स्वागताधभिलाषिता स्वभावमधुरता लोकयात्रानुग्रहौदासीन्यगुरुदेवताभिपूजा संविभागशीलता कापोतलेश्यापरिणामः धर्मध्यानध्यायिता मध्यमपरिणामता च मनुष्यस्यायुष आस्रवो भवतीति ॥ १८॥ 'दृष्टयाश्लेष्टावारता' इति ग-पाठः। २ 'कृणग्गं (2) विकल्पा' इति ङ-पाठः । For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ सूत्रे १९-२० ] स्वोपज्ञभाष्य-टीकालङ्कृतम् किमेत एवास्रवा नारकादीनामप्यन्येऽपि सन्ति । सन्तीत्याह सूत्रम्-निःशीलवतत्वं सर्वेषाम् ॥६-१९ ।। भा०-निःशीलतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामास्रषो भवति । यथोक्तानि च ॥ १९ ॥ टी-नि अभाववचनः, शीलम्-उत्तरगुणसम्पत् तदभावान्निःशीलः,प्राणातिपातादिनिवृत्तिव्रतानि तद्रहितो निवेतः ।भावप्रत्ययः प्रत्येकमभिसम्बध्यते । निःशीलत्वं नितत्वं च सर्वेषां नारकतैयग्योनमानुषाणां यदायुस्तस्यास्रवो भवति । चशब्दात् पूर्वोक्तहेतुकलापोऽपेक्ष्यते । एतदेव भाष्येण स्फुटयति-निःशीलवतत्वं चेत्यादिना । शीलवतयोर्भावः शीलवतत्वम्-आत्मनस्तथाविधः परिणामः तदभावो निःशीलवतत्वम् । सर्वेषामित्यविशेषप्रसङ्गेऽभिहितान्येव सम्बनिन्नाह । नारकतैर्यग्योनिमानुषाणामायुषामास्रवो भवति । नारकादित्रयायुषामेष चास्रवः, यथोक्तानि चेति चशब्दं व्याचष्टे-यथा यस्य नारकादिश्यायुषस्य पदम् (?) उक्तानि बढूवारम्भपरिग्रहा मायाऽल्पारम्भपरिग्रहखभावमार्दवार्जवकारणानीति ॥ १९ ॥ ___ अथ देवमप्यायुः सर्वशब्देन किं नाक्षिप्यते ? । भोगभूमिजास्तु मनुजा योषितो वा मिथ्यादृष्टयो निःशीलव्रता अपि मृत्वा देवेषूत्पद्यन्ते, न खलु तेषामणुव्रतमहाव्रतबालतपोऽकामनिर्जरासम्यग्दर्शनानां कश्चिदेवायुषो हेतुरस्ति, अथ च मरणानन्तरं देवभूयमासादयन्तीत्यवश्यतया कश्चिद् देवायुष आस्रवो वाच्यः । स च नान्यो निःशीलवतत्वादिति । ते हि शीलव्रतरहिताः प्राणातिपातादिषु न प्रवृत्ता न निवृत्तास्ततो मध्यवर्तिना सूत्रेणावश्यं देवायुरपेक्ष्यमेव, एवंविधं च भाष्यं नास्ति, अतो विदुषोपकल्पव्याख्या यथागमं कार्येति ॥ भा०-अथ देवस्यायुषः क आस्रव इति । अत्रोच्यते टी-अथेत्यादि सम्बन्धग्रन्थः । आस्रवोऽधिकृतसूत्रनारकतैर्यग्योनमानुषायुषामास्रवोऽभिहितः, अनन्तरं दैवस्यायुषो वाच्यः, तत्रानन्तर्यमथशब्देन प्रतिपादयति-देवानामिदं देवमायुस्तस्य क आस्रवः १ इतिकरणः प्रश्नपरिसमाप्तेरवद्योतकः । अत्र-पृष्टेऽभिधीयतेसूत्रम्-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ ६-२०॥ भा०–संयमो विरतिव्रतमित्यनर्थान्तरम् । हिंसानृतस्तेयाप्रमपरिग्रहेभ्यो विरतिव्रतमिति वक्ष्यते ( अ० ७, सू० १)॥ , 'स्पष्टयति' इति ङ-पाठः । २ ‘प्रदं ' इति क-पाठः। ३ . •पयुज्य व्याख्या ' इति -पाठः । For Personal & Private Use Only For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ टी-सरागसंयमादयश्चत्वारः कृतद्वन्द्वाः सूत्रेणोपात्तास्ते खल्वमी दैवस्यायुष आस्रवा भवन्ति, प्राक् तेन भाष्यकारेणोपन्यस्ता एव, न व्याख्याताः सद्वेद्यास्रवप्रस्तावे । अधुनातु स्वयमेव प्रपञ्चतोव्याचष्टे--संयमो विरतिव्रतमित्यादिना भाष्येण । सम्पूर्वाद्यमे वसाधनम् । संयमनं संयमः-सम्यग्ज्ञानपूर्विका विरतिः-प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः। नियमो व्रतमित्यनान्तरम् । रागः-संज्वलनकपायस्तत्सहवर्ती सरागस्तस्य संयमः सरागसंयमः। इतिकरणो नियमनिवृत्त्यायनेकपर्यायोपलक्षणार्थः। अनर्थान्तरमित्यनेनैकार्थाभिधायित्वं सूचयति पयोयशब्दानाम् । कतिप्रकारं पुनस्तद् व्रतं किंलक्षणं चेति पृष्टे इदमाह-हिंसानृतेत्यादि। हिंसादयः पञ्च कृतद्वन्द्वाः पञ्चमीबहुवचनेन निर्दिष्टाः । पञ्चमी च विरामार्थानां प्रयोगेऽभिहिता । हिंसादिभ्यो विरमणं यत् तद् व्रतमित्येवं वक्ष्यते--व्याख्यास्यते सप्तमाध्यायादौ । इतिशब्द एवमित्यस्यार्थे । एवमेष सरागसंयमो दैवस्यायुष आस्रवो भवति ॥ ___भा०-संयमासंयमो देशविरतिरणुव्रतमित्यनान्तरम् । देशसर्वतोऽणुमहती इत्यपि वक्ष्यते ( अ० ७, सू० २) ॥ अकामनिर्जरा पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च ।। बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः। तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि । तदेवं सरागसंयमसंयमासंयमादीनि च देवस्यायुष आस्रवा भवन्तीति ॥ २०॥ टी.-संयमासंयमः कुतश्चित केनचिदाकारेण निवृत्तिः कचित् प्रवृत्तिः, स्थूलपाणिविषयसंकल्पकृतप्राणव्यपरोपणनिवृत्तिमेव प्रतिजानीते गेही, न त्वारम्भजप्राणिप्राणव्यपरोपणविरमेऽपि संगिरते । तस्यैवंविधस्य संयमासंयमस्य पर्यायानाचष्टे-देशविरतिरणुव्रतमित्यनर्थान्तरम् । सम्पूर्ण प्राणातिपातायेकदेशो देशः स्थूलात् प्राणातिपाताद् विरमणे सति । एवमन्यत्रापि द्रष्टव्यम् । प्रपञ्चस्तु वक्ष्यते सप्तमाध्याये । अणु च तद् व्रतं च अणुव्रतम् । अणु-स्तोकं देशनिवृत्तिव्रतम् । इतिकरणेनागारिधर्मादिपर्यायाक्षेपः। एतच्च किमिहैव सकलं व्याख्यायते ? नेत्याह-देशसर्वत इत्यादि । देशतो विरातिरणुव्रत सर्वतो विरतिर्महाव्रतम् । एवं वक्ष्यतेभणिष्यते सप्तमेऽध्याये एव । संक्षेपतश्चैव दैवायुषः संयमासंयम आस्रवः । काम इच्छा प्रेक्षापूर्वकारिता तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा। निर्जरा-कर्मपुद्गलपरिहाणिः, न कामनिर्जरा अकामनिर्जरा, अनभिलषतोऽचिन्तयत एव कर्म पुद्गलपरिशाटः । सा च पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च । अकुशलं धावनवल्गनप्लवनलङ्घनावरोहणकूर्दनस्फोटनादि, तत् तु बलवता गृहीतो निगडादिसंयतः कर्तुमसमर्थः, नच रौद्राध्यवसायी, न च प्राणातिपातादिभ्यो निवृत्या, नापि तेषु प्रवृत्तः, परवशत्वादनास्वादितचतुर्विधाहारः । आंदिशब्दाच्छिशिरकाले निरावरणदेशव्यवस्थापितोऽपहतप्रावरणः शीत एमेतलाय.' इति क-पाठः । २ . विरमण' इति प्रतिभाति । 'मादिग्रहणात् इति पाठः। For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ ३३ सूत्र २१] स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्पातव्यथितविग्रहः, ग्रीष्मेऽपि तीव्रतिग्मांशुगभस्तिव्यूहसंस्पृश्यमानसर्वाङ्गोऽपनीतातपत्राणः। चशब्दः समुच्चितौ । अनुरोधाच्चेति । अनुरोधात् दाक्षिण्यं प्रीतिर्वोच्यते । मित्रस्वजनादेरापदि जातायामपरो यदा तदनुरोधात् प्रीतेर्वा सीददङ्गयष्टिर्विवशोऽकुशलनिरोधमातिष्ठते अरतिपरिगतवपुष्कचतुर्विधाहारविरुचिपरिणामो दैवस्यायुष आस्रवो . वर्तत इति, द्वाभ्यां रागद्वेषाभ्यां मिथ्यादर्शनसहवर्तिभ्यामाकलितो बालः सचावबोधपराङ्मुखः । तस्य पर्यायकथनं करोति-बालो मूढ इत्यनान्तरम् । मूढो विचित्तः । अतत्त्वे तत्त्वाभिनिवेशप्रवृत्तिर्यथावस्थितज्ञेयाननुकूल ज्ञानः । शेषमितिशब्दादि प्राग् व्याख्यातम् । तस्य तपो बालतपः इति । अनेन षष्ठीसमासप्रदर्शनेन समानाधिकरणनियमाभावं दर्शयति । बालं च तत् तपश्चेति बालतपः। बालं-असमर्थ सन्मार्गप्रतिपादने सकलकर्मक्षये वा । तथा बालस्यापि मूढस्य यत् तपस्तद् बालतप इति । कीदृक् पुनस्तदित्याह-तच्चाग्निप्रवेशेत्यादि । अग्निप्रवेशः-अग्नौ धर्माय पतनम् । मरुभृगुः नदीगिरितटाद्यधोदेशो वा तत्र पतनं प्रपातः। जलप्रवेशो-जले निमज्जनम्। आदिग्रहणात् बलायवशासिशल्योल्लङ्घनगृध्रभक्षणशस्त्रपाटनविषगरमरणादिपरिग्रहः । तदेवमित्यादिना समस्तमेव सूत्रार्थमुपसंहरति । तदिति तस्मात् । एवम्-उक्तेन प्रकारेण सरागसंयमसंयमासंयमादीनि चेति । सरागसंयमस्य प्राधान्यख्यापनार्थ भेदेनोपादानम् । इतरेषां निकृष्टत्वाद् यथाक्रमं समस्योपादानम् । आदिग्रहणादकामनिर्जराबालतपसी ग्राह्ये । चशब्दः समुच्चयार्थः । देवस्यायुष आस्रवा भवन्तीति पर्यन्तवर्तिनेतिकरणेन देवायुरास्रवविस्तारो द्रष्टव्यः । कल्याणमित्रसम्पर्कधर्मश्रवणगौरवतपोभावनापात्रदानमरणप्रत्यासन्नवर्तिशीततपनलेश्यापरिणामाव्यक्तसामायिकविराधितसम्यग्दर्शनादि च दैवायुष आस्रवा इति ॥२०॥ भा०-अथ नाम्नः क आस्रव इति । अत्रोच्यते टी०-एवं ज्ञानदर्शनावरणवेद्यमोहायुषां यथास्वमास्रवाभिधानमवसायानन्तरं पर आह-अथ नाम्नः क आस्रवः । इतिकरणः प्रश्नपरिसमाप्तौ । अत्र प्रश्ने यथावसरविरचितेऽभिधीयते तस्य प्रकारद्वैविध्यावस्थानादशुभनामकर्मास्रवस्तावदभिधीयते ॥ सूत्रम्-योगवकता विसंवादनं चाशुभस्य नाम्नः ॥६-२१ ॥ टी-योगः प्राग् व्याख्यातः । शक्तिरूप आत्मनः करणविशेषः कायवाड्मनोलक्ष. णस्तद्गता कौटिल्यप्रवृत्तिः स्वयमेव योगवक्रताऽनार्जवप्रणिधानं मायाचित्तं योगविपर्यास इत्यनर्थान्तरम् । विसंवादनं सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् । चशब्द उभयविशेषसमुच्चयार्थः । अशुभं यन्नामकर्म नरकगत्यादि चतुस्त्रिंशद्भेदं च तस्यात्रवो भवति । भाष्येण तदेव स्फुटयति भा०-कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥ २१ ॥ १' धायावसाया• ' इति ख-पाठः । For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ आस्रवा: तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ टी-कायवाङ्मनोयोगवक्रतेत्यादिना । कायादयः कृतद्वन्द्वास्तेषां वक्रताकायादिगतो मायाव्याहारः। सम्यरु प्रतिपत्तौ तद्विपरीतप्रतिज्ञापनव्यापारो विसंवादनमशुभनामकर्मण आस्रवः । कायस्य तावत् कुब्जवामनविक(कृ)टाङ्गप्रत्यङ्गावयवाक्षिनिकोचननासाभङ्गमलव्याधिविदूषकस्त्रीपुरुषभृत्यभृतकस्कन्दरुद्रराजर्षिविशेषावतारैरसद्भावोद्भावनं वक्रता । वाग्वक्रता यथा लाटः स्वभाववाविषयोपरतभावः गौडमालवाणेव विषयवासिनामायोणामनार्याणां च तद्भावो विडम्बनापरता । मनोवक्रताऽन्यदेव मनसि व्यवस्थाप्य लोकपतिपू. जासत्काराद्याजिहीर्षों बिभ्राणोऽन्यद् वाचा समाचरत्यन्यत् कायेन चेष्टते। एवं स्वविषयैव योगवकता। विसंवादनं तु परविषयम् । तच्च विसंवादनं निर्दिदिक्षितस्यार्थस्यावस्थितस्वमावस्यान्यथाकरणं पितापुत्रयोर्वा प्रीतिभाजोः परस्परं प्रीतिभेदकरणं वा विसंवादनम् । एवमेते कायादिविकल्पा नानोऽशुभस्यास्रवा भवन्ति । अनुक्तसमुच्चयार्थो वा चशब्दः । मिथ्यादर्शनमायाप्रयोगपिशुनास्थिरचित्तताकूटमानतुलाकरणसुवर्णादिप्रतिरूपकत्वानुष्ठानकूटसाक्ष्यदानाङ्गोपाङ्गच्यावनवर्णगन्धरसस्पर्शाद्यन्यथापादनयन्त्रपचरक्रियानिकृतिभूयिष्ठतापरनिन्दात्म प्रशंसामारणानृतवचनपरद्रव्यादानमहारम्भपरिग्रंहोज्ज्वलवेषरूपमदपरुषाअशुभनाम्न सभ्यप्रलापाकोशमौखर्यसौभाग्योपघातवशीकरणप्रयोगपरकुतूहलोत्पाद नालङ्कारदानचैत्यव्यपदेशगन्धमाल्यधृपादिचार्य विडम्बनोपहासेष्टकापाकदावामिप्रयोगप्रतिमायतनप्रतिश्रयारामोद्यानविनाशनतीवकषायपापकर्मोपजीवनादीनि चाशुभस्य नाम्न आस्रवा इति ॥ २१ ॥ अथ शुभनामकर्मणः क आस्रव इत्युच्यते-- सूत्रम्-विपरीतं शुभस्य ॥ ६-२२ ॥ भा०-एतदुभयं विपरीतं शुभस्य नाम आस्रवो भवतीति ॥ २२ ॥ किन्चान्यत् टी०–विपरीतमिति । एतदेवोभयमनन्तरसूत्रोक्तमास्रवद्वयं विपरीतं सदवक्रता योगानां सम्यक् प्रयोग आर्जवयुजस्त्वयं, अविसंवादनं वाऽविप्रलम्भनम्-अविप्रतारणं परस्परविपरीतग्रहणवदेव । चशब्दः समुचितौ । वैपरीत्यग्रहणमपि धार्मिकदर्शनसम्भ्रमसंसारभीरुताप्रमादवर्जनसद्भावार्पणासम्यक्त्वार्जवादयः शुभस्य नामकर्मणो मनुष्यगत्यादेः सप्त त्रिंशदुदयस्यास्रवा भवन्तीति ॥ २२ ॥ किश्चान्यदित्यनेन सम्बन्धमाचष्टे । अन्यच्चानुक्तं विशेषेण तीर्थकरनाम, सामान्येन शुभनामकर्मण आस्रवे प्रतिपादितेऽप्यचिन्त्यानुपमशक्तिप्रभावस्य त्रिप्रकारातिशयविशेषत्रैलोक्यविभूतिविजयिनस्तीर्थकरनाम्न इमे आस्रवा वेदितव्याः१. रसद्भावनं ' इति ङ-पाठः । २ गोपिनास्थिर०' इति स्व-ग-पाठः ।।' प्रहादू जलवेस: 'ति -पाठः । For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ सूत्रं २३ ] स्वोपज्ञभाग्य-टीकालङ्कृतम् सूत्रम् - दर्शन विशुद्धिर्विनयसम्पन्नता शीलवतेष्वनतिचारोऽनीक्ष्णं ज्ञानोपयोग संवेगौ शक्तितस्त्यागतपसी सङ्घमाधुममातीर्थकरनाम - धिवैयावृत्त्यकरणमर्हदाचार्य बहुश्रुतप्रवचन भक्तिरावश्यकर्मण आस्त्रयाः कापरिहाणिर्मार्गप्रभावना प्रवचन वत्सललमिति तीर्थकृत्त्वस्य ।। ६-२३ ॥ भा० – परमप्रकृष्टा दर्शनविशुद्धिः । विनयसम्पन्नता च । शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः । टी० – परमप्रकृष्टा दर्शनविशुद्धि रित्यादि भाष्यम् । परममित्यतिशयेन सुष्ठु प्रकृष्टाप्रकर्षपर्यन्तवर्तिनी परित्यक्तशङ्कादिदोषा । शङ्कादयश्च वक्ष्यमाणाः (अ० ७, सू० १८ ) सम्यग्दर्शनमलाः । का पुनरसौ परमप्रकृष्टेत्याह – दर्शन विशुद्धिरिति । " तत्त्वार्थश्रद्वानं सम्यग्दर्शनं " (अ० १, सू० २) उक्तलक्षणविधानं दृष्टिः- दर्शनं तत्त्वविषया रुचिः - प्रीतिः जीवादिषु प्रत्ययावधारणं तस्य दर्शनस्य नाना (वि) शुद्धिः - निर्मलता यथा नाना चित्रं विचित्रमिति, क्षायोपशमिकौपशमिक क्षायिकाणां सम्यग्दर्शनानां यथास्त्रं नाना शुद्धिर्विशुद्धिस्तीर्थकर नामकर्मण आस्रवः । विनय सम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञानदर्शनचारित्रोपचारभेदेन चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्शविनयस्य भेदप्रभेदाः विनय निःशङ्कनिः काङ्क्षादिभेदः । चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनयसम्पन्नता । सा च तीर्थकरनामकर्मण आस्रवः । शब्दः समुच्चयार्थः । तथा शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धिसमितिभावना [दयः] प्रतिमाभिग्रहलक्षणा मुमुक्षोः समाधिहेतुत्वात् शील शब्दाभिधेयाः । व्रतग्रहणात् पश्च महाव्रतानि रजनी भक्तविरतिपर्यवसानान्याक्षिप्तानि । शीलानि च व्रतानि च शीलव्रतानि । तेष्विति तद्विषयः । आत्यन्तिकः - अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावदविश्रान्त्या भवत्यात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः । प्रकृष्टोऽप्रमादो भृशमप्रमादः । विकटेन्द्रिय-विकथा - कषाय- निद्रालक्षणः पञ्चधा प्रमादः । अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तुमक्षमो भवति । न प्रमादोऽप्रमादः । प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते-अतिचरणमतिचारः - स्वकीयागमातिक्रमः । नातिचारोऽनतिचारः । उत्सर्गापवादात्मक सर्वज्ञ प्रणीत सिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः । एतच्च तीर्थकानामकर्मण आस्रवः । अभीक्ष्णं ज्ञानोपयोग इति । अभीक्ष्णं मुहुर्मुहुः - प्रतिक्षणं ज्ञानं - द्वादशाङ्गंप्रवचनं प्रदीपाङ्कुशप्रासादप्लवस्थानीयं तत्रोपयोगः - प्रणिधानम् । सूत्रार्थोभय विषय आत्मनो For Personal & Private Use Only ३५ Page #65 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूम् [ अध्यायः ६ ३६ व्यापारः । तत्परिणाभितेतियावत् । वाचनाप्रच्छनाऽनुप्रेक्षाऽऽनायधर्मोपदेशैरभ्यसनं तीर्थंकरनामकर्मण आस्रवः ॥ |---- भा० - संवेगश्च । यथाशक्तिस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः । 1 टी० – संवेगश्चेति । अभीक्ष्णमिति सम्बध्यते । चशब्दः समुचितौ । संबेसंवेगस्य व्याख्या जनं संवेगो भीतिर्विचलनं वा संसारदुःखाज्जातिजरामरणस्वभावात् प्रियविप्रयोगादेव भयपरिणामः प्रतिक्षणं जगत्कायानित्याशुचित्वादिचिन्तनाथ सांसारिक सुखेष्वनभिलाषस्तत्प्रवण परिणामाद् विचलनं संवेगः । स चाभीक्ष्णं तादृशः परिणामः समुपजायमानस्तीर्थ करनामकर्मण आत्रत्रः । यथाशक्तिः - सामर्थ्य -सखोत्कर्षः, यथा स्वानुरूपा शक्तिर्यथाशक्तिः तत्पूर्वकस्त्यागः स्वानुरूपशक्त्यपेक्षः, स्वस्य न्यायार्जितस्यानुकम्पा निर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विधिना यतिजनाय दानं - त्यागस्ती - र्थ करनामकर्मण आस्राः । तपश्चेति । यथाशक्तिरित्यभिसम्बध्यते । कर्मणस्तापनाच्छोषणात् तपः । तद् द्विधा, अन्तर्बहिर्भेदात् । पुनरेकैकं पोढा प्रायश्चित्तादिभेदादनशनादिभेदाच्च । तत् स्वसामर्थ्यापेक्षमनुष्ठीयमानं लोकपतिपूजाभिलापतृष्णा निरपेक्षेण चेतसा तीर्थ करनामकर्मण आस्रवः । सङ्घः –समूहः सम्यक्त्वज्ञान चरणानां तदाधारश्च साध्वादिश्चतुर्विधस्तस्य समाधानंस्वस्थता-निरुपद्रवत्वं समाधिस्तस्य करणं - जननम् - उत्पादनं तत् करोति येन ज्ञानदर्शनचरणानां वृद्धिर्भवति दिवस मनायाधाश्च साधुसंयती, देशय तिपुरुषयोषितः । ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । तेषां च वैयावृत्त्यकरणं व्यावृत्तः- तत्कार्यानुष्ठानप्रवणस्तस्य व्यावृत्तस्य भावो वैयावृत्यं, साधूनां मुमुक्षूणां प्रासुकाहारोपधिशय्यास्तथा भेषजविश्रामणादिषु पूर्वत्र च व्यावृत्तस्य मनोवाक्कायैः शुद्धः परिणामो वैयावृच्यमुच्यते । चशब्दः समुच्चये । अथवा सङ्घभट्टारकस्य समाध्युत्पादनं भावः - चित्तपरिणामः परमार्थभावस्तस्य विशुद्धिः-निर्मलता । अथवा परमा चासौ भावविशुद्धिश्च तद्युक्ता भक्तिः स्वगुणदोष।कृष्ट पमस्तसुरासुरपुरुपेश्वरेष्वचिन्त्यसामर्थ्येषु सन्मागोंपदेशात् परमोपकारिषु प्रकृष्टमनःपरिणामशुद्धिपूर्विका भक्तिः सद्भूतातिशयोत्कीर्तनवन्दनसेवा पुष्प धूपगन्धाभ्यर्चनायतनप्रतिमाप्रतिष्ठापन स्त्रपनविधिरूपा तीर्थ करनामकर्मण आस्रवः । पञ्चविधाचारानुष्ठानाद् यतिज - नाचरणीयोपदेशाद्वाऽऽचार्या धर्मोपदेशदीक्षाव्रतोपदेशदिग्याचका वा भवन्त्याचार्याः अत्रैव श्रुतवाचनाचार्यत्वादुपाध्यायग्रहणम् । अङ्गानङ्गप्रकीर्ण काद्यनेकश्रुततदर्थोभययोगाद् बहुश्रुताः । प्रोच्यन्तेऽनेन जी गदयः पदार्था इति प्रवचनम् - आगमः - श्रुतज्ञानम् । चशब्दः सम्मु 1 १' शक्तितस्त्यागः ' इति क-पाठः । २' निर्जरात्मा' इति ङ-पाठः । For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ सूत्रं २३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३७ चये । एतेषु परमा भावविशुद्धा भक्तियथासम्भवमभिगमनवन्दनपर्युपासनयथाविहितकमपूर्वकाध्ययनश्रवणश्रद्धानलक्षणा तीर्थकरनामकर्मण आस्रवः । भा०-सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः । सम्य. ग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना। टी०--सामायिकादीनामित्यादि। अरक्तद्विष्टः समः तस्य आयो-लाभ:-चरणदर्शनप्राप्तिः स प्रयोजनमस्येति सामायिकं सकलसावद्यविरतिलक्षणं प्रतिक्रमणकादि(१)तदादिर्येषां आवश्यकानां (चतुर्विंशतिस्तवादीनां) तानि सामायिकादीनि तेषां सामायिकादीनां आवश्यकानां अवश्यमहोरात्राभ्यन्तरे कर्तव्यान्यावश्यकानि-अवश्यतयाऽनुष्ठेयानि। तानि च सप्तदशविधानसंयमविषयव्यापाररूपत्वादनेकप्रकाराणि इच्छामिथ्यातथाकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः।भावत इति तदुपयोगानन्यत्वकथनम्। अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमानत्वाच्छुभवन्धनिर्जराफलशून्यमेव प्रवचने च घुष्यते ततः सद्भावावहितचेतसो यदनुष्ठानकरणं तस्यापरिहाणियथाविहितकालासेवनमन्यूनानतिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थकरनामकर्मण आस्रवो भवति । सम्यग्दर्शनेत्यादि । तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारस्तदादिर्यस्यासौ तदादिस्तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्ग:-पन्थाःप्राप्त्युपायो ज्ञानक्रियालक्षणस्तस्य प्रभावना-प्रख्यापन-प्रकाशनं । केन प्रकारेणेत्याह-निहत्य मानं करणोपदेशाभ्यामिति ।मान:-अहङ्कारः। सच जात्यादिस्थानोद्भूतः श्रेयोविघातकारी, यथाऽऽह (प्रशमरत्यां श्लो० २७) "श्रुतशीलविनयसं-दूषणस्य धर्मार्थकामविघ्नस्य । ___मानस्य कोऽवकाश, मुहूर्तमपि पण्डितो दद्यात् ॥ १॥" तमेवंविधं मानं न्यकृत्य करणं-स्वयमनुष्ठानं श्रद्दधतः कालविनयबहुमानाद्यासेवनं मूलोत्तरगुणप्रपश्चानुष्ठानं चेति । उपदेशोऽन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादादिन्यायावष्टम्भेन प्रसभमपहत्य प्रतिभामेकान्तवादिनामर्हत्प्रणीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योचैः प्रकाशनं प्रभावना । सा खल्वेषा तीर्थङ्करनामकर्मण आस्रवः । __ भा०-अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षकग्लानादीनां व सङग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न आस्रवा भवन्तीति ॥ २३ ॥ टी०-अर्हदित्यादि । वन्दननमस्कारपूजासत्काराहोः अर्हन्तस्तेषां शासतम्-उपदेश आगमाख्यस्तदनुष्ठायिनाम्-आगमविहितक्रियानुष्ठायिना, श्रुतधराणामित्यनेन स्वयमधिगतज्ञानानामिति प्रतिपादयति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो विदितो १०क्षग्लानादीनां' इति.घ-पाठः । For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्र [ अध्यायः ६ त्सर्गापवादप्रपञ्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते । बालः - क्षुल्लकः कारणप्रब्राजितो जघन्यादिभेदः । जातिश्रुतपर्यायस्थविरास्त्रयः, षष्टिवर्षः समवायधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं वृद्धः । तपो बाह्यमनशनादि, आन्तरं च प्रायश्चित्तादि, तदस्यास्तीति तपस्वी, विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात् तपस्वी | शिक्ष्यत इति शिष्यः (क्षः१), शिक्ष एव शैक्षः, स्वार्थे (S) प्राज्ञादिवत् | शिक्षणशीलो वा । छात्रादिपाठात् सप्रत्ययः । शैक्षः । सूत्रार्थाधिगमेऽभियुक्तो यथाविहित कालमध्येतव्ये श्रोतव्ये चाभ्युद्यत इत्यर्थः । ग्लानो - मन्दपाटवः सव्याधिकत्वाद् भक्तपानाद्यन्वेषणे न प्रत्यलः । आदिग्रहणात् कुलगणसमनोज्ञपरिग्रहः । चशब्दः समुच्चये । श्रुतधराणां बालादीनां च सङ्ग्रहादिका - रित्वम् । तत्र सङ्ग्रहः – परिग्रहणमुपसम्पदालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययन चोदनाप्रतिचोदनार्थम् । उपग्रहो वस्त्रपात्रोत्पाद नत्र हुगुणक्षेत्रा क्रान्तिलक्षणः । अनुग्रहो भक्तपानयथायोग्यविहितप्रदानादिलक्षणः, एतत् करोति तच्छीलच तद्भावः सङ्ग्रहोपग्रहानुग्रहकारित्वं तत्परिणामितेतियावत् । प्रवक्तीति प्रवचनम् । एत एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणताः प्रवचनशब्दवाच्यास्तेषु वात्सल्यम् । उक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणम् । इतिशब्द आद्यर्थः । विंशतेः कारणानां सूत्रकारेण किञ्चित् सूत्रे किश्चिद् भाष्ये किञ्चित् आदिग्रहणात् सिद्धपूजाक्षणलवध्यान भावनाख्यमुपात्तम्, उपयुज्य च प्रवक्त्रा व्याख्येयम् । इदानीमु संहरतिएते गुणा इत्यादिना । एते यथोद्दिष्टा गुणा दर्शन विशुद्धयादय आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकर नामकर्मण आस्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एव व्यस्ता एव वा । विकल्पार्थो वाशब्दः । इतिशब्दस्तीर्थ करनाम कर्मास्रवेयत्ताप्रतिपादनार्थ इति ॥ २३ ॥ ३८ नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं निबन्धनमिति, एतद् द्विधा गोत्रं - नीचैरुच्चैश्च । तत्र तावन्नी चैर्गोत्रा स्रवप्रसिद्ध्यर्थमिदमाह - नीचैगत्रस्यास्त्रवाः सूत्रम् —– परात्मनिन्दाप्रशंसे सदसगुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ ६-२४॥ - भा०—परनिन्दा आत्मप्रशंसा सद्गुणाच्छादनमसद्गुणोङ्गावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥ टी० – परनिन्देत्यादि भाष्यम् । परश्चात्मा च परात्मा निन्दा च प्रशंसा च निन्दाप्रशंसे परात्मनो निन्दाप्रशंसे यथाक्रममभिसम्बन्धः परात्मनिन्दाप्रशंसे । सन्तोऽसन्तश्च सदसन्तःविद्यमानाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, छादनं चोद्भावना च छादनोद्भावने, अत्रापि क्रमेणाभिसम्बन्धः सदसद्गुणाच्छादनोद्भावने । चशब्दात् परात्मनिन्दाप्रशं से समुच्चीयेते । १' प्रज्ञादित्वात् ' इति क- पाठः । For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ सूत्रे २५-२६] स्वोपनभाष्य-टीकालङ्कृतम् नीचैर्गोत्रस्य कर्मण आस्रवा भवन्ति । तत्र स्वात्मव्यतिरिक्तः परस्तस्य गुणवतोऽपि गुणापह्नवद्वारेण निन्दा-अपवदनमभूतानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं-स्तुतिर्गुणोदावनम् अभूतानां भूतातां च गुणानामात्मनैव प्रख्यापनम् । सन्तो गुणा विद्यमानास्तेषां छादनं-संवरणं स्थगनं, द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणच्छादनमेव सम्बन्ध्यम्, आत्माभिसम्बन्धेनासताम्-अभूतानामेव गुणानामुद्भावनं करो. त्यपृष्टः पृष्टो वा प्रख्यापयतीतियावत् । एतदेव च स्फुटतरं विभजते-आत्मपरोभयस्थमिति । आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनमात्मपरावेवोभयं तत्र स्थितं-वर्तमानम् । नीचैः रिति । नीचं--जघन्यं-हीनम् । गोत्रमिति गूयते-अभिधीयते आहूयते वाऽनेनेति गोत्रम् । यद कमांशुभं तन्निमित्तीकृत्याभिधा प्रवर्तते चण्डालश्वपचमत्स्यबन्धादि तन्नीचैर्गोत्रं कर्म अभिसम्बन्धात् चशब्दोऽपि कुत्साहेतुष्वेव प्रयुज्यते । एवमेते परनिन्दादयो जातिकुलरूपबलश्रुताझैश्वयेतपोमदपरावज्ञानोत्पारनकुत्सनादयश्च नीचैर्गोत्रस्यास्रवा भवन्तीति ॥२४॥ इदानीमुच्चैर्गोत्रस्यास्रवाभिधित्सयेदमाहउचैर्गोत्रस्यास्रवाः सूत्रम्-तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥ भा०-उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैवृत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवा भवन्ति ॥ ६-२५ ॥ टी०--तदिति सर्वनाम पूर्वप्रकृतापेक्षं प्राक् प्रकृता नीचे!त्रास्रवास्तेषां विपर्ययोयथाभिहितवैपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनं च परत्र, आत्मनि तु सद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ, तथा नीचैर्वृत्तिः-नीचैर्वर्तनं विनयप्रवणवाकायचित्तता । उत्सेको-गर्वः श्रुतजात्यादिजनितः नोत्सेकेऽनुत्सेको-विजितगर्वता । एतौ नीचैवृत्त्यनुत्सेको चशब्दात् तद्विपर्ययश्च उत्तरस्येति सूत्रक्रमप्रामाण्यादुर्गोत्रस्याह । इतिशब्दः पदार्थकः । नीचैर्गोत्रमुक्तलक्षणं तस्यास्रवविपर्ययः परगुणप्रशंसादिरपरं चास्रवद्वयं नीचैवृत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवाभवन्ति । उच्चैरिति । उच्चम्--उत्कृष्टमिक्ष्वाकुहरिभोजराजन्यादीति ॥ २५॥ उक्तं गोत्रम् । आस्रवाधिकार एवायमनुप्रवृत्तस्तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आस्रव इत्युच्यतेअन्तरायस्यानवाः सूत्रम्-विघ्नकरणमन्तरायस्य ॥ ६-२६ ॥ भा०-दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परा. यिकस्याष्ठविधस्य पृथक् पृथगासवविशेषा भवन्तीति ॥२६॥ टी०-विघ्नो-विधातः-प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परि१. गुणाच्छादनमेव ' इति प्रतिभाति । For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ णामयोगिनोऽन्तरायाभिधानस्य कर्मण आस्रवो भवति । एतदेव भाष्येग स्पष्टयति-दानादीनामित्यादि । दानमादिर्येषां ते दानादयो दानलाभ भोगोपभोगवीर्यादानलाभादीनां ख्याः । तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनम् । तदेव व्याख्या गृह्यमाणं प्रतिग्रहीत्राऽऽदेयं लाभ उच्यते । भोगो मनोहारिशब्दादिविषयानुभवनम् । उपभोगोऽन्नपानवसनाद्यासेवनम् । वीर्यमात्मपरिणामो विशिष्टचेष्टशलक्षणः । एषां दानादीनां विकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्सुस्तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य-वीर्यम्—उत्साहः--पराक्रमो न भवति तथा तथाऽनुतिष्ठतेऽन्तरायस्य कर्मण आस्रवो भवति । इतिशब्दो विघ्नकरण विशेषप्रदर्शनार्थः ॥ अधुना सकला स्रवप्रकरण परामर्शद्वारेणोपसंहरत्यध्यायार्थम् - एते साम्परायिकस्येत्यादिना । एते तत्प्रदोष निवादयः संसारभ्रमण कारणस्याष्टअभ्यायोपसंहारः विधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक पृथ‍ विवेकिना पुनरु ( पृथगु)क्ततया आस्रवविशेषाः सामान्यास्रवापेक्षया विशेषा भवन्ति । इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति ॥ २६ ॥ ४० ॥ इति श्रीतत्त्वार्थ सूत्रे भाष्यसंयुक्ते भाग्यानुसारिण्यां तत्त्वार्थटीकायाम् आस्रवप्रतिपादनपरः षष्ठोऽध्यायः समाप्तः ।। ६ ।। For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ७ तत्रादिमं भाष्यम्--- भा०-अत्राह-उक्तं भवता सांतावेद्यस्यास्रवेषु ( अ०६ सू०१३) भूतबत्यनुकम्पति । तत्र किं व्रतं को वा व्रतीति । अत्रोच्यते टी--अत्राहोक्तं भवतेत्यादिना सम्बध्नाति भाष्यकारः। सूत्रपूक्तं षष्ठाध्याये सके. दनीयकर्मास्रवेषु भूतव्रत्यनुकम्पति सकलसूत्रोपलक्षणम्।अथवा यावत् सम्बन्धोपयोगि तावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः। तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रम्यते ॥ ननु च व्रतप्रश्न एव न्याय्यः तत्प्रस्तावात्, तत्परिज्ञानात् तु तत्सम्बन्धे व्रती सुज्ञान एवेति । उच्यते-विशिष्टसम्बन्धख्यापनार्थ व्रतिग्रहणं, वक्ष्यत्युपरिष्टात् “ निःशल्यो व्रती" (अ० ७, सू०१३) इति । प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच व्रतीति । अत्रोच्यत इति व्रतस्वरूपनिर्णयार्थमाहमतव्याख्या सूत्रम्-हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥७-१॥ टी०–बतिस्वरूपं त्विदमेव भाष्यमनूयोपरिष्टात् प्रतिपादयिष्यते । गृह्णीमस्तावद् प्रतान्यथ व्रती क इत्यत्रेति । हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः । पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसाया इत्यादिना भाष्येण दर्शयति भा०-हिंसाया अनृतवचनात् स्तेयादब्रह्मतः परिग्रहाच कायवाझानोभि. विरतिव्रतम्। टी-हिंसादयश्च वक्ष्यमाणलक्षणाः। तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः काया दिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा । प्रागमिहितहिंसादीनां व्याख्या सामान्यलक्षणयोगे सति सद्भूतनिह्नवासद्भूतोद्भावनविपरीतकसावधादि मृषावचनम् । परपरिगृहीतस्य स्वीकरणगाक्रान्त्या चौर्येण शास्त्रेनिषिइस वा स्तेयम् । पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतनस्रोतसोरासेवनमब्रम । सचिताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः । चशब्दः समुच्चयार्थः । एभ्यो हिंसा. दिभ्यः कायवाभनोभिर्विरतिव्रतम् । विरतिः-निवृत्तिः ॥ ननु चासूत्रितत्वात् काया. दिवयमनुपादेयं भाष्येण । नायं दोषः । आत्मना हि विरतिः । सा च करणमवश्यंतयाऽपे. क्षते । तच्च कायायेव योग्यम् । अथवा प्रमत्तयोगादित्यत्र योगग्रहणलक्षणसूत्रे सर्वव्रतविशेषणार्थ १ सद्वेद्य. ' इति घ-पाठः । २ हिंसादय ' इति ग-ङ-पाठः । ३ 'शास्त्रप्रतिषिद्धस्य ' इति जु-पाठः । ४' कारणावश्यतया ' इति ग-पाठः । For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ यत तच्चेतसि सनिवेश्य विवृतं भाष्यकारेण । आस्रवाध्यायवक्तव्यशेषमेव वाऽधिकृत्य सप्तमाध्यायमाह। व्रतशब्दः शिष्टसमाचारात निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके । निवृत्ते चेद्धिसातो विरतिःनिवृत्तिव्रतं, यथा-वृषलाग्नं व्रतयति-परिहरति । वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनः प्राणातिपातादेनिवर्तते । केवलमहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठतीति तदनुष्ठानप्रवृत्त्यर्थव व्रतशब्दः । पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्तते नान्योति, एवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एव प्रवर्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति । निनिप्रवृत्ती च शासचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति ॥ ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्देन, प्रवृत्तिवचनमपीति तदेतत् कथम् ? । अयममिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धशब्दत्वाद् भवत्येव पितापुत्रादिवत् । यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति ।प्राधान्यात् तु निवृत्तिरेव साक्षात् प्राणातिपा. तादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना। अन्यथा तु निवृत्तिर्निष्फलैव स्यादिति । विरतिशब्दस्यार्थ निरूपयति भा०-विरति म ज्ञात्वाऽभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् ॥ १॥ टी०-विरतिर्नामेत्यादिना । विरमणं विरतिः । नामशब्दो वाक्यालङ्कारार्थः । हिंसनं हिंसा-प्राणवियोजनम् । प्राणाश्चेन्द्रियादयस्तत्सम्बन्धात् प्राणिनः एकद्वित्रिचतुःपञ्चेन्द्रियाख्यास्तान् विज्ञानानुसारात् अभ्युपेत्य-श्रद्धाय प्रतिपद्य भावतोऽकरणं विरति । ज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् । तदेव चाकरणं विवृणोति पर्यायः-अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरमिति । चरणस्यैते पर्यायाः । तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षणं चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, ऍवं निवृत्यादयोऽपि भावनीयाः, पर्यायशब्दैश्च व्याख्यानमसम्मोहाथ प्रदेशान्तरेष्विति॥१॥ तदेतदविशेषचोदितं पश्चतया विषयव्रताभिधानं विरत्याश्रयद्वयविवक्षावशेनासकलकुस्वभावादुभयथा वेदितव्यमित्याह सूत्रम्-देशसर्वतोऽणुमहती ॥७-२ ॥ टी०-देशश्च सर्व च देशसर्वे ताभ्यां देशसर्वतः । विरामार्थापेक्षा पञ्चमी । अणु च महचाणुमहती । कथं पुनर्विरतिसामान्यमेकं सत् द्विधा मियते । विवक्षावशेन देशसर्वामिधानाच्चैकत्वादिविवक्षायामेकवचनादिवत् हिंसादिविरतिव्रतप्रस्तावाच यथाक्रममभिसम्बन्धः । देशसग्रहण विरत्या सहाभिसम्बध्यते । अणुमहद्रहणं व्रतेन । देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् । एतमेव सूत्रार्थ भाष्येण स्पष्टयति १. कृत सप्त.' इति क-पाठः। २ 'निवर्तन्ते' इति ग-पाठः। ३ ' व्रतीमतीति ' इति क-पाठः । ४.एतभिवत्या' इति उ-पाठः । For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ सूत्र २] स्वोपक्षभाष्य-टीकालङ्कृतम् ४३ भा०---एभ्यो हिंसादिभ्य एकदेशविरतिरणुप्रतं, सर्वतो विरतिर्महाप्रतमिति ॥२॥ टी-एभ्य इत्यादिना । एभ्य इति प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिदमाह-एकदेशविरतिरणुव्रत मिति । सकलपाणिगणविषया हिंसा, तस्याश्च विरतिर्न सर्वस्याः, किन्तु एकदेश इति एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणिव्यपरोपणाद् विरतिः, किन्तु एकदेशात् , स्थूलादित्यर्थः । स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भमेदाद् वा । स्थूलान्मृषावादादिति कूटसाक्ष्यदानादि स्थूलः, मर्मादिप्रयोगतः सूक्ष्मः । स्थूलाददत्तादानादिति हठहरणादि स्थूलं यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणाम् , सूक्ष्मं परिहासतः परकीयपरि(?)लघुणकाष्ठादिग्रहणं वा । स्थूलान्मैथुनाद् विरमति स्थूलत्वमेकदेशजनितमत्र प्रतीयते स्वदा. रसन्तोषः परदारनिवृत्तिर्वा । स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमनाभिपत्तः पेरपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति । तथा इच्छापरिमाणादन्यतो विरमामीति । केचिन्महावतानुपीवात् स्वल्पवतत्वादणुव्रतमिति व्याचक्षते ॥ सम्प्रति महावतव्याचिख्यासयाऽऽह-सर्वतो विरतिर्महाबतमिति। सर्वत इति । सर्वस्मात् सूक्ष्मात् स्थूलाच प्राणव्यपरोपणाद् विरमामीत्यादि । एवं शेषाण्यपि सर्वतो वाच्यानि । महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति सम्यक्त्वयुक्तानि मूलवाच्यानि ॥ ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वान्मूलगुणाः, एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् । उच्यते-अहिंसाव्रतपरिपालनार्थत्वादिति समितिभिरनै कान्तः, अपि च महाव्रतधारिण एव तन्मूलगुणः तद्विरहितस्य यस्मान्मूलगुणा एवापरिपूर्णाः स्युः, अतो मूलगुणग्रहणे तद्ब्रहणमाक्षिप्तम् । यथाच सर्वव्रतोपकारि रात्रिभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महावतिनः, शेषमुत्तरगुणः । अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारत्यागादुपवासवत् तप एव वा तदिति प्रतीतम् । कः पुनर्दोषो रात्रिभोजन इति चेत् एवं मन्यते-उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति । - एतदयुक्तम् । कालातिकान्तस्य प्रतिषिद्धत्वात्, गृहीतस्यानीतालोचितक्षनिष णविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात्, निशाहिण्डने चेयोपथविशु. ढेरसम्भवात् , दायकगमनागमनसस्नेहपाणिभाजनाद्यदर्शनात्, आलाकितपानभोजनासम्भवात् । ज्योत्स्नागणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत् तदप्यसत, अमिसमारम्भनिषेधात, रत्नपरिग्रहाभावात्, ज्योत्स्नायाः कादाचिकत्वात्, आगमे तमिपिद्धत्वात्, हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥२॥ रात्रिभोजन १:परिमहयोषितः' इति ग-पाठः । २' •पालमा ' इति पाठः।।'मित्याह ' इति ग-पाठः । For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ ४४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ उक्तं प्रतं सविधानमणु महच्च, तत्र महाव्रतमधिकृत्य भावनासूत्रम् सूत्रम्-तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ७-३॥ टी--अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणा (अ०७, सू०२०) अपायावद्यदर्शनादिकाश्च सामान्यरूपाः । महाव्रतं चोपभोगा(वर्गा १)भिलाषिभिः प्राणिमिधृतिसंहननपरिहाण्या प्रमादबहुलैः दूरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः । तदित्यनेन पञ्चविधस्येति, सर्वनाम्नाऽनन्तरत्वान्महाव्रतमभिसम्बध्यते । भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति, तथापि तच्छब्दोपादानसामोन्महाव्रताभिसम्बन्धः । अन्ये तु व्याचक्षते-द्वयोरपि व्रतयोाय्यः सम्बन्धः। सम्भवति हि श्रावकस्यापि कस्यचिद यथोक्तं भावनाजालमेवं त्वव्याप्तिः स्यात्, व्यापिन्यश्च व्रतिनो भावना इष्यन्ते । व्रतानां भावनानां भा०-तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च सङ्ख्या भावना भवन्ति । टी०-तस्य व्रतस्य पञ्चविधस्येति पञ्चप्रकारस्य सर्वप्राणातिपातविरत्यादेः स्थैर्यार्थदायापादनार्थ-स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानाभिर्भावनाभिर्मलीमसीमवन्त्यनभ्यस्यमानविद्यावन्महाव्रतानीति । एकैकस्येति व्रतस्य । सामानाधिकरण्येन षष्ठी, न समु. दिताना पश्चानामपीति ॥ ननु पञ्च पश्चेति वीप्साविवक्षा । यत एकैकस्येति लप्स्यत एव, अन्यथा वीप्सानरर्थक्यं स्यादिति । उच्यते-सामान्यविशेषाभ्यां व्याख्यातृभिः प्रतिपाद्यतेऽर्थः,पञ्चविधस्स व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह समुदाय मा भूदिति । पञ्च पश्चेति वीप्सायां द्विवचनम् । अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पञ्च पञ्चश इति। सूत्रपाठविचारः ते चैवमभिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां __ "कारकाच्छम्प्रत्ययोऽन्यतरस्या "मिति । द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च । तदेतदनुपपन्नम् । यतः शम्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पञ्चानां पञ्चानामिति । ततोऽकारकत्वात् षष्ठयाः शम्प्रत्ययो न लभ्यते । अथ भावनाभिसम्बन्धस्ततः पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यम् । द्वितीयं पश्चग्रहणं न कर्तव्यम् । तत्स्थैर्यार्थ भावनाः पञ्चश इति पठितव्यम् । एवमुभयथाऽपि न घटते शस्त्रत्ययः । अतस्तत्स्थैयोथे भावनाः पञ्च पञ्चेति न्याय्यं सूत्रम् ॥ भा०-तद्यथा-अहिंसायास्तावदीर्यासमितिः, मनोगुप्तिः, एषअहिंसायाः पञ्च ___णासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजन मिति ॥ भावना 'पञ्चशः' इति घ-टी-पाठः। २ पूरनुमतः' इति क-पाठः । ३ ' समानाधिकरणे ' इति पाठः । For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ सूत्रं ३ ] स्वोपज्ञभाष्ग-टीकालङ्कृतम् टी0-तद्यथेत्यनेन प्रस्तुतभावनोपन्यासः । अहिंसायास्तावदिति । अहिंसा प्राणातिपातविरतिः । तावच्छब्दः क्रमद्योतकः । अस्याः प्रथममुच्यते, पश्चान्मृषावादादिविरतेरभिधास्यते । ईरणमीयो- गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदुपयोगिना पुरस्ताद् युगमात्रया दृष्ट्या स्थावरजङ्गमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विधिः ईयोसमितिः। मनसो गुप्तिमनोगुप्तिः-मनसो रक्षणमातरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगो मनोगुप्तिः। एषणा गवेषणा-ग्रहण-ग्रासभेदात् विधा । तत्रासमितस्य षण्णामपि कायानामुपघातः स्यात्, यतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा । आदान-ग्रहणं निक्षेपणं-मोक्षणमौधिकोपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिरागमानुसारेण प्रत्यवेक्षणप्रमाना। आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराबुपयुकेन प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थमागत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र(त्य)वेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्गनीयम् । इतिकरणः प्राणवधविरतर्भावनेयत्ताव्यवस्थापनार्थः । एवमेताः पञ्च भावना मुहुर्मुहुर्भावयन्वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति ॥ सम्प्रति सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाहमनतस्य प भा०-सत्यवचनस्यानुवीचिभाषणं क्रोधप्रत्याख्यानं लोमप्र"भावनाः त्याख्यानं अभीरुत्वं हास्यप्रत्याख्यानमिति ॥ टी०-सत्यवचनस्येत्यादि । सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि, असद्भूतं च विपरीतार्थप्रतिपादनं प्राणानुपघातशून्यम् । अनुवीचीति देशीवचनमालोचनार्थे वर्तते । भाषणं वचनस्य प्रवर्तनम् । अतोऽयमर्थः-समीक्ष्यालोच्य वचनं प्रवर्तितव्यम् । अनालोचितभाषी कदाचिन्मृषाऽप्यभिदधीत । ततश्चात्मनो लाघववैरपीडाः फलमैहिक, परसत्त्वोपघातश्च नियत इति । तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन मृषावचनजनितेनैनसा सम्पृच्यते । कोषः कषायविशेषो मोहकर्मोदयनिष्पनोप्रीतिलक्षणः प्रद्वेषप्रायः । तदुदयाच परवान् वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषापि भाषेत । अतः क्रोधस्य प्रत्याख्यानं निवृत्तिरनुत्पादो वा, (तेन) नित्यमात्मानं भावयेत् । एवंच वासयन् सत्यादि न व्यभिचरतीति । लोभः तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजो जलनिधिरिव दुर्भरः कर्मोदयाविभूतो रागपरिणामस्तदुदयादपि वितथभाषी भवति । अत्र सत्यव्रतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयम् । भयशीलो भीरुस्तचैहिकादिभेदात् सप्तधा मोहनीयकमोदयजनितमुदयाच तस्यानृतभाषणं सुलभं भवतीत्यभीरुत्वं भावयेत् । अभीरुश्च न जातु 'प्रधानमोह ' इति -पाठः । For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ ४६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ चिद् वितथं भाषते तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति । हास्यं हसनं-मोहोद्भवः परिहासस्तत्परिणतो ह्ययमात्मा परिहसन् परेण सार्धमलीकमपि ब्रूयात, तस्य परिजिहीर्षया च हास्यप्रत्याख्यानमभ्युपेयम् । एताः पश्चापि भावयन् भावनाः सत्यव्रतरक्षणक्षमो भवतीति । तथाऽदत्तादानविरतेः पश्चैव भावनास्तयाचिख्यासयाऽऽह भा०-अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रहयाचनमेतावदित्यवग्रअस्तेयस्य पञ्च भावनाः हावधारणं समानधार्मिकेभ्योऽवग्रहयाचनं अनुज्ञापितपान भोजनमिति॥ टी०-अस्तेयस्य पश्चेत्याधुपन्यस्यति । आलोच्यावग्रहो याचनीयः। स चायं पञ्चप्रकारः पठितो देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदेन । अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरोबाधक इति सञ्चिन्त्य यो यत्र स्वामी स एव याच्यः । अस्वामियाचने तु दोषबाहुल्यमुक्तम् आर्ष एव अकाण्डवीडनायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्य अवग्रहो याच्य इत्येवमात्मानं भावयेत् । इत्थं च भावयन्नादत्तादाने प्रवर्तत इति । सकृद् दत्तेऽपि परिग्रहे स्वामिना भूयोऽभीक्ष्णावग्रहयाचन कार्य, अभीक्ष्णं-नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरनादत्तादानजनितेनागसा स्पृश्यते । तथा एतावदित्यवग्रहावधारणं एतत्परिमाणमस्यैतावत्परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिमाणं तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । यात्राकाल एव चानवधारणे विपरिणतिरपि वचसि स्याद्वदान्यस्येत्यात्मनोऽपि चादत्तपरिभोगजनितः कर्मवन्ध इति । समानधार्मिकेभ्य इत्यादि। धर्म चरन्ति-आसेवन्ते इति धार्मिकाः, समानाः-तुल्याः प्रतिपन्नकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासनमन्यथा स्तेयं स्यात् । तदनुज्ञातं तु प्रतिश्रयादि समस्तं गृह्णीयादित्येवमात्मानं भावयेत् । तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना । अनुज्ञापितम्-अनुज्ञांप्रापितम्--अनुज्ञया खीकृतं पानभोजनं सूत्रोक्तेन विधिना पश्चमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डैषणोपयुक्तः अकृतकारितानुमतमतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत । भुजिरत्र पालनेऽभ्यवहारे च व्याख्येयः । ततश्च यावत् किश्चिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकभेदं तत् सर्वमनुज्ञातं गुरुणा वन्दनपुरःसरं गुरुवचनविधिना परिभोक्तव्यम् , एवमात्मनि वासनामादधानो नातिक्रामत्यस्तेयव्रतमिति ॥ १.वाचनीयः' इति ग-पाठः । २ 'नीमूर्ध्वस्थाना' इति क-पाठः । ३ ' चेतसि ' इति -पाठः । For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ ४७ सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०–ब्रह्मचर्यस्य स्त्रीपशुपंण्डकसंसक्तशयनासनवर्जनम् , ब्रह्मचर्यस्य पञ्च रागसंयुक्तस्त्रीकथावर्जनम्, स्त्रीणां मनोहरेन्द्रियालोकवर्जभावनाः नम्, पूर्वरतानुस्मरणवर्जनम् , प्रणीतरसभोजनवर्जनमिति ॥ टी–अब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् । तस्यापि पञ्च भावनाः, तद्यथा-स्त्रीत्यादि भाष्यम् । स्त्रियो रूढ्या देवमानुषभेदाद् द्विविधाः । पशुग्रहणात् तिर्यग्जातिपरिग्रहः । तत्र वडवा-बालेयी-गो-महिष्य-जाविकादिषु सम्भवति मैथुनम् । एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेप्यचित्रकर्मादिषु बहुप्रकाराः। पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीवा इति प्रसिद्धाः, कृतद्वन्द्वैरेभिः संसक्तमाकुलं शय्यते यत्रास्यते च तच्छयनासर्न प्रतिश्रयसंस्तारकांसनादि, तच्च बहपायत्वाद् वर्जनीयमित्येवमात्मानं भावयेत् । तथा स्त्रीपशुपण्डकानामसन्निधानेऽपि रागसंयुक्तस्त्रीकथावजेंनम् । मोहोद्भवः कषायो रागः तदाकारपरिणामो रागसंयुक्तः । स्त्रीणां कथा स्त्रीकथा, रागसंयुक्तस्य स्त्रीकथा, अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्येव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्मात् तद्वजेनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मृजावन्तीन्द्रियाणि योषितामपूर्व विस्मयरसनिभरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छवि नयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् । एवं यथाविभागसनिविष्टावयवानि श्रोत्रघ्राणवदनपीनपयोधरभरजघनस्थलादीनि वाच्यानि । त्वगिन्द्रियभेदत्वात् स्तनकलशाधुपन्यासः। इत्येवं तदालोकनायुपरतिः श्रेयसीति भावयेत । तथा पूर्वरतानुस्मरणवजेनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपयोयस्तत्र रतं-क्रीडितं-विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामानिस्तत्मरणेन्धनानुसन्धानतः सन्धुक्षते, अतस्तद्वर्जन श्रेय इति भावयेत् । तथा प्रणीतरसभोजनवर्जनमिति । प्रणीतो-वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसर्पिर्गुडतैलपिशितमद्यापूपादिस्तदभ्यवहारो-भोजनं ततो मेदोमज्जाशुक्राग्रुपचयस्तस्मादपि मोहोद्भवः, अतः सतताभ्यासतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेद् ब्रह्मचर्यमिच्छनिति ॥ भा०-आकिञ्चन्यस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दाना मनोज्ञानां प्राप्ती गार्थ्यवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति ॥३॥ किश्चान्यदिति । टी-किञ्चनं बाह्याभ्यन्तरपरिग्रहः । अविद्यमानकिञ्चनः अकिञ्चनस्तद्भाव आकि वन्यं-अपरिग्रहता तद्भावनाः पञ्च । तदभिधित्सयेदमाह-पश्चानामित्यादि । पश्चानामिन्द्रि १'षण्डक. ' इति घ-पाठः । २ . संकुलमाकुलं ' इति क-पाठः। ३ 'काशनादि ' इति क-पाठः । For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ७ याणामर्था - विषयाः स्पर्शादयः पञ्चैव येषां मनोज्ञा रागहेतवस्तेषां मनोज्ञानाम् - इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ ग्रहणे सति गार्ध्यवर्जनम् । गार्ध्यं -- स्नेहः -- तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः । तथा अमनोज्ञानाम् अप्रीतिहेतूनां ग्रहणे द्वेषवर्जनम् । द्वेषःक्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावना भाव्यमानाः प्रतिक्षणमा किञ्चन्यं परिपूरयन्ति । ममत्वलक्षणो भावतः परिग्रहः तद्व्यवच्छेदादपरिग्रहतेति ॥ ३ ॥ ४८ किञ्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षगुणं भावयेदिति । इतिशब्दः अप्यर्थे । प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः । सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति ॥ सूत्रम् - हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ७४॥ भा० – हिंसादिषु पञ्चस्वास्रवेषु इहामुत्र चापायदर्शनम् अवद्यदर्शनं च भावयेत् ॥ टी० - हिंसा आदिर्येषां तेषु हिंसादिषु इहेत्यस्मिन्नेव लोके अमुत्रेत्यमुष्मिन् परलोके नरकादिजन्मनि अपाय:--: :- अनर्थपरम्परा अवयं-गर्हितं पापं तद्विपाकान्नरकादिषु तीव्र दु:खानुभवनमपायावद्ययो दर्शनम् - उपलब्धिः, उपलभमानश्च न प्रवर्तते हिंसादिषु, ज्ञानपूर्वकत्वात् क्रियानुष्ठानस्येति । एनमेवार्थ भाष्येण प्रपञ्चयति - हिंसादिष्वित्यादिना । हिंसादिष्वासवेषु कियत्सु ? पञ्चस्वित्याह । हिंसानृतस्तेयाब्रह्मपरिग्रहेषु आस्रवा उक्तलक्षणाः तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् । इहैव मी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते, पापविपाकश्च दारुणोऽमुत्रेत्येवं मुहुर्मुहुर्भावयेत् ॥ भा०—- तद्यथा - हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्याहिंसाया विपाकः नुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य शुभां गतिं गर्हितच भवतीति हिंसाया व्युपरमः श्रेयान् ॥ टी० - तद्यथेत्यादि । तयोरपायावद्ययोर्विभागमाचक्षाणो हिंसायास्तावदित्याह । हिंसासम्बन्धिनी तावदपायावद्ये प्रकाश्येते पश्चादलीकानाम् । 'हिंसनशीलो हिंस्रः - प्राणव्यपरोपणे जातशक्तिः । हिशब्दो यस्मादर्थे । नित्यं सततमुद्देजनीयः- संत्रासकारी । 'कृत्यल्युटो बहुलं' (पा० अ०३, पा०३, सू०११३)इति कर्तरि कृत्यप्रत्ययः । सर्वदा उद्वेजको निसा (निःसी) मायुधो भीषणवेषो ललाटतटारोपितभ्रूभङ्गः प्रकृष्टामयेर्ण्यारसनिर्भरारुणलोचनो गाढदष्टदशनच्छदः सच्चानामुद्वेगकारीति प्रतीतम् । नित्यानुबद्धवैरश्चेति । नित्यमनुबद्धं - प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः, सर्वदा प्रवृत्तवैरसन्तानश्च त (य) स्मान्नित्योद्वेजनीयो नित्यानुबद्धवैरश्च भवति । तस्मादिहैवेत्यभिसम्बन्धः । इहैवेत्यस्मिन्नेव लोके वधः-ताडनं द्विदलकशादिभिर्बन्धः पश्चात् त्पिण्डन हडीनिग - डगलशृङ्खलादिकः परिक्लेशोऽङ्गुष्ठग्रहणोष्मंस्थापनजलावसेककाष्ठेष्टकरोपणादिप्राणव्यापत्तिः, १ 'हिंसाशीलो' इति ग-पाठः । २ 'णोष्णस्थापन ' इति ङ-पाठः । ३ ' व्यापञ्च ' इति ङ-पाठः । For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ सूत्र 2 ] स्वोपज्ञभाग्य–टीकालङ्कृतम् आदिग्रहणादुल्लम्बन शिरश्छेदादिभिः प्रतिलभत इति प्रतिप्राप्नोति । कृतस्य प्राणातिणतस्य च फलप्राप्तिरिवेति । प्रेत्य चेत्यादिना फलमामुष्मिकं दर्शयति । प्रेत्य चेति मृत्वा । अशुभा गतिः - नरकतिर्यक्कुमानुषत्वानि । गर्हितो - निर्दितः । प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य पापकारिणो वराकस्येत्येवं संम्भावयतो विवेकबलादस्य निर्श्वयप्रत्यय उत्पद्यते - हिंसायास्त्यागो - व्युपरमः श्रेयानिति ॥ भा० - तथाऽनृतवादी अश्रद्धेयो भवति । इहैव जिहाच्छेदादीन् अनृतस्य प्रतिलभते । विपाकः ४९ टी० - यथा प्राणातिपातकारी प्रत्यवायेन युज्यते तथाऽनृतवाद्यपीत्याहअनृतं वक्ष्यमाणलक्षणं तद्वादी भवति अश्रद्धेय इति । अश्रद्धेयः अविद्यमानश्रद्धेयं वचनमस्येति सामर्थ्यादभिसम्बध्यतेऽनृतस्य प्रक्रान्तत्वात् । इहैवेत्यादिना प्रत्यवायमैहिकमामुष्मिकं च दर्शयति - जिह्वाच्छेदादी निति | आदिशब्दात् कर्णनासिकाकरणच्छेदपरिग्रहः । भा० - मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान् दुःखहेतून् प्राप्नोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति अनृतवचनाद् व्युपरमः श्रेयान् ॥ टी० - मिथ्या-अलीकं अभ्याख्यानं - अनृतवचनम् ॥ ननुच मिथ्याग्रहणमतिरिच्यते । यस्माल्लोकेऽभ्याख्यानशब्दोऽनृतवचन एव प्रसिद्ध इति । अभ्याख्यायक एव मिथ्याशब्दः । यद्वोSभ्याङ्पूर्वस्यै चक्षिङो ल्युटि वचनमात्रमभिलापोऽभ्याख्यानशब्देनोच्यते, तद्विशेषणाय चेदमुपादीयते मिथ्येत्येवमर्थवत्, नास्ति अलीकवचनेनैव चारोपयत्यनेनेदं कृतमनेनेद मिति, तेनाभ्याख्यानेनोपन्नदुःखास्तेभ्यश्चेति । पूर्वदोषापेक्षश्चशब्दः । बद्धेति । अविच्छिन्नं वैरं येषां तेभ्यः । तदधिकानिति जिह्वाच्छेदादिभ्योऽपि अतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतून् वधबन्धादीन् प्राप्नोति । तीव्राशयो हि तीव्रस्थित्यनुभावमेव कर्मादत्ते । मुख्यः स्वहेतुराशयस्तत्पुरःसराः शेषहेतवः । प्रेत्येत्यादिनाऽऽमुष्मिकं फलमादर्शितम्, यस्माच्चैवंविधो विपाकोऽनृतवचनस्य तस्मात् तद्व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातालीकानुष्ठायिनौ प्रत्यवाययुक्तौ, भा०- तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्वेजस्तेयस्य विपाकः नीयो भवति । इहैव चाभिघातवध [बन्धन ] हस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदन सर्वस्वहरणवध्यपान मारणादीन् प्रतिलभते प्रेत्य नाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् ॥ १ 'प्रतीतफल ०' इति ङ-पाठः । २ ' निन्द्यः' इति ग-ड-पाठः । ३ ' सम्भावयति ' इति ग-पाठः । ४ 'निश्चय 'उत्पयते' इति ङ-पाठः । ५ ' यदा' इति ग-पाठः । ६ 'स्याचक्षिणरो ल्युट' इति ग-पाठः । ७' बद्धमित्यव • ' इति गड-पाठः । नवतीति' इति घ-पाठः । ९' यातन० ' इति ध-पाठः । १०' भवति' इति ग-पाठः । For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ टी-तथा स्तेन इत्यादि । स्तेनः परकीयद्रव्यापहारे प्रसक्तमतिः-सक्तचित्तः। सर्वस्येति अपहियमाणद्रव्यादिस्वामिन उद्वेगंजनयति । इहैव चेत्यादिना । हस्तादीनामवयवानां छेदनं-शरीरात् पृथक्करणं, भेदनं तु तथा सन्निविष्टानामेव वेधनपाटनादिकम्। वध्यपानमिति । वध्यो व्यापाद्यस्तस्य पानं, मद्यपानस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि करवीरकुसुममालामरणखरघटिकावलम्बमषीम्रक्षणचटकपंचकनान्यकरणम् । मारणं-प्राणव्यपरोपणम् । आदिग्रहणात् स्वमांसखादनबन्धोत्कर्तनकपर्दिकामार्गणप्रकारपरिग्रहः । प्रेत्य चेत्यायुक्तार्थम्, अतस्तद्व्युपरमः श्रेयान् । स्तेयात्-चौयोद् व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातालीकास्तेयप्रवृत्ताः प्रत्यवायान् भूयसः स्पृशन्ति, भा०-तथा अब्रह्मचारी विभ्रमोद्घान्तचित्तो 'विप्रकीर्णेन्द्रियो मदान्धो गज भब्रह्मणो विपाका ... इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यान " भिज्ञो न किञ्चिदकुशलं नारभते । टी–तथा अब्रह्मचारीत्यादि । अब्रह्मचारी-मैथुनसेवी । विभ्रमो-विलास विशेषस्तेनोद्धान्तं चित्तं-चलमनवस्थितं यस्येति । विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः मनोज्ञेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः, अमनोज्ञेषु द्विष्टेषु शब्दादिषु द्वेषाभ्युक्तात्मस्वरूपः । मदान्धो गज इवेत्यादिना हस्तिमूर्खण सह साधर्म्य दर्शयति । इतरथापि तिर्यश्चोऽपि हिताहितप्रवृत्तिनिवृत्तिपोलोचने अक्षमाः, स्वल्पज्ञानक्षयोपशमत्वात् , अतिशयेन तु मदकाले गुञ्जन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्झरस्नपितकपोलभित्तिः अनाहताऽऽधोरणव्यापादितनिशिताङ्कुशतिग्मायवेधजनितव्यथो मत्तगज इव शर्म-सुखं नोपलभते नावाप्नोतीतियावत् । विभ्रमोद्धान्तचित्तत्वात् (वि)प्रकीर्णेन्द्रियत्वाचेति युक्तिद्वयम्,अवितृप्तस्य चकुतः सुखेन सम्बन्ध इति । मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदयं सूचयति । स्त्रीपुंनपुंसकवेदोदयाभिभूतः स तथा विजृम्भत इति । चशब्दात् पूर्वोक्तविधिसमुच्चयः । इदमकार्य इदं कार्य च नाभिजानाति ग्रहाविष्टपुरुषवत् परवशत्वात् , ततश्च न किञ्चिदकुशलं न प्रारभते, निर्विवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः ॥ मा०-परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनपरदारगमनस्य फलम् वधबन्धनद्रव्यापहारादीन् प्रतिलभतेऽपायान् , प्रेत्य चाशुभा गति गर्हितश्च भवतीति अब्रह्मणो व्युपरमः श्रेयानिति ॥ 'बध्योपायः' इति क-ख-ख-पाठः। २ 'पञ्चनाग्न्यकरण' इति ग-पाठः। ३ 'प्रकीर्णे.' इति ख-ग-पाठः। 'विर्यग्नातिः' इति स-पाठः । ५ 'अक्षमा' इति -पाः । For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ सूत्रं ४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-परदारेत्यादिना ऐहिकामुष्मिकप्रत्यवायोपदर्शनम् । परेषां दाराः परदाराःपरपरिगृहीतयोषितः । श्रुतज्ञानप्रतिपिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं (तेन) जनितानिहैव वैरपरम्परा शिरश्छेदनं ताडनं बन्धनं द्रव्यापहारं, आदिग्रहणात् नानाविधाः,प्रतिलभत इति, एत एव प्रत्यपायाः। प्रेत्य चेत्यादिना पारलौकिकात्यपायदर्शनम् । तस्मादब्रह्मणो व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यवायेन युज्यते, भा०–तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां परिग्रहस्य विपाकः कव्यादशकुनानामिहैव तस्करादीनांगम्यो भवति । अर्जनरक्ष णक्षयकृतांश्च दोषान् प्राप्नोति ॥ टी०–तथा परिग्रहवानित्यादि । शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति । ऐहिकप्रत्यवायप्रदर्शनार्थ शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः । मांसपेशीति । मांसखण्डमेव दीर्घ पेश्युच्यते । आदानमोक्षणव्यापारवत्वात्: पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्ते यस्येति मांसपेशीहस्तः । व्यधिकरणानामपि गमकत्वाद् बहुव्रीहिः कण्ठेकालवत् । अन्येषां कव्यादशकुनानामिति । आममांसभक्षा: क्रव्यादा अभिधीयन्ते । कृतविकृतशब्द उपपदेऽपि प्रेत्ययोद्देशः, पृषोदरादित्वाच कृतविक तशब्दस्य ऋव्यादेशः। कृतविकृतपकमांसभक्षास्तु क्रव्यादाः। कर्मण्यणेवेति। मांसपेशीपरिग्रहहेतोःक्रव्यात्पतत्रिणामिहैव गम्यः-अभिभवनीयः, चञ्चचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यन् निरालम्बनः परिश्रान्तस्तरुशिखराद्युपत्रप्राप्तिसमनन्तरमाक्रम्य बलादपहृतमांसपेशीकः किश्चिदुच्छ्रसन् कण्ठगतप्राणः कृच्छाद् विमुच्यते शकुनिभिः। तस्करादीनां च गम्यः परिग्रहवान् । आदिग्रहणाद् राजदायादपरिग्रहः । तस्करादयः प्रसभं चोर्येण वाऽपहारमाचरन्त्यभिभूयेति । अर्जन, उपात्तस्य पालनं रक्षणं, क्षयो -नाश इत्यजेनादिकृतांश्च परिग्रहवान् अवाप्नोति दोषान् । तत्राजेनं न्याय्यमन्याय्यं वा । न्याय्यं वाणिज्यकर्मकरत्वं कृष्याधुपायम् । तच्चातिलेशयुक्तम् । अन्याय्यं तस्करत्वाद्युपायसाध्यम् । तत्रापि वधबन्धविशसनादिदोषाः। रक्षणमपि सूत्रसुचेतसो (१) रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलम् । क्षयोऽप्युपभोगादपुण्योदयाच । तत्रोपभोगकालमधिकृत्येदमाह _ भा०-न चास्य तृप्तिर्भवतीन्धनैरिवाने, लोभाभिभूतत्वाच कार्याकार्यानपेक्षो भवति, प्रेत्य चाशुभांगतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहाद् व्युपरमः श्रेयान् ॥४॥ किश्चान्यत् .. 'विप्रत्ययादेः' इति ग-पाठः । २ 'दुच्छ्वासात् ' इति ड-पाठः । ३ 'सूचित' इतिःङ-पाठः । For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ टी-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति । उपभुञ्जानस्यापि चास्य तृप्तिरसम्भाव्याऽनेरिन्धनरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः प्राज्यद्रविणराशेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततैवेच्छा विजृम्भते । इच्छायाश्वानिवृत्तौ तृप्त्यभावः । न चातृप्तः सुखलेशेनापि युज्यत इति । अपुण्योदयादपि क्षयो भवति । विभवस्य दक्षिणोत्तरमथुराधिवासिवणिग्द्वयप्राप्तिप्रणाशाख्यानकाद् भावनीयः । तमाशे च हृदयातिसारग्रहणीदोषग्रहावेशदौर्बल्यमरणावसानः शारीरो मानसश्च क्लेशः। लोभाभिभूतस्वाचेत्यादि । लोभकषायानुरक्तचित्तो लोभाभिभूतः-तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तसाच्चेति । चशब्दः समुच्चयार्थः । इदं कर्तव्यमिदं न कर्तव्यमिति नापेक्षते-नालोचयति । तत्र कर्तव्यं कार्य यत्र प्रवर्तते पुरुषस्तदात्वायत्योः सुंखार्थ, तच्च नापे. क्षते तृष्णान्धः । शुचि कर्मानुष्ठानं, अकर्तव्यं-अकार्य तत्राप्यनालोच्य प्रवर्तते, न प्रत्यवायान् निभालयति । यतः पितरमपि हिनस्ति मातरमप्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते । प्रेत्य चेत्यादिना पारलौकिकप्रत्यवायप्रदर्शनं, प्रकर्षकाष्ठाप्राप्तस्तृष्णाकषायः कृमिरागानुकारी तत्परिणामश्चायमात्मा नरकादिपूपपद्यत इत्यागमः । लुब्धोऽयमित्यादिना त्वैहिकमेव प्रत्यवायशेषमाचष्टे । लुब्धस्तृष्णावानदाता सञ्चयैकचित्तो न कस्मैचिद् दुष्कृतमपि ददातीत्यक्षिलम्बनम् । निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति । अतः परिग्रहाद् व्युपरमः श्रेयानिति ॥४॥ किश्चान्यत् इत्यनेन सम्बन्धमाह । हिंसादयः प्रक्रान्ताः किश्चेत्यनेनोपेक्ष्यन्ते । एतेषु हिंसादिष्विदमन्यद् भावयेत् । तदाहहिंसादयो दुःखम् सूत्रम्-दुःखमेव वा ॥ ७-५॥ टी.--वाशब्दो विकल्पार्थः । अपायावद्यदर्शनं भावयेत् , दुःखमेव वा भावयेदिति, समुच्चयार्थो वाशब्दः । दुःखमेव च भावयेत् , अपायावद्यदर्शनं चेति । एवकारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति । दुःखमेव केवलं हिंसादयो न सुखमपीति । एनमेवार्थ भाष्येण स्पष्टयति भा०-दुःग्वमेव वा हिंसादिषु भावयेत् । यथा ममाप्रियं दुःखं, एवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ।। टी०-दुःखमेव वेत्यादिना । हिंसादिष्विति हिंसानृतस्तयाब्रह्मपरिग्रहेषु विषयभूयमापनेषु दुःखहेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति केन प्रकारेणत्याहयथा ममाप्रियं-न प्रीतिकारि दुःखं अनिष्टसंयोगनिमित्तं शरीरमनःपीडात्मकं व्यापति For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ सूत्रं ५] - स्वोपज्ञभाष्य-टीकालङ्कृतम् ५३ पर्यवसानम् । एवं सर्वेषां सत्त्वानामप्यप्रियं वधबन्धच्छेदनपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चित भवतिष्ठते । अतो हिंसाया व्युपरमः श्रेयानिति ॥ अनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह भा०-यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीवं दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् ॥ टी०-यथा ममेत्यादि । मिथ्याभ्याख्यानं प्राग व्याख्यातं, तेन मिथ्याभ्याख्यानेन-अलीकाध्यारोपेण अभ्याख्यातस्य-अभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितस्य चानेनेदं कृतमुक्तं वेति तनिमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूतम्-उत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात् तथा सर्वसत्त्वानां तादृगेव तीव्र दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याभ्याख्यानपरो यत्र जन्म प्रतिलभते तत्र तत्र तादृशैरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद् व्युपरमः श्रेयानिति ॥ हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह भा०-यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति स्तेयाद् व्युपरमः श्रेयान् ॥ टी०-यथा ममेत्यादि । यथा मम खद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं शारीरं मानसंवा पूर्वमभूत् भवति वाऽधुना तथा सर्वसत्त्वानाम् । अतः स्तेयाद व्युपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि, भा०–तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत् स्पर्शनसुखमिति। तच न । कुतः व्याधिप्रतीकारत्वात् कण्डपरिगतवचाब्रह्मव्याधिप्रतीकारत्वात् ॥ टी०-पूर्वदुःखतुल्यतामतिदिशति । मायालोभौ रागः । क्रोधमानौ द्वेषः । माया छनरूपा । तदाकारपरिणामश्च हिंसानृतस्तेयेषु प्रवतते । लोमोऽपि गाध्यलक्षणस्तत्परिणामश्च मांसादिगायोदुक्तोऽवग्रहणेन चौर्येण चैतेषु प्रवर्तते। तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्तते इत्यत्यन्तप्रसिद्धम् । 'मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेषकारणत्वाच मैथुनमपि दुःखमेवेत्यवधार्यते । रागद्वेषावात्मनः स्वभावः-कारणं यस्य तद् दुःखमेव रागवेषात्मकत्वाद् हिंसादिवत् । स्यादेतदित्यादिना ग्रन्थेनाशङ्कते। प्रसिद्धिरियम् -योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीर्यनि २ 'जन्मनि ' इति ङ-पाठः । ३ 'परिणतश्च' इति ङ-पाठः । १ 'निश्चेतमव.' इति खङ-पाठः। ४ 'गूतस्यापि ' इति ग-पाठः । For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ७ सर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनामपहुवानस्य प्रतीतिप्रत्यक्ष विरोधाववश्यंभाविनावित्या रेकिते भाष्यकृदाह - तच्च नेत्यादि । तदित्यनेन स्पर्शनसुखमभिसम्बध्यते । न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः । वक्ष्यमाणोऽयमेतद्दृष्टान्तबलात् प्रतीतिप्रत्यक्ष विरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायन्नाह - कुत इति । कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं युक्तयन्तरात् ? । साध्यसाधनसङ्गतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति भाष्यकार आह-व्याधिप्रतीकारत्वादित्यादि । राजपुत्री क्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः - प्रतिक्रिया, तभिदान परिहारेण भेषजोपयोगः पथ्यासेवनं च । उद्भूतो हि व्याधिः शरीरमनसोर्बाधामाधत्ते । वाधाप्रतिक्षेपश्च भेषजाद्युपयोगसाध्यः । कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् । मूढाश्च तमवस्थाविशेषं सुखमिति मन्यन्ते । व्याधिश्व मकरध्वजः ॥ 1 प्रथमोद्दिष्टव्याधितुल्य विपाकत्वात् हेतुविचारणायाह ५४ भा० - असुखे ह्यस्मिन् सुखाभिमानो मूढस्य । तद्यथा - तीव्रया त्वक्रशोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठश कललोष्टशर्करानख शुक्तिभिविच्छिन्नगात्रो रुधिरार्द्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाद् व्युपरमः श्रेयान् ॥ टी० – असुखे ह्यस्मिन्निति । दुःखमेव भ्रान्ताः सुखमित्युपचरन्ति मोहादज्ञानाचे' त्यतोऽसुखे तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपकेषु च तीव्र वेदना परिगतस्य जन्तोस्तत्पाटन पूय निःसरणेन वेदनामात्रप्रशमस्तथा पुरुषवेदाद्युदयात् तीव्रार्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येव परवशतः सदाऽऽर्त्तध्यान पीड्यमानमनसः ख्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमूर्च्छागमस्येव बाढं क्लिभतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य मोहनीय कर्मविजृम्भनिर्भरचेतसो मैथुने न सुखावाप्तिः दुःखमेव, अस्मिन् प्रत्यक्षप्रमाणसमधिगम्ये कृतः प्रतीत्यनुभवविरोधाविति । यस्त्वनुभवस्तत्र सुखरूपः सोऽभिनिविष्टबुद्धेरभिमानवतः समुपजात भ्रान्तेः शुक्तिकायां रजतप्रत्ययानुभववदिति । अतो विवादगोचरापन्नो बीजनिसर्गो न सुखहेतुः, व्याधिप्रतीकारत्वात् पूयादिनिसर्गवत् । अस्मिंश्च प्रतिज्ञाने दृष्टान्तः सुलभ इत्यनुपासोऽपि भाष्यकृता व्याख्यात्रा प्रदर्शितः । भाष्यकारी यदृष्टान्तस्तु – तद्यथेत्यादिना भाष्यते । १' ममिधापयन्नाह' इति ङ-पाठः । २ ' विवरणाय ' इति ङ-पाठः । ३ ' शिलालोष्ट ० ' इति क-पाठः । ४' भाव्यते ' इति ग-पाठः । For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम् कामसुखं दुःखमेवेति ख्याप्यते । तीव्रयेत्यादि कण्डूविशेषणम् । तीवा-पराकाष्ठां गता त्वक्चर्मशोणितममग्मांसपिशितमेदाद्यनुगता-प्राप्ता । न चैवंविधया कण्ड्वा परिगतात्मा व्याप्तशरीरः काष्ठादिकण्डूयनक्रियायाः कारणं नानारूपमपदिशति । काष्ठशकलं-काष्ठखण्डं येन कण्ड्या निवर्तते । लोष्टः-इष्टकादिखण्डम् । शर्करा-शर्करोटादिका । नखशुक्तयोनखमुखानि । प्रदर्शनमात्रमेतत् । एमिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः कृतत्वक्छेदस्ततश्च स्रवता रुधिरेणाः । कण्डूयमान इति कण्डूजूधातोर्जित्त्वात् कत्रभिप्राये क्रियाफले आत्मनेपदम् । कण्डूयमानः कण्डूयां निर्वतयन् एवंविधावस्थो दुःखमेव सुखमिति मन्यते मोहात् । प्रयोगोऽपि भाष्यार्थानुगतो-विवादगोचरापन्नो बीजनिसर्गो न सुखं प्रति कारणं, व्याधिप्रतीकारमात्रत्वात् पामनकण्डूयावत् । यः पुनरैकान्तिकात्यन्तिकसुखहेतुः स नैव व्याधिप्रतीकारमात्रकारी ज्ञानक्रियालक्षण इति । तद्वन्मैथुनोपसेवीत्यनेन साय॑मापादयति दार्शन्तिकस्य दृष्टान्तेन सह । ततश्च सह दुःखभावनावासितचेतसो मैथुमादू व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादयो दुःख तथा परिग्रहोऽपीति प्रतिपादयति भा०–तथा परिग्रहवानप्राप्तप्राप्सनष्टेषु कौरक्षारक्षणशोकोद्भवं दुःखमेव प्रामोतीति परिग्रहाद् व्युपरमः श्रेयानिति । एवं भावयतो व्रतिनो व्रतस्थैर्य भवति ॥ ५॥ किश्चान्यत __टी-परिग्रहः सचित्तादिभेदो ममत्वसम्बन्धः । स च ममत्वी परिग्रहवान् । अप्राशादीनि त्रीण्यपि कृतद्वन्द्वानि परिग्रहविशेषणतयोपात्तानि । कारादित्रयमपि कृतद्वन्द्वम् । साक्षाद् दुःखहेतुत्वोपंपत्तेः । अप्राप्तविशिष्टपरिग्रहता काङ्क्षादिहेतुः । काङ्क्षादयोऽपि दुःखहेतवः । काङ्क्षादिभ्य उद्भवो यस्य दुःखस्य तत् तथोक्तम् । तत्र काङ्क्षा-अभिलाषो नम्उपादाने प्रयत्नः स च दुःखमेव, खेदकारित्वात् । एवं तावदप्राप्तेषु दुःखभावना । प्राप्तेषु च परिग्रहेषु नृपदहनतस्करदायादमूषिकादिभ्यो रक्षणे नित्योद्विमः कुवेन दुःखमेव प्राप्नोति । नष्टेषु तु परिग्रहेषु दुःखनिमित्ततः स्मृत्यनुषङ्गलक्षणोऽसह्यः शोकस्ततः स तद्भवशर्म प्राप्नोति । अतः परिग्रहाद व्युपरमः श्रेयानिति। एवं भावयत इत्यादिना दुःखमेवेत्यस्य सूत्रस्य परिसमाप्तिमादर्शयति । ततश्च ये भाष्यमेव कयापि बुद्धया सूत्रीकृत्याधीयते व्याधिप्रतीकारत्वात् 'निवर्त्यते' इति ग-पाठः । २ 'निवर्तयन् ' इति -पाठः । ३ ' सुखप्रतीतिकारणं ' इति ग-पाठः, 'सुखपरणं' इति तु -पाठः । ४ 'सम्यगापाद.' इति -पाठः। ५ 'परिग्रहेषु अप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणं उपभोगे चावितृप्तिः' इत्यधिकः घ-टी-पाठः। ६ 'परिप्रहेषु काङ्क्षा.' इति ख-पाठः । ७ 'उपभोगे चावितप्तिरिति' इत्यधिको घन्टी-पाठः। ८ 'स्वोपात्तः' इति ग-पाठः। 'माप्नोति' इति ख-स-पाठः । For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ ५६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ कण्डूपरिगतत्वोच्चाब्रह्मेति, तथा परिग्रहेष्वप्राप्तप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे वावितृप्तिरिति, तदना मूत्रकरणमिति विज्ञायते । यदि च सूत्रं स्यात् भाष्यस्य सूत्रीकरणे दोषात " तत उपभोगे वाऽवितृप्तिरित्यस्यावयवस्य विवरणं स्यात् , न चास्ति, " तस्मादनार्षे सूत्रद्वयमन्तरालकमिति । एवम्-इत्युक्तेन प्रकारेण भावयतो वासयतः स्थैर्य वतिनो व्रतानां भवति ॥५॥ किश्चान्यदित्यनेन सम्बन्धमाह । भावनाप्रस्तावेऽन्यच्च किं भावयितव्यमित्यत आहसूत्रम्--मैत्रीप्रमोदकारुण्यमांध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमा नाविनेयेषु ॥ ७-६ ॥ टी.-मैत्र्यादीनां कृतद्वन्द्वानां द्वितीयाबहुवचनेन निर्देशः । सत्त्वादीनामपि कृतद्वन्द्वानां भावनाविषयत्वेनाधिकरणविभक्तिबहुवचनेन निर्देशः । किश्चान्यदित्यस्यार्थ स्पष्टयति भा०-भावयेद् यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं मैत्रीभावना सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु। वैरं मम न केनचिदिति॥ टी०-भावयेद् यथासङ्ख्यमित्यनेन भाष्येण । भावनावसरे इदमपरं मैत्र्यादि भावयेत् । तच्च यथासङ्ख्यमभिसम्बध्य भावयेत् । मैत्री सत्वेषु, प्रमोदं गुणाधिकेषु, इत्येवमन्यत्रापि योज्यम् । मैत्री सर्वसत्त्वेष्वित्यादि भाष्यम् । मित्रं 'जिमिदा स्नेहने' औणादिकः ष्ट्रन् । मिद्यतीति मित्रं, निह्यतीत्यर्थः। तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । येऽपि कृतापकाराः प्राणिनः प्रमादादन्यथा वा तेष्वपि मित्रतां चेतसि सभिवेश्य मित्रमहमेतेषां एते च मे मित्राणीति तत् कथमहं मित्रद्रोहतां प्रतिपत्स्ये। दौर्जन्याअयं हि मित्रद्रोहित्वम् । अतः क्षमेऽहं सर्वसत्त्वानामिति क्षमा भावयेत् । सम्यक् मनोबाकायैः सहेऽहं सर्वसत्त्वानाम् । एवं हि मित्रता यथार्थत्वमासादयति । येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं मित्रत्वात् । हस्वत्वं 'णिचश्च' (पा० अ० १, पा० ३, सू०७४) इत्यात्मनेपदम् । क्षमये इति क्षमा ग्राहयामि सर्वान् प्राणिनः प्रशस्तेन चेतसा । स्वचेतसश्च कालुष्यमपनेयमित्येवमुपनयस्तन्त्रे । परस्तु क्षमेत वा न वेत्येतदेव स्पष्टतरं विधुणोति-मैत्री मे सर्वसत्त्वेषु वैरं मम न केनचिदिति । वीराणामिदं कर्म 'तस्येदम्' (पा० अ०४, पा०३, सू० १२०) इत्यण् । वैरमविच्छिनकोपराणां शूराणामन्योन्यव्यापादनलक्षणा कर्मपरम्परा, तत्र कृतापकारेण अकृतापकारेण वा केनचिदसुमता सार्धमवैरानु १ 'स्वादब्रह्मेति ' इति ङ-पाठः। २ 'माध्यस्थानि' इति घ-पाठः । ३ 'क्षमये' इति घ-पाठः । ४ प्रसराणांइति-पाठः। For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपनभाष्य-टीकालङ्कृतम् बन्धः । स चैष प्रसृतदुरितशाखाशतसम्बाधो मात्सयेविषयोदयः पुनः पुनरविच्छिन्नबीजाङ्काप्रसवप्रत्यलस्तीक्ष्णप्रज्ञाकुठारधाराच्छेद्योऽवधीरितसकलशेषोपायो मैत्रीभावनया निरवशेषमामूलादुत्कर्तनीयः॥ भा०-प्रमोदं गुणाधिकेषु। प्रमोदो नाम विनयप्रयोगः । वन्दप्रमोदभावना नस्तुतिवर्णवावैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्र तपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिप्यक्तो मनःप्रहर्ष इति ॥ ___टी०-प्रमोदं गुणाधिकेष्वित्यादि । सम्यक्त्वादिगुणाधिकेषु व्रतिषु प्रमोद-प्रहर्ष भावयेत् । प्रमोदव्याचिख्यासया प्रमोदो नामेत्याद्याह । नामशब्दो वाक्यालङ्कारार्थे । अलङ्कारः सुभगता श्रोत्रसुखत्वं, शिक्षानिसर्गावदातो लोकाराधनसमर्थो तिनयः सामान्येन । तद्विशेषस्तु विनीयते येन कर्म-विलयमापद्यते स विनयो ज्ञानदर्शनचरणोपचारभेदः क्रियाविशेषस्तस्य प्रयोगः-अनुष्ठानम्। विनयाहेषु वन्दनं-प्रढमनोवाकायैर्विशेषत उत्तमाङ्गेन वन्दनार्हाणां पादस्पर्शनम् । स्तुतिः-स्तुत्यानां सद्भूतगुणोत्कीर्तनम् । वर्णवादो-यशःप्रख्यापनं वर्णो-यशस्तत्प्रथनम् । अवदातचरिताः खलु मुनयोऽमी यथोत्क्षिप्तमोक्षानुगुणचेष्टाभारवाहिन इत्यादिकः । वैयावृत्त्यं-व्यावृतता बालग्लानगुरूपवासिशैक्षप्राघूर्णकानुद्दिश्याऽपरान् वा मुनीनागमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमागेणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणम् । आदिशब्दाद देशकालापेक्षः साधूद्देशेनानेकप्रकारः पूजाहेतुः संगृहीतः। सम्यक्त्वं-तत्त्वार्थश्रद्धानलक्षणम् । ज्ञानं-हिताहितप्राप्तिपरिहारविषयो बोधः । चारित्रं-मूलोत्तरगुणभेदम् । तपो-बाह्याभ्यन्तरविधानम् । एभिः सम्यक्त्वादिभिरधिकाःसाधषो गृहस्थादिभ्यस्तेषु परेणात्मना उभा(भया)भ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनित-उत्पादितः सर्वेन्द्रियाभिव्यक्तं इति । सर्वग्रहणं सम्भवापेक्षम् । साधुगुणोत्कीर्तनसमये विततकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चकञ्चुकतादिलिङ्गप्रकटितो मनःप्रहर्षः प्रमोद इत्याख्यायते ।। - भा०–कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह ईत्यभावना नर्थान्तरम् । टी०-कारुण्यमित्यादि । करुणा-अनुकम्पा तद्भावः कारुण्यम् । कः पुनरस्य विषय इति क्लिश्यमानेष्वित्याह । कर्तरि लः। क्लिश्यमानेषु-सन्तापमनुभवत्सु । एतदेव प्रपश्चयति भाष्यकार:-कारुण्यमनुकम्पेत्यादि । अनुकम्पा दीनानुग्रह इति कारुण्यप कारुण्य १'प्रयोगवन्दन० ' इति ग-पाठः । २ 'इस्यर्थः' इति घ-पाठः । ३ 'प्रताप.' इति ग-पाठः, ' ताप.' इतितु-पाठः । For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ ५८ तार्थाधिगमसूत्रम् [ अध्यायः ७ र्यायः । करुणा घृणाऽनुकम्पा दया कृपा दीनानुग्रह इत्यनर्थान्तरम् । दीना दुःखिताः शारीरमानसैर्दुःखैरभिभूताः ।। भा०- - तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतग्निना दन्दश्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बाल मोहवृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदशादिभिस्ताननुगृह्णातीति ॥ टी० - तदिति कारुण्यमभिसम्बध्यते । तत् कारुण्यं भावयेत् स्वक्षेत्रे । किं पुनः स्वक्षेत्रमित्याह-महामोहो - मिथ्यादर्शनानन्तानुबन्ध्या दिस्तेनाभिभूतेषु वशीकृतेषु । महामोहाभिभवादेव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह । मतिश्रुतविभङ्गाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु तदाकारपरिणतिषु । विषयाः शब्दादयस्तेषु तर्षो विषयतर्षः तृट पिपासेति तर्ष एवाङ्गिः परितापकारित्वात् तेन भृशं दन्दह्यमानचित्तेषु । न खलु विषयासेविनः कदाचित् तृप्यन्ति स्थविरावस्थायामपि काङ्क्षामोहग्रहग्रस्ता बह्वीविडम्बना: समासादयन्ति । तथा चाग्निशिखालीढवपुषोऽशर्म सन्ततम् । एवं मूढा विषयतृष्णाज्वलनपरिपच्यमानचेतसो दिवानिशं न सुखमात्रामप्यनुभवन्ति । तेषु चैवंविधावस्थेषु । हिताहितेत्यादि । हितं - मुक्तिसाधनं अहितं - संसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रष्ठतिर्येषां ते, हितं परिहरन्ति अहितमा सेवन्ते, तेषु, विविधं - नानाप्रकारं ऐहिकामुष्मिक भेदं शरीरमनोविषयं दुःखं तेनार्दितेषु - हिंस्यमानेषु - दुःख्यमानेषु । साबाधशून्यमनस्कता दैन्यम् । तत्सम्बन्धाद् दीनाः- अतिहीन याच्ञाः । प्रणिपातः कार्पण्यं तद्युक्ताः कृपणाः । अनाथास्तूत्सनान्वया अबान्धवाः केनचिदपरिगृहीताः स्वयं वाऽसमर्थाः । बालाः- शिशवः मोमुहा:काहलाः वृद्धाः - सप्ततिसंवत्सर संख्यामतीत्य वर्तमानाः परिग्लानेन्द्रियाः परिपेलवस्मृतयः । केचित् पुनर्बालावस्था प्राप्ताः, तदेतेषु सत्वेषु - करुणाक्षेत्रेषु कारुण्यमविच्छिन्नं भावयेत् । तथा हीत्यादि । तथा च भावयन् उक्तेन प्रकारेण । हितोपदेशादिभिरिति । हितोपदेशोमुक्तिसाधनसम्बन्धः । आदिशब्दाद् देशकालापेक्षान्नपानप्रतिश्रय कर्पट भेषजैरपि ताननुगृहातीति ॥ भा०- - माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यमाध्यस्थ्यभावना नर्थान्तरम् ॥ टी० - माध्यस्थ्यमविनेयेष्वित्यादि । रागद्वेषयोरन्तरालं - मध्यं तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिरिति तद्भावो माध्यस्थ्यं तच भावयेत् । क ? अविनेयेष्वित्याह । १ ' प्रस्तास्तावत्' इति सु-पाठः । For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् अनेकेनाप्युपायेनाबोधयितुमशक्याः प्रकृष्टमिथ्यादर्शनाज्ञानोदयवर्तिनो रक्तद्विष्टपूर्वव्पुद्राहिताथाविनेयास्तेषु । माध्यस्थ्य औदासीन्यं इत्यादि पर्यायकथनेन व्याख्यां तनोति । अरक्तद्विष्ट-उदासीनः तद्भाव औदासीन्यम् । उपेक्षेति ईक्षणम्-आलोचनं सामोप्येनारक्तद्विष्टतया । अरागवृत्तिता अद्वेषवृत्तिता वोपेक्षेत्येकार्थाभिधायिनः शब्दाः ॥ भा०-अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रह गधारणविज्ञानेहाऽपोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । नहि तत्र वक्तुहितोपदेशसाफल्यं भवति ॥ ६ ॥ किश्चान्यत्____टी-अविनेया नामेत्यादि । विनीयन्ते-शिक्षा ग्राहयितुं शक्यन्त इति विनेया, न विनेया अविनेयाः, अशिक्षाही इत्यर्थः । नामशब्दो वाक्यसौभाग्यप्रयोजनः । मृत्पिडे. त्यादिशब्द उपमार्थः । मृत्पिण्डकाष्ठकुड्यानीच मृत्पिण्डकाष्ठकुडयभूताः, यया मृत्पिण्डादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समाददते तद्वत् येते तथोक्ताः । एतदेव स्पष्टतरं विवृणोति-ग्रहणधारणेत्यादिना । श्रवणेन्द्रियावधानेनोपदेशप्रहणं प्रतिपत्तिः । गृहीतस्याविस्मरणं धारणम् । एवमेतदिति निश्चितप्रत्ययो विज्ञानम् । इंहा तत्त्वान्वेषिणी जिज्ञासा । विचारणोत्तरकालं अपोहः सदोषपक्षत्यागः । एभिग्रेहणादिभिर्वियुक्ताः । महामोहो-मिथ्यादर्शनं तेनाक्रान्ता अभिगृहीतमिथ्यादृष्टयः । दुष्टावग्राहिताश्चेति । दुष्टास्तु रागादिदोषभाजः तैश्च पक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तुग्राहिताः। अवग्राहिता इति विप्रलब्धाः, ते च आजीवितावेधि स्वमसद्ह न मुश्चन्ति । तेषु च माध्यस्थ्यं भावयेत् । पूर्वकेषु त्ववगतेरभावाद् विफल उपदेशः । किं पुनः कारणमेतेषु माध्यस्थ्य भावनीयम् ? । नहि तत्रेत्यादि । नैव तत्र मृत्पिण्डादितुल्ये दुष्टावग्राहिते च वक्तुः-कथयितुहितोपदेशदानसाफल्यं भवति। निष्फलं चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाऽऽह"सर्वत्र देशविरति"मित्यादि । एवं च भावयतो मैत्र्यादिवतानां स्थैर्य भवतीति ॥ ६ ॥ अयमपरोऽभिनवाकुशलकर्मादाननिवृत्तिपरेण महाव्रतधारिणा क्रियाविशेषः प्रणिधेयो भावनाप्रस्ताव इत्यादर्शयति । किश्वान्यदित्यनेन सम्बन्धयति । अन्यदपीदं भावनीयमित्याहसूत्रम्-जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७-७॥ टी.-तांस्तान् देव मानुष-तिर्यङ् नारकपर्यायानत्यर्थ गच्छतीति जगत्-प्राणिजाता. ध्यते, धर्मादिद्रव्यसनिवेशो वा, चीयत इति कायः-शरीरम्, जगच्च कायश्च जगत्कायौ तयोः १ 'वधेः' इति ग-पाठः । २ 'सव्वं च देसविरई' इति आवश्यक-नियुक्तौ ( गा० ५६४)। For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ स्वभावौ तौ भावयेत् । तत्र जगत्स्वभावस्तावत् प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिय दौर्भाग्यदौर्मनस्यवधवन्धनाभियोगासमाधिदुःखसंवेदनलक्षणः । तथा जगत्स्वभावः "माता भूत्वा दुहिता" (प्रशमरतो, श्लो० १५६ ) इत्यादि । तथा सर्वस्थानान्यशाश्वतानि संसारिणां संसार इति । धर्मादिद्रव्याणां च परिणामित्वादनन्तपर्यायरूपेण गमनात् तेष्वपि परिणामानित्यतां भावयेत् । कायस्वभावोऽपि पितृमात्रोरोजःशुक्रमुभयमेकीभूतं गर्भजानां प्राणिनां शरीरतया परिणमत इत्यादिलक्षणः । सम्मृच्छेनोपयातजन्मनां तूत्पत्तिदेशावगाढस्कन्धादाननिर्माणानि वषि कायस्वभावः । भवन्त्यशुभपरिणामभाजि नानाकाराणि परिशटनोपचितिधर्मकत्वाद् विनश्वराणीत्येवं लक्षणः कायस्वभावः । तावेतौ जगत्कायस्वभावी किमर्थ भावनीयाविस्याह-संवेगवैराग्यार्थम् । यथासंख्याकेन सम्बन्धः। जगत्स्वभावं भावयेत् संवेगाथै, कायस्वभावं वैराग्यार्थमिति । संवेगाय वैराग्याय च (संवेग )वैराग्यार्थम्, 'चतुर्थी तदर्थार्थ०' (पा० अ० २, पा० १, सू० ३६) इति समासः। तत्र संवेगः संसारभीरुत्वादिलक्षणः । वैराग्यं शरीरनिष्प्रतिकर्मतादिलक्षणम् । सूत्रितमेवार्थ भाष्येण स्पष्टयन्नाहभा०-जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगत्स्व भावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावसूत्रगतशब्दानां दाना स्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोनित्यता दुःखहेतुत्वं " निःसारताऽशुचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिः धर्मे बहुमानो धार्मिकेषु च। टी–जगत्कायस्वभावौ चेत्यादिना । जगत्कायावुक्तलक्षणो, तत्स्वभावौ तु भाष्यकृता स्वयमेव व्याख्यातौ। संवेग्यवैराग्ये (ग्यार्थ) च भावयेदित्येतावदनेन भाष्येण विधीयते। तत्र जगत्स्वभाव इत्यादि । तत्रेति जगत्कायस्वभावयोर्जगत्स्वभावस्तावदुच्यते । जगत् जीवाजीवद्रव्याणि तत्स्वभावाः-परिणामाः तेषामेव जगच्छब्दवाच्यानां द्रव्याणां-द्रव्यपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति । कश्चिदनाद्यः परिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनाववज्ञानवत्त्वादिः, कश्चिदादिमान् देवतादिः। पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्वादिरनादिः, आदिमान् घटपटादिलक्षणः। धर्माधर्मयोर्लोकाकाशव्यापित्वादिरनादिः आदिमान् गतिस्थितिपरिणतद्रव्यजनितः । लोकाकाशस्यामूर्तत्वासंख्येयप्रदेशवत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः । एभियुक्ताः प्रादुभोवादयो जगत्स्वभावाः । अनाद्यादिमत्परिणा व्याख्या १'शेषोपायो' इति प्रारम्भकः "क्रियाविशेषस्तस्य' इत्यन्तकः क-ख-पाठः तु प्रक्षिप्त इति स्पष्टम् । For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालकृतम् मग्रहणेन प्रादुर्भावादयो विशेष्यन्ते । अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः आत्मलामो वस्तुनस्तथा सन्निवेशः, आदिमत्परिणाम विशिष्टश्च प्रादुर्भावः पर्यायान्तरोत्पाद इति । तिरोभावस्तु सन्तानरूपेणावस्थितो वैससिको विनाश एवादिलक्षणः, स्थितिधौव्यभनादिपरिणामः । अन्यता सवेद्रव्याणां परस्परं भेद्परिणामोऽनादिः, अनुग्रहः परस्परोपकारादिलक्षणो जीवानां, विनाशस्तु प्रायोगिक आदिमान् परिणामः । एवमेष जगस्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते । कथं पुनर्जगत्स्वभावचिन्ता संवेगानुगुणेति । उच्यते-जगत्स्वभावं चेतनावेतनत्वेन विभज्य चेतनानां सदसच्चेष्टितफलं विभज्यते, तत्सुपरिनिश्चितमतिरहिंसादिचेष्टिता मिहपरलोकोत्पन्नैकान्तहितानुष्ठायिनां तत्फलावाप्तिं च मनुजसुरनारकेषु तिर्यक्षु च यथावद् विचिन्त्य सारासारतया मुक्तिमार्गप्रवणो भवति । अज्ञानहिंसादिचेष्टितानां च संसारानन्तफलदोषदेर्शनात् तदुच्छेदार्थमहर्निशं संवेगमेव भावयति । अचेतनानामपि नित्यानित्यमूर्तामूर्तस्पर्शगन्धरूपशब्दसंस्थानादिपरिणामशुभाशुभकल्पनानामनाद्यसन्तानकस्वाभाव्यमनुपश्यन्नरक्तमूढद्विष्टो जगदन्यायन्यायचेष्टितानि भीतिमन्त्यभयभू. तानि च भावयन् संवेगभाग् भवतीति ।। कायस्वभाव इत्यादि । कायस्वभावो जन्मप्रभृत्यनित्यता-विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थाः पूर्वपूर्वावस्थोपमर्दैनोत्तरोत्तरावस्थास्वरूपं प्रतिलभन्ते, अतः परिणामानित्यतां शरीरस्य भावयेद् यावदायुषः परिसमाप्तिः। ततः क्रोधेनामिना वा सारमेयशकुन्तसम्पातेन वा वातातपशोषणेन वा विघटितः शरीराकारपरिणतपुद्गलप्रबन्धः सद्यो द्वयणुकादिस्कन्धभेदेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति ध्यपदिश्यते। सुचिरमपि चेष लालितः पालि :: कुङ्कुमागुरुकपूरकस्तूरिकानुलेपनादिमृष्टानपानवसनाच्छादनादिना चाकाण्ड एव ध्वंसते । भावयतश्चैवं शरीरे निर्ममता भवति । ततश्च संवेगवैराग्ये इति । अपरः कायस्वभावाद् दुःखहेतुत्वं बाधालक्षणं दुःखम् । सा च बाधा शरीरखान्ताश्रया । ततश्च यावच्छरीरं तावदपि दुःखोपभोगस्तदाश्रयो न व्यवच्छिद्यते । पुद्गलात्मप्रदेशानामन्योन्यानुगतौ क्षीरवारिणोरिवाविभागे सति आत्मनः पुद्गलनिमित्तो दुःखानुभवः । ततश्च दुःखहेतुतां भावयन्नात्यन्तिकोच्छेदायास्य दग्धशरीरकस्यायतते । तथाऽज्या निःस.रता कायस्वभावः त्वग्मांसादिपटलभेदेनोद्वेष्टयमानेऽप्यमुष्मिन् शरीरके रम्भागर्भ इव मेदोऽस्थिपञ्जरान्त्रजललसिकामूत्रशकृत्कफपित्तमज्जादिसञ्चये न काचित् सारमात्रोपलभ्यते प्रधानतासारकनकरत्नादिवत् तदभावादयं निःसारो लेभे गुकाष्ठवत् कायकलिरकालभङ्गुर इत्येवं भावयतः शरीरेऽभिषङ्गो न भवतीति । तथाऽशुचित्वं कायस्वभावः । अशुचित्वं लोकप्रतीतं, तच्च काय एव भूयसा दृश्यते, गर्भव्युत्क्रान्तिमानुपशरीरस्य तावन्मौलं कारणमस्तसी । ततस्तयोरेव कललार्बुदमांसपेश्यादिपरिणामः 'पुनर्जीवस्वभाव' इति क-पाठः । २ 'दर्शी तदु' इति अ-पाठः । ३ 'चोपलालितः' इति ग-पाठः । For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ तयाधिगमसूत्रम् [अध्यायः ७ कालान्तरेण शिरःपाण्याद्यवयवाभिव्यक्तिर्जनन्यभ्यवहृताहारनिस्यन्दप्रवाहपूरितरसहरणीकुल्यया परिप्रापिताशेषरसास्वादध्मायमानपोषः पुरीपमध्यासीनः पूर्णावयवः परिपाकवशान्मायोनिविवरनिःसृतः स्तन्यपीठिकाहारासेवनोपचीयमानरुधिरमांसकीकसपुरीषप्रस्रवणसं घातः पश्चादागन्तुकशल्यशलाकाग्रभिन्नः श्लेष्मादिधातुप्रकोपोद्भूतश्वयथुः गण्डादिसंस्पर्शाद् घा क्षरदसग्रलवलसिकापूयपटलप्रायपरिणामः सर्वावस्थास्वशुचिरेव काय इत्येवं भावयेत् ॥ एवं च भावयतः संवेगो वैराग्यं च भवतीति संवेगवैराग्यस्वरूपकथनायाह-तत्र संवेगो नामेत्यादि । तत्रेति तयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः । नामशब्दो वाक्यालङ्कारार्थम् । भीरु:-भीतिशीलः संसारो-नारकतिर्यङ्मनुष्यामरभवप्रपश्चः संकलदुःखमूलः संसाराद् भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम् । उद्विजते हि प्रेक्षापूर्वकारी दुःखात् । न जातुचित् प्रवणो भवति । आरम्भाः सूनास्थानानि प्राण्युपघातकराणि ध्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाः, चेतनाचेतनवस्तुस्पर्शिनो मृ.विशेषाः परिग्रहाः । तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यपायदोषाः तदर्शनात् तदुपलब्धेर्दुःखमुद्वेगोप्रीतिः-अरतिः तद्वतश्च धर्मे बहुमानो धार्मिकेषु च धमेः क्षमादिदशलक्षणस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्म च । चकार: समुच्चयार्थः । . बहुमानशब्दार्थनिरूपणायाह भा०-धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणाप्रतिपत्ती च श्रद्धेति॥ ____टी.-धर्मश्रवण इत्यादि। प्राक् तावद्धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छेनं पश्चाच्छ्वणम्--आदरेणाकर्णनं ततः सरणानुष्ठाने एप खलु धर्मविषयो बहुमानः । आदरः-चित्तप्रसादः। धार्मिकदर्शने चेति । धार्मिकाः-सम्यक्त्वज्ञानक्रियांनुष्ठायिनः साधवोऽगारिणश्च तद्दशेने च बहुमानः-चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्वेतःप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धति । संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽनगारागारिणोरवश्यंतया सन्ति तेषु सत्सुमौलेषु गुणेषत्तरोत्तरा ये गुणाः प्रकारवत्तया क्रमेणास्थिताः पिण्डोपधिशय्याविशुद्धिलक्षणाः समितिभावनातपःप्रतिमाभिग्रहादयस्तेषत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिरभ्युपगमोऽनुष्ठानं वद्विषया श्रद्धाऽभिलाप इच्छेत्यनर्थान्तरम् । एवं तावत्संवेगः ॥ १ 'पीठका' इति ग-पाटः । २ — साकल्यदुःख ' इति ग-पाठः । ३ 'प्रश्न' इति ग-पाठः । ४ ' वच्छिन्नाः ' इति -पाठः। For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ सूत्रं ८ ] स्वोपज्ञभाष्य— टीकालङ्कृतम् भा० - वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषुपधिष्वनभिष्वङ्ग इनि ॥ ७ ॥ ● टी० - वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगोऽभ्यञ्जनोद्वर्तनस्नानाङ्गरागधृपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोग संसाराभ्यां निर्वेदो - निर्विण्णता शरीरभोग संसार विषयवैमुख्यमुद्वेगस्तस्मान्निर्वेदाल्लब्धोपशमस्य - प्रतनुकपायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिदेशविघः पश्चमव्रते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधिवनभिष्वङ्गमूर्च्छा लोभो गार्घ्यं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः - अनभिष्वङ्गः निरपेक्षता तेषु गार्घ्यमिति ॥ ७ ॥ ६३ भा० - अत्राह-उक्तं भवता (अ० ७, सू० १) - हिंसादिभ्यो विरतिर्ब्रतमिति । तत्र का हिंसा नामेति । अत्रोच्यते । टी० – अत्राहेत्यादिना सम्बन्धमाचष्टे । अनवधारितहिंसादिलक्षणस्य निवृत्तिर्व्रतमित्यभिहितं भवताऽध्यायादौ, तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिर्ब्रतमिस्यजानानस्य प्रश्नः - तत्र का हिंसा नामेति । नहि लक्ष्यमुपरत लक्षणव्यापारमभिधित्सितस्यास्य जातुचिदामोदायेति । तत्र तेषु पञ्चसु हिंसादिषु का हिंसा किंलक्षणेति हिंसैव तावत् पृच्छयते । तल्लक्षणवैपरीत्यात अहिंसा सुज्ञानैव । न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यम् । अतः क्रमेण निर्देशे सति हिंसामेव तावद् वाचकमुख्यो निरूपयितुमाह- अन्रोच्यत इति । अत्र - हिंसालक्षणप्रश्ने भण्यते तल्लक्षणम् सूत्रम् — प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८ ॥ टी० – प्रमाद्यतीति प्रमत्तः कषायविक थेन्द्रियनिद्रासवैर्निमित्तभूतैः । तत्र कषायाः षोडशानन्तानुबन्धादि मेदास्तत्परिणत आत्मा प्रमत्तः । इन्द्रियाणि स्पर्शनादीनि तद्दारकौ रागद्वेषौ । समासादिततत्परिणतिरात्मा प्रमत्तः । स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः । प्रमादश्चात्मनः परिणामः कषायादिनिमित्तः, दर्शनावरण कर्मोदयात् स्वापो निद्रा पश्चप्रकारा तत्परिणामाब पीनहत्पूर पित्तोदयाकुलितान्तः करणः पुरुषवदन्धो मूढः कर'चरणविक्षेपशरीर पर्यवसानक्रियाः कुर्वन् प्रमत्तः (आसवो) मद्यं मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूर्च्छ इव विह्वलतामुपेतः प्रमत्तोऽभिधीयते । विकथा स्त्रीभक्तजनपदराजत्रृत्तान्तप्रतिबद्धा । रागद्वेषाविष्टचेताः ख्यादि विकथापरिणतः प्रमत्तस्य योगः । कर्तरि षष्ठी। योगपरि १ परितः' इति पाठः । For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ ६४ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ णामं विशिनष्टि-योगी-व्यापारश्चेष्टा, प्रमत्तस्यात्मनश्चेष्टेत्यर्थः । प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या । प्रमत्तव्यापारेण यत् प्राणव्यपरोपणं । अथवा पञ्चमी विधाने "ल्यब्लोपे कर्मण्युपसंख्यानं" प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति । एवं प्रमत्तयोगं प्राप्य प्राणव्य परोपणं कुर्वन् आत्मा हिंसां निवर्तयति । प्रमत्तयोगात् प्राणव्यपरोपणमा पञ्चमीविभ- स्मैव हिंसां निर्वर्तत इत्यर्थः । अथवा अधिकरणे चोपसंख्यानम् । आसने उपविश्य प्रेक्षते आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादः तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरन्नात्मा हिंसां निवर्तयतीति पञ्चमी प्रयुज्यते 'गुत्यर्थाकर्मक०' (पा०अ० ३,पा०४,सू०७२) इत्यत्र 'भावकर्मणोः' (पा० अ० १,पा० ३, सू० १३) इत्यनुवर्तते तत्र भावे क्तप्रत्ययः। प्रमत्तं प्रमादस्तेन च प्रमादेन योगः सम्बन्धस्तदाकारपरिणतिरात्मनः । ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पञ्चमीविभक्तिर्भवति जाड्या बद्ध इति यथा, एवं प्रमत्तयोगात्प्रमादसम्बन्धात् प्राणव्यपरोपणमिति । प्राणाः पञ्चेन्द्रियाणि आयुष्कर्म कायवाङ्मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थितास्तेषां व्यपरोपणम्-अपनयनम्-आत्मनः पृथक्करणम् । यया वा आत्मपरिणतिक्रियया तव्यपरोपणं निष्पद्यते सा क्रिया कर्तृसमवायिनी हिंसेत्युच्यते। एनमेव च सूत्रार्थ भाष्येण स्पष्टयन्नाह___भा०--प्रमत्तो यः कायवाल्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनथोन्तरम् ॥८॥ टी०-प्रमत्तो य इत्यादिना । प्रमत्त इति प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो ह्याप्तप्रणीतागमनिरपेक्षो द्रोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचिद् द्रव्यतः प्राणातिपातः न भावतः, स्वपरिणामनिमित्ते च हिंसाहिंसे, परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु कश्चिन्निमित्तमाश्रित्य कारणीभवति हिंसायाः । स च द्रव्यतो व्यापनो न व्यापन इति नातीवोपयोगिनी चिन्ता । तत्र यदा .. ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काञ्चिद्रव्याहता धा क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः पिपीलिकादेरुपरि पादं न्यस्यति उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । कदाचिद् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य पोलोपे कर्मण्यधिकरणे च ' इति कात्यायनवार्तिके (१४७४-१४७५)। For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ सूत्र ८ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् ६५ शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणिषु भावहिंसा भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्यकर्मशेषादपसृतो मृगः पुरुषाकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवाती व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमुदिते विकल्पये प्रमत्तयोगत्वं, द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं न प्रथमस्येति । अपरे तु प्रमादमष्टविधं वर्णयन्ति - " अज्ञानं संशयश्चैत्र, मिथ्याज्ञानं तथैव च । रागो द्वेषोऽनवस्थानं, स्मृतेर्धर्मेष्वनादरः || १ ||" - अनु० अपरे तु वते - " अप्रयत्नासमितः प्रमत्तः ।" प्रयत्नो द्विविधः - जीवाजीवपदार्थपरिज्ञानमीर्यादिसमितिपञ्चकं चेति । एतद्विरहितः प्रमत्त उच्यते । प्रमत्तस्य लक्षणा- सूत्रकारेण प्रमत्तयोगादित्येतदभिधता सर्वमेवैतत् प्रमत्तलक्षणं समन्तरम् ग्राहीति । स्यादेतत्, अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणस्वात् । मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् सर्वं चैतदुपपन्नं तृतीये । द्वितीय विकल्पे तु नास्त्येतत् समस्तम्, अतः कथं तत्र हिंसकत्वम् । । एतदेव च प्राणातिपातलक्षणम् । अपरं स्पष्टतरं प्रपश्चितम् - 1 ↑ " प्राणातिपातः सञ्चिन्त्य, परस्याभ्रान्तमारणं " इति ॥ द्विविधं मारणं सञ्चिन्त्यासञ्चिन्त्य च । सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च । अभ्रान्तस्यापि द्विविधं आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवतियदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव मारयति नान्यं भ्रमित्वा । इयता प्राणात्रिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति सोऽप्यवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्च असश्चिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राणभ वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्ध वृत्तित्वात् तम - मारणे बौद्धयः तिपातयति - विनाशयति जातस्य स्वरससनिरोधादनागतस्योत्पत्तिं प्रतिपूर्वपक्ष: बध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य सज्जीवितेन्द्रियं व्यपदिश्यते, न त्वन्यस्यात्मनोऽभावात् । न ह्यात्मनः किञ्चित् प्रतिपादकं प्रमाणमस्तीति । अन्यस्त्वाह १ ' तथाऽन्यस्या -' इति ङ-पाठः । २ ' अपरेण ' इति पाठः । ३ 'या' इति ङ-पाठः । For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ "आयुरूष्माथ विज्ञानं, यदा कायं( याद् १ ) व्रजन्त्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् ॥१॥"-अनु० इति । आईताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपिप्राणवधात् कर्तुग्धर्मो यथाऽनिस्पशोद् दाह इति । तेषां चैवमभ्युपयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिगेलुश्चने, कष्टतपोदेशने, च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः। विषचिकामरणे वाऽन्नदायिनः प्राणवधः, मावगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादमिना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवा भावुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति ॥ अत्रोच्यते जैनैः-प्राणाहिंसालक्षणे बौद्धमतखण्डनम् । - तिपाताधवद्येन प्रमत्तः एव युज्यते । प्रमत्तश्च नियमेन रागद्वेष - मोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीयकर्माशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाथात्मनः परिणामविशेषाः प्राणातिपाताधवद्यहेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते । सिद्धान्तविहितविधिना च परित्यागाकारणं शरीरादेर्ममत्वीकृतस्याविरतिः, अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरवाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके-यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः ॥ न चानयेव युक्त्याऽवद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवमवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापासवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ॥ प्रमत्तयोगाचप्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण-असश्चिन्त्य वा भ्रान्स्या वा मरणं नावद्यहेतुकमिति, अत्र प्रतिविधीयते-असश्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति १'दमे स्वा.' इति ग-पाठः । For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ ६७ सत्र ८] स्वोपज्ञभाष्य-टीकालङ्कृतम् सञ्चिन्त्य । अथैवं मन्येथास्तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्धया दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतत् तदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति । अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावा स्यात् । संसारमोचकगेलकतकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं वा संचेतयतां नावचं स्यात् , अन्याभिसन्धित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति, सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मो भवतीति । संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्ष। यन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगंतिकारणमानन्तयेकमयुद्धरबुद्धित्वादेव नस्यात्, इष्यते चानन्तर्यकं, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्तेऽ'विदस्माहतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोऽयमिति संज्ञानमात्रेण सं(सा?)ख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्याकारमपि शुद्धनामानं घ्नत आनन्तयेकं स्यात् । तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदां प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातायहेतुतया प्रायो। अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायादृते शस्त्रोल्लम्बनामिजलप्रवेशादिभिः । तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति । एवं सति कचित् कचिद् भावत एव प्राणातिपाताधवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति। प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणस्ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् अप्रमत्तस्य तु आगमानुसारिणो न भवति । यत आगमः " हत्थपायपलिच्छिन्नं, कण्णनासविकप्पितं ।। अवि वाससतं णारिं, दूरतो परिवजए ॥ १॥-अनु० चिंत्तभित्तिं ण णिज्झाए, णारी वा सुअलंकिदै । भक्खरंपिव दळूणं, दिहि पडिसमाहरे ॥ २ ॥"-अनु० -दशवैकालिके ( अ०८, उ० २, सू० ५५, ५४). १ 'गलाकर्तयाज्ञिक०' इति ग-पाठः। २ 'गमन' इति ङ-पाठः । ३ 'विदन्त्यार्हता' इति ख-पाठः । ४ छाया प्रतिच्छिन्नहस्तपादा विकल्पितकर्णनासिकाम् । अपि वर्षशतिकां नारी दूरतः परिवर्जयेत् ॥१॥ चित्रभित्ति न निरीक्षेत नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ २॥ For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ तस्मादेन पदमेतत् वसुबन्धा(१)रामिषगृद्धस्य गृद्रस्येवाप्रेक्ष्यकारिणः । अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुश्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपोदेशितं, कुतोऽवद्यप्राप्तिरप्रमत्तस्येति । अन्यदापि श्रद्धाशत्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुमतं गृहितोऽप्यागमानुवृत्त्या गृहाति, कुतस्तत्रावयेन योगः१, अन्नदायिनो दानकाल एव च कर्मनिजेरणादिफलाभिनिवृत्तेः । विसूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः। अज्ञानं विसूचिकायाः प्रमाद इति चेद् दातुस्तत्र स्वानस्य दानकाल एव त्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि-मातुगर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोkःखहेतुत्वादवद्येन योग इति, न, तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यग्गत'सुनो दशेनेन न तहुःखनिमित्तमस्यापुण्यमापतति साधोः। द्रव्य मात्राधे चागमानुमारिणो भिषग्वरस्येव पादुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्न इत्यन्याय्यम् । स्त्रीपुंमयोः संगमापादयतः सुखात्पादेऽप्यवद्येन योगः। कचित् परसुखोत्पादे पुण्यलेशनिजेरा वा। विहितानुष्ठायिनः साधोः क्षुत्पिपासावेस्याधाकमौदिदानेन एषणाविशुद्धन प्रासुकानपानदानेन वेति। यञ्चोक्तमग्निदृष्टान्तसामोद् वध्योऽपि अवत, वधक्रियासम्बन्धाद्धन्तवत् । यथा ह्यमिः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वध्यमेवावयेन योजयति " कर्मस्था च भिदेः क्रिये" ति वचनात् , यथा भिनत्ति कुम्लं देवदत्त इत्येवं हन्ति प्राणिनमिति तदेतदसदित्यनया क्रियया कतेमवायिन्या कुमूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगनया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोऽप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहिन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः। अबुद्धिपूर्वकता च प्रमत्तता । तत्र कःप्रसङ्गो वध्यस्याधर्मेण ? । वधकसमवायिनी च हननक्रिया कत फलदायिन्येव । प्रमत्तस्याध्यवमायो बन्धहेतुः। न च वध्यस्यात्महनने प्रमत्तताध्यवसाय:. दृष्टान्त वर्मी चानेधो , तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया दृष्टान्तोपादान ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्पसमाधेयं, जातिरुपन्यस्ता वसबन्धु(१)वधेयेन, स्वाश्रयदाहित्वमनर्विशेषधर्मोऽस्ति । न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मामामिदृष्टान्तात् साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक्तम्-परेण 'गृहीतायाः' इति क-ख-पाठः । For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ सूत्र ८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ६९ च कारयतो नाधर्मप्रसङ्गः । न सग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति । यदप्यभिहितम् - अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्ग इति, इष्टमेवैतत् । यतो येषां जीवानां काष्ठादिशरीरं तदा वाच्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्य मिष्यत एवेति न काचिद् बाधा || यश्वोक्तम् न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति एतद्व्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः । प्रयोगस्तु - अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिवृत्तत्वात् तृतीयविकल्पप्राणवधक्रियावदिति । यश्वावहेतुर्न भवति स प्रमत्तव्यापार निर्वृत्तोऽपि न भवति, यथा प्रथम विकल्प इति । यच्चाशंक्योक्तं - स्वरसभङ्गुरेषु भावेषु क्षणिकेषु परकीयप्रयत्न निरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य, किं तर्हि प्रयत्नः करोति? अनागतस्य क्षणस्योत्पत्तिं प्रतिबध्नातीति । एतद् प्यत्यन्तमयुक्तम् । अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः १ असवरूपत्वात् शरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः । प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन - प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुर्न वा भावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति वैखसिकप्रायोगिक विनाशभेदाच्च न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभादङ्कुरादिवत् हेतु मच्वात् तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः । यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किञ्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी - निष्कारणो विनाशः किमसन्नुत नित्य इति १ । असत्वे . विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः, कार्योत्यादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् ॥ यश्च्चोक्तं - कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावादिति तदप्यसमीचीनम् । यत एकस्थित वस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकः स्थितश्वात्मा । सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति । ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धा: । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपअमिति, तत् न, परमार्थतस्तस्यास स्वात् । न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणविपयावधारणं शक्यं कर्तुम् । सञ्चिन्त्य परस्याभ्रान्तिमारणमिति भिन्नाः सचेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः किं सञ्चेतयितुः ? अथ यस्य पर विज्ञानमुभयस्याभ्रान्तिः १ अथ येन मारित इति १ । सर्वथा गृहीतशरणत्रया अध्यशरणा एव सौगता इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान युक्ति क्षमत इति ॥ प्रकृतमुच्यते-व्यवस्थितमिदं प्रमत्त एवं हिंसकः, नाप्रमत्त इति । सामान्येन कर्तृनिर्देशः १' चाव्युत्सृष्टं ' इति इ-पाठः । २ ' हन्तुरिति ' इति ग-पाठः । For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ व्याख्या तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ यः कचित् प्रमत्त इति । कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विराकाराणि । तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते गमने निर्वत्ये पादवत् , कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि । करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः कारणत्वेन निर्दिश्यन्ते, कृतद्वन्द्वाः कायादयः तेषां योगस्त एव वा योगः । यथैव ह्यात्मा कायादियोग. भिर्युक्तस्तथा कायादिक्रिययाऽपीति । अतस्तद्यापारोऽपि योगः। युज्यतेऽसा वाऽऽत्मनेतियोगः सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः कर्तुरात्मनः, तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामः, योगः कायादिचेष्टा । यथाऽऽह "जोगो विरियं थामो, उच्छाह परक्कमो तहा चेहा। सत्ती सामत्थं चिय, जोगस्स हवन्ति पन्जाया ॥१॥"-आर्या तथा अपर आह "मनसा वाचा काये-न वाऽपि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः, स योगसंज्ञो जिनैदृष्टः ॥ १॥"-आर्या कायः-शरीरं औदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्तं प्रधानातिशयोपकारितया साधकतमत्वात् करणम्, एतदवष्टम्भात् कर्ता आत्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविपासनादिक्रियाः परिनिष्पादयति । वागपि वोक्याापत्तिपरिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा कचिदनभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशने साधकतमत्वात् करणतया व्याप्रियते । मनोपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मर्नुते साधकतमत्वात् करणमात्मनः । एवमेभिः कायवाङ्मनोयोगैः समुदितैदोभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथक्करणमाचरति यो द्रव्यभावाभ्यां भावतो वापि प्रगत्तः सा हिंसेति । समुदिताश्च प्रतीता एव निर्वतकाः, प्रत्येकं तु कथं निर्वतकाः प्राणातिपातावद्यस्येति भाव्यते, भूदकतेजोमारुतवनस्पतीनां काययोग एवैकः । स्पर्शनाख्यं चेन्द्रियमेकमेव, न तु वाङ्मनोयोगी स्तः । तेषां च कायव्यापारजनित एव प्राणातिपातः । द्वित्रिचतुरिन्द्रियाणां असंज्ञिपश्चेन्द्रियाणां च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां, .एकेन्द्रियादीना स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां, स्पर्शनरसनघाणचक्षंषि चतुरिहिंसायां योगविचारः १२ न्द्रियाणां, असंज्ञिनां पश्चापीति । सर्वेषामन्तःकाणं नास्ति द्रव्यरूपम् । १.स्तयेव वा' इति ख-पाठः । २'वाऽऽत्मनो' इति ग-पाठः। ३ छाया योगो वीर्य स्थाम उत्साहः पराक्रमः तथा चेष्टा । . शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः॥१॥ ४. वारपर्याप्ति' इति हु-पाठः। ५.दभिलक्षित.' इति उ-पाठः। ६'मनो' इति हु-पाठः। For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ सूत्र ८] स्वोपक्षमाष्य-टीकालङ्कृतम् एकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वाद, द्रव्यरूपमन्तःकरणमन्तरेण स्पष्टमपटु पटलावृतनेत्रवत् , संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पश्चापीन्द्रियाणि विद्यन्ते । पट्वी चैषां प्रज्ञा । कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति, प्रकर्षतोऽप्रतिष्ठाननरकगमनयोग्यम् । असंज्ञिपश्चेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निर्वर्तयन्ति । एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नवोपाददते, ते हि नरकगतिवर्जसंसारपरिभ्रमणयोग्यमेवावा निवर्तयन्ति कायवाग्योगिनः । काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं च । फलस्य च प्रकर्षापकर्षों अन्तःकरणकपायापेक्षौ । संज्ञिपञ्चेन्द्रियाणामारम्भहननव्यापादितकालमेदेन प्राक प्रतिपादितौ । “तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरण विशेषेभ्यस्तद्विशेषः" इत्यत्र (अ० ६, सू० ७) सूत्रे । कचित् कायादित्रयसमिधानेऽप्यन्यतमस्यैव व्यापारः। तन्दुलमत्स्यस्य मनोव्यापार एव केवलः। कचिद् वाङ्मनोव्यापारात् प्राणातिपातावद्यम् । यथा "वर्ष देव! कुणालायां, दिनानि दश पञ्च च। मुसलस्थूलधारामि-येथा रात्रौ तथा दिवा ॥१॥"-अनु० -आवश्यकवृत्तौ अनादेशस्थाने अत्रात्यन्तराशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां, कष्टतपःसमावर्जित देवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्ग रागद्वेषमोहहेतु- मानां प्राणिनां गन्धोऽपि नासीदिति स एष प्राणातिपातः प्रमत्त योगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपादवसेयः । रागप्रप्रतिकस्तावच मदकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयाक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षणाय वा।मायालोमौ च रागः, द्वेषजो वैरनियोतनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः । अज्ञानजो याज्ञिकानां पश्वादिविशसनेन स्वर्गमिच्छतामवनिपतीनां च दृष्टः । परिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लम्ब(छ)नशूलिकाभेदक्रकचपाटनच्छेदनादिकः । तथा संसारमोचकानां धर्मबुद्धचा संसारात् प्राणिनो मोचयतां परोपपातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधान किल पुण्यावाप्तिरिसिप्रवृत्तीना, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्थी इति तद्धनने नास्ति दोष इत्येवं प्रवृत्तानामशेषमेव मोहविजृम्भितमिति ॥ सम्पति हिंसायाः पर्यायशब्दानाचष्टे सूरिरसंमोहार्थम् , आगमे च सर्वव्यवहारद शेनात् । आह च "क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, भोवद्धिहितो मतः ॥१॥"-अनु० कावधारमोट For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ वधपर्यायाः हिंसनं हिंसा द्रव्यभावाभ्यां द्रव्यतः षड्जीवनिकायविषयं प्राणिनां पृथकरणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेपमोहपरिणतिविशिष्टं च 1 मारणमपि यथाविहितप्राणपरित्याजनम् । अतिपातो विनाशः प्राणानामतिपातः, अथवा अतिपातः - पातनं शाटनं प्राणानामतिपातनं प्राणातिपातः । वधः - उपमर्दः प्राणानां वधः प्राणवधः । देहः - शरीरं देहादन्यो देहान्तरं, संक्रामणं - नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंकामर्ण साधनं “ कृते" ति समासः ( 2 ) | पूर्वशरीरकं त्याजितः शरीरान्तरं परिप्राप्यते संसारभावी, न पुनर्यो मुक्तिमाप्स्यतीति । रोपणं जन्मपरिप्रापणं संवर्धनं च, आरोपणं - उत्सादनं उत्खननं विशेषेणारोपणं प्रमादपरवत्तया मारणादिशब्दार्थेष्वपि एतद् विशेषणं द्रष्टव्यम् । प्राणानां व्यपरोपणं प्राणव्यपरोपणम् । इतिशब्द एवंशब्दार्थे । एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थान्नार्थान्तरं मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति ॥ ८ ॥ भा०—अत्राह - अथानृतं किमिति १ । अत्रोच्यते टी० - अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते - अधानृतं किमिति । अथेति हिंसानन्तरं अनृतं निर्दिष्टं प्राक्, तत् किंलक्षणमित्यजानानः प्रश्नयति । आचार्यस्तु तल्लक्षणं वक्तुकाम आह- अन्रोच्यत इति । अत्र प्रश्नेऽभिधीयत इति । एतदुक्तं भवति - अभिहितहिंसालक्षणानन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते- नानाप्रकारं परपीडापादनसमर्थम् - ७२ मनृतस्य लक्षणम् सूत्रम् - असदभिधानमनृतम् ॥ ७९ ॥ टी० - प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थः प्रमत्तयोगादसदभिधानमनृतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुङ्क्ते यत् तदनृतम् । भावसाधनः करसाधनो वाऽभिधानशब्दः । अव्ययम् । ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृतमिति सूत्र विन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिका दिवाक्यस्येवासदभिधानग्रहणम् । एवंविधे च सूत्र विन्यासे पर्यायमात्रमित्युक्तं स्यात्, न तु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते । अभिधानं-- वाग्योगविषयः । भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति । कायेन हस्तलोचनौष्ठपादाद्यवयव क्रियाभिरलीकाभिः परं वञ्चयति वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोचयति - एवं परः प्रतारणीय इति । सच्छब्दः प्रशंसार्थो लोके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न सद् असत् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तच्च त्रिवि - धमसदित्यादिना भाष्यकारो दर्शयति १' ब्यवस्थितं ' इति पाठः । २ ' प्रतिपादिते इति ' ग-पाठः । सूत्र विन्यास - विचारः For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् ७३ भा०-असदिति सद्भावप्रतिषेधोऽर्थान्तरंगहीं च। तत्र सद्भावअसतपैविध्यम् प्रतिषेधोनाम भूतनिह्नवः अभूतोद्भावनं च। तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । टी०-असदित्यस्य शब्दस्यायमर्थः-सतो भावः सद्भावः। सच्च उत्पादव्ययध्रौव्यमुक्तं (अ०५, सू०२९) तस्य भावस्तदेव न तथा भवतीत्यनेकेन पर्यायरूपेणास्य प्रतिषेधो-निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढ्वते । तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति । नामशब्दो वाक्यालङ्कारार्थः। सद्भावप्रतिषेधो द्विविधः-भूतनिहवः अभूतोद्भावनं च। भूतस्य-विद्यमानस्य निगवः-अपलापः। तद्यथानास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्मगामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते । आत्माभावे च परलोकिनोऽभा वात् परलोकाभाव इति सुज्ञानम् । आदिग्रहणाच्छुभाशुभकर्मतदुपभोगदानफलाभावपरिग्रहः। सद्भावप्रतिषेधभेद एवाभूतोद्भावनम् । चशब्दः समुच्चयार्थः । यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाझानबलेनात्मानमभूतमेवात्मतत्वं समुद्भावयन्ति स्वरुच्या। भा०-श्यामाकतन्दुलमानोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् ॥ टी-श्यामाकतन्दुलमात्रोऽयमित्यादि । श्यामाकः-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः । अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते । तथा अङ्गुष्ठपर्वमात्र इति । अङ्गुष्ठः-पाणेरवयवस्तस्य ले(रे)खावच्छिन्न उपरितनो भागः पर्व, तत् प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा। इत्थं चाभ्युपगमे तस्यात्मनः भारमनः परिमाणस्य शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः। ततश्च दंशमश विचारः कमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् । चन्दनादिविलेपने च न सुखानुभवः । स्वानुभवसिद्धाश्च सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एष पन्था प्रहातव्यः । आदित्यवर्ण इति भास्वररूपस्तस्य चारूपादित्वादमूर्तत्वात् कुतो भास्वरता । कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् , ज्ञानावरणादिपुद्गलानामभासुरत्वात् । तस्मादयमपि हेयः पक्षः । निष्क्रिय इति । आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवामनःकरणजनिता, तदभावानिष्क्रिय इति व्याचक्षते, तदप्यसद्दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावात् । उपे १ सद्भुतनिहवः' इति घ-पाठः। 'अभूतनिहवश्व ' इति ग-पाठः । ३ 'शनच्छेददेशेषु' इति -पाठः। For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ ७४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ त्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः। अथ यत्रैवोपआत्मनो ___ भोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदनिष्क्रियत्वस्य निरास: युक्तम् , अन्यत्रापि शरीरकाणां संम्भवात् । निजधर्माधर्मोत्पादितं यच्छ रीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वात् । आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः। आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह भा०-अर्थान्तरं यो गां ब्रवीत्यश्वं अश्वं च गौरिति । गर्हेति हिंसापारुप्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमेव भवतीति ॥९॥ टी०-अर्थान्तरमित्यादि । अर्थादन्योऽर्थःअर्थान्तरम् । तद् दर्शयति-योगांब्रवीत्यश्वमिति अश्वं च गौरिति । य इति प्रमत्तस्य कर्तुनिर्देशः। गोशब्दः सङ्केतवशात् सानादिमतिपिण्डे लोकेन व्यवहारार्थ प्रयुज्यत इति रूढम् । अश्वशब्दोऽप्येकशफाद्यवयवसन्निवेशविशेषे प्रसिद्धः। वक्तातु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्दं गवि प्रयुङ्क्ते, शाठ्याद वा, गोशब्दं चाश्व इति, एवम्, अचौरं चौर इत्यादि ॥असत एव तृतीयभेदो गर्दा। तद्विवरणायाह-गर्हेति हिंसेत्यादि । गहणं गर्दा कुत्सा शास्त्रप्रतिपिद्धवागनुष्ठानं गर्हितं कुत्सितमितियावत् । युक्तशब्दः प्रत्येकमभिसम्बध्यते । हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकायप्यलीकमेव । यतो हिंसानिवत्तेम॒षावादादिनिवृत्तिः परिकरः। हिंसानिवृत्तिपरिरक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः। तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति । यतः प्राणि पीडापरिरक्षणार्थ मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं परुषो-निष्ठरस्तद्भावः पारुष्यं-निष्ठुरवचनाभिव्यङ्गयमन्तगैताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् । तथा पैशुन्ययुक्तम् । मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् । येन येन वचसोचार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशुन्ययुक्तमिति । आदिशब्दाच्छलशठदम्भकल्कविकारोप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्त विकथाश्रितप्रवचनविरुद्धसावद्यग्रहण मिति । आगमश्च "जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ॥१॥"-अनु० -दशवकालिके ( अ०७, उ०२) 'भावात्' इति उ-पाठः । २'तमनृतमेव' इति घ-पाठः । ३ छाया या च सत्या अवक्तव्या सत्यामृषा च या मृषा। या च बुद्धैः अमाचीर्णा नैना भाषेत प्रज्ञावान् ॥ १॥ For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ सूत्रं ९] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् वाचकेनाप्युक्तम् " यद् रागदोषवद् वाक्यं, तत्वादन्यत्र वर्तते । सावधं वाऽपि यत् सत्यं, तत् सर्वमनृतं विदुः ॥१॥" तथा परेणाप्युक्तम् " अनृतमसद्वचनं स्या-चतुर्विधमसच्च जिनवरैदृष्टम् । सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ॥१॥"-आर्या नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं व्य(ह्य)सत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच गौरश्व इति वचनं, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम् । तच्च संक्षेपतश्चतुःस्थानसंगृहीतं सर्वद्रव्य विषयमेन्यूनम् । द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा । अनेनैतदपि प्रतिक्षिप्तमवसेयम्संभिन्न प्रलाप-" न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । तानिरासा प्राणात्यये सर्वधनापहारे, पञ्चानृतान्याहुरपातकानि ॥१॥"-उपजातिः इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृपावादः, अर्थाभिज्ञश्वाभिज्ञातुं समर्थो यश्च उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञानविषयो न श्रोत्रविषयश्च, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्याथानभिज्ञे तु संभिन्नः प्रलापः स्यान्न मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाह्येन वस्तुतो निमित्तमात्रतयोपयुज्यमानेन ? स्वाश्रयोऽत्रापराध्यति । सर्वथाऽपि प्रमत्तो यः कायवाङ्मनो. योगैरसदभिधत्ते तदनृतम् , आशयस्याविशुद्धत्वात् । संभिन्नप्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भियत एव वाचकमुख्यप्रणीतानृतलक्षणात् इति ॥९॥ ___भा०-अत्राह-अथ स्तेयं किमिति ? । अत्रोच्यते टी०-अत्राहेत्यादि सम्बन्धं वक्ति । पूर्वमूत्र क्रमोपन्यस्तहिंसाद्यवधृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति-अथ स्तेयं किमिति । लक्षणविषयप्रश्ने यल्लक्षणं पृच्छयते कीदृगिति । आचार्यस्तु अत्रोच्यत इत्याह । अत्र प्रश्ने स्तेयलक्षणमुच्यते १ 'भावदोष ' इति ग-पाठः। २ 'मद्भूतं ' इति ङ-पाठः । ३ 'स्वाशयो' इति ङ-पाठः । For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ ७६ सूत्रपाठविचारः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ स्तेयलक्षणम् सूत्रम्-अदत्तादानं स्तेयम् ॥७-१०॥ टी-प्रमत्तयोगादित्यनुवर्तते । दीयते स दत्तम् । कर्मणि निष्ठा । कर्म च कर्तुरीप्सिततम चेतनाचेतनं वस्तु, ममेत्येवं परिगृहीतं पञ्चभिर्देवेन्द्रादिभिः कस्मैचिद् दीयते यत् तद् दत्तमुच्यते । यत् तु तैः परिगृहीतमेव न दत्तं तस्यादानं-ग्रहणं धारणं च स्वेच्छया हठेन समक्षमेव चौर्येण वा (तत् स्तेय )मुच्यते, देवेन्द्रादिभिः परिग्रहीतभिर्दीयमानमपि किश्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्वनेपणीयादि तदपि स्तेयमेव ॥ ननु चैवंविधमेव सूत्रं कार्यम्-शास्त्रेणादत्तस्यादानं स्तेयमिति । सत्यम्, एवं संगृह्यते सकलं लक्षणं तथापि लापविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति । अनेन च लक्षणेन खरकुटीसम्बन्धिमानुषकेशादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति । भा०-स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य वा तृणादेव्यजातस्यादानं स्तयम् ॥ १०॥ ___टी.-स्तेयबुद्धयेन्यादि भाष्यम् । स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः । सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति । आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यम् । स्तेयबुद्धिग्रहणात् तु कमोदानं न स्तेय मिति । ज्ञानावरणादिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमानं तथापि न तत्र स्तेयबुद्धिबिन्धु रस्ति । सत्स्वपि प्रमादादिबन्धहेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयम् । एतदेव स्फुटतरमाचष्टे भाष्यकारः-परैरदत्तस्येत्यादिना । परैः परिगृहीतस्य दानप्रवृत्तिरदानं वा सम्भवति नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकमेणः कश्चित् परिगृहीताऽस्ति यो दास्यति न वेति । यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः। अपिच-प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थकरस्य तीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य । कियतः पुनरस्यादेयस्य स्वीकरणं स्तेयमित्याह-तृणादेद्रेव्यजातस्येति । तृणमादियस्य द्रव्यजातस्य तत् तृणादि । तृणग्रहणं निःसारताप्रतिपादनार्थ अल्पताप्रतिपादनार्थ च । तृणेन निःसारेणाल्पनेकेनाप्यपहतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति । अत्र च परिगृहीतापरिगृहीतस्येति केचित् भाष्यमधी लके-"जंपि वत्थं च पायं वा अकप्पिन इच्छिना"। २ 'स्पष्टतर ' इति हु-पाठः । For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ सूत्र १०] स्वोपज्ञभाष्य-टीकालङ्कृतम् ७७ यते, तदयुक्तम् । न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य ग्रहणं स्तेयमिष्यते. तस्मादपरिगृहीतस्येति प्रमादपाठः। तथा तस्यैव भाष्यकृतः शौचप्रकरणे ग्रन्थः-" अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयम् । परैरनतिसृष्टं यद् , यच्च शास्त्रैविगर्हितम् । तत् सर्वे न ग्रहीतव्यं, दन्तविस्फाटनाद्यपि ॥१॥"-अनु० न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तम् । आदिग्रहणादनेकविधसारासारचेतनमिश्रद्रव्यजातपरिग्रहः । जातशब्दः प्रकारवचनः । द्रव्यजातं-द्रव्यप्रकारः । गुणपर्याययोद्रव्यपरिणामविशेषादेव न भेदेनोपादानमिति ॥ ननु चैविधे भाष्यार्थे परैः परिगृही. तस्यादत्तस्य स्तेयबुद्धया ग्रहणमदत्तादानमिति । अनेषणीयादेऽहणप्रसङ्गः। येन परिगृहीतमनेषणीयादि स ददात्येव । ततस्तद्हणे कथं स्तेयमिति ? उच्यते-सत्यम् । गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते । गरीयांश्च शास्त्रप्रतिषेधः। भवतु नाम शास्त्रप्रतिषेधः तच्छास्त्रं कथं परशब्दवाच्यम् । परो ह्यात्मा चेतनालक्षण इति ? । उच्यते-शास्त्रमपि ज्ञानमात्मनः परिणामविशेषः । स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्योऽन्यक्षेण प्रहतघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामा गणधरप्रत्येकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिद्रव्यश्रुनमुपचारात् शास्त्रमुच्यते पुस्तकादिलिखितम् , अतः सर्वमदत्तादानं सूत्रेण समग्राहीति । तच्चतुधो अधीतमागमे-द्रव्य-क्षेत्र-काल-भावभेदात् । द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतत्रैलोक्यव्यवच्छिन्नानि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद् भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद् द्रव्यैकदेशवृत्तिता - देशवृत्ति, न तु समस्तद्रव्यविषयम् । ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव " शरीराणां च, जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुन: साक्षात् ॥ ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारः । ततश्चैतदपि सकलद्रव्यविषयमेव स्यात, न द्रव्यैकदेशवृत्तीति । उच्यते-हस्तादिना करणेन यद् द्रव्यं पूर्वकाधारप्रदेशात् प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीयशब्दाभ्यामा विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न सम्भवति । तस्माद् द्रव्यैकदेशवृत्त्येवादानं न्याय्यम् ॥ अपरे तु मोहादभिदधते "-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानम् , यतः सवेमिदं ब्राह्मणेभ्यो दत्तं, ब्राह्मणानां तु दोबल्याद् वृषलाः परिभुजते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते"। "स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति (च)"(मनुस्मृती अ०१, श्लो०१०१) इति सर्वमिदमसम्बद्धत्वात् प्रलापमानं श्रोत्रिय 'परिणमति आत्मनि' इति ङ-पाठः।। २ 'माहारः' इति ङ-पाठः । For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ ७८ अब्रह्मलक्षणम् तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ प्रायदुर्विदग्धजनप्रहत एष पन्था उपेक्षणीयः, सप्रत्यवायत्वादिति। सर्व चेदं रागद्वेषमोहमूलम् । उक्तं मोहर्ज, रागजं तु यस्य येनार्थित्वं स तस्यापहारमाचरति लाभसत्कारयशःसमावर्जनार्थ वा, द्वेषजं वैरप्रतियातनार्थमिति ॥ १० ॥ भा०-अत्राह-अथाब्रह्म किमिति । अत्रोच्यते टी-अत्राहेत्यादिना सम्बन्ध प्रतिपादयति । अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह--अथाब्रह्म किमिति । अथेत्यानन्तर्यसूचकः। ब्रह्मणोऽन्यद् अब्रह्म । तत् किंलक्षणमिति प्रश्ने सत्याहअब्रह्मलक्षणम् सूत्रम्-मैथुनमब्रह्म ॥७-११॥ टी-मिथुनं द्वयमुच्यते । तत् कदाचित् द्वयमपि सचेतनं, कदाचिदेकं सचेतनं एकमचेतनम् । तत्राचं पुरुषवेदोदयात् पुमानुदितस्त्रीवेदया दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते । अथवा पुरुषेण नपुंसकेन फलादिविवरेण स्वहस्तादिना वा । एवं योषिचेतनं कन्दादिमिरन्यहस्तादिभिरपीति । पश्चिम विकल्पे तूदितवेदः पुमान् अचेतनाभिर्दिव्यमानुषतिर्यकस्त्रीप्रतिमाभिर्लेप्यकाष्ठोपलपुस्तचित्रकर्मादिरूपाभिः सह संपृच्यते। अन्यैश्चाचित्तस्रोतोभिर्मतशरीरकेण वा। तथा योषिद् अवेतनपुरुषप्रतिकृतिवर्तिना लिङ्गेन काष्ठशलाकादिना वा युज्यते बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानम् , एवं सर्वत्र मिथुनसम्भवः । तयोर्भावो मैथुनं अविकृतत्वाद् युवादेराकृतिगणत्वादण् । अथवा मिथुनस्येदं कर्म, “तस्येदं" (पा० अ० ४, पा० ३, सू० १२०) इति अण। अचेतनमपि हि वस्तु प्रतिमादि विवक्षिततत्कर्मयोग्यतया परिणममाणमनुग्राहकं तथा भवतीति समीचीनमेवेदं तयोर्भावो मैथुनमिति । आगमस्तु द्रव्य-क्षेत्र-काल-भावभेदाचतुर्धा । मैथुनं द्रव्यतो रूपेषु वा रूपसहगतेषु वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादि, न तु वर्णमात्रमेव, रूपसहगतेषु वा द्रव्येष्विति रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सह संभूय गतानि यानि जीवद्रव्याणि, गतानीत्यन्यानुवेधिना परिणामेन परिणतानि चेतनाभाजि शरीराणीत्यर्थः । तद्विषयं मैथुनं द्रव्यतः, क्षेत्रतोऽनन्तरवत् । भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादिति अत्रानुवर्तमानमपि नोपयुज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावस्तत्र प्रमत्तयो गग्रहणमर्थवद् भवति-प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातप्रमत्तयागा वत, इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मनोपयोगे हेतुः बन्ध इति । आह च-(बृहत्कल्पे) १ 'पुस्तकचित्र' इति ङ-पाठः । २ 'त्यन्योऽनुवेधिना' इति ङ-पाठः । For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य–टीकालङ्कृतम् "" कामं सव्वपदेसुवि, उस्सग्गत्रवातधम्मता जुत्ता । मोतुं मेहुणभावं, ण विणा सो रागदोसेहिं ॥ १ ॥ " - आर्या वानर्थकमेव प्रमत्तग्रहणमत्रेति । मण्डूकप्लुत्या चाधिकारानुवृत्तिः । असंख्येयलोकाकाशप्रदेशपरिमाणबृहच्वादात्मा ब्रह्मा । स च मैथुनानुस्मृति संस्कारस्पृहेन्द्रियालोकटष्यरसविषयविकथा सत्कृतिसंसक्तसेवाभेदाद् दशविधाद् अब्रह्मणो निवृत्तथरन् ब्रह्म - ब्रह्म ध्वनिवाच्यः आत्मैव चरणं चर्यम् आत्मनो ब्रह्मणः सेवनमात्मनि आमरणं न बहिर्मुखचित्तवृतिता ख्यादिविषया, अतो मनोवाक्कायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्यमात्मन्येव वृत्तेः, संवृतेन्द्रियद्वारत्वात् । तद्विपरीतमब्रह्म । तच्च तीव्ररागानुबन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गन करजघट्टनालक्षणस्तत्काल रमणीयकप्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपय प्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुल विषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितराम् । तथाचानुकूलत्वाद् दुस्त्यजमपीदमशुचित्वादि भावनाजाल संस्पर्शनाद् विवेकिनो जहत्यवधीरितमकरध्वजसराः । तदेतदब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह - सूत्र ११ ] मा० - स्त्रीपुंसयोमिथुन भावः मिथुनकर्म वा मिथुनं तदब्रह्म ॥ ११ ॥ टी० - स्त्रीपुंसयोरित्यादि । स्त्री च पुमांच स्त्रीपुंसौ । “अचतुरा "दि ( पा० अ० ५, पा० ४, सू० ७७ ) सूत्रलक्षितः स्त्रीपुंसशब्दः । तयोः स्त्रीपुंसयोर्रेद्भुततीत्रदेहपरिणामयोर्मिथुनता - मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलभमानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्म संप्रत्ययो न पुनः प्रयोजनवशादासन्न प्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुन भावो मिथुनकर्म वाऽभिधीयते । ततश्च स्त्रीप्रव्रजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुन भावस्य तद् अब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मिथुनकर्म वा सर्वमेतन्मैथुनमब्रझेति निगमनद्वारेण परामृश्यते । स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकल विकल्पप्रतिपादनार्थम् । प्रधानं च स्त्रीपुंसयोर्मिथुनभावः, पृथगनाचरितास्तु शेष विकल्पाः । ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः । तदेतदब्रह्म संक्षेपतो रागद्वेषमोहम्लमनर्थपरम्परा रागात् परदाराभिगमलाभसत्कारात्म मित्रत्राणार्थमासेवते द्वेषाद् वैरनिर्यातनार्थं मोहात् स्वस्रादिपरिभोगाद्यनुष्ठानमविच्छिन्न विषय पिपासाः समाचरन्ति । साधवस्तु विवेकबलादुपशान्तरागादिरजसः सर्वात्मना परिवर्जयन्तीति ॥ ११ ॥ १ छाया ७९ कामं सर्वपदेष्वपि उत्सर्गापवादधर्मता युक्ता । treat मैथुनभावं न विना स रागद्वेषौ ॥ २ बोदितः' इति उ-पाठः । ३ 'लाप्रतापश्च' इति पाठः । ४' रुद्भूत' इति पाठ ५' संप्र स्ययोर्न पुनः' इति ङ-पाठः । ६ ' च' इति ग-पाठः । For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ भा०-अत्राह-अथ परिग्रहः क इति ? । अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धकथनम् । अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति-अथ परिग्रहः क इति । अथ-अब्रह्मानन्तरं परिग्रह उपदिष्टः, स किलक्षणविषयः १ प्रश्ने आचार्य आह-अत्रोच्यते-अत्र-लक्षणप्रश्नेऽभिधीयते । बाह्याध्यात्मिकोपधिविशेषसंरक्षणक्षयार्जनसङ्गपर्येषणा या सैव हि शब्दान्तरनिर्दिष्टा परिग्रहलक्षणम् सूत्रम्-मूर्छा परिग्रहः ॥ ७-१२ ॥ . टी.-अत्र प्रमत्तयोगादित्यनुवर्तते।मूर्च्छति । "मूर्छा मोहसमुच्छाययोः"(पा० धा० २१२) मूच्छर्यतेऽनया आत्मेति मूर्छा-लोभपरिणतिः तया आत्मा मोहमुपनीयते-विवेकात् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकपायोपरागादसमञ्जसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किश्चिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतचेतोवृत्तिश्चेष्टतेऽन्धवधिरवदनालोचितगुणदोषः। समुच्छ्रायोवा मूर्ची, समुच्छ्रीयते-प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागबलानुरञ्जितो हिंसादिदोषैः। अतः सकलदोपाग्रणीलॊभः। तथाच लुब्धो हिंसादिषु निरारेकं प्रवर्तते । तनयः पितरमपि हिनस्ति, भ्रातरं सहजः, पिताऽऽत्मजं, एवं जामिजननीपत्न्या दयोऽपि वाच्याः। गृहीतोत्कोचश्व कूटसाक्षित्वदायी बहनृतं भाषते, बललोभस्य साम्रा- प्रहर्षात पथि मुष्णाति पथिकजनं खनति क्षेत्रमपि चौयोत् । लाभलोभाच्च राजादियोषितमप्यभिगच्छति । सर्वथा न कश्चन भावो बहिरन्तर्वा समासको दूरवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद् भावेन, प्रचुरतरानिष्टसम्पादने लघुनि चोपनीयते दुश्चरितानि लोभभुजङ्गेन । अनेन पथिकृतः परमगौरवायतनेऽपि विषयपरिगो. र्येन परिस्खलतीति मूर्छा लोभ इति । स चापि सर्वैः प्रकारैः । सा च मूर्छा लोभलक्षणा ... अभ्यन्तरबहिविषयालम्बना । तत्राभ्यन्तरो विषयः चतुदेशविधा, पन्तरा तद्यथा-राग-द्वेष क्रोध-मान-माया-लोभ-मिथ्यादर्शन-हास्य-रत्य-रतिमूछोविषयाः । भय-शोक-जुगुप्सा-वेदाख्यः । बहिरपि वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्वित्रिचतुःपाद्भाण्डाख्य इति । एतावान् विषयो मूच्याश्वेतःपरिणामरूपाया। एते रागादयः परिग्रहहेतुत्वात् मूर्छा, वास्त्वादयश्च ममैवेत्येवमज्ञानाद् विषयीकृताः कालुप्यवेताऽऽत्मनोऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्रहोऽभिधीयते। परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृत्त्या स्वीक्रियत इतियावत् । परिमाणविशेषो ज्यम् १'लोभपुरान' इति उ-पाठः। २'तथा अवलुब्धो' इति उ-पाठः।३'क्षणमपि चोरयति' इति-पाठः। 'गर्धेन' इति पाठः । ५'बत् आत्ममा 'इति -पाठः। For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ सूत्र १२] स्वोपनभाष्य-टीकालङ्कृतम् मूर्छा, सैव च परिग्रहसद्भावपरिणामादात्मनो हिंसादिवत् प्रमत्तयोगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्छा । तद्विरहितस्याप्रमत्तकायवाङ्मनोव्यापारस्य तु संयमोपकारिपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूर्छा । यथोक्तम् "'जपि वत्थं व पायं वा, कंबलं पायपुंछणम् ।। तंपि संजमलज्जहा, धारंति परिहरंति य (अ)॥१॥" -दशवैकालिके (अ० ६, सू०१८) न च योग्योपकरणकलापादृते साध्यार्थसिद्धिरस्ति । येऽपि मूढाः पात्रवस्त्रादि आगमोक्तं मुक्तिसाधनमुपकरणमहिंसावतपरिपालनप्रत्यलं न परिगृह्णते तैरपि जघन्यतः शरीराहारशिप्यादिपरिग्रहोऽवश्यंतया कार्य एवेति न परमनालोच्यैवोपालन्धुमर्हन्तीति । अल्पबहुत्वविशेष इति चेदित्यप्यसत् । दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूतमिति न दूंर्गतोऽपरिग्रह इत्युच्यते । तस्मात् मूर्छालक्षण एव परिग्रहः, नेतर इत्यवश्यंतया प्रतिपत्तव्यमवशेनापीति ॥ प्रकृतमुच्यते । मूर्छालक्षितपरिग्रहनिर्दिदिक्षया भाष्यकृदाहभा०-चेतनावत्स्वचेतनेषु बाह्याभ्यन्तरेषु द्रव्येषु मूछो परिग्रहः ॥ टी-चेतनावत्स्वित्यादि । चेतना-चैतन्यं-ज्ञानदर्शनोपयोगः स येषु विद्यते ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुःपञ्चेन्द्रियेषु अचेतनेषु च-पायो वास्त्वादिषु पायाभ्यन्तरभेदभाक्षु रागादिषु आत्मपरिणामेषु मूच्छो, द्रव्येषु इति विषयनिर्देशांत कचित पुद्गलद्रव्यमेव शुद्धं कचिदात्मप्रदेशसंयुक्तमिति । द्रव्यग्रहणाच्चतुर्विधपरिग्रहं सूचयतिक्षेत्रतो ग्रामनगराधवच्छिन्न ता]द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिमता, भावत इति प्रतिविशिष्टवस्तूपलम्मे महार्थे सति अतिशयवती मूर्छा प्रजायते मध्ये मध्या जघन्ये जघन्या इति ॥ मूर्छायावासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः . भा०–इच्छा प्रार्थना कामोऽभिलाषः काङ्क्षा गार्य मूर्छमूर्छायाः पर्यायाः या त्यनर्थान्तरम् ॥ १२ ॥ टी०-इच्छा-शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादि परम्परया सकलेन त्रैलोक्येनापि न धायति । प्रकर्षेणार्थना प्रार्थना, तनिष्ठत्वात् विद्यमानकिञ्चनमाप्रोऽपि परमेव याचते तृष्णया वशीकृतः। कमनं कामा, यथाप्रधानद्रव्यकामिता, यद यद गुणवद द्रव्यं तत् तदनुरुध्यत इतियावत् । अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचिवत्तिर्मनसाऽभिलपति-एवं ममापि यदि भवेयुः सम्पद इति । काक्षणं छाया बदपि धर्म का पात्रं वा कम्बलं पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुजते च ॥ ३ 'दुर्गतिपरि' इति -पाठः। ३ 'निर्देशः' इति स-पाठः। ४ 'चेतोवृत्ति' इति उ-पाठः । ११ For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ ८२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ काक्षा अर्जनमतिपरिणामाविच्छेदः। गृध्यतीति गोय॑म् । पचाद्यन् । ग| गृद्ध इत्येकोऽर्थः । यथाऽऽमिषार्थी गृद्धो दूरत एवालोक्य चक्षुषा संपतति एवं लोभकपायनिनो यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किञ्चिदासादयति । अतो गृद्धस्य भावः कर्म वा गाय॑म् । मूर्छा प्राग व्याख्यातैव । अर्थादन्योऽर्थोऽर्थान्तरम् , न अर्थान्तरं अनर्थान्तरम् । सर्व एवायमेवमनर्थकारको लोभकषायकलिविजृम्भते, न कश्चिद् भेद इति ॥ १२ ॥ भा०–अत्राह-गृह्णीमस्तावद् व्रतानि। अथ व्रती क इति। अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धमुपपादयति । अत्र-अहिंसादिलक्षणपरिसमास्यवसरे पर आह-गृह्णीमस्तावदित्यादि । गृह्णीम इत्यवगच्छामः । इह हिंसादिविरतयो व्रतानीति । तावच्छब्दः क्रमावद्योतनार्थः । क्रमश्वायम्-प्राग व्रतपरिज्ञानं, पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वम् । अथ(च) प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति सन्दिहानस्य प्रश्नः ॥ ननु च यस्योक्तलक्षणानि व्रतानि सन्ति स व्रती, किमास्पदः सन्देहः ? उच्यते-विशिष्ट एव सम्बन्धे प्रतित्वम् । नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायाम् । किं तर्हि १, [किं]विशिष्टस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम् । तथाचाह "भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां, भवन्ति मतुवादयः ॥ १॥" इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा। तत्र प्रशंसाथै मिथ्यादर्शननिदानमा __ याशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम् , व्रतवतिनो अतिशायनार्थेऽपि अयमेव मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो सम्बन्धः व्रताभिसम्बन्धाद् व्रतित्वम् , भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृत चेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्धया निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेखलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सनिवेश्य आचार्यः अत्रोच्यत इत्याह । सूत्रम्-निःशल्यो व्रती ॥७-१३ ॥ टी-शलतीति शल्यम् । औणादिको यप्रत्ययः । अन्तर्भिनत्ति कायादि, तचावतिठमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरिणः, तद्वन्मायानिदानमिथ्यात्वानि अन्तगैतानि वर्तमानानि संयमस्वरूपभेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं झानावरणवीर्यहानि च विदधतीत्येतत् शल्यानीव शल्यानि । निष्क्रान्तः शल्येभ्यो निःशल्यः प्राणातिपातादि १'गार्धः' इति ङ-पाठः । २ इदं पद्यं दृश्यसे सिद्धान्तकौमुद्यां ( पा० भ० ५, पा. २, सू. १४)। For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ ८३ सूत्र १३] स्वोपज्ञभाष्य-टीकालङ्कृतम् विरतियुक्तो व्रती भवति, न शल्यवानिति-शल्यवतो तित्वं नास्ति इति सूत्रार्थः । न चात्र विकल्पः समुच्चयो वा वाक्यार्थः। विकल्पस्तावन्न भवति-निःशल्यो वा व्रती वेति । यतः समा नफलानां विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत् , अभिधेयाभेदश्वानयोर्नि:वाक्याथविचारः शल्यव्रतिशब्दयोरतो न विकल्पः। नापि समुच्चयः, समुच्चये हि कालभेदो दृश्यते । अहरहनीयमान इत्यादौ तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले व्रती स्यात् । अनिष्टं चैतत् । इष्यते चैककालेन तदुभयम् , अतोऽङ्गाङ्गिभावोत्राश्रीयते । निःशल्यताऽङ्गम् , अङ्गी व्रतीति । वाक्यार्थश्वायम्-न हिंसादिविरमणमात्रसम्बन्धाद् व्रतीति, किं तर्हि ? शल्यापगमे सति व्रतसम्बन्धत्वाद् व्रती, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमानित्यभिप्रायः । प्रधानानुविधायी च गुणो भवतीत्यप्रधानमङ्गी व्रती, निःशल्यतागुणो प्रधानमिति । तस्मादङ्गाङ्गिभावाभ्युपगमाददोष इति । आह च "निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽर्हता लोके । ____ उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥ १॥"-आर्या एनमेवार्थ भाष्येण प्रतिपादयति भा०-मायानिदानमिथ्यादर्शनशल्यस्त्रिाभिर्वियुक्तो निःशल्यो व्रती भव. तिव्रतान्यस्य सन्तीति व्रती। तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ १३ ॥ टी०-मायेत्यादिना । माया शाख्यम् उपधिः छद्म कषायविशेषः । शल्यशब्दः प्रत्येकमभिसम्बध्यते-मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति । मिमीते परानिति माया, स्वेन शाख्येन परेषां सारासारप्रमाणमादत्त इति इयन्त एत इति सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः । निदायते-लूयतेऽनेनेति निदान-अध्यवसाय विशेषः-देवेश्वरचक्रवर्तिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतमहामोहपाशसंभृतभूरितपाश्चिन्तापरिखेदितमानसोऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदानी लुनाति-क्षुद्रत्वाच्छिनत्ति मौक्यं सुखमिति । तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानम् , अतिभूरिभूतोपमर्दनाद् बहारम्भपरिग्रहत्वादिदोषोपपत्तेश्चेति । तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमभिगृहीतानभिगृहीतसन्देहभेदात् त्रिधा । तदेव शल्यं व्याघ्राग्निविपसमुद्रव्याधिकुपितनृपतिशक्रवर्गादप्यधिकभयकारि,जन्मान्तरशतसहस्रेष्वागामिष्वविच्छिन्नदुःखसन्तानकसङ्कटप्रपातकारित्वात् , संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमार्जवंजवीभावविधायि गूढकर्मग्रन्थिविजृम्भमाणदुश्चिकित्सकविपाकमात्मसात्करोति सर्वशल्यातिशायि मिथ्यादर्शनशल्यम् , एवमे १नयमान ' इति ङ-पाठः । २ 'सम्बन्धात् ' इति ङ-पाठः । ३ ' माजवं जवीभाव. ' इति क-ख-पाठः । For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ तच्चार्थाधिगमसूत्रम् [ अध्यायः ७ भिर्मायादिशल्यैस्त्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निः शल्यो व्रती भवतीति । तदेतदनेन प्रतिपादयति - अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जनादिभावतः सम्पूर्णत्रतित्वमिति । व्रतं विशुद्धेव भाविन्यन्तर्विशुद्धिरिति ॥ ननु च कषायाः कोपादयः सर्व एव सशल्यं मायामेकां निःकृष्य किमिति शल्यतया नियम्यत इति १ । उच्यते - एषा हि लब्धात्मलाभा तिरोधाय कोपांदीन् ततोऽप्यात्मसामर्थ्येन वर्तते भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा नास्याः कश्चित् साधुवर्गाते सुकुशलोऽपि विषवेगं निरुणद्धि, अतः सकलदोषजातप्रच्छादननिपुणा कुलटेव मायैव शल्यं, न शेषाः कषाया इति प्रधानत्वात् तन्मूलत्वाच्च मायाशल्यग्रहणम् । अतः शल्यरहितो व्रतीति स्फुटमिदम् । आह च ८४ 46 निःशल्यस्यैव पुनः, सर्वं व्रतमिष्यते लोके । उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥ १ ॥ " निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह – व्रतान्यस्य सन्तीति व्रती । व्रतानि - हिंसाविरमणादीनि तानि, व्रतित्यमनुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशायनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थम् - निःशल्यो व्रतवान् व्रती भवतीति । निःशल्यस्यैव व्रतित्वं न सशल्यस्येति । उक्तमप्यर्थं भूय आदराभिधानार्थमभिधत्ते मतुबिनोश्च समावेशार्थं व्रती व्रतवानित्ये कोऽर्थ इति ॥ १३ ॥ 1 सूत्रसम्बन्ध मुक्तक एव किमेष व्रती व्यपगतशल्यत्रयो हिंसाद्यभावात् यथोक्तक्रियासमूह विजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्व एवागारसम्बन्धेष्वतिनिवृत्तौत्सुक्यः प्रतिज्ञायते, उताविरतोऽपि सर्वतः कश्चिद् गृही निश्चीयत इति १ । अत्रोच्यते - सामान्येन तिनो लक्षणमभिधाय पामेवाहिंसादीनां सकलविरतिविशेषादधिकृतो द्वेधा भवति सूत्रम् - अगार्यनगारश्च ॥ ७–१४ ॥ टी० - अगारं - वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः, परिग्रहथेतनाचेतनो द्विपदचतुष्पदादिर्धान्यहिरण्यकनकमणिमुक्ताप्रवालादिः । एवं द्वयमध्यगारशब्देनोपलक्ष्यते । तदेतावारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति वा जाताशंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोऽप्यगारी तदभिसम्वन्धाद गृहस्थ इत्यर्थः । परित्यक्तारम्भपरिग्रहो भवेत् तद्विपरीतोऽनगारः - प्रतिपन्नमूलोत्तरगुणकलापः । चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषितमिति । अ१' अन्तर्विशुद्धेश्व' इति ङ-पाठः । २ ' कोपात् सतोऽपि ' इति ङ-पाठः । ३ ' तथाप्यद्धा' इति ड-पाठः । ४' वति निःशल्य आधार' इति क ख पाठः । For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ सूत्र १४] स्वोपज्ञभाष्य टीकालङ्कृतम् गारिणस्तावद् द्विविधाः-सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाच, अपरे सम्यग्दर्शनमात्रभाजो वक्ष्यमाणाः षइविकल्पाः, सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः । तथा द्वात्रिंशद् विकल्पाः। तत्र ये गृहीताणुव्रतास्तैरणुव्रतानि पभिः अगारिणां भेदाः प्रकारैरात्तानि-द्विविधं त्रिविधेन, द्विविधं द्विविधेन, द्विविधमेकविधेन, एकविधं त्रिविधेन, एकविधं द्विविधेन, एकविधमेकविधेनेति एकैकस्मिन्नणुव्रते षड् विकल्पाः । षट् पश्चकास्त्रिंशत् प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् सम्यग्दर्शनेन सह द्वात्रिंशत् ॥ ननु च नव विकल्पास्त्रिविधं त्रिविधेनेत्यादयः सप्तचत्वारिंशदुत्तरशतभेदनिपत्तेः ? सत्यं, सम्भवन्ति साधोः, न त्वगारिणः, सर्वसावधयोगप्रत्याख्यानप्रस्तावाभिधानाद्, विशिष्टविषयं तत् , सर्वसावधव्यापारप्रत्याख्यानं अनुमतेःसम्भवान्नास्ति गेहिनः, तत्पूर्वप्रयुक्तसावधकारम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्टे इति । अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः-द्विविधं त्रिविधेनेत्यादि । द्विविधमिति न करोमि न कारयामि । त्रिविधेनेति मनोवाक्कायत्रयेण । एवं शेषविकल्पा अपि भाव्याः । त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमितीत्युक्तं नियुक्तिकारेण ॥ ननु च भगवत्यादावागमे--त्रिविधं त्रिविधेनेत्यपि विकल्पोऽस्ति प्रत्याख्यानमगारिणो भगवतीश्रुतप्रतिबद्धं च तदेव तनियुक्तिकारमतविघातकारि। उच्यते-नास्ति विधातः, उत्सर्गापवादद्वारेण प्रवृत्तेः । द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्यागारिण एभिः पनिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमापाद्यते, कचिद् विषये यः किल प्रविव्रजिषुः प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः । अथवाऽल्पाल्पं विशेष्य किश्चिद् वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूमणमत्स्यादिकमेवमप्युपपद्यते स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति ॥ ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेनोपन्यस्तः (किमिति) त्रि(द्वि)विधं त्रिविधेनेत्यादिर्विकल्पः । सत्यमेतत् , उत्सर्ग एव बहुलप्रसिद्धत्वानियुक्तिकारेणावाचि । यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठ समाचारानुपाति तन्त्रोक्तं, द्विविधमूत्रेषु च विविधमेव भूयसा रुध्यत इति न कश्चिद् दोषः ॥ प्रकृतमुच्यते । भूयोऽगारिणां भेदाः "सोलॅस चेव सहस्सा, अहेव सया हवंति अहहिया । एसो उवासयाणं, वयगहणविहा समासेण ॥१॥"-आयों -आवश्यकवृत्ती १ श्रीभद्रबाहुस्वामिना। २ 'पालनाय' इति ङ-पाठः । ३ ' चक्षते ' इति ङ-पाठः । ४ छाया षोडश चैव सहस्राणि अष्टैव शतानि भवन्ति अष्टाधिकानि । एष उपासकानां व्रतग्रहणविधिः समासेन ॥ For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ श्रावकश्रमण तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पञ्चधा गच्छवासिनः पुनः पुरुषाः, साध्व्योऽपि प्रवर्तिन्यादिभेदात् पञ्चधैव सदा च गच्छवाअनगारभेदाः गारभदाः सिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिप्रतिमाप्रतिपअकादयः । अत्र गच्छवास्यादिषु नास्ति व्रतभेदः । सामाचारीकृतस्तु महान् विशेषोऽस्तीति सदाश्रयो भेदः सूत्रकारेणाविवक्षित इति । अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वन्नाह भा०-स एष व्रती द्विविधो भवतीति-अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४ ॥ टी०–स एष व्रतीत्यादि । अनन्तरसूत्रार्थेन सहामुं भूत्रार्थमनुसन्धत्ते । योऽयमन. न्तरसूत्रे निःशल्यो व्रतीत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति । मौलभेदद्वयनिर्दिदिक्षया चाह–अगारी अनगारश्चेति । अगारमस्यास्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः । अविद्यमानोऽगारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः । एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः । अभ्यु पेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनाशब्दार्थः मगारिणां च सामाचारी शृणोतीति श्रावकः । श्राम्यतीति श्रमणः । "कृत्य ल्युटो बहुलं" (पा० अ०३,पा०३, मू० ११३) इति वचनात् कर्तरि ल्युट । श्राम्यति-तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् खाध्यायादिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति । एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यामगारिसामान्यं अनगारिसामान्यं च व्यवच्छिन्नं दर्शितमिति ॥ १४ ॥ अनाहेत्यादिना सम्बध्नातिभा०-अत्राह-कोऽनयोः प्रतिविशेष इति ? । अत्रोच्यते टी--अगार्यनगारश्च व्रती भवतीत्युक्ते अत्र परः प्रश्नयति कोऽनयोरगार्यनगारिणोतिनोः प्रतिविशेषो-वृत्तिविशेष इति । प्रतिविशेषो भेद इत्यर्थः । आचार्यस्तु तं विशेषमभिधातुकामः अत्रोच्यते इत्याह । योऽनयोविशेषः सोऽभिधीयते-- सूत्रम्-अणुव्रतोऽगारी॥७-१५॥ टी-महाव्रतापेक्षया अणु स्तोकं अल्पं देश इति पर्यायाः । महाव्रतानि सर्वपापभेदविरतिलक्षणानि । सवेस्मात् प्राणातिपातात् विरमामीत्यादि । अयं तु न सर्वतो विरतिमातिष्ठते, १ 'भवति ' इति घ-पाठः । For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ सूत्र १५ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् किं तर्हि ? कुतश्विदेव प्राणिघातात् । यत एकेन्द्रियाः पृथिव्यादिकायाः पञ्च प्रायो दुष्परिहाराः सद्मवासिनाम् । स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः । स्थूलत्वं सकललौकिक जीवत्वप्रसिद्धेः सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेर्लोके । तत्रापि सङ्कल्पजं प्राणातिपातं प्रत्याख्याति, न आरम्भजम् । आरम्भो हि हलदन्तालखनन सूनापञ्चकप्रकारः । तत्रावश्यंतयैव शङ्खणकपिपीलिकाधान्यग्रगृहकारिकामण्डूकादयः संघट्टपरितापापद्रवणक्रियाभिः स्पृश्यन्ते । तस्मान्न समस्ति प्रत्याख्यानं तद्विषयम् । संकल्पजस्य तु संभवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थं न हन्मीति, असुमतो निवर्तते सङ्कल्पकृतात् प्राणातिपातात् । न करोमि न कारयामि मनसा वाचा कायेनेत्येवं विषयं प्राणातिपातमित्यादि विकल्पानामन्यतमेन प्रत्याचष्टे । तथा मृषावादान सर्वस्माद्, किं तर्हि ? स्थूलाद् भिन्नकन्यकां सतीमेवं भूमिं (उषरभूमिं ) अल्पश्रीरामेव गां बहुक्षीरां नाभिदधेऽहमित्यादिकात् । तथा कूटसाक्षित्वदानादेश्व व्यावर्तते, न पुनः स्नेह द्वेषमोहाभिभवाद् विपरीतभाषी भवति । प्रत्याख्यान विधिस्तु पूर्ववत् । तथा अदत्तादानान सर्वस्मात्, किन्तु स्थूलात्, चौर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदाऽपदविषयान्निवर्तते, न पुनः अल्पतृणेन्धन गोमयादिग्रहणात् । प्रत्याख्यानं पूर्ववत् । तथा मैथुनाद् न सर्वस्मात्, किन्तु स्थूलात्; स्थूलं च परदारगमनं, तद्विषर्यमस्य प्रत्याख्यानं, अन्यपक्षे न । प्रत्याख्यानविधिः (च) पूर्ववत् । तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहात् विरमति सचित्तादेः स्थूलात्, स्थूलाच्चापरिमाणतः सर्वेषां क्षेत्र वास्त्वादीनामभिलषित परिमाणव्यतिरेकं प्रत्याचष्टे । कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति । शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् । एवमेतानि पञ्चाप्यणूनि - स्वल्पविषयाणि न यथोक्तसमस्तवियाणि व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति ॥ ननुच सोऽणुव्रत इत्येवं सूत्रं कार्यम् । उच्यते —– सत्यमेवमनगारित्रतपरामर्शः स्यात् तच्छब्देन, अनन्तरस्य विधिः ( वा भवति ) प्रतिषेधो वा " इति (परिभाषे०) वचनात् । अगारिणश्च महाव्रतधारित्वप्रसङ्गः । तच्चासमीचीनम् । अथ द्वयमभिसम्बध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति सुतरां महाव्रतानि निराधाराणि स्युः । अतोऽगारिग्रहणं कार्य, न कार्य महदित्यनेन शब्देन विशेषितानि तु तानि व्रतानि यस्य सोऽनगारो महाव्रतीत्यु (पर्युक्तत्वात् पारिशेष्यादगार्येव संभन्त्स्यते सोऽणुव्रत इति । एवं तर्ह्यधिकारार्थमगारिग्रहणम् । इतः प्रभृति यद् वक्ष्यते तत् सर्वमगारिणो भवति आ अध्यायपरिसमाप्तेरिति ॥ 44 सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते— भा० - अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरः श्रावकोऽगारी - यति ।। १५ ।। किञ्चान्यत् १ तद्विपर्यय इति ङ-पाठः । • 7 प्रत्या० ' इति क-पाठः । ४ ' व्रती भवति' इति घ-पाठः । २ ' क्षीरामेवगामदधे ' इति ग-पाठः । For Personal & Private Use Only ८७ ३ ' यमस्य प्रत्याख्यान्यक्षेण Page #117 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ टी-अणून्यस्य व्रतानीत्यणुव्रत इत्यादि वृत्त्याऽर्थ दर्शयति अनेन बहुव्रीहिवाक्येन । अनि देशविषयाणि न समस्तविषयाणीति प्रतिपादयति । अस्येत्यन्यपदार्थप्राधान्यख्यापनम् । व्रतशब्दः प्राग व्याख्यातो निवृत्तिपर्यायः । तदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसङग्राहिणा । यत्तदोनित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवम्-उक्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति । धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातीचारपरिहारेण चानुपालनम् । अत एवंविधः श्रावक इति अगारी प्रती च भवति । पर्यायकथनं चेदं भेदबहुत्वप्रतिपादनार्थम् । एकादशोपासकभेदाः सम्यग्दर्शनप्रभृतयः सकलश्रावकभेदाधारभूता इति । आगमश्च "दंसणवयसामाइयपोसहपडिमाअबंभसच्चित्ते । आरंभपेसउद्दिवज्जए समणभूए य ॥१॥" -आवश्यकवृत्तौ (पत्रा० ६४६) दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतान्तेषु स्थानेष्वित्येवमणुव्रतोऽगारी व्रती भवतीति ॥१५॥ किश्चान्यदित्यनेन प्रस्तुतस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यणुव्रतानि धारयति गृहीति । किश्चान्यत् प्रतिपाद्यते( ? आह) सूत्रम्-दिग्देशानर्थदण्डविरतिसामायिकपोगुणशिक्षावता- षधोपवासोपभोगपरिभोगपरिमाणातिथि संविभागवतसम्पन्नश्च ॥ ७–१६ ॥ टी-कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः । चशब्दः समुच्चयवचनः । प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाळपादनाय शीलोपदेशः । शीलं च गुणशिक्षाव्रतम् । तत्र गुणव्रतानि त्रीणि-दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि । यथाऽणुव्रतानि तथा गुणवतान्यपि सकृद् गृहीतानि यावज्जीवं भावनीयानि । शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि । प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् । पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादिविथिष्वनुष्ठीयेते इति, शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयस्ता धिकारः १छाया दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तानि । .. आरम्भप्रेष्योद्दिष्टवजेकः श्रमणभूतश्च ॥ २'म्यादिपर्वतिथि.' इति ग-पाठः। For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ सूत्र १६ ] स्वोपज्ञभाष्य टीकालङ्कृतम् न्येष व्रतानि शिक्षापदव्रतानीति । गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, किन्तु सकृद्ग्रहणान्येव । गुण्यन्ते-संख्यायन्त इति गुणा दिगादयः। दिशोऽपरिमाणाः पूर्वादिका दश, तासामिष्टसंख्यावच्छेदेन परतः प्रत्याख्यानमातिष्ठते । एवमुपभोगपरिभोगं परिमितसंख्यया परिमाणेऽवस्थापयति । शेषं प्रत्याचष्टे । तथाऽनर्थदण्डमुपभोगमात्रव्यतिरिक्तस्य सकलस्य निवतिमभ्युपैति, परिगणयतो गुणव्रतसंख्या, एवमेतानि शिक्षावतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति ॥ भा०-एभिश्च दिग्वतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती दिग्वतव्याख्या भवति । तत्र दिग्व्रतं नाम तिर्यगूर्वमेधो दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः ॥ टी-एभिश्चेत्यादि भाष्यम् । एभिरिति दिगादिवतैः । आदिग्रहणात् शिक्षापदव्रतैः चशब्दादणुव्रतैश्च सम्पन्नोऽगारी व्रती भवतीति । कानि पुनस्तानि दिगादिव्रता नीत्याह-तत्र दिग्व्रतं नामेत्यादि । तत्र-तेषत्तरगुणेषु सप्तसु दिव्रतं नाम, दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः । तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः तदनुक्रमेण, दिशा सम्बन्धि दिक्षु वा प्रतम्-एतावत्सु पूर्वादिदिग्भागेषु मया गमनाउनुष्ठेयं, न परत इति । नामशब्दो वाक्यालङ्कारार्थः । एतदेव स्पष्टतरं विकृणोति-तिर्यगूर्वमित्यादिना । तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक, अध इति दशमी। एवमासा पशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति । यथाशक्तीति यथासामध्ये कायापेक्षया गमिक्रियादिपरिमाणम्-एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वदक्षिणेनेत्यादि । अभिग्रहोऽभिमुखं ग्रहणम् । आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति । ततः को गुणोऽवाप्यत इत्याहभा०-तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतच सर्वसावध(योग)निक्षेपः । टी-तत्परतधेत्यादि । गुणमुपदर्शयति प्रष्टुः । चशब्दः क्रमावद्योतनार्थः । तसाद-गमनपरिमाणात् परतः सर्वभूतेषु-स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थ:-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभू. तानामनुपमर्दः । अर्थतोऽनयंतश्चेति । चशब्दः समुच्चये । अनर्थोऽप्रयोजनं विना प्रयोजनेन सूखननोलिखनजलावगाहवनस्पतिच्छेदककलासादिव्यापादनादिरनेकविधः । स एष सर्व: शक्तिपरिणामा ' इति पाठः । १.पातः' इति -पाठः। २ मधो वा दशाना ' इति घ-पाठः। "शयोककाति' इति -पाठः। For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ साषयः-सपापो योगो-व्यापारः कायादिकः तेन चैवपरिमाणात् परतो निवृत्तेन निक्षिप्तोनिरस्तो भवतीति महती गुंणावाप्तिः ॥ सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशवतम् । पारमार्षवच नक्रमः कैमर्थ्याद भिन्नः सूत्रकारेण १ । आर्षे तु गुणव्रतानि क्रमेणाकमभेदे हेतुः दिश्य शिक्षावतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा । तत्रायमभिप्राय: पूर्वतो योजनशतपरिमितं गमनममिगृहीतम् । न चास्ति सम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति देशे-भागेऽवस्थानं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति देशव्रतमिति सुखावबोधार्थमन्यथा क्रमः ॥ सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थम् भा०-देशवतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति देशवतव्याख्या प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वसावधयोग निक्षेपः ॥ दी०-देशव्रतं नामेत्यादि । दिक्परिमाणस्यैकदेवो देशः तद्विषयं व्रतं देशवतंदेशनियमः । तच प्रयोजनापेक्षमेकादिदिकं सर्वदिकं वा । नामशब्दो वाक्यभूषार्थः । देशनिरूपणार्थमाह-अपवरकेत्यादि । अपवरको विशिष्ट एव गृहैकदेशः तत्रैव नियमःप्रदोषादिकाले आ प्रभातसमयादाक् न मया निर्गन्तव्यममुतो देशाद् अन्यत्रानाभोगादिभ्यः इति । एवं कुख्यमर्यादावच्छिन्नाद् गृहात् तथा प्रत्तिपरिक्षेपावच्छिन्नाद् ग्रामात् सीमावच्छेदाच । आदिग्रहणं नगरखेटखेवेटविषयखण्डजनपदार्थम् । एतच्च प्रदर्शनमात्रम् । एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं च तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवमस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि । यथाशक्तीति करणापेक्षया यावति देशे प्रविचारो-गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमार्थ इतियावत् । ततश्च तत्परतः प्रविचारजनितः स्थूलसूक्ष्मभूतग्रामोपमर्दपरिहारः कुतो भवतीति दर्शयति-तत्परतश्चेत्यादिना पार व्याख्यातार्थमेतद् भाष्यमिति ॥ भा०-अनर्थदण्डो माम उपभोगपरिभोगावस्यागारिणो अनर्थदण्डव्याच्या अतिनोऽर्थः । तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः । तबिरतिव्रतम् ॥ 'गेहात् ' इति ग-पाठः । २ 'कर्पट ' इति उ-पाठः, 'कट' इति तु क-पाठः। ३ वा तत्र' इति --पाठः। ४ 'सूक्ष्मस्थूलभूत' इति -पाठः । For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ सूत्रं १६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् ९१ टी. - अनर्थदण्डो नामेत्यादि । अर्थः- प्रयोजनं गृहस्थस्य क्षेत्र - वास्तु-धन- शरीरपरिजनादिविषयस्तदर्थ आरम्भो - भूतोपमर्दोऽर्थदण्डः । दण्डो निग्रहो यातना विनाशनमिति पर्यायाः । अर्थेन - प्रयोजनेन दण्डोऽर्थदण्डः । स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोअनमपेक्षमाणोऽर्थदण्ड उच्यते । तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः, अनर्थोऽप्रयोजनमनुपयोग निष्कारणता विनैव कारणेन भूतानि दण्डयति, यथा शतधारकुठारेण प्रकृष्टस्तरुरुकन्धशाखादिषु प्रहरति । कृकलास पिपीलिकादीन् व्यापादयति कृतसङ्कल्पः । न च तद्व्यापादने किश्चिदतिशयोपकारि प्रयोजनमस्ति येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः पापादानहेतुरिति प्रेक्षापूर्वकारिणा प्रोज्झ्यः । नामशब्दः पूर्ववत् । अनर्थदण्डस्वरूपनिरूपणायाह – उपभोगेत्यादि । उपभुज्यत इत्युपभोगः । उपशब्दः सकृदर्थे । सकृद् भोग उपभोगः पुष्पाहारादेः । अथवाऽन्तर्भोग उपभोग आहारादिः । अत्रान्तर्वचन उपशब्दः । परिभुज्यत इति परिभोगः । परिशब्दोऽभ्यावृत्तौ वर्तते । पुनः पुनर्भोगो वा वस्त्रगन्धमाल्यालङ्कारादेः । समासतः सर्वमुपयुज्यमानं शरीरादी नामगारिणो व्रतिन उपकारकोऽर्थः तस्मादुपकारकादर्थाद् व्यतिरिक्तोऽनुपकारकत्वात् अनर्थः तदर्थ इत्यनुपकारको योऽर्थः तदर्थो दण्डो भूतोपमर्दलक्षणोऽनर्थदण्डः धर्मार्थकाममोक्षाणामन्यतमस्याप्यभावात्, अतस्तस्माद् विरतिर्व्रतमगारिणो भवति ॥ ननु च व्रतग्रहणाद् विरविंशब्दार्थो गम्यत एव, किमर्थ विरतिग्रहणम् १ | उच्यते - परिजिहीर्षत आंदराधानार्थं, दण्डप्रवृत्तो हि निष्कारणमेव पापमुपादत्ते । दूरतश्चायमत आदृतः कथं नाम परिहरेदिति विरतिग्रहणम् ॥ सामायिलक्षणम् भा० - सामायिकं नामाभिगृह्य कालं सर्व सावद्ययोग निक्षेपः ॥ टी. - सामायिकं नामेत्यादि । सामायिकमिति समो - रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो - लाभः - प्राप्तिः । समस्यायः समायः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचरणपर्यायैर्युज्यते स एवं समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा सामायिकम् । नामशब्दोऽलङ्कारार्थः । अभिगृह्य कालमिति कालं नियम्य यावत् चैत्यानि पर्युपासे साधून वा अन्यद् वा किञ्चिदुपलक्षणमास्थाय कालस्य गोदोहादि स्थिरतरचित्तवृत्तिर्गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठति, अमुना विधानेन करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति । प्रतिपद्य चैवं ततचैत्यादि पर्यु - पास्ते । निक्षिप्तसावद्ययोगः । अवद्यं - गर्हितं पापम् । सहावद्येन सावद्यः योगो - व्यापारः कायिकादिस्तस्य सावद्यव्यापारस्य निक्षेपः- परित्यागः प्रोज्झनं न करोमि न कारयामि मनोवाक्कायैरिति भावस्तद्विशेषणम् । सर्वशब्दः प्रकृत विकल्पापेक्षया, अतः सर्व सावद्य योग ' आराधनार्थं ' इति ङ-पाठः । २ ' प्रतिक्षापू' इति ङ-पादः । For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् । अध्यायः ७ इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावद्ययोगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सावद्ययोगविक्षेपणमिति, असम्भवात् तस्यागारिण इति ॥ भा०-पौषधोपचासो नाम पौषधे उपवासः। पौषधः पर्वेत्यपौषधलक्षणम् नर्थान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशी अन्यतमा वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति ॥ टी-पोषधोपवासो नामेत्यादिना पौषधस्वरूपं निरूपयति । रूठ्या पौषधशब्दः पर्वसु वर्तते। पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् । तत्र पौषधे पर्वणि उपवासः पौषधोपवासः। त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः “साधनं कृते"ति समासो योगविभागेन वा सप्तमीति समासः। नामशब्देन तु वाक्यालतिः । तस्य वा निगमविशेषस्येदं नाम पौषधोपवास इति सोऽयमाख्याते पौषधे उपवास इत्यादिना भाष्येण । अनथोन्तरमित्येकार्थता। सोऽष्टमीमित्यादि । स पौषधोपवास:-उभयपक्षयोरष्टम्यादितिथिमभिगृध-निश्चित्य बुद्धया अन्यतमा चेति प्रतिपदादितिथिम् , अनेन चान्यासु तिथिषु अनि. यमं दर्शयति, नावश्यंतयाऽन्यासु कर्तव्यः । अष्टम्यादिषु तु नियमेन कार्यः । चतुर्थाद्युपवासिनेति कर्टलक्षणा तृतीया । पृथग्जनस्यानियतानि भक्तानि मुमुक्षूणां सकृद् भोजनं, मध्यमजनस्य भक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना। अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः। द्वितीयेऽहनि भक्तद्वयच्छेदः। तृतीयेऽहनि चतुर्थभक्तकाले भुङ्क्त इति चतुर्थभक्तमुच्यते । एक उपवासः, कदाचिदुत्तरपदलोपाचतुर्थभक्तस्यार्थः चतुर्थभक्तमेव चतुर्थ तदाधुपवसति यस्तच्छीलश्च स चतुर्थाद्युपवासी। __आदिग्रहणात् पूर्वगणितयव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणम् । स्नानमुदकेन, अनुलेपनं चन्दनकुङ्कमकस्तूरिकादिना, गन्धाः पवित्रमादिभेदेनानेकविधाः, मालाई माल्यं-पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादिः । व्यपगताः स्नानादयो यस्येति। न्यस्तो-निक्षिप्तः सर्वसावद्ययोगो येन । सवेशब्दः पूर्ववत् । कुशास्तृणजातिरशुषिरा कुन्थ्वाधादीनामनाश्रयास्तत्कृतःसंस्तरः कुशसंस्तरः, संस्तीर्यतेऽसाविति संस्तरः । “अध्यायन्याय." (पा० अ०३, पा०३, सू० १२२) इत्यत्र सूत्रे चशब्दोऽनुक्तसमुच्चयार्थो व्याख्यातः । ततश्च "पुंसि संज्ञायां०" (पा० अ० ३, पा० ३, सू०११८) इति घप्रसङ्गे पञ् , " कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू०११३) इति वा, फल कमप्यशुषिरं चम्पकाशोकादिपट्ट पौषधोपवासः ' इत्यधिको घ-पाठः । For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ सूत्र १६ ] स्वोपज्ञभाष्य टीकालङ्कृतम् खण्डम् । आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः । अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेणानुष्ठेयः । अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः,तदाहस्थानमूर्खलक्षणं कायोत्सर्गाख्यम्, वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमश्चिकादिनिविष्टस्यापनीताधोमश्चिकस्य तथाऽवस्थानं वीरासनमुच्यते । निषद्या समस्फिनिवेशनं पर्यवन्धादि । वाशब्दो विकल्पार्थः । स्थानादि वा शयनं वा । अन्यतममिति यदेवाभ्यस्तम्, आस्थायेति परिगृह्य । धर्मस्तु श्रुतचरणभेदाद् द्विधा । तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः, चरणधर्मो महावताणुव्रतोत्तरगुणभेदस्तद्विषयं जागरणं जागरिका। धर्मे जागरिका । न चातरौद्रविकथाद्याश्रिता जागरिकेति । "इच्छा" (पा० अ०३, पा०३, मू० ३०१ ) इत्यत्रसूत्रे जागर्तेरिकारो वेत्युक्तं जागर्या जागरेतिरूपद्वयसिद्धयर्थम् । तत्र जागरैव जागरिका । स्वार्थे कविधानम् । एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति ॥ ___ भा०--उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाउपभोगपरिभोग- - रभागः ल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहुसाव्रतस्य लक्षणम् - वद्यानांच वर्जनम(ल्पसावधानाम पिपरिमाणका(क)रणमिति॥ टी०-उपभोगपरिभोगशब्दार्थों व्याख्यातौ । तच्च द्विविधं व्रतं भोजनकर्मविषयस्वात् । तत्राशनान्मांसानन्तकायादेर्निवर्तते, पानतो मद्यमधुसुरामांसरसकादेः, खाद्याद् बहुबीजसत्वौदुम्बरफलादेः, स्वाद्यान्माक्षिकान्मधुप्रभृतेः। एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसम् । कर्मतः पञ्चदशकादानान्यङ्गारकरणादीनि अल्पसावद्यजीवनोपायाभोंवे तत्प्रवृत्तौ ज्ञानावरणादिकर्मणां हेतुत्वादानात् कर्मादानादीन्युच्यन्ते । तानि चाङ् गारवनशकटभाटकस्फोटनदन्तलाक्षारसविषकेशवाणिज्यायन्त्रपीडानिलोपञ्चदश कर्मादानानि छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि । प्रदर्शनं चैतद बहसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः ॥ ननुच भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् । सत्यम्, आदिग्रहणात् तु व्याख्येयानि, प्रवचने तथोपदिष्टत्वात् । गन्धमाल्यादीनामिति । आदिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणम् । समासतो यानि बहुसावद्यानि तानि यावज्जीवं वजेनीयानि, अल्पसावद्यानां तु कर्मणां कार्यम् । शेषाणि प्रत्याख्येयानीति ॥ भा०-अतिथिसंविभागोनाम न्यायागतानां कल्पनीयाना. अतिथिसंविभागस्य. गस्य मन्नपानादीनां [च द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं पर याऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति॥१६॥किश्चान्यदिति व्याख्या १'महाव्रतोत्तर' इति उ-पाठः। २'आच्छादनप्रावरणा' इति घ-पाठः। ३धनुश्चिद्वितोऽयं घ-पाठः । ४'भावतः प्रवृत्तो' इति -पाठः। For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ टी-अतिथिसंविभागो नामेत्यादि । अतिथिर्भोजनार्थ भोजनकालोपस्थायी,स्वार्थ निर्वर्तिताहारस्य गृहिबतिनः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः । संविभागग्रहणात् पश्चात् कर्मादिदोषपरिहारः । अत्र च पोषधोपवासपारणकाले नियम:-अदत्वा साधुभ्यो न स्वयंपारणीयमिति । अन्यदा तु दत्त्वा वा पारयति पारयित्वा वा ददातीत्यनियमः। तञ्च देयं देशकालापेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलमभिलपता संयतासंयतेन कदाचित्, कचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रवचनस्वभावत्वात् भगवदहेत्प्रणीतप्रवचनस्येति । नामशब्दः पूर्ववत् । न्यायागतानामिति । न्यायो द्विजक्षत्रिय विदेशूद्राणां च स्ववृत्त्यनुष्ठानम् । स्ववृत्तिश्च प्रसिदैव प्रायो लोकाहेयो, तेन तादृशा न्यायेनागतानाम् । कल्पनीयानामिति । उद्गमादिदोपवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनाम् । द्रव्याणामिति पुद्गल विशेषाणाम् । देशो नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिमाय। कालः सुभिक्षदुर्भिक्षादिः । श्रद्धा विशुद्धश्चित्तपरिणामः पात्राद्यपेक्षः। सत्कारोऽभ्युत्थानासनदानवन्दनानुव्रजनादिः। क्रमः परिपाटी। देशकालापेक्षो यः पाको निर्वृत्तः स्वगेहे तस्य पेयादिक्रमेण दानम् । यो वा यत्र देशे काले वा यः क्रमः प्रसिद्धस्तैर्देशादिभिः । उपेतशब्दः प्रत्येकमभिसम्बध्यते । परयेति प्रकृष्टया आत्मनोऽनुग्रहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्याददत इति । अतः संयता मूलोत्तरसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति ॥ १६ ॥ किश्चान्यदित्यनेनाभिसम्बनाति । सम्यक्त्वसम्पन्नोऽणुव्रतधरः शीलसम्पदा युक्तः किश्चान्यदनुपालयेदित्याह सूत्रम्-मारणान्तिकी संलेखनां जोषिता ॥ ७-१७ ॥ टी०-यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि १ सर्वायुषः क्षयो मरणं, मरणमेवान्तो मरणान्तः-मरणकालः। प्रत्यासभं मरणमितियावत् । जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी " बहच" (पा० अ० २, पा० ४, मू० ६६ ) इति घम् । संलेखनाभिसम्बध्यते। संलेख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः । यथोक्तमाः " चत्तारि विचित्ताई विगैतीनिहिताई चत्तारि। ऐगंतरमायाम अविगिविगिढकोडिक ॥ १॥" १ 'केचित् ' इति उ-पाठः । २ वैश्य ' इति ङ-पाठः। ३ ' सानात् ' इति उ.पाठः । ४ छाया चत्वारि ( वर्षाणि ) विचित्राणि (तपांसि ) विकृतिनियूंढानि चत्वारि । एकान्तरमाचाम्लं (द्वे ) अविकृष्टं (एक) विकृष्टं (एक) कोट्या (एकम् ) ॥१॥ ५ विज्जीवयाइ' इति -पाठः। ६ 'एगुत्तरयोग ' इति ड-पाठः। For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ सूत्र १७ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् द्वादशवर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्धमासपरिणामया द्वादशवर्षव्यवस्थयैवागमोक्तया संलेखनाकालोऽवसेयः । संलेखनाऽवश्यं समाधिमरणपर्यन्ते विधेयाऽनगारागारिभ्याम् । जोषितेति कर्तरि ताच्छीलिकस्तृन् । मारणान्तिकीं संलेखना जोषिता-सेविता कर्तेति । एनमेवार्थ भाष्येण स्पष्टयति __ भा०—कालसंहननदौर्बल्योपसर्गदोषादू धर्मावश्यकपरिहाणि मेरणं वाsभितो ज्ञात्वाऽवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयम प्रतिपद्योत्तमव्रतसम्पन्नश्चतुर्विधाहारं प्रत्याख्याय यावजीवं भावनाऽनुप्रेक्षापरः स्मृतिसमाधिबहुलः मरणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति ॥ १७ ॥ __टी-कालसंहननेत्यादिना । कालदोषो दुष्षमायां दुःशकं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं मन्दधृतित्वात् पुरुषैः यथोक्तं दुर्भिक्षवाच्यं दुर्भिक्षं वा । कालो दुर्लभानपानः । संहननं वज्रर्षभनाराचादिषोढा। संहननस्य दौर्बल्यं-दुर्बलता वज्रर्षभनाराचादारभ्य हीयमानं यावत् सेवार्तमिति सर्वदुर्बलम् । उपसर्गास्तु दिव्यमानुषतिर्यकृतात्मसमुत्थाः । दोषशब्दः प्रत्येकमभिसम्बध्यते । कालदोषात् संहननदौर्बल्यादुपसर्गदोपाद् वा । धर्मो दशलक्षणकस्तद्विषयाण्यवश्यं कर्तव्यानि आवश्यकानि साधोः प्रत्युपेक्षणादीनि । अनगारिणोऽपि चैत्यवन्दनवैयावृत्यपौषधप्रतिपत्त्यादीनि तेषां परिहाणिः-अवसादः कालादिदोषात् तामवगम्य कालादिदोषमन्तरेण वा मरणं अभितः प्रत्यासन्नमवबुद्धयेदं कर्तव्यमित्याह-अवमौदर्येत्यादि । अवमं-न्यूनमुदरं तद्भावः अवमौदर्य अविकृतवदनकुक्कुट्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा (१) । ततः किश्चिन्यूनतादिभेदेनावमौदर्यमनेकविधमागमेऽभिहितम् । चतुर्थादिभक्तभावना पूर्वोक्तैव । आदिग्रहणादर्धमासक्षपणादिपरिग्रहः । एभिस्तपोविशेषैरात्मानं संलिख्य-तनूकृत्य विरूक्ष्य रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्च क्रोधादीनपास्य प्रोग्य च गृहिव्रतित्वमभ्युपगम्य संयमं सर्वसावद्ययोगविरतिलक्षणमुत्तमैः-महाव्रतैः सम्पन्नश्चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं यथासमाधि यावज्जीवमिति विशिष्टावधिक, भावनाऽनुप्रेक्षापरः। भावनाः पूर्वोक्ताः । अनुप्रेक्षास्तु वक्ष्यमाणा नवमे (सू०७)। तत्पर इति-तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्व स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेने निर्जराऽस्ति प्रमादवतः। समाधिरिति चेतसः स्वस्थता तद्बहुलः । नातरौद्राध्यायीति । एवं बहुकुर्वछत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य-मोक्षस्याराधको भवतीति ॥ १७॥ २'भावेनानप्रेक्षा.' इति क-ख-पाठः। ३.प्रत्यवेक्षणा.' १ 'मरणं 'इति घ-पुस्तके नास्ति। इति ग-पाठः। For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ ९६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ सम्प्रति व्याख्यातस्वरूपाणि शीलानि निगमयति भा०-एतानि दिग्वतादीनि शीलानि भवन्ति । " निःशल्यो व्रती" (अ० ७, सू० १३) इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति ॥ तत्र टी-एतानीत्यादिनोत्तरसूत्रस्य च सम्बन्धमाचष्टे । दिक्षु व्रतं दिग्वतम् । तदादौ येषां तान्येतानि दिव्रतादीनि सप्तापि सह संल्लेखनया शीलानि भवन्ति । शील्यन्तेऽभ्यस्यन्ते वाऽत्मनि पुनः पुनरिति शीलानि । एवमयमगार्यणुव्रतसम्पन्नो व्रती उच्यते । स च व्रती निःशल्य इत्यमुष्माद् वचनादिदमपि सामर्थ्यतः प्रतिपादितं भवति-व्रती नियतं सम्यग्दृष्टिरिति । व्रतिलक्षणादेव विशिष्टार्थावधारणम् । यो व्रती सोऽवश्रांतया सम्यग्दर्शनी भवतीति । यतः शङ्कादिदोषदूषितमनसो मिथ्यादर्शनशल्यत्रुट्यमानसकलमूलोत्तरगुणाधारतस्वश्रद्धानस्य नियमत एव नास्ति व्रतित्वम् , अतो व्रतीति नियत सम्यग्दृष्टिरिति । तस्य च सम्यग्दृष्टेरतीचारः सम्यग्दर्शनव्यतिक्रमो मलीमसता स्खलनं विभ्रंशो वाऽभिधीयते, सम्यग्दर्शनमूलत्वाञ्च व्रतित्वस्य । प्राक् तावत् सम्यग्दर्शनातिचाराभिधानम् । शुद्ध हि तस्मिन् व्रतविशुद्धिरिति ॥ सम्यग्दर्शनस्य सूत्रम्-शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापश्चातीचाराः संस्तवाः सम्यग्दृष्टेरतीचाराः॥ ७-१८॥ टी०-तत्र-तेषु सम्यक्त्वाणुव्रतशिक्षाव्रतेषु सम्यग्दर्शनातिचारः पञ्चविधः। ते तु शङ्केस्यादि शङ्काकारक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः, कतद्वन्द्वाः शङ्कादयो भवनविभक्त्या निर्दिष्टाः, सम्यग्दृष्टेरिति सम्यग्दर्शनमाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचित्र्यादात्मनः परिणतिविशेषाः । तानि द्वन्द्वपदानि पश्चापि त्या दर्शयति भा०-शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतिचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलितमित्यनान्तरम् । अधिगतंजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यया स्वरूपामतेः सम्यग्दृष्टेरैहतोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलाग मॅगम्येष्वर्थेषु यः सन्देहो भवत्येवं स्यादिति सा शङ्का ॥ 'सदनं' इति उ-पाठः। २'संस्तवाः' इति ख-पाठः। ३.रतीचाराः'तिख-घ-पाठः। ४'स्खलन ' इति घ-पाठः। ५'जीवाधिगतत्वस्यापि ' इति क-ख-ग-पाठश्चिन्तनीयः। ६ ‘महत्प्रोकेषु' इति घ-पाठ। 'ममा वर्षेषु' इति घ-पाठः। ८' भवत्येवं स्यादेवं न स्यादिति' इति घ-पाठः। For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ सूत्रं १८] स्वोपज्ञभाष्य-टीकालङ्कृतम् ९७ टी० - शङ्केत्यादिकया । अतिचारो व्यतिक्रम उल्लङ्घन ( स्खलन ?) मित्ये कोऽर्थः । अधिगतेत्यादि । अधिगतं सुपरिज्ञातं जीवाजीवादितत्त्वं यस्य तस्याप्येवंविधस्य । भगवत इति धर्मलक्ष्मीयशोभाजः श्रीवर्धमानस्य शासनं प्रवचनं अभिप्रपन्नस्य-अभिमुखं भावतः, प्रतिपन्नस्येतियावत् । असंहार्यमतेरिति । संहार्या - क्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्यासौ संहार्यमतिः, न संहार्यमतिर संहार्य मतिर्भगवदत्प्रणीत तत्त्वश्रद्धा तया (१) तस्य सम्यग्दृष्टेर र्हृत्प्रोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मा लोकाकाशतुल्यप्रदेशः गतिस्थितिहेत् जीवपुद्गलानां धर्माधर्मावर्पेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तसूक्ष्मः, तेषु । अत्यन्तग्रहणालिङ्ग (लिङ्गागम ?) गम्येषु । यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च तथापि लिङ्गेन-कार्येण आगमेन वाऽवगम्यन्ते, नैवं संख्येयप्रदेशादय इति, अत्यन्तसूक्ष्माः समुल्लङ्घितचक्षुरादिविषयभावाः, केवलागमग्राह्येष्विति, नाप्रमाणकास्तेऽत्यन्ताभाववदिति दर्शयति, केवलमेकं मत्यादिसहाय भाव विनिर्मुक्तमात्यन्तिकज्ञानावरणक्षयप्रभेद (भव) मात्मस्वरूपं सकलज्ञेयग्राहि यत् ज्ञानं तेन गृह्यन्ते, आगमो- द्वादशाङ्गं प्रवचनमर्हत्प्रोक्तार्थं गणधर प्रत्येक बुद्धस्थविरविरचितसूत्रप्रबन्धम् । यदाह ( " अर्हत्प्रोक्तं गणधरब्धं प्रत्येकबुद्धद्दब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥" ) श्रुतकेवली च तस्मादधिगतदशपूर्वक तौ स्थविरौ । आप्ताज्ञाकारित्वात् तु सूत्रमितरत् स्थविरब्धम् ॥ गीतार्थः संविनश्वरणस्थो नोपदेशने शक्यः ( भाज्यः १ ) । भाज्यः स एव सद्भावदेशने मन्दवृत्तचेत् || " अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति एवं स्यादसंख्येयप्रदेश आत्मा, अथ निष्प्रदेशो निरवयवत्वान्नैवं स्यादिति वा, सेयमेवंविधा शङ्का । तथा चागमः - " "संसयकरणं सङ्का " (आव०) मिथ्यादर्शनं च त्रिविधम्, अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव यथाऽऽह ( सङ्ग्रहण्याम् ) - 64 " 'पॅयमक्खरं च एकंपि जो न रोरति सुत्तनिद्दिष्ठं । सेसं रोयतोवि हु मिच्छद्दिही मुणेयव्वो ॥ १ ॥ -" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ १ ॥ तथा 44 १' यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च' इति क ख ग प्रतीनामधिकः पाठः, परन्तु स पाठः प्रामादिक इति ་ प्रतिभाति । २ — भावादिति सूक्ष्ममात्यन्तिक ' इति ङ-पाठः । ३ ' पूर्वधरथ तौ ' इति स्व-पाठः । ४' मन्ददृश्वरवात् ' इति पाठः । ५' परिज्ञेयेषु ' इति ङ-पाठः । ६ संशयकरणं शङ्का । ७ छाया - पदमक्षरं चैकमपि यो न रोचते सूत्रनिर्दिष्टम् । शेषं रोचमानोऽपि खल्ल मिध्यादृष्टिर्ज्ञातम्यः ॥ १३ For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अभ्यायः ७ एकमिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यैव दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥२॥" तसान्मुमुक्षुणा व्यपगतशङ्कन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम् । संशयास्पदमपि सत्यमेव, सर्वज्ञाभिहितत्वात् तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात् तु कात्स्न्र्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यथाऽऽह (भगवतीवृत्तौ) न हि नामानाभोगश्छमस्थस्येह कस्यचिन्नास्ति । ___ यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥१॥" काङ्क्षास्वरूपमभिधातुकाम आह - भा०-ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काडक्षा। काक्षायाः स्वरूपम् मोडविचारः सम्यग्दृष्टः कुतः।काङ्किता त्यविचारितगुणदोषः समयमतिकामति ॥ ___टी०-ऐहलौकिकपारलौकिकेंष्वित्यादि । इहलोक भवा ऐहलौकिकाः शब्दादयो विषयाः । सुगतेन हि मिथूणामक्लेशको धर्म उपदिश स्नानानपानाच्छादनशयनीयादिसुखानुभवद्वारेण । सोऽपि हि घटमानक एव, न दूरापेतः । तथा परिव्राजकभौतब्राह्मणादीनामैहिकान् विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्ते, साधीयान् धर्मोपदेशः । तथा परलोके भवाः पारलौकिका:-स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयाः प्रकर्षापकर्षवृत्तित्वाद् अन्यान्यदर्शने सति ग्राहोऽभिलाषस्तद्विषयः, आशंसा प्रीतिरभिलाषः काक्षेत्यनर्थान्तरम् दर्शनेषु वा । तथाचागमे ( आवश्यकसूत्रनाम्नि चतुर्थे विभागे )-"खा अण्णण्णदसणग्गाहो "। प्रस्तुतोऽतिचारस्तच्छब्देन तस्य परामर्शः । सोऽतिचारो मलीमसताध्यामलता । कस्य ? सम्यग्दृष्टेरित्याह । न निर्मूलमेव सम्यक्त्वं भवति, मलिनमात्रता तस्य जायते इति । कस्मात् पुनः काङ्क्षा अतिचार इति प्रश्नेनोपक्रमते कुत इति । एवं मन्यते प्रष्टा-जिनवचनं श्रद्धत्त एव, न न श्रद्धत्ते, अश्रद्दधतश्च मिथ्यादर्शनम् । आचार्यस्त्वाह-काक्षिता हीत्यादि । यस्मादन्यशासनतत्त्वाभिलाषी काइक्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषः सांसारिकसुखमल्पकमभिलपत्यैहलौकिकं पारलौकिकं वा विनश्वरमवसानकटुकं दुःखानुविद्धमुद्धतकषायकलुषितत्वात् संसारानुबन्धि, सर्वे चैवंविधं भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानं च भावतो दूषयति सम्यक्त्वं, सिद्धान्तव्यवस्थोल्लङ्घनात् । तदाह-सम १०लौकिकेषु विषये.' इति घ-पाठः, स्व-पाठस्तु लौकिकविषये' इति । २छाया___काक्षा भन्यान्यदर्शमाहः । ३'श्वयत' इति क-स-पाठः। For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ सूत्र १८] स्वोपज्ञभाष्य टीकालङ्कृतम् ९९ यमतिक्रामतीति । समयः-सिद्धान्तः, अनतिक्रमणीया वा कार्यव्यवस्था, कोशपानादिवत् , एवमनतिलङ्घनीया या वृत्तिः स समयः, सम्यग्ज्ञानं वा, गत्यर्थानां ज्ञानार्थत्वात्, तं समयमतिक्रामति, उल्लङ्घयतीत्यर्थः। कः पुनरसौ समयः ?-"णो इहलोयट्टयाए" इत्यादि (दशवैकालिके अ० ९, उ० ४) केवलं कर्मनिजेरणायैवेति। तस्मादैकान्तिकात्यन्तिकाव्याबाधसुखहेतुरयं सकलः प्रयास इति अन्यत्र निराकाङ्क्षण मुनिना भवितव्यमिति ॥ विचिकित्साविचारः भा०-विचिकित्सा नामेदमंप्यस्तीति मतिविप्लुतिः ॥ टी-विचिकित्सा नामेत्यादि । मतिविभ्रमो विचिकित्सा । युक्त्यागमोपपनेऽप्यर्थे भ्राम्यति मतिः, यथा-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य लोचमौण्ड्यादेरायत्यां फलसंपद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफलविक लमिति ? । नामशब्दो वाक्यालङ्कारार्थः । इदमप्यस्तीत्यादि । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते । कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचिनिष्फलेति, अत इदमप्यस्तीदमप्यस्तीत्युभयथा दृष्टत्वात् क्रिमासामान्यस्य मतेर्विभ्रमो भवति, न च शङ्कातो न भिधत इत्याशङ्कनीयम्, शङ्करं तु सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यके, इयं तु क्रियाविषयैव विचिकित्सा । तामेव विषणोति स्पष्टेनाभिधानेन-मतिविप्लुतिरिति । मतिमिथ्यात्वपुद्गलानुविद्धा प्लवते-भ्रमत्यनवतिष्ठमाना सर्वप्रवचन इति । सर्व एव चैते प्रायो मिथ्यादर्शनभेदाः केनचिद् विशेषेण सिद्ध(जाय?)मानाः सम्यक्त्वातिचारतां प्रतिपद्यन्त इति नातिसूक्ष्मेक्षिका कार्येति। आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, अस्नानात प्रस्वेदजलक्लिनमलत्वाच दुर्गन्धिवपुषस्तान् निन्दति-को दोषः स्याद् यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति १ ॥ भा०–अन्यदृष्टिरित्यहच्छासनव्यतिरिक्तां दृष्टिमाह । सा शेषातिचारद्वयम् द्विधा-अभिगृहीता चानभिगृहीता च । तद्युक्तानां क्रियावा दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासस्तवौ सम्यग्दृष्टेरतिचार इति ॥ १ छाया न इहलोकार्थम् । २०मप्यस्तीदमपीति मति०' इति घ-पाठः। ३'फलवद्' इति ग-पाठः। ४'न च शकते, इति क-न-पाठः। ५ 'कुर्वतामव्रत()' इति हु-पाठः। ६'ज्ञानिकानां प्रशंसासंस्तवाविति' इति क-ख-गपाठश्चिन्तनीयः। For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ १०० तत्वार्थाधिगमसूत्रम् यः ७ टी०-अन्यदृष्टिरित्यादि । अन्यशब्दः प्रतियोग्यपेशः। अन्या चासौ दृष्टिश्वान्यदृष्टिः-अन्य दर्शनम्, अन्यथा पदार्थपणयनात् । तदाह-अर्हच्छासनव्यतिरिक्तां दृष्टिमाहेति । मूत्रकारस्यायमभिप्रायः-जि नवचनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनाभिरतिः । सा च विधा-द्विप्रकारा। तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिः-इदमेव तामिति बुद्धवचनं साइस्यकणादा देवचनं वा । अनभिगृहीता चेति चशब्दः समुच्चये। अनेकाऽप्याभिमुख्येन गृहीता । सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृही मिथ्या दृष्टिरित्यर्थः । सर्वमेव युक्त्युपपनमयुक्तिकं वा समतया मन्यते मौढ्यात् । तत्र तधुक्तानामित्यादिना अभिगृहीतमिथ्याहटेरियत्तां निरूपयति । तया-अभिगृहीतमिथ्यादृष्टया युक्तास्तद्युका मिथ्यादर्शनमाजः। मिथ्यादर्शनं ह्यने प्रचारमुपजायते मोहवैचित् नयानामानम्म्यात् , अतः स्थू स्तरकतिपयमेवोपदर्शनं क्रियते । तेषां तद्युक्तानां क्रियावादिनामिति । क्रिया कर्बधीना, न का विना कि गयाः सम्भाः, नामान्म समवायिनी क्रियां वदन्ति ये तच्छी. क्रियावादिनों लाश्च ते क्रियावादिनः-आत्मास्तित्वादिप्रतिपत्ति ठक्षणाः, ते चाशीत्यधि १८० भेदाः कशतसंख्यया, समधिगम्याधामुनोपायेन-जीवाजीवासवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदादुपन्यसनीयौ, तयोरधो नित्यानित्यभेदी, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । ततो विकल्पानुत्पादयति-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्वायम्-विद्यते खल्लयमात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवामिलापेन द्वितीयो विकलाः ईश्वरकारणिनः, तृतीयविकल्पः आत्मवादिनः " पुरुष एवेदं सर्व"मित्यादि, नियतिवादिनश्चतुथेविकल्पः, पश्चम विकल्पः स्वभाववादिनः स्वत एव । स्वत इत्यजहता लब्धाः पश्च विकल्माः। परत इत्यनेनापि पश्चैव लभ्यन्ते । नित्यत्वापरित्यागेन चैते दश विकल्पाः। एवमनित्यत्वेनापि दशैव, एकत्र विंशतिजीवपदार्थेन लब्धाः । १ स्थापना यथा जीवः अजीवः आस्रवः बन्धः संवरः निर्जरा पण्यं पापं मोक्षः स्वतः परतः नित्यः अनित्यः कालतः ईश्वरतः आस्मतः नियतितः स्वभावतः For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ १०१ सूत्र १८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति ॥ अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते । तद्युक्तानामित्यनुवर्तते । आत्मनास्तिस्वादिप्रत्ययापत्तिलक्षणा भवन्त्यक्रियावादिनः । नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" । एतेषां अक्रियावादिनां चतुरशीतिर्भेदाः, तेषां पुण्यापुग्यविवर्जितः पदार्थसप्तकन्यासः तथैव, ८४ भेदाः जीवस्याधः स्वपरविकल्पमेदद्वयोपन्यासः। असत्वादात्मनो नित्यानित्य भेदौ तु न स्तः। कालादीनां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः । एवमीश्वरादिभिरपि, यदृच्छावसानाः सर्वे च षड् विकल्पाः। तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादशैव विकल्पाः । एकत्र द्वादश सप्तगुगाश्चतुरशीतिविकल्पा नास्तिकानामिति ॥ ___ कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः ॥ नन्वेवं लघुत्वात् प्रक्रमस्य प्रार बहुव्रीहिणा भवितव्यम् । ततश्चाज्ञाना इति स्यात् । नैष दोषः। ज्ञानाज्जात्यन्तरमेवाज्ञानं, मिथ्यादर्शनसहचरितत्वात् । ततश्च जातिशब्दत्वाद गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति । ___अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा. आज्ञानिका इति पाठः । महानिकानां असञ्चिन्त्यकृतबन्धवैफल्यादिलक्षणाः सप्तषष्टिभेदाः, तत्र जीवादीन् नव ६७ मेवाः पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याः सप्त सदादय उपन्यसनीयाः, सत्वमसत्त्वं सदसवमवाच्यत्वं सदवाच्यत्वमसदवाव्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः ति एते नवसप्तकास्त्रिषष्टिः । उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः । तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवति । को जानाति जीवः सनित्येको विकल्पः । एवमसदादयो वाच्याः । उत्पत्तिरपि किं सतः असतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ? न कश्चिदपीत्यभिप्रायः॥ वैनयिकानां चेति । चशब्दः समुच्चये। विनयेन चरन्ति, विनयो वा प्रयोजन मेषामिति वैनयिकाः । ते चामीष्वष्टासु स्थानेष्वनवधृतलिङ्गचाराधैनयिकानां ३२ भेदाः शास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः सपयों विदधति कायेन वाचा मनसा दानेन च । एभिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु । एवं चाष्टकाश्चत्वारो द्वात्रिंशद् विकल्पा भवन्तीति । एवमभिगृहीतमिध्यादृष्टेः सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि । For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ १०२ तत्त्वार्थाधिगमसूत्रम् { अभ्यायः . अनभिगृहीता तु भोगसुखपराणामास्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्यामिजनादिषु नीरोगतादियु के जन्मेति । सर्वदेवतासु सर्वपापण्डिषु च तुल्यतामौदासीन्यं भावयतीति । एतत्सम्बावेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । एषामुक्तलक्षणानां क्रियाऽक्रियावादिनामज्ञानिकानां च प्रशंसा स्तुतिः अभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्यसन्धाः सन्मार्गदर्शननिपुणा इत्यादिः, संस्तवः-तैः सहैकत्र संवासात् परिचयः परस्परालापादिजनितः। तथा हि एकत्र वासे तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच असंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः । अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दिकैरपि सार्ध निषिद्धमेका वसनमेकरात्रमपि सम्यग्दृष्टरुत्सर्गात् । तस्मादतीचासवेतौ मलीमसताहेतू तत्पशंसासंस्तवौ सम्यग्दृष्टेभ्रंशहेतू वा । ___ भा०—(अत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ?। अनोच्यते-) टी.-प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ? । अत्रोच्यते-एवं मन्यते "शंसु स्तुतौ" ( पा० धा० ७२८ )। प्रशंसनं प्रशंसास्तुतिः। "ष्टुञ् स्तुती" (पा० धा०१०४३) । संस्तवः सम्यक्रस्तुतिरेव । अतस्तुल्यार्थत्वात् प्रमयति-का प्रतिविशेष इति । अत्रोच्यते ___ भा०-ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा। संस्तवस्तु सोपर्व मिरुपधं च भूतगुणवचनमिति ॥ १८ ॥ टी०-ज्ञानेत्यादि । ज्ञानम्-आगमः ॥१८॥ सूत्रम्-व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥७-१९ ॥ भा०-व्रतेषु पञ्चसु शीलेषु च सप्तसु पश्च पक्षातीचारा भवन्ति । यथाक्रममिति ऊर्ध्व वक्ष्यामः ॥ १९ ॥ टी.-घतेष्वित्यादि सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि प्रतानि तेषु विषयभूतेषु । पञ्चस्वित्यन्यूनानतिरिक्तेषु शीलेषु च सप्तस्विति । पशब्दः समुथायकः । सप्तैव शीलानि तेषु च । पञ्च पञ्चेति नियमवचनम् । प्रतिव्रतं प्रतिशीलं पश्चातिचारा भवन्ति, न चत्वारः षड वा । भतिचारपरिगणनं च सुखपरिहारार्थम् । यथाक्रममिति व्यतिफरनिवृत्त्यर्थम् । अन्यथा बन्धवधादयः स्थूलमृषावादनिवृत्तेरप्यतीचाराः स्युः । एवमितरेऽपि ध्यतिकरण प्राप्नुयुः। ऊवं वक्ष्याम इति नियमप्रदर्षनं यदुपरिष्टादतीचारजातमभिधास्यामस्तदुक्तेषु व्रतादिषु यथाक्रममिति ॥ १९॥ भा०तद्यथा १ धनुरिहान्तर्गतोऽयं पाटो घ-पुस्तक एव। २ 'भूताभूतगुण' इति घ-पाठः । ३ अयं सूत्र-भाष्य-पाठो नोपलभ्यते कतमस्यामपि प्रत्याम् , इदमवतरणं तु घ-पुस्तकाधारेण छतं मया। For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ सूत्र २० ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १०३ टी०-तद्यथेत्यनेन सम्बन्धमाचष्टे । यथा तदेतदतिचौरजातं क्रमेण व्रतादिषु सम्बध्यते संप्रति तथोच्यते । प्राक् तावत् स्थूलप्राणातिपातव्रतमुक्तं तस्यामी पञ्चातिचारा भवन्तीति निर्दिशतिस्थूलप्राणातिपातविर- सूत्रम्-बन्ध-वध-च्छविच्छेदातिभारारोपणामणव्रतस्यातीचाराः ऽन्नपाननिरोधाः॥७-२०॥ टी-तत्र बन्धनं बन्धः-संयमनं रज्जुदामकादिभिः, हननं वधः-ताडनं कशादिभिः, छविः-शरीरं त्वग् वा तच्छेदः-पाटनं द्विधाकरणं, भरणं भार:-पूरणं अतीव-बाढं सुष्टु भारोऽतिभारस्तस्यारोपणं-स्कन्धपृष्ठादिस्थापनमतिभारासेपणम्, अन्नं अशनादि, शानं पेयमुदकादि तयोरदानं निरोधः। सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतीचाराः ॥ भा०-सस्थावराणां जीवानां बन्धवधौ त्वकछेदः काष्ठादीनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चनिपाननिरोधः अहिंसावतस्यातिचारा भवन्ति ॥ २० ॥ टी०-ब्रसस्थावराणामित्यादि । त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपञ्चेन्द्रियाः । तिष्ठन्तीति स्थावराः-स्थानशीला वृक्षादयो यथासम्भवमायोज्याः । द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां प्रसस्थावराणां जीवानां बन्धवधी, तत्र बन्धः शङ्खपिपीलिकादीनामपि सम्भवति । स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सगतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यबद्धान्येवाऽऽसते, असम्भवात् तादृशामन्यत्र बन्धः सप्रयोजनः सोऽपि सापेक्षः, दयावता नातिगाढमूढप्रन्थिः कार्यो दुर्विनीतपुत्रकदासीदाससेवकादीनां गोमहिषीतुरगकरिकरभादीनां वा। वधोऽप्येवमेव द्विपदादिविषयो विकल्प्यः। प्राक् तावद् भीतपरिषक्तेनैव भुवितव्यमगारिणा। समुत्पभप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कशादिभिर्वोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत् । तथा निष्प्रयोजनः छविच्छेदः परिहार्य एव, तदाह-त्वक्छेदः काष्ठादीनामिति । काष्ठशब्देन वृक्षपरिग्रहः, वृक्ष आदिरेषामिति, आदिग्रहणाद् भूमितेजःकरकद्विपदचतुपदपरिग्रहः । सप्रयोजनस्तु सापेक्षः कणेपाटनाङ्कनादिरङ्गुलिसंदंशकश्रवणनासिकाच्छेदो वा मनाग भयजननाय तस्करादीनामिति । पुरुषेत्यादि। पुरुषादयः कृतद्वन्द्वाः। आदिप्रहणात् खरकरभमेषच्छागपरिग्रहः। यथासम्भवं वा, एषामतिभारारोपणमतिचारः, उत्सर्गतो 'चारक्रमेण ' इति ड-पाठः। २ 'व्युत्सर्ग ' इति ग-पाठः। 'क्षयोपेक्षया' इति हु-पाठः। ३ ' सापेक्षात् ' इति -पाठः For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ १०४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ माटकशकटाघाजीवः परित्याज्य एवान्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां यथोचितभारादपि किश्चिन्यूनभारारोपणं तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणम् । द्विपदानि तु यं मारमात्मनोत्क्षेप्तुमवतारयितुं च शक्नुवन्त्यक्लेशेन तावत आरोपेणापदेशः । तेषामेव पानपाननिरोध इति पञ्चमोऽतिचारः। तेषामिति द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव । सप्रयोजनं तु सापेक्षं कुर्यात् । दुर्विनीतानामपत्यादीनां मन्दतीक्ष्णाशयानासुंदन्यतां ज्वराद्यभिभूतानां चान्नपानं निरुणद्धि । स्वभोजनवेलायां तु ज्वरितादेरन्यान् नियमत एव तावद् भोजयित्वा स्वयं भुञ्जीतेत्युपदेशः। अहिंसाव्रतस्यातिचारा भवन्तीत्यव्यतिकरं दर्शयति । समासतोऽणुव्रती सर्वमेव बन्धादि प्रदर्शितमनुकमाया जहदवश्यंभाविनि प्रयोजनेऽनुतिष्ठभातिचरति स्थूलो प्राणातिपातविरतिमिति ॥ २० ॥ स्थूलमृषावादविरतेरतिचाराभिधित्सयेदमाहस्थूलमृषावादविरम- सूत्रम्-मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखणमतस्यातीचाराः पञ्च क्रिया-न्यासापहार-साकारमन्त्रभेदाः॥७-२१ ॥ टी-मिथ्योपदेशः-असदुपदेशः परेणान्यस्यातिर्सन्धानं स्वयं वाऽतिसन्धानमन्यस्येति । रहः-एकान्तस्तत्र भवं रहस्य रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् । कूटं-असद्भूतं लिख्यत इति लेखः करणं क्रिया कूटलेखक्रिया अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमिति । न्यस्यते-निक्षिप्यत इति न्यासः रूपकाद्यर्पणं तस्यापहारःअपलापः, योऽत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः सन विवक्षितः, तस्यादत्तादानविषयत्वात, यत् तत्र वचनमपलापकं येन करणभूतेन न्यासोऽपहियते-अपलप्यते तद् वचनं न्यासापहारः । आकारोऽङ्गुलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती, तेन तादृशा आकारेण सहाविनाभूतो यो मन्त्रो-गूढः पराभिप्रायस्तमुपलभ्य सहाकारं मन्त्रमसूययाऽऽवि. करोत्येष साकारमन्त्रभेदः प्रकाशनम् । मिथ्योपदेशादयः कृतद्वन्द्वाः पश्चातिचाराः स्थूलानृतविरतेरिति । सम्प्रति भाष्यमनुस्रियते भा०-एते पश्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तषचनमयथार्थवचनोपदेशो विवादेष्वतिसन्धानोपदेश इत्येवमादिः॥ 'पणादेशः' इति उ-पाठः। २'मतीक्ष्ण ' इति -पाउः। 'सम्मापन' इति -पाठः। ५.मिशमनमध्यारोपण' इति स-पाठः। ३' मौदन्यता' इति पाठ For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ सूत्र २१ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १०५ टी.--एते पञ्चेत्यादि । एत इति सूत्रोक्ताः पञ्चैति पञ्चैव, मिथ्योपदेशादय इति नामग्राहमाचष्टे । स्थूलमृषापरित्यागे न असत्यं वक्तव्यमित्यत्र सत्यवचनस्थातिचारा भवन्ति । तत्र मिथ्येत्यादिषु पञ्चस्वतीचारेपु मिथ्योपदेशस्तावत् । नामशब्दः क्रमावद्योतकः। प्रमत्तस्य वचनं परपीडाजननम्-वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, यथा अर्थः स्थितस्तथा वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः यथा परेण पृष्टः सन्देहापनेन वथोपदेश इति । विवादेष्वित्यादि । विवाद:-कलहः तत्रान्यत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं-छलनम् । आदिशब्दात् फाणितकधूतग्रहणम् । एवमादिः-एवंप्रकारः सवे एव मिथ्योपदेशोऽवसेयः ।। भा०-रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्त हास्यक्रीडासङ्गादिभिः रहस्येनाभिशंसनम् ॥ टी०-रहस्येत्यादि । रहस्येन कर्मणाऽभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणद्वारेण-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता कुमार्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तस्तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति भर्तुः पुर:-पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खलीकरोतीत्यादि । अन्यस्य वेति । दम्पतीव्यतिरिक्तस्य वैकैकस्य पुंसः स्त्रिया वा तत्कालयोग्यम् । रागसंयुक्तमिति दम्पत्यारन्यस्य वा येन रागः-प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति । हास्येत्यादि । अभ्याख्याताऽपि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन । हास्य-परिहासः सैव क्रीडा, आसक्तिः आसङ्ग:-अनुबन्धः। आदिशब्दः प्रकारवचनः । हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैवेति पृथगभिसम्बन्धः॥ __ भा०--कूटलेखक्रिया लोकमतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ।। २१ ॥ टी-कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना, मुद्राक्षरादिविन्यासः कूटतुल्य इति । अत्रापि यत् तद् भूर्जत्वगादिन्यस्तं च वचनं तत् कूटलेखक्रियाशब्देनोच्यत इति सत्यव्रतातिचारः । न्यासापहार इत्यादि । गोपायनाय स्वद्रव्यार्पणमन्यस्य न्यासः तस्यापहारः--अपलापः सुश्लिष्टवचनेन । एतदेव स्पष्टयति-विस्मरणकृतपरनिक्षेपग्रहणं विस्मरणेन कृतं परनिक्षेपस्य ग्रहणम्-येन निक्षिप्तानि पञ्च शतानि, शतसङ्ख्या विस्मृता, सा च, १ • योतनार्थः' इति -पाठः । २ 'लोके प्रतीता' इति क-ग-पाठः।। ' भेदैः' इति ग-पाठः । .भेदेखते ग-पाठः। For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ 'अधुना निक्षेपमार्गणाकाले ब्रवीति-न सुष्ठु स्मरामि किं चत्वारि शतान्यर्पितानि तव तदा अथ पञ्च शतानीति । यदर्पितं तद् देहीति, निक्षेपकस्य गोपायिता प्रत्याह--चत्वार्येवेति । एवं 'परेण निक्षिप्तस्य परविस्मरणकृतस्य शतस्य ग्रहणं येन करणतामापन्नेन क्रियते स सत्यव्रतातिचार इति । साकारमन्त्रभेद इति । आकारः शरीरावयवसमवायिनी क्रियाऽन्तर्गवाकूतमूचिका तेन विशिष्टेनाकारेण सहाविनाभूतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रका. शनम् । एतदुक्तं भवति-अनधिकृतसन्निधौ चेष्टाविशेषैः स्वाकूतप्रकाशनमाकारः। तमेव स्पष्टतरमुदाहरति-पैशुन्यं गुह्यमन्त्रभेदश्चेति । प्रीति शूनयतीति पिशुनस्तद्भावः पैशुन्यम्, द्वयोः प्रीतो सत्यामेकस्याकारैरुपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यतीति । गुह्यं-गृहनीयं न सर्वस्मै यत् कथनीयम् । मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बन्धस्तस्य भेदः-प्रख्यापनम् । एवमेतत् सत्यवतमप्यस्तातिचारं सम्यगनुपालनीयमिति ॥२१॥ स्थूलादत्तादानविरतेरप्यमी पञ्चातिचाराः परिहार्याः सूत्रम्-स्तेनप्रयोग-तदाहतादान-विरुद्धराज्यातिक्रमस्थूलादत्तादानविरमणवतस्यातिचाराः पञ्च हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ॥७-२२॥ टी-स्तेनाः-चौरास्तान् 'प्रयुक्ते-हरत यूयं इति हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः, अथवा परस्वादानोपकरणानि कर्तरीघर्घरकादीनि । तदाहृतादानमिति तच्छब्देन स्तेनपरामर्शः तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं (अल्प)मूल्येने मुधिकया पा। विरुद्धराज्यातिक्रम इति । विरुद्धयोनृपयोः राज्यं तस्यातिक्रमः- अतिलचनमाक्रमणम्, अन्यतरराज्यनिवासिन इतरस्य राज्यं प्रविशन्तीतरराज्यनिवासिनो वाऽन्यतरराज्यमभिगछन्तीति विरुद्धराज्यातिक्रमः । स चानेकप्रत्यवायः। हीनाधिकमानोन्मानमिति । हीनंन्युनं अधिकं-अतिरिक्तं मानं उन्मानं वा। तत्र मानं-कुडवादि। उन्मानं-तुलादि। हीनं मानमुन्मानं वा अन्यदानकाले करोति । स्वयं पुनगुननधिकं करोति । प्रतिरूपकव्यवहार इति । प्रतिरूपकः-तादृशः तस्य विविधमवहरणं व्यवहारः-प्रक्षेपः प्रतिरूपकप्रक्षेप इतियावत् । यद् यत्र घटते ब्रीद्यादि तैलादिषु पेलजिवसादि तत तत्र प्रक्षिप्य विक्रीणीत इति । स्तनप्रयोगादयः कृतद्वन्द्वाः पश्चास्तेयाणुव्रतस्यातिचारा बोद्धव्याः ॥ सम्प्रति भाष्यमनुस्रियते भा०-एते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिअयोगः ॥ स्तेनैराहतद्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहृतादानम् ॥ १ मार्गणकाले' इति हु-पाठः । २'कूटसूचिका' इति ङ-पाठः। ३.अन्यथाकृतसन्निधौ चेष्टाधिशेषः' इति पाठः नाधिकया' इति हु-पाठः। ५ 'पलनादि ''पलब्यादि इति पाठौ। तस्य द्रव्यस्य' इति घ-पाठः। For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ १०७ सूत्र २२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-एते इत्यादि गतार्थम् । तत्रेत्यादि। तत्र-तेष्वतीचारेषु । स्तेनप्रयोगस्तावदयम्-स्तेनेषु-तस्करेषु सम्भवति हिरण्याद्यर्थ प्रयोगो हिरण्यादिप्रयोगः हिरण्यं रजतं घटिताघटितरूपम् । आदिशब्दात कनकं च । घर्घरका याभिन्धि छित्त्वा गृह्णातीति । तथा खात्रखननकादि, एवं विधमुपकरणं नाणुव्रतिना निवर्तनीयं न विक्रेयमिति । स्तेनैरित्यादि । तस्करोपनीतस्य द्रव्यस्य रजतादेमुंधा-विना मूल्येन क्रयेण वा मूल्यप्रदानेन ग्रहणं तदाहृतादानं अनेकप्रत्यवायमिति परिहार्यम् ॥ भा०-विरुद्धराज्यातिक्रमश्वास्तेयवतस्यातिचारः। विरुद्ध हि राज्ये सर्व मेव स्तेययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः । टी०-विरुद्धेत्यादि । विरुद्धराज्यातिक्रमः । अतिक्रमो-व्यवस्थोल्लङ्घनम् । व्यवस्था च परस्परविरुद्धराज्यकृतैव । चशब्दः समुच्चायकः । एष चास्तेयव्रतस्यातिचारः । विरुद्धे हीत्यादि । यस्माद् विरुद्ध राज्ये सर्वमादानं-ग्रहणं तृणकाष्ठादेरपि स्तेययुक्तंचौरतया सम्बद्धं भवति । तस्माद् विरुद्धराज्यातिक्रमो न कार्यः ।। हीनाधिकेत्यादि । समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनाथ, हीनमानव्यवहारोऽधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति । एतदेव विवृणोति भा०--कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । टी-कूटतुलेत्यादि । प्रसिद्धटङ्कादिटङ्किता अकूटर्तुला । ततोऽपा कूटतुला । एवं मानमपि, आभ्यां कूटतुलाकूटमानाभ्यां वचनं-दम्भनं छलनं, आदिशब्दाद् वचनकार्यक्रियाग्रहणं तैयुक्तस्तद्युक्तः सम्बद्धः क्रयबद्धः। क्रयो ग्रहणं विक्रयो-मूल्येन दानं, सर्वमे तन कार्यम् । वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारः, सामान्यवृद्धिप्रयोगोपन्यासः । स्वखपकादि वृद्धयाऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च । तत्रान्याच्या परिहरणीया दशै. कादशकप्रभृतिः । यद्यप्युभयरुच्या सा क्रियते तथाप्यतितृष्णाभिभूत इत्यपोद्यते लोकेन । न्याय्या नूतन( तूना सा ?) आदेयेति ॥ भा०-प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पश्चारतेयव्रतस्यातिचारा भवन्ति ॥ २२ ॥ ____टी०-प्रतिरूपेत्यादि । नामशब्द: स्वरूपार्थः । प्रतिरूपकव्यवहारस्वरूपमिति । सुवर्णस्य प्रतिरूपत्रि.या यादृक् सुवर्ण तादृशमेवापरद्रव्यं वर्णगौरवादिगुणयुक्त निष्पादयति प्रयोगविशेषात् । तथा रूप्यं-रजतं कतिपयदिवसस्थायीति । आदिग्रहणात तेल-धृत-क्षीर-दधि १'घटितरूप ' इति ग-पाठः। २ 'कानि.' इति ङ-पाठः। ४-५ 'तुल्या' इति ग-पाठः । ६ 'भूतन आदे.' इति च-पाठः। ३ 'मानग्रहणं' इति -पाठ । 'प्रतिरूपक्रिया' इति क-म-पाठः। For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ स्वार्थाधिगमसूत्रम् [ अध्यायः ७ तक्र-ताम्र-कांस्यादिपरिग्रहः । व्याजीकरणानि चेति । व्याजीकरणमपहृतानामन्यैर्गवादीनां सशृङ्गाणामग्निपककालिङ्गी फलस्वेदितानि शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यक् कलितानि वा यथारुचि शक्यन्ते कर्तु येथाऽन्यत्वमित्र प्रतिपद्यन्ते गवादयः । तथा कृतेषु शृङ्गेषु न सुखेनावधार्यतेऽन्यहस्ते वा विक्रीयन्त इतेि व्याजः । छद्माच्छद्मरूपाणां छद्मरूपत्वापादनं व्याजीकरणम् । एवमेते पञ्चास्तेयत्रतस्यातिचारा भवन्ति ॥ २२ ॥ चतुर्थाणुव्रतस्याति चाराभिधित्सयेदमुच्यतेस्थूलमैथुनविरमण- सूत्रम् — परविवाहकरणे -त्वरपरिगृहीता-परिगृहीतागमनाऽनङ्गक्रीडा- तीव्रकामाभिनिवेशाः ॥ ७- २३ ॥ व्रतस्य पश्चातिचाराः १०८ टी० - एते पञ्च ब्रह्मव्रतस्यातिचाराः कृतद्वन्द्वा निर्दिष्टाः । पर विवाहकरणं, इन्वरपरिगृहीतागमनं, अपरिगृहीतागमनं, अनङ्गक्रीडा, तीव्रकामाभिनिवेशश्चेति । तत्र परविवाहकरणमिति । स्वापत्यस्यागारिणोऽवश्यंत्यैव विवाहः कार्यः, परविवाहकरणात् तु निवर्तते । गृहस्थ द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते स्वदारसन्तोषप्रतिपत्या परपरि - गृहीताभिगमनेन वा । स्वदारसेवनमेव प्रथमोऽभ्युपैति शेषात् निवर्तते । द्वितीयस्तु परपरिगृहीतदारासेवनात् निवर्तते, न स्वदारेभ्यो न वा अपरिगृहीतवेश्यादिभ्यः । तयोश्व यथासम्भव विचारा स्वमतानुसारेणाभ्युद्याः । तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य विवाह करणं - विवाहक्रिया, कन्याफललिप्सया वा स्नेहसम्बन्धेन वा । इत्वरपरिगृहीतागमनम् । प्रतिपुरुषगमनशीला इत्वरा - वेश्याऽनेकपुरुषगामिनी भवति । तस्यै च यदाऽन्येन कश्चित् कालमभिगृह्य भाटी दत्ता भवति तावन्तं कालं अगम्याऽसौ निवृत्तपरदारस्य भवति । इत्वरा चासौ परिगृहीता चेति इत्वरपरिगृहीता । गमनम् - अभिगमोमैथुनासेवनम् । अथवा इत्वरं स्तोकमप्युच्यते । इत्वरं - स्तोकमल्पं परिगृहीता इत्वरपरिगृहीता, अकृतलक्षणस्तत्पुरुषो मयूरव्यंसकादौ क्षेप्यः । अथवा इत्वरकालं परिगृहीता । शाकपार्थिवा: दित्वात् समासः काल (शब्द) लोपश्च । अपरिगृहीतागमनम् । वेश्या स्वैरिणी प्रोषितभर्तृकादिरनाथा अपरिगृहीता तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारः, न तु निवृत्त परदारस्य । अनङ्गः कामः कर्मोदयात् पुंसः स्त्रीनपुंसक पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोsपि योनि पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा स एवंविधोऽभिलाषोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः । तेन तत्र्त्तक्रीडा-रमणमनङ्गक्रीडा आहार्यैः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः कृतकृत्योऽपि च स्त्रलिङ्गेन भूयो मृद्नात्येावाच्यप्रदेशं योषितथा केशकर्षणप्रहारदानदन्तनखकदर्थनाप्रकारैर्मोहनीय कर्मवशात् किल क्रीडति, तथा १ 'ततश्चान्य० ' इति च पाठः । २ 'करणमित्वर' इति क ख ग पाठः । ३ ' तंत्र क्रीडा ' इति ङ-पाठः । ४' गृह्णात्येव ' इति ङ-पाठः । ५ ' कर्मावेशात् ' इति ङ-पाठः । For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ सूत्र २४ ] _स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रकारा कामसेवा सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते । समाचरतश्चैवमधैर्येण लिष्टचित्तस्य कियत् फलम् ?, तात्कालिकी छिदा व्याधेस्तावदेव फलं, इतरस्य च मार्गेणर्जुना सेवमानस्येति, नानङ्गक्रीडया कश्चिद्गुणोऽतिरिक्तो लक्ष्यत इति उभयोरुभयमतिचार इति । तीवकामाभिनिवेश इति । तीव्रः-प्रकर्षप्राप्तः कामेऽभिनिदेशस्तीत्रकामाभिनिवेशस्तावत् पर्यन्तचित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्ववितृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां निश्चलवाटकैर इव मुहुर्मुहुश्चटकायामारोहति योषिति, वाजीकरणानि चोपयुक्ते जातकलमलकः। अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरङ्गावमर्दी च भवति सुत्रपाठ- पुरुष इत्ययमप्युभयोरतीचार इति । एते पञ्च ब्रह्मवतस्यातीचारा भवन्तीति। परामर्शः अन्ये पठन्ति सूत्रम्-"परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश" इति । तत्र न बुद्धयामहे इत्वरिकापरिगृहीतागमनमिति । यदि कर्मधारयस्ततः पुंवद्भावः। अथासमासस्ततः सम्बन्धोऽपि दुर्घटः । न चान्यः प्रकारः समस्ति । अन्ये त्वन्यथा पदानि वदन्ति । परविवाहकरणं इत्वरिकागमनं परिगृहीताऽपरिगृहीतागमनं अनमक्रीडा तीवकामाभिनिवेश इति त एवंवादिन इत्वरिकां व्याचक्षते । कुत्सितसंकीर्णयोषिदित्वरिका । तद्यथा-उन्मत्ता बधिरा अन्धा मूकिका बाला दीक्षितेत्यादिका । एतदभिगमात् किल राजभयलोकाकीर्तिप्रत्यवायसम्भवः। परिगृहीता किल प्रोषितभरीकेति सर्वमिदमननुपाति व्याख्यानमित्यपकर्ण्यम् ॥ भा०-परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा तीव्रकामाभिनिवेश इत्येते पश्च ब्रह्मव्रतस्यातिचारा भवन्ति ॥२३॥ टी-गतार्थमेवेति ॥ २३ ॥ इच्छापरिमाणवताविचारव्याचिख्यासयेदमाहस्थूलपरिग्रहपरिमाण- सूत्रम्-क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास कुप्य-प्रमाणातिक्रमाः॥७-२४ ॥ टी०-क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लङ्घनम्-अतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिस. मध्य भाष्यकृद् दर्शयति व्रतस्य पश्चातीचाराः १.पर्यन्तच्छिन्नता' इति -पाठः, 'पर्यन्तश्चित्तता' इति तु क-ग-पाठः। 'सुखाय स्वकक्षान्तरे इति रुपाठः। ३ छिदन्ति' इति च-पाठः। ४ तार्किका' इति उ-पाठः, “अस्तकिका' इति तुच-पाठः ५'परिगृहीतापरिगृहीता' इति च-पाठः। 'कर्ण्यते' इति क-ग-पाठः, 'तीतोऽतिकामा०' इति ग-पाठः For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ ११० तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ भा०-क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धनधान्यप्रमाणातिक्रमः दासीदासप्रमाणातिक्रमः कुप्यप्रमाणातिक्रमः इत्येते पश्च इच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥ २४ ॥ टी-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि । तत्र क्षेत्रं सस्योत्पत्तिभूमिः। तच सेतुकेतुमे_ दाद् द्विविधम् । तत्र सेतुक्षेत्रं अरघट्टादिसेक्यम् । मेघाकाशपतितोदकनिष्पाघक्षववास्तुभदा सस्य केतुक्षेत्रम् । वास्तु अगारं गृहमुच्यते। तदपि त्रिविधं खातं भूमिगृहकादि, उच्छ्रितं प्रासादादि,खातोच्छ्रितं भूमिगृहस्योपरि प्रासादादिसन्निवेशः,तेषां क्षेत्रवास्तूनां प्रमाणं प्रत्याख्यानकालेऽभिगृहीतम्-एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं यावचतुर्मासी संवत्सरं यावज्जीवं वा। अवधिकृतकालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणं इच्छापरिमाणव्रतातिचारः । हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पायोदिकम् । तथा सुवणेमपि । एतद्ग्रहणाचेन्द्रनीलमरकताधुपलकपरिग्रहः । सर्वेषामभिगृहीतप्रमाणातिक्रमेऽ. तिचारः । धनं गो-महिष्य-ऽजाविका-करभ-तुरग-करिप्रभृतिचतुष्पदपरिग्रहः । धान्यं व्रीहिकोद्रव-मुद्ग-माष-तिल-गोधूम-यवप्रभृति सर्वमगारिणा परिमितं ग्राह्यं, उपरिप्रमाणाद ग्रहणमतिचारः।दासीदासाः कर्मकराः उपरुधिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादिसकलद्विपदाभिगृहीतपरिमाणातिकमोऽतीचारः। ततश्च हंस-मयूर-कुकुट-सारिकादीनां च प्रमाणातिक्रमेऽतिचारः । कुप्यं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्डक-त्वचिसार-विकारोदन्तिका-रोदन्तिका-काष्ठ-कुण्डक-पारी-मश्चक-मश्चिकादिप्रमाणातिरेकग्रहणमविचार इति। एवमेते इच्छापरिमाणवतस्यातिचाराः पश्च भवन्तीति ॥ २४ ॥ एवमणुव्रतातिचारानभिधाय सम्प्रति दिगादिवतानां क्रमेणातिचारानभिधातुमिच्छबाह । तत्र दिग्वतस्य तावत्दिखतस्य पक्षाती- सूत्रम्-ऊर्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवद्धि स्मृत्यन्तर्धानानि ॥७-२५ ॥ भा०-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पञ्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति ॥२५॥ ____टी०-ऊर्ध्वमधरितर्यक् प्राक्परिगृहीतस्य परिमाणस्य व्यतिक्रमः इति । व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः । क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । सर्वे कृतद्वन्द्वा दिक्परिमाणस्थाती चाराः १ 'दासदासी-' इति क-ग-पाठः। २ 'पत्रादि ' इति ग पाठः । ३ 'कुचुक ' इत्यपि पाठः । ४' नियम ऊर्ध्व स्मृते.' इति ग-पाठः। For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ सूत्रं २६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १११ चाराः पञ्च दिग्वतस्याती चारा भवन्ति । ऊर्ध्वं पर्वततरुशिखरारोहणादिपरिमाणम् । अघश्चाधीलौकिकग्राम भूमि गृहकूपादिपरिमाणम्। तिर्यगपि योजनमर्यादाभिग्रहव्यतिक्रमः। क्षेत्रवृद्धिरिस्येकतो योजनशतपरिमाणमभिगृहीतम्, अन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने योजनशतमध्यादपनीय अन्यानि दश योजनानि तत्रैव स्वबुद्धयाऽग्रे प्रक्षिपति संवर्धयत्येकत इति क्षेत्र वृद्धिरेषा । स्मृत्यन्तर्धानस्वरूपमाचष्टे । स्मृतेभ्रंशोऽन्तर्धानमिति अविस्मृतिमूलं नियमानुष्ठानम्। स्मृतिभ्रंशे तु नियमत एव नियमभ्रंशः किं मया परिगृहीतं क्रया मर्यादयेति व्रतमित्यस्मरतो ऽन्तर्धानम् - अपाकरणं, तिरस्करणं नियमस्येति ।। २५ ।। देशव्रतविरते रतिचाराभिधानायाह देशावकाशिकव्रतस्य पञ्चातीचाराः सूत्रम् - आनयनप्रेष्यप्रयोगशब्दरूपानुपात - पुद्गलक्षेपाः ॥ ७-२६ ॥ भा० - द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥ टी. - दिग्वतविशेष इव देशव्रतम् । इयांस्तु विशेषः - एकं यावज्जीवं दिग्देश व्रतयोर्विशेषः संवत्सरं चतुर्मासपरिमाणं वा । देशव्रतं तु प्रतिदिवस प्रतिप्रहरं प्रतिमुहूर्तादिपरिमाणम् । अस्यातिचाराः पञ्च भवन्ति - द्रव्यस्यानयनमित्यादि । विशिष्टावधिके भूप्रदेशाभिग्रहे परतो गमनासम्भवात् सतो यदन्योऽवधिकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयनाय प्रयुज्यते त्वयेदमानेयं सन्देशकप्रदानादिनाऽऽनयनप्रयोगः । आनायनप्रयोगः इत्यपरे पठन्ति । बलाद् विनियोज्यः प्रेष्यप्रयोगः यत्राभिगृहीत - प्रविचार (१) देशव्यतिक्रम भयात् प्रेष्यं प्रहिणोति त्वयाऽवश्यमेव गत्वा मम गवाधानेयं इदं वा कर्तव्यं तत्रेति प्रेष्यप्रयोगः । स्वगृहवृतिप्राकारादिविच्छिन्न भूप्रदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनात् वृतिप्रकारप्रत्यासन्नवर्ती भूत्वा अभ्युच्छ्रुसितादि शब्दकरणेन समवसतिकान् बोधयति । ते च तच्छन्दश्रवणात् तदुपकण्ठमाढौकन्त इति स देशवतातिचारः । अनुपातशब्दः प्रत्येकमभिसम्बध्यते । शब्दमनु पततीति शब्दानुपातः । स एव श्रोता पुरुषः । अथवा शब्दस्यानुपतनम् - उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः । तथा पुद्गलप्रक्षेपातिचारः । पुद्गलाः परमाण्वादयः । तत्संयोगाद् द्व्यणुकादयः स्कन्धाः सूक्ष्मस्थूलमेदाः । तत्र ये बादराकारपरिणता लोष्टेष्टकाष्ठकलादयस्तेषां क्षेपः- प्रेरणम् । कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभा १' पुद्गलप्रक्षेपा: ' इति घन्टी-पाठः । २ ' संदाना ' इति उभ्भ्पाठः । ३' तत्र कर्तव्यमिति' इति पाठः । For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ ११२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ वात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति । लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावन्तीत्येते पत्र देशव्रतस्यातिचारा भवन्ति यस्माद् गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावका शिकव्रतमभिगृह्यतेऽगारिणः तत्र स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने कियानपि गुणो लक्ष्यते । ईर्यापथविशुद्धौ स्वयं निपुणत्वात् परस्य च प्रमादवतो गमने ( आगमने ) भूतोपमर्दसम्भवादिति ॥ २६ ॥ एवं प्रज्ञते देशवतातिचारेऽनर्थदण्ड विरंतेर तिचाराभिधित्सयेदमुच्यते- अनर्थदण्डविरमण- सूत्रम् — कन्दर्प - कौत्कुच्य मौखर्या समीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ॥ व्रतस्य पञ्चातीचाराः टी० – कन्दर्पः - कामस्तद्धेतुः विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते । रागोद्रेकात् प्रहा समिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । मुखनयनोष्ठचरण विकारपूर्वकः परिहासादिजनको भाडावकरस्येव कायिको व्यापारः । कौत्कुच्यं कुत्सित सङ्कोचनादिक्रियायुक्तः कुत्कुचः तद्भावः कौत्कुच्यम् - अनेकप्रकारा भाण्डादिविडम्बनक्रियाः । कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । अन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाकू तद्भावः कौकुच्यम् । धाष्टर्यप्रायमसभ्यासम्बद्धबहुल प्रलापित्वं मौखर्यम् । असमीक्ष्य - अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादति रेककरणमसमीक्ष्याधिकरणं मुसलदात्रशिलापुत्रशत्र गोधूमयन्त्रक शिलाग्न्यादिदानलक्षणम् । उपभोग आत्मनः पान- भोजन- चन्दनकुङ्कुम-कस्तूरिकाविलेपनादिः । अतिरिक्तोऽन्यार्थो दण्डोऽनर्थदण्डः केवलमेनसो हेतुः । प्रत्येकम्मुपभोगस्तुल्य एवेत्युपभोगादधिकत्वमुपभोगाधिकत्वमिति कृतद्वन्द्वाः पञ्चाप्यनर्थदण्डविरतिव्रतस्यातिचारा भवन्तीति ॥ भा० - कन्दर्पः कौत्कुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमिस्येते पञ्चानर्थदण्ड विरतेरैतिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगः हास्यं च । कौत्कुच्यं नाम एतदेवोभयं दुष्टकीयप्रचारसंयुक्तम् ॥ टी० - - कन्दर्प इत्यादि भाष्यं प्रायो गतार्थम् । तत्र कन्दर्पो नामेत्यादि । तत्रतेषु पञ्चस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, राग:कामानुषङ्गी स्नेहस्तत्सम्बद्धः, सभाई:- सभ्यः, न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगः हास्यं चेति । वाचः प्रयोग-उच्चारणं वाक्प्रयोगः । हास्यं हि यावद स्पष्टवर्णश्रुतिरूपमिति । १ — विरस्यति ' इति ङ-पाठः | २' कौकुच्य०' इति घ-पाठः । ३' भण्डोऽवकरणस्येव ' 'मण्डचरणस्येव' इति पाठौ । ४ 'रतिव्रतस्यातिचारा' इति घ-पाठः । ५ ' नाम सरागसं०' इति ग-पाठः । ६ 'कायप्रवीचार' इति घ-टीपाठ: । ७' मोहोदयादवस्पष्ट' इति च पाठः । For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ ११३ सूत्रं २८] स्वोपज्ञभाष्य-टीकालङ्कृतम् कौस्कुर नामेत्यादि । नामशब्दोऽलङ्कारार्थः । एतदेव च वाचो व्यापारणं हसनं चोभयंद्वयमपि, दुष्टकायप्रवीचारसंप्रयुक्तमिति । दुष्टः कायप्रवीचारो मोहनीयकर्मोदयसमावेशाद् तद्युक्तं-तत्सम्बद्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधान कौत्कुच्यमिति । भा०-मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरण लोकप्रतीतम्। उपभोगाधिकत्वं चेति ॥२७॥ ____टी-मौखर्यमित्यादि । मुखरोऽनालोचितभाषी तुण्डिलः, तदेवाचष्टे-असम्बद्धबहुप्रलापित्वमिति । असम्बद्धमिति पूर्वापरेणाघटमानं, बहु प्रलपति तच्छीलश्च बहुप्रलापी तद्भावो बहुप्रलापित्वम्, यत्किञ्चिदसम्बद्धं जल्पति, न च खात्मनः कश्चिदर्थ साधयतीति । असमीक्ष्याधिकरणं अनालोच्याधिकरणम् । असमीक्ष्य कुर्वाणः, स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणं, तच्च लोकप्रतीतमिति । यन्नात्मनः कश्चिदुपकारं करोति परप्रयोजनमेव केवलं साधयति तदसम्मीक्ष्याधिकरणं आत्मनोऽनुपयोगादिति विवेकिजनप्रतीतम् । उपभोगाधिकत्वं चेति । लोकप्रतीतमेवेत्यभिसम्बध्य स्नानालङ्कारादि यावदुपभुज्यते स्वात्मनस्तावदेव पेषयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकत्वम् । अनर्थदण्डविरतेः पञ्चातिचारा भवन्ति ॥ २७ ॥ अनर्थदण्डानन्तरोपदिष्टसामायिकातिचारप्रसिद्धयर्थमिदमुच्यते बत सूत्रम्-योगदुष्पणिधानानादरस्मृत्यनुपश्चातीचाराः पस्थापनानि॥७-२८॥ भा०-कायदुष्प्रणिधानं वाग्दुष्पणिधानं मनोदुष्पणिधानं अनादरः स्मृत्यनुपस्थापन इत्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति ॥२८॥ टी-युज्यन्त इति योगाः-कायादयः। प्रणिधानं प्रयोगः। दुष्टं प्रणिधानं दुष्प्रणिधानम् । दुष्प्रणिधानशब्दस्य च प्रत्येकमभिसम्बन्धं दर्शयति-कायदुष्प्रणिधानमिति । शरीरावयवाः पाणिपादादयस्तेषामनिभृततावस्थापनं कायदुष्प्रणिधानम् । वर्णसंस्काराभावार्थानवगमचापल्यानि वाकक्रिया वाग्दुष्प्रणिधानम् । क्रोधलोभाभिद्रोहाभिमानेादिकार्यव्यासङ्गजातसम्भ्रमो दुष्प्रणिवत्तेमन इति मनोदुष्पणिधानम् । अनादरोऽनुत्साहः, प्रतिनियतायां वेलायामकरणं सामायिकस्य, यथाकथञ्चित् प्रवृत्तिरनादरः-अनैकाऽयं, स्मृत्यनुपस्थापनमुद्माम्तचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः । किंविषयायाः स्मृतेः? सामायिकप्रस्तावात् तद्विषमाया इति । सामायिक मया कर्तव्यं न कर्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः । स्मृतिमूलत्वाच मोक्षसाधनानुष्ठानस्येति, एते पञ्च सामायिकवतस्यातिचारा भवन्तीति॥२८॥ सामायिकवतस्य १'भवन्तीति' इति च-पाठः। २'मनोदुःप्रणिधानं वाग्दुःप्रणिधानं' इति क-पाठः। ata For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ पश्चातीचारा ११४ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ ____ कथिताः सामायिकातिचारास्तत्समीपोद्देशभाजः खलु पौषधोपवासस्य केऽतिचारा इत्याहपौषधोपवासवतस्य सूत्रम्-अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसं स्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥७-२९॥ भा०-अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्युपेक्षिताप्रमार्जितस्थादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितसंस्तारोपकमः अनादरः स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ ___टी०-प्रत्यवेक्षणं-चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजङ्गमजन्तुशून्यता। प्रमार्जनं वस्त्रप्रान्तादिना, विशुद्धिहेतोर्यथा युज्यमानम् , आगमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्यायं क्रियाकलापोऽगारिणः प्रतिनिर्दिश्यते। उत्सर्गः-त्यागो निष्ठ्यत-स्वेद-मलमूत्र-पुरीषादीना, प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः। अथवा अप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपवासवतमतिचरतीति । आदान-ग्रहणं यष्टिपीठफलकादीनाम् । तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यम् । अन्यथाअत्यवेक्षिताप्रमार्जितस्यादानमतिचारो, निक्षेपश्च । तथाऽप्रत्यवेक्षितेऽप्रमार्जिते च भूप्रदेशे संस्तारोपक्रमः । संस्तारः संस्तीर्यते यः प्रतिपन्नपौ. षधोपवासेन दर्भकुशकम्बलीवस्त्रादिस्तस्योपक्रमः-करणमनुष्ठानं, भूप्रदेशे, यद्वा दादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः । अनादरः स्मृत्यनुपस्थापनं च प्रार व्याख्यातम् । अनादरः पोषधोपवासप्रतिपत्तिकर्तव्यताक्रियायां, तद्विषयमेव स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचार। भवन्तीति ॥ २९ ॥ सम्प्रति प्रस्तावायातानुपभोगपरिभोगातिचारान् वक्तुकाम आहसूत्रम्-सचित्त-सम्बद्ध-संमिश्रा-भिषव-दुष्पकाहाराः ॥ ७-३०॥ टी-भोजनकृतमुपभोगं विशिनष्टि भाष्येण - भा०-सचित्ताहारः सचित्तसम्बद्धाहारः सचित्तसंमिउपभोगपरिभोगवतHITTA श्राहारः अभिषवाहारः दुष्पक्काहारः इत्येते पश्च भोगव्रत " स्थातिचारा भवन्ति ॥३०॥ टी-चित्तं चेतनो संज्ञानमुपयोगोऽवधानमिति पर्यायाः । सचित्तश्चासावाहारश्च सचित्ताहारः। सचित्त आहारो वा यस्य, सचित्तमाहारयतीति वा सचित्ताहारः, मूलकन्दली. १.३ 'अप्रत्युपेक्षिता.' इति ग-पाठः । ४ 'उपभोग०' इति घ-पाठः । For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ सूनं ३१ ] स्वोपज्ञभाष्य - टीकालङ्कृतम् कन्दार्द्र कादिसाधारणवनस्पति प्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः । पृथिव्यादिकायानां वा सचित्तानाम् । तथा सचित्तेन सम्बद्धं कर्कटिकवीज कौलिकाकुलस्य पकबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारत्वम् । तथा सचित्तेन सम्मिश्राहारः पुष्प-फलव्रीहि-तिलानां व्यति मिश्रमोदका दिखाद्यस्थ वा । कुन्थुपिपीलिका दिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यबहारः अभिषवाहार इति । सुरासौवीरकमांसप्रकारपर्णक्याद्यनेकद्रव्य सङ्घातनिष्पन्नः सुरासीधुमधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा । दुष्पकाहार इति । दुष्पकं मन्दपक में भिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककण्डुकादि तस्याभ्यवहार ऐहिक प्रत्यवायकारी, यावता वार्डशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ ३० ॥ उक्तमुपभोगपरिभोगवतातिचार विधानम्, तदनन्तरं व्याख्यातातिथिसंविभागाति चार प्रदर्शनार्थमिदमुच्यते अतिथिसंविभागश्रत- सूत्रम् – सचित्तनिक्षेपपिधान परव्यपदेशमात्सर्यकालातिक्रमाः ॥७-३१ ॥ स्य पञ्चातीचाराः भा० - अन्नादेर्द्रव्यजातस्य संचित्तनिक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशः मात्सर्ये कालातिक्रम इत्येते पञ्चातिथि संविभागस्यातिचारा भवन्ति ॥ ३१ ॥ टी० - अन्नादेरित्यादि । अनमोदनखाद्यकादि चतुर्विध आहारो वाऽशनादिः तस्य सचितेषु व्रीहि यवगोधूम - शाल्यादिषु निक्षेपः । तच्चान्नादि कया बुद्ध्या निक्षिपति ? - अदानबुद्वया । एतच्च जानात्यसौ - सचिते निक्षिप्तं सत् न गृह्णन्ति साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति । सचित्तपिधानमिति । सचित्तेन पिधानं - स्थगनं सूरणकन्द पत्रपुष्पादिना तत्रापि तथाविधयैव बुद्धया सचित्तेन स्थगयति । परव्यपदेश इति साधोः पौष वोपवास पारणाकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिति नास्माकीनं अतो न ददामीति, न चैष परमार्थः, परमार्थतस्तु तदीयमेव तत् । अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति । मात्सर्यमिति । मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवा तेन तावत् द्रमकेण दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद ददाति । परोनतेर्वैमनस्यं च मात्सर्यम्, कषायरूपितेन वा चित्तेन ददतो मात्सर्यमिति । कालातिक्रम इति । उचितो यो भिक्षाकालः साधूनां तमतिक्रमय्यानागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरोऽप्रस्तावाददानं चेत्यतीचारः । इत्येते पञ्चातिथिसंविगस्यातीचारा भवन्ति ॥ ३१ ॥ ११५ १' को किलिकाकुलादिना ' इति ङ-पाठः । २ ' मस्विन्न०' इति च पाठः । ३ 'हारादिकप्रत्य ०' इति च पाठः । * 'साचेते निक्षेपः' इति घः पाठः । For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ ११६ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ शीलसप्तकाविचारानभिधाय सम्प्रति मारणान्तिकसंलेखनायाः कति अतिचारा भवन्तीत्याह सूत्रम् - जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७-३२ ॥ टी० -- आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नन्नाह भा० -- जीविताशंसा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पश्चातिचारा भवन्ति ॥ टी० - जीविताशंसेत्यादि । संलेखनायाः अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यature: | जीवितं - प्राणधारणं तत्राशंसा - अभिलाषो यदि बहुकालं जीवेयमिति । वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च लोक श्लाघाश्रवणाच्चैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्यातानशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते इति । मरणाशंसा त्वेतद्विपरीता, न कचित् तं प्रतिपन्नानशनं गवेषयति न सपर्यति न चाद्रियते न कश्चित् श्लाघते ततस्तस्मैवंविधवि परिणामो जायते -- यदि शीघ्रं प्रियेयाहमपुण्यकर्मेति मरणाशंमा । मित्रानुराग इति । मेद्यन्तीति मित्राणि-स्नेहमत्यन्तं कुर्वन्ति सहजी वितमरणानि तेषु मित्रेषु अनुरागः -स्नेहो यस्तं सादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः । तथा पुत्रादिष्वपीति योज्यम् । मित्रस्योपकारमकृत्वा पुत्रादीन वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः । सुखानुबन्ध इति । अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुबन्धः। निदान करणमिति । निदानम् - अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो मास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्धमरताधिपतिर्महामण्डलिकः सुभगो रूपवानि - त्यादि । एतच्चात्यन्ताधममनन्त संसारानुबन्धित्वात् परित्याज्यम् । इत्येते पञ्चषष्टिरतिचारा ज्ञेयाः परिहार्याश्च ज्ञात्वेत्थमगारिधर्म एवंप्रकारः । ननु सम्यक्त्वतिचारपञ्चकसम्भवात् सप्तविरविचाराः स्युरिति । उच्यते - सम्यक्त्वं हि मूलप्रसादपीठरचनावत् आधारभूतमणुव्रतादीनाम्, अतस्तस्याधारत्वान्न व्रतशीलेष्वतिचारग्रहणम् । तदेतेष्वित्यादिनोपसंहरति भा०- - तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वति वारस्थानेषु अप्रमादो न्याय्य इति ॥ ३२ ॥ टी० - तस्मादपायदर्शनादेतेषु पञ्चषष्टिष्वतिचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति ॥ ३२ ॥ भा० -अत्राह-उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेटी० – अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे । अत्र - व्रतेषु व्रतिषु च व्याख्यातेषु १ ' वाच्यादि ' इति च पाठः । २ ' अनुबन्धभूतस्त्रीविशेष०' इति ग-पाठः । ३ 'सम्यगति' इति पाठ 1 For Personal & Private Use Only • Page #146 -------------------------------------------------------------------------- ________________ 'सूर्व ३३] स्वोगज्ञभाष्य-टीकालङ्कृतम् दनुवादद्वारेण दानं प्रस्तौति । उक्तानि-अभिहितानि लक्षणतो व्रतानि व्रतिनध । तदनन्तरमुद्दिष्टं अथ दानं किमिति । सद्वेद्यकर्मास्रवाभिधानक्रममाश्रित्य प्रश्नयति-दानं किंलक्षणकमिति, तत् दानलक्षणं वत्तुकामः अत्रोच्यत इत्याह ।। - सूत्रम्-अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ॥ टी०-अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवोदितः । तत्र किंलक्षणं दानमित्याह-अनुग्रहार्थ स्वस्यातिसगों दानम् । अनु. गृह्यतेऽनेनेत्यनुग्रहोऽनादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषङ्गिकफलं प्रधान मुक्तिः, आनुषङ्गिक स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुलप्रत्ययातिविभवबोधिलाभादिः सोऽर्थः-प्रयोजन यस्य तदनुग्रहार्थ-अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात् । स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृत पूर्वजक्रमागतं न्यायवृत्त्या वा स्वसामोपात्तं तस्यातिसर्गः-त्यागः । न चोमनमात्र त्यागशब्देनोच्यते, किं तर्हि १, दानं विशिष्टसंप्रदानकमित्यर्थः । तच सम्प्रदानं द्विविधम्-अर्हदगयन्ता साधर्मिकाच, तत्राद्भयो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलश-ध्वज-चन्द्रातपकिरीटाभरणादिः । साधर्मिकास्तु द्विप्रकारा:-साधवः श्रावकाच । साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः। श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधमेभाजः । तेभ्यो दानममादेदेशकालोपपत्रमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् । मा०-आत्मपरानुग्रहार्थ स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ॥ ३३ ॥ किश्च ट-अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः देयसम्पञ्चेति । आत्मा च परश्च आत्मपरौ तयोरनुग्रहा आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्व लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयं उपायाहते न सम्पपत इत्युभयपरिग्रहः । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदैनिर्भरेण चेतसा रोमाश्चकञ्चकोपगूढवपुषा वाऽभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधायेकाश्यमित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पयो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीताज्ञानक्रियान्वितों विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभार मूलोत्तरगुणसम्पदुपेतः पात्रमिष्यते । स्वस्य द्रव्यजातस्यानपानव. खादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराधनुपात्तस्य । द्रव्य हेतुवादद्वारेण' इति स-पाठः। २ 'विशुद्धत्वं' इति -पाठः।३'वामाव' तिन-पाठः। ४'पायपरि.' इतिच-पाठः। ५'दातिभरेण' इति -पाठः । For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ ११८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ जातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुनलद्रव्यस्यापि न सर्वस्य कुठारहलदाप्रशस्त्रादेरनेकपाणिदुःखहेतोः। किं तर्हि?, अन्नपानवस्त्रादेः । आदिग्रहणादौषिकौपग्रहिकसक लोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः। सेच पुद्गलो. स्पादनेनैषणाशुद्धः। स च दातुः प्रतिग्रहीतुथोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह "ज न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टइ अणुग्गहे तं विहिए दिन्नं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याई पुत्रदुहित्भ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रव्राज्यं, इत्थमुक्तेन न्यायेन देशकालोपपन्नमवेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकोद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पयोन्मुक्तिफलमपीति ॥ ननु च सम्प्रदानं यत् साक्षात् प्रतिगृह्णाति यथा साधुरणुव्रती वा । यत् पुनर्भगवते दीयते निर्वाणप्राप्तये पुष्पबलिधूपादि तत्र कथं भगवतः सम्प्रदानत्वम् १ अत्रो च्यते-त्रिविधं सम्प्रदान,प्रेरका-ऽनुमन्त-अनिराकटेभेदात् । तत्र प्रेरकं यदर्थित्वमुपदशेयत् कतोरं क्रियायां प्रेरयति । यत्रेदमुच्यते साधुभ्यो भिक्षां ददातीति । अनुमन्तु यथा-आचार्याय वासोयुगं ददातीति । आचार्यो हि यद्यप्यनार्थत्वान्न प्रेरयति दाने परं तथापि दातुरनुग्रहकियाचिकीर्षया दीयमानमनुमन्यते । अनिराकर्तृ यथा-भगवते पुष्पाणि ददाति धूपं वा, भगवान् न प्रेरयति नानुमन्यते, किन्तु परहितोयप्रतिघातपरिहारार्थमसन्निधानाद् दातारं न निराकरोति । अतो युज्यत एव सम्प्रदानत्वं भगवतः । यदा तसिन्निधानादनिराकर्तृत्वं तदा कथं परोपयोगिता कर्मणः । नैवमुच्यते यत्र परस्योपयोगोऽवश्यमस्ति स त्याग इति, अपि तु यो व्यापारः कर्मणः परोपयोगामिप्रायेण स त्यागः । असनिहितेऽपि चोपयोक्तरि त्यक्तुः सोडभिसन्धिरस्तीत्यदोषः। कारकत्वं वा सन्निहितस्य क्रियायां निमित्तभावात् । एतोवतैव च कारकत्वमिष्टं, देवताश्च स्वगुणातिशययोगाद् दातुश्चेतसि प्रसादमादधानास्त्यागे निमित्ततां आपधन्त एवेति ॥ ३३॥ .. किश्चेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमादतिशयभेदप्रतिपत्त्या फलविशेषनिरूपणायाह सूत्रम्-विधि-द्रव्य-दातृ-पात्र-विशेषाच्च तद्विशेषः ॥७-३४ ॥ टी-विध्यादयः कृतद्वन्द्वाः तेषां विशेषः-अतिशयः प्रकर्षापकर्षयोगः तस्माद् विध्यादिविशेषाच धर्मविशेषः । धर्मश्च क्षमादिदशलक्षणकः, स पुण्योपचयनिजेराहेतुः । पुण्योप १ 'भवद्गमो०' इति च-पाठः। २ छाया यत् न च दुःखितं न च दुःखकारणं भवति दत्तमन्येषाम् । वर्ततेऽनुग्रहे तद् विधिना दत्तमसावद्यम् ॥१॥ .३ सन्तुल्यतामाचारावृत्तिगतं यत्स्वयमदुःखितं स्यात्' इत्यादिपूर्वकं पद्यम् । ४'देयव्रताघात' इति ङ-पाठः। ५'एतावदेव च' इति हु-पाठः। ६ 'अपि प्रतिपायन्त 'इतिच-पाठन For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ सूत्र ३४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् चयापचय 'निर्जराहेतुविध्यादि (१) मात्र विध्यादिचतुष्टयापेक्षौ, तथा विध्यादिचतुष्टयप्रकर्षदेश कालोपपन्न कल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी मन्दविध्यादिदानान्मन्दा मध्यविध्यादिदानान्मध्या । एतदेव भाष्येण विविच्य दर्शयति भा० - विधिविशेषाद् द्रव्यविशेषाद् दातृविशेषात् पात्रविशेषाच तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः ॥ टी० - विधिविशेषादिति । पञ्चम्याः प्रागुक्तं लक्षणम् । विधानं विधिः विशिष्टप्रकारः तदतिशयान् पुण्यनिर्जरा तिशयस्तदतिशयात् स्वर्गफल विशेषो मुक्तिफलप्राप्तिर्वा । द्रव्यमन्नादि तद्विशेषात् । तथा दातृविशेषात् पात्रविशेषाच्च । तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते । दानं - त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो भेदः प्रकार्षापकर्षल - क्षणः । दानधर्मभेदाच्च फलभेदः, कारणानुरूप कार्यनिष्पत्तेः । एवं समासतः सूत्रार्थमाख्याय सम्प्रति विशेषेण विवृणोति भा० – तत्र विधिविशेषो नाम देशकालसम्पत्श्रद्धा सत्कारक्रमकल्पनीयत्वमित्येवमादिः ॥ टी० - तत्रेत्यादि । तत्र तेषु विध्यादिचतुर्षु विधिविशेषस्तावदयम् । नामशब्दो वाक्यालङ्कारे । देशकालसम्पदिति । व्यपगतस्थावरजङ्गमजन्तुको देशो दातुः प्रतिग्रहीतुश्चेति देश सम्पत् । कालसम्पदपि न रात्रौ दिवाऽपि स्वार्थमुपक्लृप्तेऽशनादौ उचिते भोजनकाले परिवेपकोत्थितः स्वतश्व कडुच्छुषो कोखापडल कादङ्किकाद्युपकरणव्यग्रकरासु सञ्चरतीषु पुरः कर्मपश्वात् कर्माभावात् कालसम्पत् । एवं वस्त्रपात्रादिदानमप्युचितकाल इति । श्रद्धा गुणवत्सु दानामिलापो दत्तमेभ्यो बहुफलं भवति । सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरःसरं देयगतः, तावत् क्रभो यो यत्र जनपदे प्रसिद्धः पटादिरन्यो वा । वस्त्रादिषु तु रत्नाधिकक्रमः । प्रकृष्टमध्यम जघन्यपात्रक्रमो वा । कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्य पेयापेयग्राह्माग्राह्यता च । आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदन नयनोर्थमहमनुगृहीत इत्येष विधिः ॥ भा०- - द्रव्यविशेषः अन्नादीनामेव सारजातिगुणोत्कर्षयोगः । डी० - द्रव्यविशेषो द्रव्यस्यातिशयः प्रकृष्टता । अम्नशब्देन चाशनं गृहीतम् । आदिशब्दात् पानखानखाद्यवस्त्र पात्रदण्डको घोपग्रह भेदोपनिपरिग्रहः । तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः । सारोऽनस्याच्युतगन्धरसादित्वम् । जातिः शालिब्रोहिगोधूमादिका । गुणाः सुरभिलवणस्त्रिग्धमधुरत्वादयः सुस्विन्नत्वादयो वा । एषां सत्रादीनामुत्कर्ष:प्रकृष्टता तेन योगः - सम्बन्धः । एवं पानकादीनामपि । तथा वस्त्रपात्रदण्डकादीनां देशान्त ११९ १' मन्दमध्याधिमात्रं ' इति ग-पाठः । २ ' मन्दामध्य०' इति च पाठः । ३ ' विध्यादिमात्रं ' इति पाठः । 'मुपकते' इति ङ-च-पाठः । ५ कात्थितश्चेतश्च इति च पाठः । For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ १२० तत्त्वार्थोधिगमसूत्रम् [अध्यायः७ रोस्सनस्वरूपवानविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्य सारासारादयो वाच्याः॥ भा०-दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेऽविषादः, अपरिभाविना, दिसतो तो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरुपधत्वम्, अनिदानत्वमिति ॥ ____टी-दातृविशेष इति । दातुर्विशेषः-अतिशयः स्वपरिणामजनितः । प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः तत्रानसूया क्षमावत्त्वम् । प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः । न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति । त्यागेन विषीदति । दत्तेऽन्नादावविषादः। विपादो विषण्णता श्रद्धाहासो ऽतिदत्तं मयेति । गृहेपि चिन्तनीयमेव प्रयोजनमिति, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद वतिनामुपयुक्तमिति । तथा परिभाविता परिभवति तच्छीलश्च परिभावी तद्भावः परिभाविता-अनादरः, न परिभाविता अपरिभाविता आदर इति । देशकालप्राप्तस्य तु प्रतिग्रहीतुर्वर्धमानश्रद्धाप्रापितेनादरेण दानम् । दित्सत इत्यादि । साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्याप्रहृष्टतया योगः । एवं च ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः। कुशलाभिसन्धितेति । भावकुशास्तु ज्ञानावरणादिक शास्ताल्लुनाति-छिनच्यपनयतीति कुशलः । अभिसन्धिरमिप्रायः। कुशलोऽभिसन्धिर्यस्य, कर्मनिर्जरापेक्षी तद्भावः कुशलाभिसन्धिता। दृष्टफलानपेक्षिता। दृष्टं फलं राज्यैश्वर्यसुखादि सर्व वा सांसारिकं स्वर्गाद्यपि दृष्टमेव बहुशोऽनुकूलत्वात् तनापेश्ते-न प्रार्थयते यः स दृष्टफलानपेक्षी, तद्भावो दृष्टफलानपेक्षिता । निरुपधत्वमियुपधा भावदोषो मायाकषायजनितः, यथा कचित् पटलकाद्युपकरणे देयस्यौदनादेरुपरि रचयति वर्णगन्धाढ्यमधस्तु निःसारमित्येवमादि तदभावानिरुपधत्वमिति । निदानमुक्तलक्षणं स्वर्गमानुषजन्मविषयं तत्प्राप्त्यभिसन्ध्यभावात् निर्जरार्थमेव केवलमनिदानत्वमिति ॥ भा०-पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपःसम्पन्नता इति ॥ ३४ ॥ टी०-पाति-रक्षति संसारात् दातारं दुर्गतिभयप्रपातादात्मानं चेति पात्रं तस्य विशेप:-अतिशयः प्रकर्षवृत्तिता। कीदृशी पुनः सेत्याह-सम्यग्दर्शनज्ञानचारित्रसम्पन्नतति। तत्र सम्यक्त्वं नैसर्गिकाभिगमिकक्षायिकभेदात् प्रकोपकर्षवृत्ति । ज्ञानमप्यात्मपरिणामो ज्ञानापरणीयादिक्षयोपशमजन्यः। चारित्रमपि सामायिकादिभेदाद् बहुप्रकारम् । एभिः सम्पन्नतामुकवा सम्यक्त्वादिपरिणामभाक्त्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं विशिष्टतम मोक्षपर्यवसानं दानफलं भवतीति ॥ ३४ ॥ इति श्रीमदहत्प्रवचने तत्त्वार्थाधिगमे उमास्वातिवाचकोपज्ञसूत्रभाष्ये भाष्यानुसारिण्यां च टीकायां सिद्धसेनगणिविरचितायां अनगारागारिधर्मप्ररूपकः सप्तमोऽध्यायः ॥७॥ १ . सारादयो' इति ङ-पाठः। २' मार्गयन्ते' इति अ-पाठः। ३ 'विषाद इति' इति च-पाठः । ४'ऽतिबहुदत' इति च-पाठः । For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः८ टी०-उक्त आस्रव इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टेअध्याय- भा०--उक्त आस्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्धयर्थमिदसम्बन्धः मुच्यते टी०-उक्तः-लक्षणविधानाभ्यामभिहितः "कायवामनःकर्म योगः" "स आस्रवः" (अ० ६, सू० १-२ ) इत्यारभ्य सामान्यतो विशेषतश्च । सम्प्रति प्रस्तावायातसम्बन्ध बन्धं वक्ष्याम इति । एतदुक्तं भवति–जीवाजीवास्रवन्धसंवरसूत्रक्रमेणास्रवो व्याख्यातः । तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते । तदेतदनेन प्रतिपादयति-तत्प्रसिद्धयर्थमिदमुच्यत इति । तस्य बन्धस्य प्रसिद्धिः-शब्दार्थनिरूपणं तत्प्रसिद्धयर्थ-तत्प्रसिद्धये तन्निरूपणार्थमुच्यते । इदमिति वक्ष्यमाणमिथ्यादर्शनादिपञ्चकम् ॥ नेनु बन्धं प्रस्तुत्य त तुकथनमसम्बद्धमिव लक्ष्यते ?, नासम्बद्धम् ; यतो नाकारणा कार्यनिष्पत्तिः । बीजाद्धि प्रसवोऽङ्करस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनः, बन्धश्च कार्य कारणं तस्य मिथ्यादर्शनादिपञ्चकं प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह बन्धस्य सामा- सूत्रम्-मिथ्यादर्शना-विरति-प्रमाद-कषायन्य हेतुपञ्चकम् योगा बन्धहेतवः॥ ८-१॥ टी०-मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । मिध्यादर्शनं-तत्त्वार्थाश्रद्धानलक्षणम् । अविरतिः-अनिवृत्तिः-पापस्थानेभ्यो विरतिपरिणामामावः । प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः । कषायाः क्रोध-मान-माया-लोभाः अनन्तानुबन्धिप्रभृतयः । योगा मनोवाक्कायव्यापारस्वभावाः । बन्धः कर्मवर्गणायोग्यस्कधानामात्मप्रदेशानां चान्योन्यानुगतिलक्षणः क्षीरोदकादेवि सम्पर्को बन्धः । हेतुः निमित्तं कारणम् । बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः । सामान्यहेतवश्चैतेऽवगतव्याः सर्वकर्मबन्धस्य । विशेषहेतवस्तु ज्ञानावरणादेयाख्याताः षष्ठे “ तत्प्रदोषनिहव." १-२ 'उका मानवाः' इति क-ग-पाठः । ३ 'सम्बन्धस्य ' इति ङ-पाठः। ४ ' तत्प्रसिद्धार्थ तत्प्रसिद्धयर्थे। ति पाठः। ५.तदनुबन्ध इति-पाठः। 'सम्बन्धं इति -पाठः । 'कार्याविनाबन्धः' ति हु-पाठः। For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ १२२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ ( सू० ११ ) इत्यादिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन पञ्चापि सामान्यप्रत्ययान् दर्शयति भा०-- मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । टी ० -- मिथ्या - अलीकमयथार्थ दर्शनं दृष्टिः- उपलब्धिरिति मिथ्यादर्शनम् । विरमणं 'विरति :- संयमः, न विरतिरसंयमो हिंसाद्यनिवृत्तिरिति । प्रमाद्यत्यनेनेति प्रमादः विकथादिकर्मग्रन्थाद् कः । कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग् नोक्तः । असंयमप्रत्ययेनैव संगृहीभिन्नता तत्वाच्चतुर्विध एव प्रत्ययस्तत्राधीतः, प्रमादप्रत्ययः मिथ्यादर्शना संयमकम्पयोगायः इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः । कष्यते यत्र शरीरमानसैर्दुःखैः स कषः - संसारः । पुंसि संज्ञायां घः" (पा० अ०३, पा०३, ०११८) तस्य आया - उपादानकारणानि कषायाः - क्रोधादयः । युज्यतेऽनेनेति योगः, नोकर्मणा योगद्रव्येणात्मेत्यर्थः । वीर्यान्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इति । इतिशब्दोऽवधारणार्थः । एत एव पञ्चविधा हेतवो भवन्ति सामान्यतः । तथेत्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति. - 7 भा०- तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् । तद् द्विविधम्-अभिगृहीतमनभिगृहीतं च ॥ टी० - तत्र तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदम् सम्यग्दर्शनाद विपरीतं मिथ्यादर्शनमिति तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं ( अ० १ सू० २ ) तस्मात् सम्यग्दर्शनाद् विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं, अयथार्थश्रद्धानमित्यर्थः । तद् द्विविधमित्यादि । तच्च मिथ्यादर्शनं द्विविधं - द्विप्रकारं अभिगृहीतमनभिगृहीतं 'वेति । चशब्दात् सन्दिग्धवचनम् । अनभिगृहीतमिथ्यादर्शनभेदः सन्दिग्धमिति साक्षात् मोपात्तम् ॥ भा०—तत्राभ्युपेत्या सम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां श्रयाणां त्रिषष्ठीनां कुवादिशतानां, शेषमनभिगृहीतम् ॥ - टी० – तत्रेत्यादि । तयोरभिगृहीवानभिगृहीतमिथ्यात्वयोरभिगृहीतप्रपञ्चोऽयम्-अ*युपेत्येति । मत्यज्ञानादि किमपि परिकलय्या सम्यग्दर्शन परिग्रहो मिथ्यादर्शनपरिग्रहस्तदभ्युपगम एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीत मिध्यात्वम् । तदर्शनेऽनेकमेदमित्याहअज्ञानिकादीनामिति । अज्ञानमेषामभ्युपगमोऽस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीव्यन्ति वा अज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तस्त्वतः कश्चित् सक१ सामान्यतः ' इति ङ-पाठ, 'सामान्येन ' इति तु क-पाठः । १ 'तदनेक' इति पाठः । For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ १२३ सूत्र १] - स्वोपज्ञभाष्य-टीकालङ्कृतम् लस्यवस्तुनो वेदिताऽस्तीति। ते चाज्ञानपक्षावलम्बिनः सप्तपष्टिमेदाः केनचिद् विशेषेण भियमानप्रक्रिया सुगतशिष्यकाणामष्टादशनिकायभेदवनानात्वं प्रतिपद्यन्ते । एतद्दर्शनभ्रमितचेतसश्च शाकल्य-बाष्कल-कुथुमि-सात्यमुनि-राणायन-केठ-मध्यन्दिन-मोद-पिप्पलादबादरायण-स्विष्टकृद-नि-कात्यायन-जमिनि-वसुप्रभृतयः सूरयोऽसन्मार्गमेनं प्रथयन्ति । .. आदिशब्दात् क्रियावादिनोऽक्रियावादिनो वैनयिकाश्च सूचिताः । तत्र क्रिमहानिकादीनां निा यावादिनोऽशीत्युत्तरशतभेदाः मरीचि-कुमार कपिलो-लक-गार्य-च्या - प्रभूति-वादलि-माठर-मौद्गल्यायनप्रभृत्याचार्यप्रतीयमानप्रक्रियाभेदाः। अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुल-काण्ठेविद्धि-कौशिक-हरिश्मश्रु-मायनिक-रोमक-हारित-मुण्डा श्वलायनादिस्वरि(?)प्रथितप्रक्रियाकलापाः । वैनयिकास्तु द्वात्रिंशद्विकल्पाः वसिष्ठ-पराशर-जातूकर्ण-वाल्मीकि-रोमहर्षणि-सत्यदत्त-व्यासे. मपुत्रौ पमन्य-चन्द्रदत्ता-यस्थूलप्रभृतिभिराचार्यैः प्रकाशितविनयसाराः । एवमेतान् मिथ्यास्वभेदानभिधाय संकलयति भाष्यकदेकराशितया त्रयाणामित्यादिना भाष्येण । त्रिश ब्दः संख्यावचनः अन्यूनानधिकवृत्तिः। एवं शतशब्दोऽपि। कियतां शतानां ? त्रयाणामित्याह । क्रियता राशिनाऽधिकानाम् ? त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्टया । कुत्सिता वादिनः कुवादिनः,एकान्तग्रहास्तत्वाद् यत्किश्चित् प्रलपन्तीत्यर्थः । शेषमनभिगृहीतमिति मिथ्यात्वमभिसम्बध्यते । अभिगृहीतमिथ्यादर्शनम् यदन्यत् तत्त्वार्थाश्रद्धानं तदनभिगृहीतमिथ्यादर्शनम्, अनभिनिवेशमिथ्यात्वमित्यर्थः॥ भा०-यथोक्ताया पिरतेर्षिपरीताविरतिः। टी-येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः हिंसानृतस्तेयानमपरिग्रहेभ्यो मनोवाक्कायैः कृतकारितानुमतिभिरुक्ता तस्या विरतेययोक्ताया विपरीता अविरतिः हिंसादिषु प्रवृत्तिः, असंयम इतियावत् ॥ भा०-प्रमादः स्मृत्यनवस्थामं कुशलेष्वनादरः योगाप्रमादस्य त्रैविण्यम् प्रणिधानं 'चेत्येष प्रमादः ॥ टी-मोक्षमार्गशैथिल्यमिन्द्रयदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टे-स्मरणं स्मृतिः पूर्वोपलब्धवस्तुविषया तस्या अनवस्थान-भ्रंशः । विकथादिव्यग्रचित्तत्वादिद विधायेदं कर्तव्यमिति नाध्येति । कुशलेष्वनादर इति स्मरतोऽपि कुशलानाम्-आगमविहितानां क्रियानुष्ठानानां अनादरः-अनुत्साहः, अप्रवृत्तिरित्यर्थः । योगदुष्पणिधान 'कवमध्य.' इति छ-पाठः। २ दितिकायन-' इति छ-पाठः । ३ 'विस्वरि' इति च-पाठः। ४ 'वैष प्रमादा' इति घ-पाठः। For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ १२४ सस्वार्थाधिगमसूत्रम् [अध्यायः ८ चेति । योगाः कायादिन्यापारास्तान् दुष्टेन प्रणिधानेनार्तध्यानभाजा चेतसा समाचरति । पशब्दः समुच्चयार्थः । इत्येष प्रमाद इति निगमनार्थ पुनः प्रमादग्रहणम् । एष त्रिप्रकार: प्रमादो भवति ॥ भा०-कषाया मोहनीये (अ०८, सू. १०) वक्ष्यन्ते ॥ योगस्त्रिविधा पूर्वोक्तः ॥ टी०- कषाया मोहनीये वक्ष्यन्त इति । उक्तनिर्वचनाः कषाया मोहनीये कर्मणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपञ्चतः सप्रमेदाः । योगस्त्रिविधः पूर्वोक्त इति । मनोयोगो नाग्योगः काययोग इति त्रिविधः-त्रिप्रकारः पूर्वमुक्तः षष्ठेऽध्याये । एवमेते पश्च सामान्यप्रत्ययाः सर्वकर्मबन्धहेतव इत्यर्थः । एते च प्रत्ययाश्चतुर्दशसु गुणस्थानेषु न सर्वे सर्वत्र भवन्ति, किं तर्हि १ योग्यत्वात् केचिदेव कचिद् भवन्तीति तद्भाव्यते-मिध्यादृष्टिस्थाने तावत् सर्वेऽपि प्रत्यया मिथ्यादर्शनादयः सम्भवन्ति आहारककायाहारककायअनदेखनाचत- मिश्रवजाः सवेप्रकृतीनामिति । तत उपरितनेषु त्रिषु गुणस्थानेषु सास्वाददशगुणस्थानेषु न-स यग्मिथ्याविरतसम्यग्दृष्ट्याख्येषु मिथ्यादर्शनवर्जिताः शेषप्रत्ययाः । योजना . कारणतां प्रतिपद्यन्ते कर्मबन्धस्य, आहारकद्वयवर्जिताः, सम्यग्मिथ्याहटिस्थानेषु मिश्रकार्मणयोगासम्भवः । अविरतसम्यग्दृष्टौ विस्ताविस्तसम्यग्दृष्टौ चानन्तानुवन्धिनो न सन्ति, पश्चमगुणस्थाने विरताविरतसम्यग्दृष्ट्याख्ये यः संयमासंयमः कषाययोगाः कषापाच त्रयो पन्धहेतवः, अप्रत्याख्यानावरणौदारिकमिश्रकामेणाहारकद्वयवर्जिताः, यत एषामुदयो नास्ति देशविरत इति । तत उपरितनगुणस्थानेषु पञ्चसु प्रमत्ताप्रमत्तसंयतस्थानयोरपूर्वकरणप्रविष्टानिवृत्तिबादरसम्परायसूक्ष्मसम्परायसंयतस्थानेषु च त्रिषु उपशामकक्षपकभेदभिनेषु कषाययोगप्रत्ययद्वयनिमिचो बन्धो भवति । विशेषस्तु प्रमत्तसंयतस्य संज्वलनकषायाश्चत्वारो नोकषायाः नवैवं त्रयोदश भवन्ति । योगास्तु पूर्वोक्तास्त्रयोदशैव । अप्रमत्सस्यापित एव, केवलं वैक्रियमिश्राहारकमिश्रवर्जिता एकादश योगा बन्धहेतवः । अपूर्वकरणप्रविष्टानामप्येत एवं वैक्रियाहारकद्वयवर्जिता योगा नव । कषायास्तु त्रयोदश बन्धहेतवः। अनिवृत्तिकरणप्रविष्टानां नव योगाः कषायाश्चत्वारः संज्व नाः वेदत्रयं च बन्धहेतवः । सूक्ष्मसम्परायस्थानवर्तिनां नव योगाः संज्वलनलोमश्च बन्धहेतवः । तत उपरितनगुणस्थानत्रये उपशान्तक्षीणकषायसयोगिकेवलिसंज्ञके योगप्रत्यय एव बन्धः, नान्यप्रत्यय इति । उपशान्तकषायस्थाने णकषायस्थाने च नव नव योगा बन्धहेतवः । सयोगिकेवलिस्थाने तु सप्त योगा, कारणो बन्ध इति ॥ योगश्च पञ्चदशप्रकारः । तत्र मनोयोगचतुर्धा सत्यासत्यसत्यासत्यासत्यामृषामेदतः। एवं For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ १२५ भजना २] स्वोपज्ञभाष्य-टीकालङ्कृतम् वागपि चतुर्धा । काययोगस्तु सप्तप्रकार:-औदारिककाययोगः, औदायोगानां पञ्चदश रिकमिश्रकाययोगः, वैक्रियकाययोगः, वैक्रियमिश्रकाययोगः, आहारकविधस्यम् काययोगः, आहारकमिश्रकाययोगः, कार्मणकाययोगश्चेति ॥ भा०---एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् बन्धप्रत्ययानां सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनि यम इति ॥१॥ टी.-एषां सामान्यप्रत्ययानां मिथ्यादर्शनादीनां भजनां दर्शयति-नावश्यतया यत्रैकप्रत्ययस्तत्रान्यैरपि भाव्यम् । कदाचिदेकस्मिन् सति सर्वे भवन्ति, कदाचिनेति । एषां पञ्चानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन्, पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति । सति मिथ्यादर्शनप्रत्ययेऽवश्यंभा. विनोऽविरत्यादयश्चत्वारः। सत्यामविरतौ त्रयः प्रमादादयः । सति प्रमादे कषाययोगौ। सन्सु कषायेषु योगा इति । योगप्रत्यय एव सति नेतरे चत्वार इत्यादि विपरीत भाव्यं यावत् न मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति-उत्तरोत्तरभावे तु पूर्वेषामनियम इति । अविरतिप्रमादकषाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः । योगकषायप्रत्यययोः सतो वश्यमितरे त्रय इति सुज्ञानमिति ॥१॥ एवमुपपादित विस्तरेण बन्धहेतौ इदमाशङ्कते-कथममूर्तस्यात्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहात् कर्मग्रहणमिति ? । उच्यते-इयमेव तावदस्थानाऽऽरेका प्रक्रियाऽनभिशस्य, केनामूर्तताऽभ्युपेताऽऽत्मनः १ कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदकवन्मूर्त एव कर्मग्रहणे व्याप्रियते । न च बाह्यहस्तादिकरणव्यापारादेयं घटादिवत् कर्म पौद्रलमपि सत्, किन्तु अध्यवसायविशेषाद् रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गलजालश्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति । एवंप्रकाराशङ्काव्यावृत्यर्थमिदमाहसूत्रम्-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्ते ॥८-२॥ टी-कषायाः-क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः । सह कषायैः सककमवाय षायाः तद्भावः सकयित्वं तस्मात् सकषायत्वात् । हेतौ पञ्चमी । हेत्व र्थश्च कारणान्तरव्यावृत्तिः । पुनः कषायग्रहणं तीव्राद्याशयविशेषप्रतिपादनार्थम् उत्कृष्टस्थितिरसविशेषप्रतिपादनार्थं च । जीव इत्यात्मा का स्थित्युत्पत्तिव्ययपरिणतिलक्षणः । सति च कर्तृत्वे कर्मबन्धफलानुभवौ। क्रियत इति कर्माष्टप्रकारं वस्य योग्यानौदा इत्यादि सुज्ञानमिति' इति च-पाठः । Jain Education Interational For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ १२६ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ । रिंका दिवर्गणास्वष्टासु ज्ञानावरणादि कर्मयोग्याननन्तानन्तप्रदेशस्कन्धांश्चतुःस्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति । पूरणगलनलक्षणा: पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्रं कर्म । कर्म हि पौद्गलमिष्टं रूपादिमदिति । आदत इति कर्मात्मप्रदेशेषु लगयति । करोतेः सर्वधात्वर्थवर्तित्वान्मिथ्यादर्शनाद्या वेशादार्द्रीकृतस्यात्मनस्तदाकारपरिणतिक्रिया कर्मलगनहेतुः । कर्ता चात्मा क्रियायाः, क्रियानिर्वर्त्य च कर्मेत्यमुमेवार्थं भाष्येण स्पष्टयति- सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते । कर्मणो योग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते ( अ० ८, सू० २५ ) ॥ २ ॥ भा० डी० - सकषायत्वादित्यादिना । पदच्छेदोऽपि हि व्याख्याङ्गम् । अन्यथा वट वृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्यात् । ततः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे । मिथ्यादर्शनादयः कर्मबन्धस्याष्टप्रकारस्य सामान्य हेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थं पुनः कषायग्रहणं भेदेनेति १ उच्यते - कपायाणां प्रधानहेतुत्वप्रतिपादनार्थम् । तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः। स्वगुणपरिकल्पनानिमित्तत्वात् अप्रणतिर्मानः पराभि सन्धाननिमित्तैरछद्मप्रयोगो माया । तृष्णापिपासाऽभिष्वङ्गास्त्रादलक्षणो लोभः । तत्रैककोनन्तानुबन्धी, संसारानुबन्धीत्यर्थः । एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति । त एते पापिष्ठा बन्धहेतवः संसार स्थितेर्मूलकारणं ऑजन्मजराभावलक्षणायाः कष्टतमाः प्राणिनामनपैराद्धवैरिणः । यथोक्तमार्षे ( दशवैकालिके अ० ८, उ०२, ०४० ) - "कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमागा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणन्भवस्स ॥ १ ॥ " इन्द्रवज्रा तथा - ""जं अइदुक्खं लोए, जं च सुहं उत्तमं तिहुयणंभि । तं जाण कसायाणं, बुड्डिक्खयहेउयं सव्वं ॥ २ ॥ " एतच्च सकषायत्वं हेतुत्वेनोपात्तम् । हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह । कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति । यथाऽऽह - " जीवस्तु कर्मबन्धन - बद्धो वीरस्य भगवतः कर्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः ॥ १ ॥ संसारानादित्वाद् बन्धस्यानादिता भवति सिद्धा । अत एव कर्म मूर्त नामूर्त बन्धकं हीष्टम् ॥ २ ॥ १ 'कर्मयोग्या ०' इति घ-पाठः । २' अष्टविध ० ' इति घ टी-पाठः । ३ ' निमित्ताशुद्ध प्रयोगो' इति पाठः । * ' आवजवी ( ? ) भावलक्षणयोः' इति ग-पाठः । ५ ' पराधं वैरिणः' इति च पाठः । ६ छाया- क्रोधश्व मानश्च अनिगृहीतौ माया लोभश्व प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ ७ छाया -- यदतिदुःखं लोके यश्च सुखमुत्तमं त्रिभुवने । तदू जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्वम् ॥ For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ १२७ सूत्र २] स्वोपज्ञभाष्य-टीकालङ्कृतम् न च निर्हेतुकमिष्टं देहग्रहणं यदादिमं नृणाम् । सति चाप्यहेतुकत्वे ने स्यात् संसारनिर्मोक्षः ॥३॥ तस्मान्मूत कर्मेष्यतेऽर्हता येच तस्य परिणामः। दृष्टो मूर्तिदृष्टौ च येन तददीरणोपशमौ ॥४॥ यदि रूपि कमे न स्यात् न स्यादात्मसहवत्येबद्धत्वात् । बद्धे वा सति कर्मणि ननु सिद्धा रूपिता तस्य ॥ ५॥" एवं मूर्तत्वे सति न सर्वपुद्गला एव कर्मणो योग्याः, किं तर्हि १ वर्गणासमस्तपुद्गला न बन्धयोग्याः । " क्रमेण, मनोवगणायोग्यपुद्गलराशेरुपरि भूयस्त्वादयोग्यवर्गणामतीत्यायल्प " त्वाच कार्मणशरीरायोग्यवर्गणामुल्लङ्घय कर्मणो योग्यान पुगलानादत इति । आत्मा कर्ता अस्थगितास्रवद्वारः स्कन्धानतिसूक्ष्मानतिबादरांश्चायोग्यत्वात् परिहृत्य अनन्तावय नपि योग्यानेवादत्ते । यथाऽऽह "न स आदातुं स्कन्धानतिसूक्ष्मान् बादरांच शक्नोति । स्वादेन न बध्यन्ते जात्वणवः शर्कराश्च तथा ॥१॥ अणवः स्कन्धाश्चैकोत्तरपरिवृद्धाः सुसूक्ष्मपरिणामाः। केचिदनन्तावथवा अप्यग्राह्या.जिनैरुक्ताः॥२॥ एभ्यस्तु पराः स्कन्धा एकोत्तरवृद्धिवर्धिताः सूक्ष्माः। सम्भयोग्यपुगलवर्णनम् पञ्चरसपश्चवर्णास्तथा द्विगन्धाश्चतुःस्पर्शाः ॥३॥ अगुरुलघवः स्थिताश्च क्षेः कत्वेन वतमानाश्च ।। प्रायोग्याः कमेतया ग्रहीतुमुक्ताः परिणमय्य ॥४॥ अणवोऽसेत्स्यद्भयोऽनन्तगुणाः सिद्धवदनन्ततमभागाः। एकस्कन्धीभूताः स्कन्धानां चापि मानं तत् ॥ ५॥ औदारिकादिशेषद्रव्यादाने स एव विधिरुक्तः। तत्राद्यस्य स्कन्धाः सर्वेऽल्पिष्ठप्रदेशास्तु ॥६॥ तेभ्योऽसइख्येयगुणा वैक्रिययोग्याः प्रदेशतः स्कन्धाः । मौदारिकादिस्कधानां प्रदेशाः आहारकस्य तेभ्योऽपि तथा स्कन्धा असख्येयगुणाः ॥७॥ तेभ्यः प्रभृति तथैवानन्ताभ्यस्ताः प्रदेशतः स्कन्धाः। क्रमशस्तैजसभाषाद्रव्यमनःकर्मणां योग्याः ॥८॥" एतदेवानेन भाष्येण प्रतिपादयति-अष्टविधेत्यादिना । अष्टप्रकारे पुनलग्रहणे औदारिक-वैक्रियाऽऽहारक-तैजस-भाषा-प्राणापान-मन: कर्ममेदेन पुद्गलाः परमाणवो द्विप्रदेशादगध स्कन्धा यावदचित्तमहास्कन्धः । एतेषु ये योग्याः पुद्गलास्तेषां अष्टविषे ग्रहणे सति विशि 'न यत् संस रति' इति ङ-पाठः । २ हतो यश्च' इति ग-पाठः। ३ 'तस्मादात्म० इति नपाठः। For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ १२८ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ नष्टि-कर्मशरीरग्रहणयोग्यानित्यर्थः । कमैंवाष्टविधं शरीरमुक्तम् , अतः स्वार्थे' कर्मण(?)मिति प्रत्ययः। कर्मैव कार्मणं, कर्मसङ्घात इत्यर्थः। ते पुनरादीयमानाः पुद्गलाः कोऽऽत्मना किम्? नाम्ना कर्म गांप्रत्यया भवन्ति-कारणता प्रतिपद्यन्ते, क वा व्यवस्थिताः कुतोवा योगविशेषादित्याधुपक्रम्येदमुक्तम् । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते । खल्खयमर्थः-सवेकमेणाम् अन्वर्थसंज्ञा नाम संज्ञेत्यनथोन्तरम् । तद्यथा-ज्ञानावरणमित्यादि । ज्ञानमावियते येन कर्मणा तत् ज्ञानावरणम्, एवं सर्वत्र नामान्वर्थ वाच्यम् । तस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानीति । नहि तान् पुद्गलान् विहाय ज्ञानावरणादिसंज्ञाः सिद्धयन्तीति । तथा सर्वासु दिक्षु व्यवस्थिताः, कायबामनोयोगानां च तीव्रादिपरिणामविशेषादित्यादि सर्वमिहैवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यते उपरिष्टादिति ॥ २॥ एवं बन्धहेतून निरूप्याधुना बन्धस्वरूपनिरूपणायाह सूत्रम्-स बन्धः ॥ ८-३॥ टी--बन्धनं गन्धः-परस्पराश्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः । बध्यते वा येनात्मा-अस्वातन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः । स चानन्तरसूत्रे आत्मप्रदेशेषु रागाद्यभ्यञ्जनेषु कर्मयोग्यपुर्लानामाश्लेषमात्रत्वेनोक्तः, तस्य स इत्यनेन परामर्शः क्रियते । हेतुश्च निवर्तयन् कार्य हेतुव्यपदेशं प्रतिलभते । तस्य च मिथ्यादर्शनादे. रिदमेव निर्वयं कार्य, पौरुषेयसामर्थ्यप्रतिबन्धकारि जीवप्रदेशेषु ज्ञानावरणादिपुद्गलजालावस्थानम् । सामर्थ्य च पुंसो ज्ञानदर्शनवीर्यसुखमत्त्वं तस्य प्रतिघातकमात्मप्रदेशप्रतिष्ठे पुद्गलजालमिति । प्रतिष्ठा च तस्य विशिष्टगुणयोगाद् , यथा दीप ऊष्मगुणयोगाद् वयो स्नेहमादायाचीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवयोऽऽत्मदीपः स्कन्धानादाय कमतया परिणमनमापादयति । कायादिकरणयोगाचात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते । तथा मृण्मयघटस्याग्निसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथाऽऽत्मनः कायादिकरणयोगवीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यान्तरस्येति । यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च, तथा रागादिस्नेहाभ्यञ्जनस्यास्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति, आत्मदेहयोरैक्यादिना भोगयेतः कर्मबन्धः । यथाऽऽह "अपि चायं प्रायोगिकबन्धः स च भवति कर्तृसोमात । इष्टश्च स प्रयोगोऽनामोगिकवीर्यतस्तस्य ॥१॥" इति ॥ "ननु वीर्येणानाभोगिकेन परिपाच्य रसमुपाहरति । परिणमयति धातुतया, स च मनाभोगवीर्येण ॥ २ ॥ १ 'कर्मणि ईप्रत्ययः' इति प्रतिभाति । हेतुतमिर्त्य ' इति उ-पाठः । ३ 'सामभ्यतया' इति -पाठः। For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् १२९ घटकादिभाविनो मृद्वयना आमेडिता यथा पिण्डे । सद्वज्ज्ञानावरणादिकर्मदेशा अपि ज्ञयाः ॥३॥ आमेडितमविभक्तं यद्यप्यष्टविधमिष्यते कर्म। एवमपि जिनदृष्टं नानात्वं प्रकृतितस्तस्य ॥४॥ पुद्गलतासाम्येऽपि द्रव्याणां नेनु विपाकतो भेदः। दृष्टः पित्तकफानिलपरिणामवतां स्वगुणभेदात् ॥ ५॥ यस्य गुणो यादृक् स्यात् ननु तादृशमेव भवति तस्य फलम् । नहि जाम्बवानि निम्बः फलति न जम्बुश्च निम्बानि ॥६॥ कर्मतरवोऽपि तद्वन्नानास्वस्वप्रयोगपरिषिक्ताः । नानास्वस्वगुणसमान् फलन्ति तांस्तान् गुणविशेषान् ॥७॥" एनमेव चार्थ भाष्यकारोऽपि स्पष्टयति भाष्येणभा०–स एष कर्मशरीरपुद्गलग्रहणकृतो पन्धो भवति ॥ ३ ॥ टी०-स एष इत्यादिना। स ऐष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्डः स इत्यनेन परामृश्यते । एष इति नान्यः । तस्यैवानुसन्धानमाचष्टे । आत्मप्रदेशानां पुद्गलानां चान्योन्यानुगतिलक्षण एव पन्धो भवति । कर्मशरीरमिति कार्मणशरीरमात्मैक्याद योगकषायपरिणतिपुक्तमपि च कर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे एकत्वपरिणामापादने समर्थम् । एवं व कर्मशरीरेण पुद्गलानां यद् ग्रहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं भवति ॥ ३ ॥ मा०-स पुनश्चतुर्विधः बी०-स पुनश्चतुर्विध इत्यनेनोत्तरसूत्रसम्बन्धं कथयति लक्षणविधानाभ्याम् । जीवादिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः । सम्प्रति लक्षितस्प विधान पाच्यम् । अतः स एष उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादपति, अवस्थाभेदाद् वा, यथा पृथग्जनः क्रौर्यनीचैस्त्वलोमादिभेदानानात्वं प्रतिपद्यते तद्वद पन्योऽपीति । पुनःशब्दो बन्धं विशिनाष्टि-द्रव्यभावभेदे सति भावपन्ध इति । चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः । तत्प्रकारनिरूपणायेदमाहबन्धस्य विधान- सूत्रम्-प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥८-४॥ टी०-प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमाल कारणं प्रत्यादीनां मृदिव घटादिभेदांनामेकरूपपुद्गलग्रहणम् , अतः प्रक्रियन्तेऽस्य सकाशासाधनता दिति अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः । स्वभाववचनो पा तु' इति ग-पाठः। ३ 'एकलोली' इति ब-पाठः। ३ 'विभतमादिनिर्दिधाति ग-पा 'मेदा भागैक ' इति ग-पाठः । चतुष्टयम् For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ १३० तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ प्रकृतिशब्दः । दुष्टप्रकृतिर्दुष्टस्वभाव इति प्रसिद्धेः । ज्ञानावरणं ज्ञानाच्छादनस्वभावं दवः, एवं दर्शनावरणादावपि योज्यम् । स्वभाववचनत्वे च भावसाचनः प्रकृतिशब्दः । स्थित्यनुभावशब्दावपि भावसाधनो । इयत्तयाऽवधारणात् प्रदेशशब्द: कर्मसाधना । क्रमनियमस्तु शेषविकल्पप्रकृतेरादौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः । सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः। ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः । स बन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात्तच्छब्देन परामर्शः। विधिविधान-मेद: तस्य विधमस्तद्विधयो-बन्धभेदा इति, एतद् भाष्यकताऽऽविष्कृतमेव प्रत्येकं सम्बनता पन्धशब्दम् ॥ ___ भा०-प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्ध इति ॥४॥ टी-तत्र यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिवन्धः कर्मात्मनोरक्यलक्षणः, सतयात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादि. लक्षणा। तथाचोक्तमेव कर्मपुद्गलराशेः को परिगृहीतस्यात्मप्रदेशेष्ववस्थान यतिः । अध्यवसायनिर्वर्तितः कालविभागः, कालान्तरावस्थाने सति विपाकवत्ताऽनुभावबन्धः। समासादिवपरिपाकावस्थस्य बदरादेरिवोगभोग्यत्वात् सर्वदेशोत्येकद्वित्रिचतु:स्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः । ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं, प्रदेशबन्धः, अत्र च पारमर्षवचनविदः कणिकागुडघृतकंदुकमाण्डादिद्रव्यविकार मोदकमाहरन्ति प्रकृत्यादिबन्धनिरूपणाय । तथाहि-चित्रः पुद्गलपरिणामः कत्रध्यवसायानुगृहीत इति भाव्यते । मोदको हि वातपित्तहरो बुद्धिवर्धनः संमोहकारी मारक इत्यनेकेनाकारेण परिणमते, जीवसंयोगात् , तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कवित ज्ञानमाषणोति, अपरो हि दर्शनं स्थगयति, अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यम् । भूयस्तस्यैवाविपक्षगन्धरसादेरविनाशित्वेनावस्थान स्थितिः । आह च "इति कर्मणः प्रकृतयो मृलाश्च तथोत्तराश्च निर्दिष्टाः। तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः॥१॥" तस्यैव च स्निग्धमधुराधेकद्विगुणादिभावोऽनुभावः । यथाऽऽह-- " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। स रसोऽनुभावसंज्ञस्तीम्रो मन्दोऽथ मध्यो वा ॥१॥" पुनस्तस्यैव कणिकादिद्रव्यपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिमाणनिरूपणं प्रदेशबन्ध इति । यथोक्तम् 'कलापपरि-' इति ग-पाठः। २ 'पात्याधात्म' इति ग-पाठः। ३ 'कटुभाड' इति -पा। 'मोहकरो' इति ग-पाठः। - - For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य–टीकालङ्कृतम् " तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योग विशेषाद् ग्रहणं प्रदेशाख्यम् ॥ १ ॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्बद्धाः । कर्माणि तो मुञ्चत सातत्ययोगेन || २ || " इतिकरण मौलबन्धभेदेवत्ताप्रतिपादनार्थः । ज्ञानावरणादिकर्मणामष्टानामपि प्रकमादिमेद एव मौल इति ॥ ४ ॥ सूत्र ५] उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः । तत्र तेषु चतुर्षु प्रकृत्यादि लक्षणेषु बन्धभेदेषु प्रथमो मेद उच्यते । स च बन्धो द्वेधा - मूलप्रकृतिबन्धः उत्तरप्रकृतिबन्धथ । मूलप्रकृतिबन्धप्रतिपश्चर्यमिदं बेचनम् - सूखप्रकृतयोऽष्टी सूत्रम् — आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥ ८-५ ॥ १३१ टी० - आदौ भव आयोऽनन्तराठीतसूत्र विन्याससंश्रयणात् ' (१) ज्ञानदर्शनयोः आवरणशब्दः प्रत्येकमभिसम्बध्यते ज्ञानावरणं दर्शनावरणमिति । ज्ञानमेव बोधलक्षणो विशेविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणस्तयोरावरणं- आच्छादनमावृतिः आवरणं आत्रियते वाऽनेनेति भावकरणयोर्व्युत्पत्तिः, सुखदुःखज्ञानावरणादीनां रूपेणानुभवितव्यत्वाद् वेदनीयमिति कर्मसाधनम् । मोहयति मोहन वा व्युत्पस्यर्थः मुत्यनेनेति वा मोहनीयम् । एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव Varsi स्वार्थे कन् । नामयतीति नाम प्रह्वयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा प्रीक्रियतेऽनेनेति नाम । कर्तरि करणे वा व्युत्पाद्यते । गोत्रं उच्चनीच भेदलक्षणं तद् गच्छति - प्राप्नोत्यात्मेति गोत्रम् । अन्तर्धीयतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः । अन्त र्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः । " कृत्यल्युटो बहुलं " ( पा० अ० ३, पा० ३, सू० ११३ ) इति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः । तुल्यार्थत्वात् सन्कीर्यन्ते संज्ञा इति चेन प्रसिद्धतरत्वात् गोसर्पादिसंज्ञावत् । एवमेते ज्ञानावरणादयः कृतद्वन्द्वाः प्रथमया निर्दिष्टाः । क्रमस्त्वेषामर्थापेक्षः । तथाच ज्ञानदर्शनावरकानावरणादीनां णोदयजनिता सर्वसत्वानां भवयथा । तां च वेदयमानोऽपि मोहामिभूक्रमे हेतुः तत्वान विरज्यते । अविरक्तश्व देवमानुषतिर्यङ्नरकापुषि वर्तते । न वानामकं जन्म | जन्मवन्तश्चानुस्यूताः सदैव गोत्रेण । तत्र संसारिणां सुखलेशानुभवः सान्तरागः सर्व इत्यन्तरायनिर्देशः ॥ १' बदति' इति जन्पाठः । २ अत्र काचित् त्रुटिरिति प्रश्नः । ३ ' व्यवस्था' इति ङ-पाठः । For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ८ भा०- आय इति सूत्रक्रमप्रामाण्यात् प्रकृतिबन्धमाह । सोऽष्टषिषः, तथा - ज्ञानावरणं, दर्शनावरणं, वेदनीयं मोहनीयं, आयुष्कं नाम, गोत्रम्, अन्तरायमिति ॥ ५ ॥ किश्वान्यत् १३२ टी०- - आय इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यम् । आद्यः - प्रथमो मूलप्रकृतिबन्धः । इति ध्णः शब्दपदार्थ: । सूचनात् सूत्रं अनेकभेदं कर्म यतः सूचयति । क्रमः - सन्निवेशस्तस्य प्रामा'यमन्यप्रमागत्यादिवत् समासः तस्मात् सूत्रक्रपप्रामाण्यादिति हेत्वर्था पञ्चमी । प्रकृतिबन्धमिति सामान्याभिधानेऽपि मूलप्रकृतिवन्धमेत्र काका प्रतिपादयति सूत्रकारः । यतः पञ्चनवेत्यादिनोत्तरप्रकृतिबन्धं वक्ष्यति ( अ० ८, सू० ६ ) । स मूलप्रकृ तिबन्धोऽष्टविधः - अष्टप्रकारः । तद्यथा - ज्ञानावरणमित्यादि गतार्थ भाष्यम् । इतिकरणः शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति ॥ ५ ॥ किञ्चान्यदित्यादिना सूत्रस्य सम्बन्धमाचष्टे । न केवलं प्रकृतिन्धो मूल विशेषणः, उत्तरोपपद विशेषणचेत्येतदनन्तरं प्रतिपादयन्नाह - मूलप्रकृतीनामया- सूत्रम् — पञ्चनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥ ८-६ ॥ तरभेदसख्या टी० - पञ्चादीनां कृतद्वन्द्वानां भवनविभक्तया निर्देशः । एते भेदाः पञ्चादिभेदा यथाक्रममित्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्र क्रमप्रामाण्यात् ज्ञानावरणाद्य मिसम्बन्धः । तांश्च पश्चादिकान् भेदान् स्वभावतः प्रति मूलप्रकृर्ति वक्ष्यति । ता एव मूलप्रकृतीरभिसम्बन्धयन्नाह - भा० - स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशति भेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् । इत उत्तरं यद् वक्ष्यामः ॥ ६ ॥ तथथा टी०० - स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि । आत्मपुद्गलद्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्शः । एष इत्यन्वयिनः परिणाम विशेषप्रतिपत्तिः । प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूय एकैको ज्ञानावरणादिपश्चादिभेदो मन्तव्य इति क्रमेण भाष्यकृद् दर्शयति – पञ्चभेद इत्यादिना भाष्येण । समुदायार्थस्त्वस्य भाष्यस्य प्रागास्रवोद्देशे मूलप्रकृति प्रदर्शित एव, केवलं इह तूत्तरभेदानां सङ्ख्याप्रदर्शन मिति । तत्र पञ्चभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पञ्च भेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद् यथाक्रमं प्रत्येतव्यम् । इतः प्रभृत्युत्तरकाउं यदभिधास्याम इति ॥ ६ ॥ १' बन्धे' इति ग-पाठः । २ ' तदनेन ' इति ङ-पाठः । For Personal & Private Use Only ३ ' प्रदर्शनमेव ' इति पाठः । Page #162 -------------------------------------------------------------------------- ________________ सूत्र ७] स्वोपशभाष्य-टीकालङ्कृतम् तयथेत्यनेन सूत्रं सम्बध्नाति । पश्चादिभेदा झानावरणादयोऽभिहिताः, तद् यथा ते व्यवस्थिताः येन क्रमेण स्वरूपेण पञ्चादिभेदास्तथा अष्टापि मूलप्रकृतिषुत्तरप्रकृतयः प्रतिपदं प्रदर्श्यन्त इत्याह। सूत्रम्-मैत्यादीनाम् ॥ ८-७॥ टी.-मत्यादीनामित्यादि । मतिरादिर्येषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति तगुणसंविज्ञानो बहुव्रीहिः तानि मत्यादीनि तेषां मत्यादीनामावरणम् । क्रिययाऽऽस्तुमिष्टतमत्वात् कर्मणि षष्ठी । मत्यादीनामावरणं मत्यादीन्याब्रियन्तेऽनेनेति । अपरे तु प्रतिपर्द पश्चापि पठन्ति-मतिश्रतावधिमनःपयोयकेवलानामिति । एवं चापार्थकः पाठो लक्ष्यते । यतोऽ नन्तरसूत्रे पञ्चादिभेदा ज्ञानावरणादय इत्यवतमेव । निझोताश्च स्वरूसूत्रपाठविचारः पतः प्रथमाध्याये व्याख्यातत्वात् । अत आदिशब्द एव च युक्तः। भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयतेभा०-मस्यादीनां ज्ञानानामावरणं पञ्चविषम्-मतिज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरण, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणम् । मत्यादीनां जानानामावरणानि पश्च भवन्ति ॥७॥ टी.-ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानार्मावरणानि पञ्च विकल्पाश्चैकश इत्येतावदेव भाष्यमस्य सूत्रस्य । तत्र ज्ञानावरणं पञ्चविधं भवतीत्यनेनानन्तरसूत्रोक्तसंख्यावधारणं मन्तव्यम् । सूत्रार्थमाचष्टे-मत्यादीनां ज्ञानानामावरपानि पञ्चेति, मत्यादय एव ज्ञानानीति समानाधिकरणमाविष्करोति । तेषां मत्यादीनां ज्ञानानां पश्चाना पश्चैवावरणानि भवन्ति । बाहुल्यमङ्गीकृत्य समानाधिकरणप्रतिपत्तिः । मनःपर्यायज्ञाने तु सप्तम्यन्तेन समासः पूर्वपदेन, मनःपर्यायेषु ज्ञानं मनःपयोयज्ञानम् । अथवा करणरूपाः पर्यायाः कार्यत्वेनोपचरिता इति समानाधिकरण एव । तानि तु प्रथितान्येव । तद् यथा-मतिज्ञानावरण श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरण केवलज्ञानावरणमिति । तत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा भतिज्ञानादिव्यपदेश्याः पर्याया बहुविकल्पाः। तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पाः सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः । विकल्पा-भेदाः । आदिशब्दोपादानात् मत्यज्ञानादित्रितयं समुच्चीयते, बोधसामान्यात् मतिश्रुतावध्यविशेषाच्च । १'मतिश्रुतावधिमनःपर्यायकेवलानाम् ' इति घ-टो-पाठः। २ 'कारोऽयमेव' इति इ-पाठः । ३ घ-पुस्तके। भाष्य त यथा-'ज्ञानावरणं पश्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पश्च । विकल्पांपैकश इति ॥'इर्द टीकाकाराणां संमतम् । ४ 'मावणोति ' इति -पाठः । ५ 'धारणम् । मत्यादीना' इति स-पाठः । For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ १३४ [ अभ्यायः ८ तद् यथा - इन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्या दिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यापज्ञानस्य, सयोगायोगास्थादिविकल्पाः केवलज्ञानस्येति । तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्व विषयग्राहि । अनिन्द्रियं तु मनोवृत्तिः ओषज्ञानं च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत् षट् त्रिंशदुत्तरत्रिशतभेदमाव्रियते येन तन्मतिज्ञानावरण देशघातिलोचनपटलवच्चन्द्रप्रकाशाऽयादिवद् वा । तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकमेदमाचक्षते प्रवचनाभिज्ञाः । यथाऽऽह (बृहत्कल्पे १ ) - "" जावंति अक्खराई, अक्खर संजोग जेत्तिया लोए । एवइया पगडीओ, सुयनाणे होंति नायव्वा १. ॥” तस्यावृतिः श्रुतज्ञानावरणम् । एतदपि देशघातीति । अन्तर्गतबहुतर पुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्यमर्यादयैव वाऽऽत्मनः क्षयोपरामजः प्रकाशाविर्भावोऽवधिः- इन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाश प्रदेशमा नप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् । इदमपि देशषास्येव । तथाऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृचिपल्योपमासङ्ख्येय भागावच्छिन्नपश्चात्पुरः कृतपुद्गलसामान्य विशेषग्राही मनःपर्यायज्ञानसंज्ञस्वस्यावरण देशघाति मनःपर्यायज्ञानावरणम् । समस्तावरणक्षयाविर्भूतमात्मप्रकाशतश्वमशेषद्रव्यपर्यायग्राहि केवलज्ञानं तदाच्छादनकृत् केवलज्ञानावरणम् । एतच्च सर्वघातीति ॥ ७ ॥ सम्प्रति दर्शनावरणोत्तर प्रकृतिप्रतिपिपादयिषया सूत्रमाहदर्शनावरणस्य नवो- सूत्रम् — चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानि च ॥ ८-८ ॥ तरप्रकृतयः तत्वार्थाधिगमसूत्रम् टी० - चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः प्रस्तुतावरणसम्बन्धाद् वेदमीयसम्बन्धनिराकरणप्रतिपत्तेथ, दर्शनावरणमूलप्रकृतिसामर्थ्यात् चक्षुरादयो दर्शनशब्देन सहागिसम्बध्यात्, निद्रादयः पञ्च स्त्यानद्धर्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तर निर्दिष्टाः समानाधिकरणंप्रतिपत्यर्थम् । पश्यत्यनेनात्मेति चक्षुः । सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणद्वारं, द्वारकं च सामान्यमात्रोपलम्भनमात्म परिणतिरूपं चक्षुर्दर्शनं तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनो विषयमविशिष्टम चक्षुर्दर्शनं तल्लब्धिधात्यचक्षुर्दर्शनावरणम् । अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनम् । केवलदर्शनमपि सामान्योपयोगलक्षणम् । एतदुत्तरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च । स्वापो निद्रा सुखप्रांतबोधलक्षणा । वेद १. छाया----- 1 यावन्ति अक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः ॥ २' तदात्मनो' इति ङ-पाठः । ३ 'छित्रपचागा ( ? ) न्पुरः कृत' इति च पाठः । ४०स्थानगृद्धिनंद' इति घन्पाठः । For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ परामर्श सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् नीयम्-अनुभवनीयं निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणः । घेदनीय व दर्शनावरणोत्तरप्रकृतिप्रस्तावे वेदनीयं प्रस्तावापास्तमुपन्यस्तमित्यसमीची * नमिवाभाति । यतो वेदनीयं तृतीयमूलप्रकृतिरिति । अत्रोच्यते-दर्शनावरगभेदा दर्शनावरणजातीया एव, निद्रादयो यतः समधिगताया एव दर्शनलब्धेः उपयोगेधाते प्रवर्तन्ते, चक्षुर्दर्शनावरणादिचतुष्टयं तूगमोच्छेदित्वान्मूलघातं निहन्ति दर्शनलब्धिमित्यतो दर्शनावरणभेदाः । वेदनीयशब्दस्तु सामान्येन सकलकमोनुभववचनोऽपि प्रवचने प्रसिद्धतरस्वात् तृतीयमूलप्रकृतौ व्यवहियते । अनुभवनीयत्वं तु सर्वकर्मणां परमार्थतः समस्तीत्यतो न दोषः। दुःखप्रतिबोधलक्षणा निद्रानिद्रा । ऊर्ध्वशयनलक्षणाप्रचला। चङ्क्रमणमाचरतः शयनं प्रथलाप्रचला । स्त्यायतीति स्त्यानम्। स्तिमितचित्तोनातीव विकस्वरचेतन आत्मा । बाहुल _ कात् कर्तरि ल्युट् । स्त्यानस्य स्वापविशेषे सति गृद्धिः-आकाङ्क्षाभिलाषो पाठान्तर __मांसमोदकदन्तायुदाहरणप्रसिद्धा स्त्यानगृद्धिः । स्त्यानर्द्धिरिति वा पाठः । तदुदयाद्धि महाबलोऽर्धचक्रवर्तितुल्यबलः प्रकर्षप्राप्तौ भवति । अन्यथा जघन्यमध्यमावस्थामाजोऽपि संहननापेक्षया सम्भवत्येवेति । स्त्यानस्य ऋद्धिः स्त्यानविरिति । चशब्दः समुच्चयवृत्तिः । दर्शनावरणभेदाः चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयति वाक्यार्थः । उक्तार्थानुगामि च भाष्यम् __भा०-चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरण, केवलपर्शनावरण, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीय, प्रचलाप्रचलावेदनीय, स्स्यानद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८॥ ___टी-चक्षुर्दर्शनावरणमित्यादि सर्व गतार्थम् । दर्शनावरणं नवभेदं भवतीस्वन्ते निगमितं नवभेदमेवेति ॥८॥ सम्प्रति यत्तदागमे प्रसिद्धं वेदनीयत्वेन तृतीयं मूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह मे सूत्रम्-सदसवेद्ये ॥८-९॥ उत्तरप्रकृती टरी०-उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सवेद्यमसदेचं चेति वेदनीयमूलप्रकृतेरुत्तरप्रकृतिद्वयं भवति । तत्राभिमतमिष्टमात्मनः कर्तुरुपभोक्तुर्मनुजदेवादिबन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागन्तुकानेकमनोजद्रव्यक्षेत्रकाल वभवसम्बन्धसमासादितपरिपाकावस्थमतिबहुमेदं यदुदयाद्भवति तदाचक्षते । सवेदनीयमभिहितं, विपरीसमसझेदनीयम् । एवंविधार्थीनुवादि च भाष्यम् । 'योगतः' इति-पाठः। २'त्यानस्तिमित' इतिच-पाठः। ३'स्त्यानगृद्धि'इति घ-पाठा। ४ 'भावसम्बन्ध' इति ग-पाठः । बेदनीयस्य For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ प्रकृतयः १३६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा-सवेद्यमसद्धेद्यं च वेदनीयं विभेदं भवति ॥९॥ री०–सद्यमित्यादि । सच्छब्दः प्राशस्त्ये । प्रशंसा चात्मनोऽभिमतविषयत्वम् । असच्छन्दस्तद्वैपरीत्ये । चशब्द उत्तरप्रकृतिसमुचितौ । वेदनीयं-वेद्यं विभेदं -द्विप्रकार भवति ॥९॥ सम्प्रति चतुर्थमूलप्रकृतेर्मोहनीयनाम्नः उत्तरप्रकृतिप्रपश्चाख्यानायाह सूत्रम्-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः। सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायौ अन या न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाधाविंशतिरुत्तर- श्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजु - गुप्साः स्त्रीपुंनपुंसकवेदाः॥ ८-१०॥ टी-मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः सङ्ग्रहभेदरूपाः सूत्रेणैव निर्दिष्टाः । मोहनीयशब्दः प्रत्येकमभिसम्बध्यते । दर्शनमोहनीयं चारित्रमोहनीयमिति सङ्ग्रहेण निर्देशः । पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया सङ्ग्रहेणैव निर्दिष्टम् । तद्भेदाख्यानं तु कषायवेदनीयं नोकषायवेदनीयमिति । दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां वास्तथा निर्दिष्टाः। तासां भेदप्रतिपादनार्थमाह-त्रिद्विषोडशनवभेदा इति । निर्देशकमेगैव ज्यादयो भेदा यासा तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्रमोहनीयोसरप्रकृतिद्धिभेदा, तो चामू विकल्पो, कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति । एवमिति एवमेता उत्तरप्रकृतयोऽष्टाविंशतिः सूचिताः मोहनीयप्रकृतेः। ____ अधुना तु व्यादिभेदान् सूत्रेणैव प्रतिपादयति--सम्यक्त्वमिथ्यात्वतदुभयामीति । सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः । तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यातचश्रद्धानलक्षणम् । एवमेतत् त्रिविर्ष दर्शनमोहनीयं सूचितम् । कषायनोकषायाबित्यनेन चारित्रमोहनीयभेदद्वयाख्यानम् । अनन्तानुबन्धिप्रभृति कषायास्त एव मोहनीयम् । अकषाया हास्याभकषायस्यार्थः दयः, केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यक्षायाः । सदैव हि कषायसंपृक्ताश्चारित्रमोहनीयव्यपदेश्याः, अल्पकषायकायत्वादकषाया इति। तब कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलम्-अनन्तानुबन्धिकोषमानमायालोमा इति । अनन्तः संसारस्तमनुबन्धन्ति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः । अविद्यमान प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः क्रोधादयः । अपरे पुनरावरणशन्दमत्रापि सम्बघ्नन्ति-अप्रत्याख्यानावरणा इति । अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति १'प्राशंस्ये' इति =-पाठः । २ 'रूपास्तत्रैव ' इति -पाठः । ३ ' सम्पर्काः' इति । For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ सूत्र ) स्वोपज्ञभाष्य-टीकालङ्कृतम् १३७ किमुत सर्वप्रत्याख्यानमिति । मूलगुणप्रत्याख्यानविधातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः। स्वल्पनिमित्तप्राप्तावपि युगपत् संचलनाः संज्वलनाः क्रोधादयः । एषां चानन्ता नुबन्ध्यादीनामेकैकस्य क्रोध-मान-माया-लोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संचलनाश्चेति । एमेते षोडशभेदाः कषायवेदनीयाः सूचिताः । हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम् । तदष्टाविंशतिविधमावेदितं मोहनीयं कर्म सूत्रेणेति । अधुना भाष्यमनुस्रियते भा०-त्रि द्वि-षोडश-नवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधःदर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा--मिथ्यात्ववेदनीयं, सम्यक्त्ववेदनीयं, सम्यग्मिथ्यात्ववेदनीयमिति ॥ टी-त्रि-द्वि-षोडश-नवभेदा यथाक्रममित्यादि । उक्तार्थ चैतभाष्यम् । दर्शनचारित्र-कषाय-नोकषायमोहनीयप्रकृतयः क्रमेण त्रि-द्वि-पोडश-नवभेदाः। अनेनाष्टाविंशतिवि धता प्रतिपादिता मोहनीयस्य । मोहनीयबन्ध इत्यादि। यथोक्त कारकप्रसिद्धो मोहशब्दो द्विप्र. कारो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्वार्थश्रद्धानं दर्शनं तन्मोहना दर्शनमोहनीयम् । प्राणातिपातादिविरतिश्चारित्रं तन्मोहनाचारित्रमोहनीयम् । तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि । तत्र-तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रक म तिबन्धस्तावदुच्यते। तद्यथेत्यादिना तमेव दर्शयति-मिथ्यात्ववेदनीयदर्शनमोहनीयस्य वैविध्येऽपि बन्धैकता यस्य मित्यादि । तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव : तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यम्मिथ्यात्वमोहनीयस्येति । यतो मिथ्यात्वपुद्गला एवैकरूपा बद्धाः सन्तः कोऽऽत्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणामं त्याजिताः सम्यगमिथ्यात्वपरिणति वा प्रापिताः सम्यक्त्व(सम्यग्मिथ्यात्व)व्यपदेशभाजो गवन्तीति ॥ न त्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वन्यपदेशभाज इति । यथाऽऽह " मिथ्यात्वस्य ह्युदये, जीवो विपरीतदर्शनो भवति । न च तस्मै सद्धर्मः, स्वदते पित्तोदये धृतवत् ॥ १॥" यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः । ततश्च "सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥ १ ॥ १'किं पुनः सर्व' इति ङ-पाठः । २ 'एवमेतत् षोडशभेदं कषायवेदनाय सचित' इति च-पाठः । ३ 'स्वादु च' इति उपाठः, 'स्वदवे' इति च-पाटः। ४ 'छगणप्रमुखैः ' इति ग-पाठः। For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ १३८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ यत् सर्वथा तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम्। मिश्रं तु दरविशुद्धं भवत्यशुद्धं मिथ्यात्वम् ॥२॥" मदनकोद्रवास्तु व्यवस्था अविशुद्ध-विशुद्ध-दरविशुद्धा इति दृष्टान्तीकृताः। मिथ्यात्वसम्यत्तवसम्यग्मिथ्यात्वेषु मिथ्यात्वोदयाच तत्त्वाश्रद्धा भवति, विपरीतदृष्टित्वात् । यथाऽऽह " ननु कोद्रवान् मदनकान भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणश्चापि मिश्रोद वा ॥१॥" स हि मिथ्यात्ववान् गुणगुणिनोरैक्यात् तदुदयानुगुणपरिणामवर्तित्वात् पीतमयह त्पूरभक्षणपित्तोदयाद् व्याकुलीकृतकरणपुरुषवद् यथाऽवस्थितार्थरुचिप्रतिघातकारिणा मिथ्यात्वेनान्यथैव प्रतिपद्यते । यथाऽऽह " 'मिच्छत्ततिमिरपच्छाइयदिही रागदोससंजुत्ता । धम्म जिणपनत्तं भव्वावि नरा न रोयंति ॥१॥ "मिच्छादिही जीवो उवइठं पवयणं न सद्दहइ । सद्दहइ असब्भावं उवइहं वा अणुवइडें ॥२॥" " पर्येमक्खरं च इकंपि जो न रोएइ सुत्तनिदिई । सेसं रोयंतोवि हु मिच्छादिही मुणेयव्यो ॥१॥" -सङ्ग्रहण्यां (गा० १६७) मुत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति । यथोक्तम् - " अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥ १॥ श्रतकेवली च तस्मादधिगतदशपूर्वकश्च तौ स्थविरौ । आताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरदब्धम् ॥ २॥" अहवा-" तं मिच्छत्तं जमसद्दहणं तच्चाण जाण भावाणं । संसइयमाभग्गहियं अणभिग्गहिगं च तिविहं च ॥१॥" -नवपदशतके (१) सर्वथाऽपि तत्र विशुद्धं तद्' इति ग-च-पाठः। २ मिश्रोऽपि' इति ग-पाठः, 'मिश्रादि' इति तु च-पाठः। ३ छाया मिथ्यात्वतिमिरप्रच्छादितदृष्टयो रागद्वेषसंयुक्ताः। धर्म जिनप्रज्ञप्तं भव्या अपि नरा न रोचन्ते ॥ मिथ्यादृष्टिर्जीव उपदिष्टं प्रवचनं न श्रद्दधाति । श्रद्दधात्यसद्भावमुपदिष्टं वाऽनुपदिष्टम् ॥ ४ 'मिच्छद्दिही नियमा' इति पाठान्तरं कर्मप्रकृती १६७ तमे पत्राङ्के। ५छायार्थ दृश्यता ९७ तमं पृष्ठम् । ६-७ 'दृष्टं' इति च-पाठः। छायाअथवा-तन्मिथ्यात्वं यद् अश्रद्धानं तभ्यानां जानीहि भावानाम । सांशयिकमाभिग्रहिकमनाभिग्रहिकं च त्रिविधं च ॥ For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ सूत्रं १० ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १३९ सम्यक्त्व सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्त्वार्थश्रद्धानपरिणाम आत्मनः । स चौपशमिकादिभेदेन पञ्चधा प्राग् व्याख्यातः औपशमिक सास्वादन - वेदक- क्षायोपशमिक क्षायिकाख्यः । तत्रोपशान्ते दर्शनमोहसप्त के भवत्योपशमिकं सदैव सम्यक्त्व - प्रकार प्रपञ्चः मन्तर्मुहूर्त कालावच्छिन्नं, उपशमसम्यग्दर्शनकाले संयोजना उदयभावं षण्णामावलिकानामन्ते कस्यचिद् यान्ति । उपशमसम्यत्तत्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिभिः । यथाsss क्षायोपशमिकसम्यक्त्व पुद्गल चरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिध्यात्वपुद्रलक्षये अनुदितमिध्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेष दर्शन मोहक्षये भवति सम्यक्त्वम् । न च विशुद्धबुद्धलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः । यथाऽऽह - “संयोजेनोदयश्चेत् स्यादास्यद्येतना (१) सम्यक्त्वम् । तस्य तु विशुद्धयतस्तदभावात् सम्यक्त्वमनवद्यम् ॥ १ ॥” सम्यग्मिथ्यात्व वेदनीयमधुनोच्यते । प्रथमतः सम्यक्त्वमुत्पादयन् करणत्रयं विधायोपशमसम्यत्तवं प्रतिपद्यते । ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्ध मिश्राशुद्धत्वेन । यथाऽऽह 46 " प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मता ? | क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः ॥ १ ॥ " सम्यक्त्वगुणेन ततो विशोधयति कर्म तच मिध्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥ १ ॥ " सम्यग्मिथ्यात्वं च तद्वेदनीयं चेति, एवं पूर्वयोरपि द्रष्टव्यम् । इतिशब्दो दर्शनमोहनीयेयत्ताप्रतिपत्तये । दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद - ० - चारित्रमोहनीयाख्यो द्विविधः । कषायवेदनीयं नोकषाय वेदनीयं भा० चेति । दी० - चारित्र मोहनीयाख्यो द्विविध इत्यादि । द्विविकल्पश्चारित्र मोह प्रकृतिबन्धः । कषायवेदनीयं नोकषायवेदनीयं चेति ॥ एतावद्भेदं मूलतश्चारित्रमोहनीयम् । यथाक्रमं तत्स्वरूपाख्यानायाह १' जनोदया श्रुतस्यावस्योद्यतना० ' इति छ- पाठः । २ 'मुच्चारयन्' इति ग-पाठः । कषाय वेदनीयचेति' इति ग-पाठः । For Personal & Private Use Only ३-४ ' दनीयो Page #169 -------------------------------------------------------------------------- ________________ १४० तत्त्वार्थाधिगमसूत्रम् [अध्यायः मा०-तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा-अनन्तानुबन्धी क्रोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडशभेदाः॥ टी०-तत्रेत्यादि । तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः। तद्यथेत्यनेन भेदानावेदयते-अनन्तानुबन्धी क्रोध इत्यादि । अनन्तः संसारो नारकं-तियेङ्-मनुज-देवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाच क्रोध-मान-माया-लोभाः। तत्र क्रोधोप्रीतिलक्षणः। मानो गर्वः। माया शाख्यम् । लोभो गाय तृष्णेत्यनान्तरम् । आह च "संयोजयन्ति यन्नग्मनन्तसङ्ख्यैर्भवैः कषायास्ते । संयोजनतानन्ताऽनुबन्धिता वाऽप्यतस्तेषाम् ॥ १॥ अनन्तानुबन्धिनां च तावत् पर्वतराजिशैलस्तम्भघनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्धा क्रोधादिभेदेनेत्यतिदिश्यते। प्रत्याख्यानं द्विविधं-देशविरतिलक्षणं सर्वविरतिलक्षणं च । तत्र देशविरतिलक्षणमल्पं तदावरणं कषायोप्रत्याख्यानावरणकषायः, सामर्थ्यात् अपिशब्दः समुच्चयार्थी लभ्यते । ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमाघृण्वन्त्येवेति नास्ति चित्रम् । कषाय इति जातिविवक्षायामेकवचननिर्देशः । आह च " आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्यानावरणास्ते निर्विशेषोत्या ॥१॥" नञ् हि सोऽल्पार्थः, उपमार्थो वा नञ्, प्रत्याख्यानावरणवदप्रत्याख्यानावरणः । यथोक्तम् "प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । तवैब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः ॥ १॥" एषामुदये सम्यक्त्वलाभः सर्वदेशविरतिलक्षणं प्रत्याख्यानं नास्ति । प्रत्याख्यानावरकषाय इति तथैवातिदेशः । प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः तदावरणः। प्रतिशब्दः प्रतिषेधवचनः। प्रतिषेधस्याख्यानं प्रकाशनमाचार्यादिसन्निधौ भावतः 'सर्वान् प्राणिनो न हन्मि यावज्जीवं' इत्यादि प्रत्याख्यानं, तदेवंप्रकारं स्थगयन्तीति प्रत्याख्यानावरणाः । यथाऽऽह " सर्वप्रत्याख्यानं येनावृण्वन्ति तदभिलपतोऽपि । तेन प्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" १ 'कषायप्रत्याख्यानकषायसंज्वलनकषायवेदनीयं चेति लषायवेदनायाख्यः षोडशभेदः' इति क-ग-पाठः। २ अनेन सम्भाव्यते यदुतासीत् कश्चित् कर्मविषयकप्रन्थो योऽधुना नोपलभ्यते। ३ 'सम्यक्त्वा वाइति ग-पाठचिन्तनीयः। ४'तत्तब्राह्मवचने' इति च-पाठः। For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् १४१ प्रत्याख्यानपरिणामजन्म विघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्यास्म्मानस्येति वाक्यार्थः । तथाचाहुः पूज्याः (श्रीजिन भद्रगणिक्षमाश्रमणाः ) - ""णासंत सावरणं ण सओऽभव्वाइविरमणपसंगा । पचक्खाणावरणा तम्हा तस्संभवावरणा ॥ १ ॥ उद विरइपरिणई न होइ जेसिं खयाइओ होइ । पचक्खाणावरणात इह जहा केवलावरणं ॥ २ ॥” - विशेषावश्यके ( गा० १२३६ - १२३७ ) तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः । यथाऽऽह— " श्रावकधर्मो द्वादशभेद: संजायते ततस्तस्य । पञ्चत्रिचतुः संख्याव्रत गुण शिक्षामयः शुद्धः || १ ||" संज्वलनकषाय स्वरूपोपपादनायाह -संज्वलनकषाय इति । समस्तपापस्थानविरतिभाजमपि यति दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः । यथाऽऽह - " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥ १ ॥ " सूत्र १० ] इतिशब्दः कषायवेदनीयस्येयत्तामाह । एकश इति । एकैकस्य अप्रत्याख्यान - प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदात्वार इति । तत्राप्रत्याख्यान क्रोधाद्युदाहरणानि भूराज्यस्थिमेषशृङ्गकर्दमरागाः प्रत्याख्यानावरण क्रोधादेः रेणुराजिकाष्टगोमूत्रमार्गखञ्जनरागाः संज्वलन क्रोधादेर्जलराजिं तिनिशलवालेहहरिद्रारागाः । एवमेते षोडशभेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषाय वेदनीयमुच्यते भा० - नोकषाय वेदनीयं नवभेदम् । तद्यथा - हास्यं, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ॥ टी० – नोकषायवेदनीयं नवभेदमिति । कषायैकदेशत्वात् कषायविशेषत्वाद् वा नोकषाया हास्यादयः । मिश्रार्थो वा नोशब्दः । कषायसहकृता एते स्वकार्यनिवर्तन प्रत्यलाः, नमीषां पृथक् सामर्थ्यमस्ति । यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तद्दोषा एव भवन्ति । एतदुक्तं भवति - अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः । तथाऽन्येनाप्यवाचि - कषाय सह वर्तित्वात् कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ १ ॥ " 46 १ छाया नासत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः ॥ उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ ९ ' तृणशलाकाव' इति ग-पाठः । For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ १४२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ तद्यथेत्यनेन तत्रापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते-तत्र हास्यनोकषायमोहोदयात् सनिमित्तमनिमित्तं वा हसति स्मयते रङ्गावतीर्णनटवत् । रतिमोहोदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः आसक्तिः । इष्टेषु च शब्दादिविषयेषु । अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः। शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोठति भुवः पीठ इत्यादि । भयमोहोदयात् त्रस्यत्युद्विजते वेपत इत्यादि । जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि । पुरुषवेद्मोहोदयात् अनेकाकारासु स्त्रीष्वभिलाषः आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा सङ्कल्पजास्वपीत्यादि। स्त्रीवेदमोहोदयात् नानाकारेषु पुषेष्वभिलापः, सङ्कल्पजेषु चेत्यादि । नपुंसकवेमोहो बहुरूपः, तदुदयात् कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित् पुरुषेष्वेवाभिलाषः, सङ्कल्पजविषये चानेकरूप इत्यादि। इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः। उक्तमेवमेतन्नोकषायवेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीब्रादिपरिणामसंसिद्धयर्थ दृष्टान्तानाविश्चिकीर्षुराह___भा०-तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति । एवं मोहनीयमष्टाविंशतिभेदं भवति ॥ टी०-पुरुषवेदादीनामिति क्रमनियममाचष्टे । तृणादयः कृतद्वन्द्वाः प्रत्येकमनिशब्देन सहाभिसम्बध्यन्ते । निदर्शनानि निदय॑न्त इति दृष्टान्ता भवन्ति । एतानि च कृतसन्निवेशक्रमात् । इतिशब्दोऽन्यानेकनिदर्शनप्रतिपत्त्यर्थः । तत्र पुरुषवेदमोहानेभृशं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपुलकस्येव नातीष स्थास्नुरनुबन्धः। स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव । नपुंसकवेदमहामोहसप्तार्चिपस्तु समासादितोदयस्य महानगरस्य दाहदहनतुल्यस्य करीषकशानोरिवान्तर्विजम्भमाणदीप्ततर. कणनिकरस्य बहुतरकालेऽस्य प्रशमो भवति । सम्प्रत्युपसंहरति-एवमित्यादि। उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदलक्षणेनाष्टाविंशतिभेद मोहनीयमुक्तम् ॥ संम्प्रत्यान्तानुबन्ध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किं वा न लभत इति प्रतिपादयिषुराह भा०-अनन्तानुबन्धी सम्यग्दर्शनोपवाती । तस्योदयात् अनन्तानुबन्ध्यादि- सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याकषायाणामुदये ख्यानकषायोदयाद विरतिनं भवति । प्रत्याख्यानावरणकषामुपघातः योद्याद् विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति। संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति ॥ १ 'कारीष ' इति च-पाठः । २ ‘साम्प्रतम् ' इति ङ-पाठः । ३ ' दयाद्धि' इति घ-पाठः । सम्यग्दर्शनादीना. For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ सूत्रं १० ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १४३ I टी० - अनन्तानुबन्धीत्यादि । अनन्तानुबन्धि कषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः । एतदेव स्पष्यति - तस्योदयाद्धि सम्यग्दर्शनं नोटप्रागवाप्तमपि प्रतिपततीति । अप्रत्याख्यानेत्यादि । सर्वदेशलक्षणाया विरतेरभावः । प्रत्याख्यानेत्यादि देशविरतिर्भवति । उत्तमचारित्रं सर्वस्मात् प्राणातिपाताद् विरमामीत्येवंरूपं तस्य लाभो न भवतीति । तुशब्दोऽवधारणार्थः । न जातुचिदेव भवतीति । संज्वलनेत्यादि । संज्वलनकर्षायोदये त्वकषायचारित्रलाभो नास्ति । पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातः क्रियाविशेषः । अथाख्यातचारित्रं साक्षादनन्तरकारणं मुक्तेरिति । यथाख्यात चारित्रं वा, येन वा प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति । सर्वथा कषायाः संसारे हिण्डयन्ति जीवमिति काका प्रतिपादयति । यतस्तेषामुदये प्रतिवि - शिष्टज्ञानक्रियावाप्तिरेव न समस्तीति । उपशान्तक्षीणकषायस्य सतो हि यथाख्यातमिष्यते । तत्राप्युपशान्तकषायी कदाचित्पातेऽपि विशुद्धिस्थानात् कुतश्चिन्न शक्यते । क्षीणकषायस्य तु नास्ति प्रतिपातः । शास्त्रे पर्यायशब्दैरपि क्रोधादिकषायाणां व्यवहारोऽस्तीत्येतत् प्रदर्शनम् - भा०- क्रोधः कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् । क्रोधस्य पर्यायाः तद्भावानुसारीणि तस्या (१)स्य क्रोधस्य तीव्र-मध्य-विमध्य-मन्दभावाश्रितानि निदनिदर्शनानि च र्शनानि भवन्ति । टी. - क्रोध इत्यादि । क्रोधनं क्रोधोऽप्रीतिः । कोपनं कोपः पूर्वावस्थातोऽन्यथा परिणामः । रोषणं रोषः तत्परिणामेनारूषितत्वादात्मनः । द्वेषणं द्वेषः तत्परिणामस्य वचनद्वारेण प्रकाशनात् निर्देशनात् । भण्डनं कलहः । भाम इति क्रोधविशेष ईर्ष्यालक्षणः । एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनर्थान्तरमेवेति || भा०—तद्यथा - पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति । टी० - अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादि भावदर्शनार्थं निदर्शनान्याह भाष्यकारः-तद्यथेत्यादिना । चतुर्णामपि क्रमेणानन्तानुबन्ध्य-प्रत्याख्यान- प्रत्याख्यानावरण-संज्वलनानां क्रोध - मान- माया लोभानामेकैकस्य चातुर्विध्यं दर्शयति - पर्वत ( राजिसदृश इत्यादि । पर्वतराज्या सदृशः। पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलादिविभागः पर्वतः, तत्र राजि:-भिदा पर्वतराजिः तया सदृशः पर्वतरा जिसदृशः । शिलायां राजिरुत्पन्ना यावत् शिलारूपं तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबन्धी क्रोध उत्पन्नो भवापेक्षया यावत् तत्र भवे जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच्च भूयसा नरकमेति । अप्रत्याख्यानस्तु भूमिराजिसदृशः संवत्सरमात्रकालानुबन्धी । भूमौ हि १' प्रागेतनमपि ' इति पाठः । २ ' कषायत्रये ' इति पाठः । ३ ' नास्तीत्यतः प्रदर्शनम्' इति च पाठः । ४ ' पेक्षया तत्र' इति च - पाठः । For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ १४४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ राजदूता वर्षास्ववश्यं तया सा निधनमायाति । क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरे प्रशाम्यतीति ।। प्रत्याख्यानावरणस्तु वालुका राजिसदृशः । वालुकायां हि राजिरुत्पन्ना प्रकर्षतश्चतुर्मासाभ्यवरे भूयः सन्धत्ते । धोऽप्येवं प्रत्याख्यानावरणश्चातुर्मासाभ्यन्तरे नियमेनोपशाम्यतीति ॥ संज्वलनक्रोधाग्निः समुद्भूतः पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यायतीति उदकराजिसदृश इति समाख्यायते । अस्य च उदकराजिसंदृशात् पक्षमात्र कालसंसूचकं विज्ञेयम् । भा०-- तत्र पर्वतराजिसदृशो नाम । यथा प्रयोगवित्र सामिश्रकाणामन्यतमेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषिताला भादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोधः आ मरणान व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीत्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ॥ टी०. ० - तत्र पर्वतराजिसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति । प्रयोगः पुरुषव्यापारः । विस्तसा-स्वभावः । मिश्रकरणादुभयपरिग्रहः पुरुषव्यापारस्वभावाभ्यामिति । एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः । सम्प्रति क्रोधोत्पत्तेर्निमित्तमाख्याति- इष्टार्थवियोजनादनिष्टार्थसंयोजना दभिलषिताला भादित्यादीनां कारणानामन्य-तमेन हेतुना । यस्योत्पन्नः क्रोध इत्यादि । भवान्तरमप्यनुबध्नाति । निरनुनय इति । अनुनयः परचाटुकरणादिक्रिया तदभावान्निरनुनयः । अप्रत्यवमर्श इति । अविद्यमान - पश्चात्तापपरिणामः । शेषं गतार्थम् । भा०-- भूमिराजिसदृशो नाम । यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया तया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थायी दुरनुनयो भवति, स भूमिराजिसदृशः । तादृशं क्रोधमनुस्मृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ टी० - भूमिराजिसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते, आतस्नेहाया इति गृहीतापीतस्नेहायाः, वायुना चाभ्याहताया इत्यनेककारणतां भूमिराजेरावेदयते । जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति । एवं यथोक्तेत्यादिना दृष्टान्तेन दार्शन्तिकमर्थं सभीकरोतीति । शेषं सुज्ञानम् ॥ भा०- - वालुकाराजिसदृशो नाम । यथा वालुकाय काष्ठ-शलाका - शर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य सं १ ' विध्यायतीति' इति ग-च-पाठः । २' सादृश्यं इति ग-पाठः । ३ ' पर्वतराजि०' इति घ- पाठः । 'व्ययं गच्छति' इति घ-पाउः । ५ 'सृता' इति ग-पाठः । ६' प्रयोगः व्यापारः ' इति च-पाठः । " पक्षादु ' इति पाठः । ८ ' विधस्थानीयो' इति घ-पाठः । ९ ' कं कारणं' इति कु-च-पाठः । · For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ सूत्रं १० ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १४५ रोहति एवं यथोक्तनिमित्तो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं Satsang स वालुकाराजिसदृशो नामे । तादृशं क्रोधमनुसृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ टी० – वालुका राजिसदृशो नामेत्यादि सुज्ञानम् । जघन्येनाहोरात्रं उत्कर्षेण संवत्सरपरिणामोऽपीति । शेषं गतार्थम् ॥ भा० - उदकराजिसदृशो नाम । यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यत - मेन हेतुना राजिरुत्पन्ना द्रवत्वा पामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमितोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसंदृशः । तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति ॥ टी० - उदकराजिसदृशो नामेत्यादि प्रायः सुज्ञानम् । विदुष इति क्रोधपरिणमाभिज्ञस्य । प्रत्यवमर्शः - पश्चात्तापः हो दुहुकयमित्यादिकः । शेषं सुज्ञानम् ॥ भा० - येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति ॥ टी० - येषामित्यादि । अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिप्राप्तिरवश्यंभा विनीति | सम्प्रति मानचातुर्विध्यप्रदर्शनायाह मानशब्दस्य भा० - मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मय पर्यायाः इत्यनर्थान्तरम् || डी० - मान इत्यादि । सर्वदाऽऽत्मपूजाकाङ्क्षित्वात् मानः । स्तम्भनात् स्तम्भः अवनतेरभावात् । गर्यो जात्यादि । । उत्सेको ज्ञानादिभिराधिक्येऽभिमान आत्मनः । अहङ्कारोऽहमेव रूपसौभाग्यसम्पन्न इति । दर्पो बलकृतः । मद्यादिमदवदनाला पदर्शनात् मदः । परापराधसहनप्रायत्वात् स्मयः । सर्व एते मानविशेषा इत्यतोऽनर्थान्तरमिति । क्रोधस्येवास्यापि तीव्राविभावप्रदर्शनायाह भा०- तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तथा - शैलस्तम्भसदृशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैर्व्याख्यातम् ॥ टी० – तस्यास्येत्यादि । तस्येति पूर्वोद्दिष्टस्य । अस्येति पर्यायभेदेन निर्दिष्टस्य । आदिग्रहणात् मध्यो मन्दश्च भावः - आत्मनः परिणतिविशेषः । अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृशेत्याद्युदाहरणानि योज्यानि । एषामित्यादिना निर्दिशति । उपसंहार उप १ 'क्रोधः' इत्यधिको घ-पाठः । २ ' निमित्तो यस्य ' इति घ- पाठः । ३ ' मर्शिनो' इति घ- पाठः । ४' णामैवस्य' इति ङ-पाठः । ५ ' हा दुकय' इति ङ-पाठः । ६' प्राप्नुवन्ति ' इति घ-पाठः । ७' लतास्तम्भ' इति घ-पाठः । १९ For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ १४६ [ अध्यायः ८ नयः । यथा शैलस्तम्भस्तथाऽनन्तानुबन्धीत्यादिक्रमेण । तस्मात् कुतश्चिनिमित्तादुत्पन्नो मानः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्च भवति स शैलस्तम्भसदृशः । तादृशं मानमनुसृत्य नरकेषूत्पत्तिं प्राप्नुवन्तीति निगमनग्रन्थः । चशब्दः समुच्चितौ । एवमस्थिस्तम्भसदृश इत्यादिष्वपि यथायोगमुपनयनिगमने वक्तव्ये ॥ मायाशब्दस्य पर्यायाः तस्त्वार्थाधिगमसूत्रम् भा० – माया प्रणिधिः उपधिः निकृतिः आचरणं वञ्चना दम्भः कूटम् अतिसन्धानम् अनार्जवमित्यनर्थान्तरम् ॥ -- टी० - माया प्रणिधिरित्यादि । मीयतेऽनया जन्तोस्तिर्यग्योन्यादिजन्मेति माया । प्रणिधिः प्रतापरिणतावासक्तिः प्रणिधानं । बाह्यचेष्टयोपधीयते बाह्यत इत्युपधिरन्यथापरिणामश्चित्तस्य । निष्क्रियतेऽनया परः परिभूयत इति निकृतिः । आचर्यते-अभिगम्यते भक्ष्यते वापरस्तयोपायभूतये त्याचरणम् तथाच वृक- मार्जार-गृहको लिकादयः प्रसिद्धाः । परो विप्रलभ्यते यया सा वञ्चना । दम्भनं दम्भो वेषवचनाद्यनुमेयः । कूट्यते - दह्यते अमुना परः परिमाणान्तरेणेति कूटं, सवर्ग्रहणं वा कूटं तद्वत् परिणामः । अतिसन्धीयतेऽनेन पर इति अतिसन्धानं अतीवानुप्रविश्य सन्धानमन्तरङ्गताप्रदर्शनं ततो विनाशः । ऋजोर्भावः आर्जवं तद्विपरीतं अनार्जवम् - कायमनोवक्रता । इतिशब्द एवार्थे । एवमेतान्येकार्थाभिधायी नि नामानीति ॥ भा०- तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसहशीति । अत्राप्युपसंहार निगमने क्रोधनिदर्शनैर्व्याख्याते ॥ टी० - तस्या इत्यादि गतार्थम् । वंशकुडङ्गो-वंशमूलमतिकुटिलं ऋजुकर्तुमशक्यं उपायखेनापि । " शेषं गतार्थं प्रायः । निर्लेखनं वर्धक्यवलेखनीधारोल्लिखितमत्यन्त कुटिलम् । अत्रापीत्यादि गतार्थम् ॥ भा०- लोभो रागो गार्ध्यं इच्छा मूर्छा स्नेहः काङ्क्षाऽभिष्वङ्ग लोभशब्दस्य पर्यायाः इत्यनर्थान्तरम् ॥ aro - लोभो राग इत्यादि । लुभ्यतेऽनेन जीव इति लोभः । आत्मरञ्जनाद् राः । प्रष्टवर्ध्य अभिरक्षणादि कार्य गृद्धिलक्षणम् । इच्छाऽभिलाषस्त्रैलोक्यविषयः । मूर्च्छा प्रकर्षप्राशा मोहवृद्धिः । स्त्रिद्यत्यनेनेति स्नेहः पितृपुत्रपत्न्यादिषु प्रीतिविशेषः । भविष्यत्कालोपादानविषया काङ्क्षा | अभिष्वङ्गो बाह्याभ्यन्तरोपकरण विषयसुखे राग आसक्तिः । शेषं पूर्ववत् ॥ १ ' व्ययं गच्छति ' इति च पाठः । २ ́ ऽपचितत्वाधीयत इति ङ-पाठः । ३ ' गुरुणनं (?) वा ' इति ६- पाठः । ४ ' कुणरादृशी ' इति घ- पाठः । ५ ' शे५ । गताः प्रायः' इति च पाठः । ६' प्राप्तेषु' इति - पादः । ७ यामुखः तङ्गः सक्तिः ' इति ग-व-पाठः । For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ सूत्र ११) स्वोपज्ञभाष्य-टीकालङ्कृतम् १४७ मा०-तस्यास्य लोभस्य तीव्रादिभावाषितानि निदर्शनानि भवन्ति । तन्यथा-लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जनरागसहशः, हरिद्राराग. सहश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ।। टी०-लाक्षारागसदृश इत्यादि । अनन्तानुवन्ध्यादयः क्रमेण योज्याः । शेषं गतार्थम् ॥ भा०-एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो क्रोधादीनां सच भवन्ति । तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, आर्जवं रणोपायाः मायायाः, सन्तोषो लोभस्योति ॥१०॥ टी.-एषां क्रोधादीनामित्यादि । प्रकृतानुपयोगित्वादसम्बद्ध इवायं लक्ष्यते ग्रन्थः । मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमादय इति कः प्रस्तावः १ । उच्यते-मोहनीयप्रधानानि हि कर्माणि, सर्वदेशोपघातद्वारेण जन्तोर्नरकादिभवप्रपञ्चप्रापणे विजृम्भन्ते । 'मोहस्तत्र तावत् कपायजनितः । कषायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च । यथोक्तम् ( उपदेशमालायाम् ) "ज अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि । तं जाण कसायाणं वुढिक्खयहेउयं सव्वं ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा । भाष्यं गतार्थप्रायम् । प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः । भूतशब्द उपमानार्थः । शत्रव इवोच्छेदनसाधात् । एतदेव स्पश्यति-प्रतिघातहेतवो भवन्तीति । अत्र च मिथ्यादर्शनमाद्यकषायाश्च द्वादश एनेघातिन्यः प्रकृतयः सचलन नोकषायास्तु देशघातिन्यः ॥ ननु च सूचनात मुत्रमिति लघु विधेयं सूत्रलाघव सूत्रम् । तच्चैवं भवति-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्या परामर्शः द्वित्रिषोडशनवमेदा इत्येव विवक्षितार्थसंग्रहः स्यात् । तत्रेदमुक्तम्" दुर्व्याख्यानो गरीयांच, मोहो भवति बन्धनः । न तत्र लाघवादिष्टं, सूत्रकारेण दुर्वचम् ॥” । इति ॥१०॥ सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यभिधित्सुराह-- सूत्रम्-नारक-तैर्यग्योन-मानुष-दैवानि ॥ ८-११ ॥ १. मोहतन्त्रता च कपायजनिता ' इति च-पाठः । २ छाया-- यद अतिदुःखं लोके यच सुखमुत्तमं त्रिभुवनेऽपि । तद्विद्धि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥ For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ १४८ आयुषणे तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ दी-नारकादीनि कृतद्वन्द्वानि प्रथमाबहुवचनेन निर्दिष्टानि । यस्योदयात् प्रायोग्यप्रकृतिविशेषानुशायीभूत आत्मा नारकादिभावेन जीवति यस्य च क्षयान्मृत उच्यते तदायुः। आह च--- " स्वानुरूपास्रवोपात्तं, पौद्गलं द्रव्यमात्मनः । जीवनं यत् तदायुष्क-मुत्पादादेस्य जीवति ॥ १॥ आयुषचानादय उपग्राहकाः प्रथमबद्धस्येति । तस्यैवम्भूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते भा०-आयुष्कं चतुर्भेदम्-नारकं, तैर्यग्योनं, मानुषं, दैवमिति ॥ ११ ॥ टी-आयुष्कं चतुर्भेदमित्यादि भाष्यम् । आनीयन्ते शेषप्रकृतयस्तस्मिनुप भोगाय जीवेनेत्यायुः, शाल्योदनादिव्यञ्जनविकल्पा एव कांस्यपात्राधारप्युत्पत्त्यर्थः है भोक्तुः परिभोगाय कल्प्यन्ते, आनीयते वाऽनेन तद्भवान्तर्भावी प्रकृतिगण - इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत् , आयतते वा शरीरधारणं प्रतिबन्ध इत्यायुर्निगडादिवत् । आयुरेवायुष्कम्, चतुर्गतिकत्वात् संसारस्य चतुर्भेदम् । तद्भेददर्शनार्थमाइ-नारकमित्यादि । तत्र नरका उत्पत्तियातनास्थानानि पृथिवीपरिणतिविशेषास्तसम्बन्धिनः सत्त्वा अपि तात्स्थ्यानरकास्तेषामिदमायुनोरकम् । तियेग्योनय एक-द्वि-त्रि-चतु:पश्चेन्द्रियास्तेवामिदं तैयेग्योनम् । मनुष्याः संमृर्छन-गर्भजास्तेषामिदं मानुषम् । देवानां भवनवास्यादिभेदानामिदं दैवम् । इतिशब्दः आयुःप्रकृतीयत्ताप्रतिपत्तये ॥ ११ ॥ सम्प्रति नामकर्मोत्तरप्रकृतिभेदाख्यानायाहसूत्रम्-गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसेवातसंस्थानसं हननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योउत्तरप्रकृतयः तोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसू क्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्वं च ॥८-१२॥ टी-गतिजातीत्यादिप्रागुद्दिष्टा द्वाचत्वारिंशत् पिण्डभेदा नामकर्मणस्तत्प्रतिपाद नार्थ सूत्रम् । नमयति-प्रापयति नारकादिभावान्तरणि जीवमिति नाम । नामशः अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामर्थ्याद् यथार्थसंज्ञा । नमयति-प्रहयेतीति नाम यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियतसंज्ञाहेतुरिति । तत्र गतिनाम चतुर्विधम् । जातिनाम पञ्चविधम् । शरीरनाम नामकर्मण १ सहायीभूत' इति च-पाठः । २ 'यस्य ' इति कु-च-पाठः। ३ 'बद्ध ' इति उ-पाठः । ४ 'सहयातन...स्पर्शनरस' इति ग-पाठः । ५ 'प्रज्वलयति ' इति ङ-पाठः । ६ 'पश्वविधं ' इति अ-पाठः । For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ सत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् १४९ पञ्चविधम् । अङ्गोपाङ्गनाम त्रिविधम् । निर्माणनामैकधा । संस्थाननाम पोढा । सङ्घातनाम पञ्चविधम् । बन्धननाम पञ्चविध पञ्चदशविधं वा । संहनननाम पोढा । गत्यादिनामकर्म- स्पर्शरगन्धवर्णनामैकैकविधम् । आनुपूर्वीनाम चतुर्धा । अगुरुलघुनामैणामघान्तरभेद- कथा । उपघातपराघातातपोद्योतोच्छ्रासनामान्येकैकविधानि। विहायोसख्या गतिनाम द्विधा । प्रत्येकशरीरसाधारणशरीरत्रसस्थावरसुभगदुर्भगसुस्वरदु:स्वरशुभाशुभसूक्ष्मबादरपर्याप्तापर्याप्तस्थिरास्थिरादेयानादेययशोऽयशस्तीर्थङ्करनामान्येकैकप्रकाराण्येव । एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः । अत्र च बन्धनसवातनामनी शरीरनामान्तभूते एव, अतः शरीरविषयत्वादेव नोत्तरप्रकृतिः। पृथक्सूत्रे यदुपादानं पार्थक्येन तत् तयोः स्वरूपप्ररूपणार्थमिति ॥ ... भा०-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननामसंहनननामस्पर्शनामरसनाम गन्धनामवर्णनामआनुपू नाम अगुरुलघुनाम उपचातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा-प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुभंगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम यादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थंकरनाम इत्येतद् छिचत्वारिंशबिधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् ॥ टी-गतिनामेत्यादि भाष्यम् । तत्र गतिनामेत्येवमादिना भाष्येण इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिमात्रमाख्यायते । गतिनाम । नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः। आनुपूर्व्यनाम, अन्ये ... पठन्त्यानुपूर्वीनाम, ततश्च प्रथमपाठे सूत्रमेवम्-आनुपूष्योगुरुलधूपघात इति, ५ इतरत्र आनुपूर्व्यगुरुलघूपधात इति । प्रत्येकशरीरादीनां दशानां सेतराणामिति-सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि । अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षा. नामानीति व्यक्तिनिवक्षातो नामशब्द उत्तरपदं भवतीति । तद्यथेत्यादिनोद्देशः सामानाधिकरण्येन, प्रत्येकशरीरनामादिकं अन्ते तीर्थकरनाम प्रकृष्टत्वात् । इतिशब्दः पिण्डप्रकृतीयत्तापदर्शनार्थः। एतदिति नाम यथोक्तं द्विचत्वारिंशद्भेदं भवति सह बन्धनसवातनामभ्याम् । आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये बभाषे-उत्तरनामानेकविधमिति । उत्तरप्रकृतिनामेत्यर्थः । पिण्डप्रकृतिभेद इतियावत् । तद्यथेत्यादिना निर्दिशति सङ्घात. पर शिविधं वा ' इति पाठो न विद्यते च-प्रतौ । २ - मेतेन' इति च-पाठः । ३ 'पृथंगपाठि' इति ग-पाठः। For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा०- तद्यथा - गतिनाम चतुर्विधम्- नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यगतिनाम, देवगतिनाम ॥ टी० - गतिनाम्नः पिण्डप्रकृतेश्वत्वारो भेदाः नरकगतिनामादयः । तत्र यस्य कर्मण उदयान्मारक इति व्यपदिश्यते तन्नरकगतिनाम । एवं तिर्यग्गतिनामादित्रितयमपि वक्तव्यम् ॥ भा० - जातिनाम्नो मूलभेदाः पञ्च । तद्यथा - एकेन्द्रियजातिनाम, द्वीन्द्रि यजातिनाम, श्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनांम ॥ टी० - जातिनाम्न इत्यादि । जातिनामेति पिण्डप्रकृतिरेकेन्द्रियादिना जातिपश्चकापेक्षया । एते च मूलभेदाः पञ्च । तद्यथेत्यादिना निर्दिशति, एकेन्द्रियजातिनामेत्यादि । एकं - प्रथममिन्द्रियं जातिः - सामान्यं तदेव नाम, एवं द्वीन्द्रिय जातिनामादिचतुष्टयमपि वाच्यम् । एकेन्द्रियजातिनाम कर्मोदयादेकेन्द्रिय इति व्यपदिश्यते । एकेन्द्रियसंज्ञाव्यपदेश निमित्तं एकेन्द्रियजातिनाम, जातिरिति सामान्येन पृथिव्यादिभेदेष्वन्वितत्वात्, एकेन्द्रियजातिना - मान्तरेणै केन्द्रियसंज्ञाया अभाव एव स्यात् ॥ १५० भा०- एकेन्द्रियजातिनामानेकविधम् । तद्यथा- पृथिवीकायिकजातिनाम, अकायिकजातिनाम, तेजः कायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति ॥ टी० - एकेन्द्रियजातिनामानेकविधमित्यादि । एकेन्द्रियजातयोऽपि पिण्डप्रकृतय एव पृथिवीकायिकादिभेदापेक्षया । तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम | पृथिवीकायिकजातिनामोदयात् पृथिवी कायिकव्यपदेशः । एवं शेषाणि ॥ भा०-तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा - शुद्धपृथिवीशर्करा - वालुको - पल- शिला- लवणा-य· स्त्रपु-ताम्र-सीसक-रूप्य - सुवर्ण-वज्र - हरिताल - हिङ्गुलक - मनःशिला-सस्यका-ञ्जन प्रवालका ऽभ्रपटाऽनवालिका जातिनामांदि गोमेदक-रुचकाङ्क-स्फटिक लोहिताक्ष-जलावभास- वैडूर्य-चन्द्रप्रभ- चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारंगल्या- श्मगर्भ-सौगन्धिक- पुलका ऽरिष्ट-काञ्जन-मणिजातिनामादि च ॥ डी० - तत्र पृथिवीकायिकेत्यादि । अनेन पुनरपि पृथिवीकायिक जातिनाम्नः पिण्डप्रकृतित्वं दर्शयति । तद्यथेत्यादिना शुद्धपृथिव्यादयो भेदाः प्राग् व्याख्याता नानापुद्गलपरिणामाः पृथिवीकायिकव्यपदेशभाज इति ॥ < १ नामेति' इति घ- पाठः । २ सामान्यं पृथि०' इति ग-च- पाठः । ३ ' टलान ' इति घ-पाठः । ४ 'नामानि ' इति ग-पाठः । ५ ' स्फुटिक' इति घ-पाठः । ६' गल्लाश्म ' इति घ-पाठः । For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ सूत्रं १२ ] स्वोपज्ञभाष्य-- टीकालङ्कतम् भा० ० - अच्कायिकजातिनामानेकविधम् । तद्यथा – उपक्लेदाऽऽवश्याय-नीहार- हिम-घनोदक- शुद्धोदकजातिनामादि ॥ टी० - अपकायिकजातिनामानेकविधमित्यादि । तद्यथेत्यादिना निर्दिशति । उपक्लेदो हेरतनुकः भूमेर्निर्गत्य तृणाग्रस्थितः । शेषा गतार्था भेदाः ॥ भा०- तेजः कायिकजातिनामानेकविधम् । तद्यथा - अङ्गार- ज्वाला- लातामुर्मुर - शुद्धानिजातिनामादि ॥ वायुकायिकजातिनामानेकविधम् । तद्यथा- उत्कलिका- मण्डलिका-झञ्झका-धन-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा - कन्द-मूल-स्कन्ध-त्वक्काष्ठ- पत्र-प्रवाल- पुष्प-फल-गुल्म- गुच्छ लता- वल्ली-तृण-पर्व-काय-शेवाल - पनक-वलक- कुहनजातिनामादि | एवं द्वीन्द्रियजातिनामैकविधम् । एवं त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिनामान्यपि ॥ टी० - तेजः कायिकेत्यादि गतार्थम् । द्वि- त्रिचतुः - पञ्चेन्द्रियजातिनामानि शङ्ख शुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरघादितिर्यग्मनुष्यादिभेदेन वाच्यानि ॥ शरीरनामोत्तरप्रकृतयः पञ्च । तत्प्रतिपादनायाह भा०- - शरीरनाम पञ्चविधम् । तद्यथा - - औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति । टी० - शरीरनामेत्यादि । असारस्थूलद्रव्यवर्गणानिर्मापित मौदारिकशरीरं, तत्प्रायोग्य पुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते । विचित्रशक्तिकद्रव्य निर्मापितं वैक्रियं तद्योग्यपुद्गलादानकारणं यत् कर्म तद् वैक्रियशरीरनामाभिधीयते । कारणे कार्योपचारात् प्रयोजनप्रसाधनायाहियत इत्याहारकशरीरम् । शेषं पूर्ववत् । तेजोगुणद्रव्यारधमुष्णगुणमाहारपरिपाचनक्षमं तैजसं शरीरम् । शेषं पूर्ववत् । कुण्डमिव बदरादीनामशेकर्माधारभूतं समस्त कर्मप्रसवनसमर्थमकुरादीनां बीजमिव कार्मणशरीरम् । इयं चोचरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकाणामुदयभूतादिति ॥ भा०--- - अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा-अ - औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथाअङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, अङ्गाष्टकम् उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा - स्पर्शनाम, रसनाम, घाणनाम, चक्षुर्नाम, श्रोत्रनाम ॥ १' हरितनुः' इति ङ-पाठः । २ 'थन' इति घ-पाठः । ३ 'करण' इति च- पाठः । ४ 'कर्म' इति च पाठः । १५१ For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ८ टी० - अङ्गोपाङ्गेत्यादि । अङ्गान्युपाङ्गानि च यस्य कर्मण उदद्याभिर्वर्त्यन्ते तदङ्गोपाङ्गनाम त्रिविधम्-औदारिक वैकियका - ऽऽहारकभेदात् । तत्राङ्गान्यष्टौ - उरः शिरः पृष्ठमुदरं करौ पादौ च । उपाङ्गानि स्पर्शनमस्तिष्कादीनि । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारम् । तत्र शिरोद्रव्यमधिकृत्योपाङ्गानि भाष्यकृत् पपाठ १५२ भा० तथा मस्तिष्क कपाल काटिका शङ्ख ललाट- तालु-कपोल - हनुfags - दशनौ भ्रू नयन कर्ण नासाद्युपाङ्गनामानि शिरसः । एवं सर्वेषा - मङ्गानामुपाङ्गानां नामानि ॥ टी० --- तथा मस्तिष्केति । मस्तिष्कं मस्तुलुङ्गकं शिरोऽङ्गस्यारम्भकोऽवयवः । तथा कपालादयः दशनादयश्च ॥ ननु च धातुमध्येऽधीतं मस्तिष्कं नाङ्गं न प्रत्यङ्गमिति कपालादिवदारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवसेयम् । एवमुरः प्रभृत्यङ्गानामप्येकैकस्य वाक्यान्युपाङ्गनामानि ज्वलनजलानिलव सुधावनस्पतिवर्जजीवेषु सम्भवन्ति ॥ भा०--जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम || टी० - जातिलिङ्गाकृतीति । जाति रे केन्द्रियादिलक्षणा पञ्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थामाकृतिव्यवस्थां च नियमयति यत्, लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारणं, आकार आकृति:- अवयवरचना तां च यनिर्मापयति निर्माणनाम तदुच्यते । एतदुक्तं भवति - सर्वजीवानामात्मीयात्मीयशरीरावयव विन्यासनियमकारणं निर्माणनाम प्रासादादिनिर्माणकलाकौशलोपेतवर्धकवदिति ॥ मा० - सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुका पुरुषवदनद्धानि शरीराणि स्युरिति ॥ टी० सत्यां प्राप्तावित्यादि । शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् ततो वालुकापुरुषवद् विघटेरन् शरीराणि तदेतेन भाष्येण प्रतिपादितम् । औदारिकभेदाश्च पश्चधा, न च भेदः प्रकृत्यन्तरं शरीरनामकर्मणः । सङ्घातप्रकृतिस्वरूपनिरूपणा येदमाह - भा०--- बद्धानामपि न सङ्घातविशेषजनकं प्रश्वयविशेषात् सङ्घातनाम दारुमृत्पिण्डायेःपिण्डसङ्घातवत् ॥ टी० --- बद्धानामपि चेत्यादि । बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन पुद्गलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदा रिक . १ स्निग्धादीनि इति ङ पाठः । २ स्पर्शनादयत्र ' इति च पाठः। ३ 'लिङ्गं त्रिधा पुंसो नपुंसकस्य स्त्रियाच ' इति ङ -पाठः । ४ तदनन्तरं ' इति ङ - पाठः । ५ ' या सङ्घातवत् ' इति घे पाठः । For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ सूत्रं १२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १५३ तनु विशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपात्र युच्यते । तच्चौदारिकादिभेदात् पञ्चधा, परस्परविभिन्न लेप्यकरचना विशेषवच्छरीरपरिणाम एव ह्युपलक्ष्यते । स चैवंविधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्श्रेयः पुरुषयोषिद्रवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातककर्म विशेषाभावात् । कारणानुविधायिच कार्य लोके प्रतीतम् । सङ्घातविशेषादेव हि पुरुषादिशरीरलक्षणो विभागेन व्यपदेशः । अपिशब्दः सम्भावनार्थः । चशब्दोऽवधारणार्थः । सत्येव बन्धननाम्नि न स्याद् विशेषः । यतः सङ्घातविशेषजेनकं प्रचयविशेषात् सङ्घातनाम । सङ्घातविशेषस्य जनकमिति शेषलक्षणा षष्ठीति नास्ति समासप्रतिषेधः । स तु प्रतिपदविहितायाः षष्ठ्याः प्रतिषेधः । प्रचयविशेषादिति । प्रचयविशेषाद्धेतोः पुद्गलानां विन्यासः पुरुषस्त्रीविशेषात्मकः । चशब्दोs - वधारणार्थः । यन्निमित्तश्च स विन्यासस्तत् सङ्घातनाम । तत्प्रसिद्धोदाहरणेन भावयन्नाह - दारुमृत्पिण्डायः पिण्ड सङ्घातवदिति । गद्यबन्धनानुलोम्याच्चात्र द्विः पिण्डग्रहणम् । दारुमृदयः पिण्डवदिति दुरुच्चारं स्यात्, अयोदारुमृत्पिण्डवदिति किं न कृतम् ? अंपूतिवचनाः खल्वाचार्याः सकृदभिर्धाय न निवर्तन्ते, दारुपिण्डवत् मृत्पिण्डवत् अयः पिण्डवच्चेति दृष्टान्तत्रयं सुलभत्वात् प्रतिपत्तुश्चातिशायिप्रबोधहेतुत्वात्, दाववयवसङ्घातो दारुपिण्डः । एवं मृदवयवसङ्घातो मृत्पिण्डः । तथाsयोऽवयवानां सङ्घातोऽयः पिण्डः । तैं एवात्रौ - दारिकादिशरीरयोग्य पुद्गलांश्चेतनेनात्मनाऽऽत्मसात्कृत्य सङ्घातनाम कर्मोदयात् परस्परं संहताः सन्तिष्ठन्त इति ॥ संस्थाननाम स्वरूपाख्यानायाह भा० - संस्थाननाम षड्विधम् । तद्यथा - समचतुरस्रनाम, न्यग्रोधपरिमण्डनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति ॥ ----- टी० - संस्थाननाम षड्विधमित्यादि । संस्थितिः संस्थानम् - आकारविशेषः । तेष्वेव बध्यमानेषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदद्याद् भवति तत् संस्थाननाम, षड्विधं षट्प्रकारम् । तद्यथेत्यनेन षडपि नामग्राहमाचष्टे - समचतुरस्रनामेत्यादि । स च तच्चतुरस्रं चेति समचतुरस्रम् । यतस्तत्र मानोन्मानप्रमाणमन्यूनमनधिकम्, अङ्गोपाङ्गानि चाविकलानि ऊर्ध्वं तिर्यक् च तुल्यत्वात् समं चतुरस्रं चाविकलावयवत्वात् स्वाङ्गलाष्टशतोच्छ्रायाङ्गोपाङ्गयुक्तं, युक्तिनिर्मितलेप्यकवद् वा । न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः १ ' जनकावयवा विशेषात् ' इति ङ-पाठः । २ 'स्त्रीशरीरादिकः' इति च - पाठः । ३ 'अपूर्तिवचनाः' इति गङ-पाठः । ४ 'धायनिव' इति ङ-पाठः । ५ यथा मृत्पिण्डस्तथा ' इति ग-पाठः । ६ स एवमौदारिकादि इति च-पाठः । ' बतेनात्म' इति ङ-पाठः । ८' साचिनाम' इति घ-पाठः । ९' ऊर्ध्वतिर्यक्ष्वतुल्य इति ङ-पाठः । ७ २० For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ समचतुरस्रसंस्थानलक्षणाविसंवादिनोऽधस्तात् पुनरुपरितनभागानुरूपास्तस्य नावयवा इति अत एव न्यग्रोधपरिमण्डलं तदुच्यते । न्यग्रोधाकृतित्वात् न्यग्रोधपरिमण्डलमुपरिविशालशाखत्वादिति । सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिनः उपरि तु नदनुरूपाः । सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः। तस्य हि स्कन्धो द्राधीयानुपरितना न तदनुरूपा विशालतेति । कुब्जनामस्वरूपं पुनः कन्धराया उपरि हस्तपादं च समचतुरस्त्रलक्षणयुक्तं संक्षिप्तविकृतमध्यकोष्ठं च कुब्जम् । वामननाम तु लक्षणयुक्तं ओष्ठग्रीवादि उपरि हस्तपादयोश्च न्यूनलक्षणं वामनम् । हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद्धण्डसंस्थानमिति । तथा चोक्तम् (बृहत्सग्रहण्याम् गा० १७६) "तुल्लं वित्थरबहुलं उस्सेहबहुलं च मडहकोई च । हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥१॥" भा०-संहनननाम षविधम् । तद्यथा-वज्रर्षभनाराचनाम, अर्धवर्षभनाराचनाम, नाराचनाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति ॥ टी-संहनननाम षड्विधमित्यादि । अत्र पूर्ववद् व्याख्या । तद्यथेत्यादिना पण्णामपि स्वरूपमाविर्भावयति-वज्रर्षभनाराचेत्यादि, अस्थ्नांबन्धविशेषः संहननं,ऋषभः पट्टः, वज्र-कीलिका, मर्कटबन्धः य उभयपार्श्वयोरस्थिबन्धः स किल अर्धवज्रर्षभनाराचव्याख्यायां मतभेदः । राचः नाराचः । वर्षभनाराचा यत्र संहनने तद् वर्षभनाराचसंहननम् , अस्थना - बन्धविशेष इति । अर्धवज्रर्षभनाराचनाम तु वज्रर्षभनाराचानामधं किल सर्वेषां वज्रस्यार्धं ऋषभस्याधं नाराचस्यार्धमिति भाष्यकारमतम् । कर्मप्रकृतिग्रन्थेषु वज्रनाराचनामैवं पट्टहीनं पठित, किमत्र तत्त्वमिति सम्पूर्णानुयोगधारिणः कचित् संविद्रते। अधेग्रहणाद् वा ऋपभहीनं व्याख्येयम् । नाराचनाम्नि तु मकेटबन्ध एव केवलो न कीलिका न पट्टः । अर्धनाराचनाम्नि त्वेकपाधै मर्कटबन्धः, द्वितीयपार्श्वे तु कीलिकैव मर्कटबन्धाः, अत्रापि कर्मप्रकृती नैवास्ति। कीलिकानाम विना मर्कटबन्धेनास्थो मध्ये कीलिकामात्रम् । सपाटिकानाम कोटिद्वयसंगते ये अस्थिनी चर्मस्नायुमांसावबद्ध तत् सृपाटिकानाम कीर्त्यते। सृपाटिका-फलसंपुटकं यथा तत्र फलकानि परस्परस्पर्शमात्रवृत्त्या वर्तन्ते एवमस्थीन्यत्र संहनने। तदेवमेतान्येवंविधास्थिसङ्घातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यन्ते, लोहपहनाराचकीलिकाप्रतिबद्धकपाटवदिति ।। १'नोऽवयवा' इति उ-पाठः। २ छाया तुल्य १ विस्तारबहुले २ उत्सेधबहलं ३ चमडभकोष्ठं च ।। ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं ६ हुण्डम् ॥ ३ 'संचियं' इति ग-पाठः । ४ 'रिणः संविद्रते' इति ग-च पाठः । ५ ' कीलपट्टः' इति अ-पाठः । ६ 'कीलिमात्र' इति ग-च-पाठः । For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ साधारण सूत्र १२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-स्पर्शनामाष्टविध कठिननामादि॥रसनामाने कविधं तिक्तनामादि। गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानं कविध कालनामादि । टी-स्पर्शनामाष्टविधमित्यादि । औदारिकादिषु शरीरेषु यम्य कर्मण उदयात् कठिनादिः स्पर्श विशेषः समुपजायते तत् स्पर्शनामाष्टविधम् । तामष्टभेदतां प्रतिपादयभाह--कठिननामादीति । कर्कश-मृदु-गुरु लघु स्निग्ध रूक्ष-शीतोष्णनामानि । स्वस्थाने बनेकभेदत्वमेषां प्रकर्षापकर्षजनितम् रसनामानेकविधं तिक्तनामादि । रसनामानेकभेदं तिक्त कटु-कषाया-ऽम्ल-मधुर-लवणाख्यम् । लवणो मधुरान्तर्गत इत्येके । अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपादनार्थम् । एवमन्यत्राप्यन्तर्भदा वाच्याः । गन्धनामानेकविधमित्यादि । सुरभिगन्धनामादि शरीरविषयं सौरभं दुर्गन्धित्वं च यस्य कर्मणो विपाकान्निवर्तते तद् गन्धनाम । अपरे साधारणं गन्धमाहुस्तदसत् । सुरभिणा दुर्गन्धिना वा भवितव्यं, न साधा रणः कश्चिदस्तीति । वर्णनामानेकविध कालनामादि । यस्योदया च्छरीरेषु कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद् वर्णनाम कृष्ण-नील लोगन्धनिरासः . हित-पीत-शुक्लभेदम् । सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिषु पुद्गलेषु विपच्यन्त इति ॥ आनुपूर्वीनामस्वरूपनिरूपणायाह-- भा०—गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूा तत्प्रापणसमर्थमानुपूर्वीनामेति ॥ टी-गतावुत्पत्तुकामस्येत्यादि । गम्यतेऽसाविति गतिारकाद्युत्पत्तिस्थानम् । तच गतिनामकर्मोदयादवाप्यते । तस्यां गतावुत्पत्तुमिच्छतः कर्ममामर्थ्यादात्मनः । अन्तर्गती वर्तमानस्येति । मनुष्यः 'तिर्यग्योनिवाच्यं यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तर्गतिः तत्र वर्तमानस्य कस्यचिजन्मवतश्चानुपूर्वीनामकर्मोदयो भवति । आनुपूर्वी च क्षेत्रसन्निवेशक्रमः । "अनुश्रेणि गतिर्जीवानां पुद्गलानां च" (अ०२ सू० २७) इति वचनात् । तत्र यत्कर्मोदयादतिगयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति । तचात्मनो गत्यन्तरं गच्छत उपग्रहे वर्तते ऋषभस्येव पयः । सा चान्तर्गतिर्द्वि विधा---ज्वी वक्रा च। तत्र यदा ऋज्व्या गच्छति समयप्रमाणया तदा पूर्वकर्मैवायुरेनुभवन्नानुपूर्वीनामकर्मणैवोत्पत्तिस्थान प्राप्तः पुरस्कृतमायुरासादयति । वक्रगत्या पुनः प्रवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतुःसमयमानया वक्रारम्भकाले पुरस्कृतमायुरादते । तदैव चानुपूर्वीनामाप्युदेति । ननु च यथैव गतावृजव्यां विना आनुपूर्वीनामकर्मणोत्पत्तिस्थानमियति तद्वद् वक्र गत्यामपि कस्मान्नेति ? उच्यते-ऋज्व्या पूर्वकायुव्योपारेणैव गच्छति, यत्र तत्पूर्वकमायुः क्षीणं तत्र तस्योदय इत्य १ 'जातिर्वा यस्तुर्यावदु' इति च -पाठः। २ 'दत्यतिश्येन' इति ग-च-पाठः। ३. ऋजा वक्रा ' इति पाठः । ४ ' रन्तंभवमानु ' इति ङ-पाठः । ५ ' क्रमेणैवो ' इति इ-पाठः । For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ १५६ स्वार्थाधिगमसूत्रम् [ अध्यायः ८ ध्वयष्टिस्थानी यस्यानुपूर्वीनामकर्मणः । तदभिमुखमानुपूर्वीत्यादि । तदित्यनेनाविवक्षितगतिरभिसम्बध्यते । यस्यां मृत उत्पत्स्यते तस्या अभिमुम्वमनुकूल मानुपूर्व्या प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं, भूयस्तस्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्मणः कार्यमादर्शयति, तदुदितं तद्गतिप्रापणे समर्थ - प्रत्यलम् । आनुपूर्वीनामकर्माग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवति । मतान्तरप्रदर्शनायाह आनुपूर्वीच्या- भा०--- - निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमख्यायाँ मतान्तरम् नियामकमानुपूर्वीनामेत्यपरे ॥ डी० - निर्माणेत्यादि । निर्माणनामकर्म व्याख्यातं प्राक्-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनामेति, निर्माणकर्मणा निर्मापितानां घटितानामवयवानामङ्गानां बाहूदरादीनां उपाङ्गानां चाङ्गुलिकर्णनासिकादीनां विनिवेशक्रमनियामकं - रचनानिवेशः तस्य क्रमः - परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोवोपर्युपर्यन्यत्रापि वाच्यः क्रमस्तन्नियामकं-नियमकारि । अनेनाङ्गेनोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वी नामापरे प्रवचनप्रवृद्धाः कथयन्तीति । अगुरुलघुप्रकृति निर्धारणायाह भा० - अगुरुलघु परिणाम नियामक मगुरुलघुनाम ॥ टी० - अगुरुलध्वित्यादि । परिणामत्रयस्यात्र निषेधो विवक्षितो गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य । यस्य कर्मण उदयात् सर्वजीवानामिह कुब्जादीनामात्मीयशरीराणि न गुरूणि न लघूनि स्वतः, किं तर्हि ? अगुरुलघुपरिणाम मे वावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते । सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैनः सिद्धान्तः । तत्रागुरुलघ्वाख्यो यः परिणामः तस्य नियामकमेतत् तत्रोद्भूतशक्ति कैमभिधत्त इत्यगुरुलघुनाम । सर्वशरीराणि च निश्वयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि । व्यवहारनयात् त्वन्योन्यापेक्षया त्रैविध्यमनुरुध्यन्ते । यथोक्तम् ." "निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । ववहारओ उ जुज्जह बायरखंधेसु ननेसु || १ ||" - बृहत्कल्पे १ विनिवेशन नियामकक्रमानुपूर्वी ' इति ग-पाठः । • २ ' नुपूर्व्यादि' इति ङ-पाठः । ३ 'गतिलिङ्गा' इति ङ - पाठः । ४ ' किन्तु ' इति ङ-पाठः । ५ 'कं निधते' इति ग-च-पाठः । ६ छाया निश्चयतः सर्व गुरु सर्व लघु वा न विद्यते द्रव्यम् । व्यवहारस्तु युज्यते बादरस्कन्धेषु नान्येषु ॥ ७ श्लोकार्धमिदं तु दृश्यते विशेषावश्यके ( गा० ६६० ) अपि । For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ सूत्र १२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १५७ उपघातनामस्वरूपाख्यानायाहभा०-शरीराङ्गोपाङ्गोपचातकमुपघातगम । टी-शरीराङ्गोपाङ्गोपघातकमिति । शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परैरनेकधोपधातः क्रियते तदुपघातनाम । मतान्तरं वाशब्देन प्रतिपादयति भा०--स्वपराक्रमविजयाद्युपघातजनकं वा॥ दी-केचिदेवमुपधातजनकं वा केचिदुपघातनाम व्याचक्षते सूरयः पराक्रम:प्राणो वीर्य, स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति स्वविजयं चोपहन्ति । विजितेऽप्यन्यस्मिन् नैव विजित इति व्यपदेशहेतुतां प्रतिपद्यत इति । आदिग्रहणादन्यदपि यदुद्भूतं कर्म तत् तस्योदयेनोपहन्यत इति । पराघातस्वरूपं निरूपयतिभा०-परत्रासप्रतिघातादिजनक पराघातनाम ॥ दी-परत्रासेत्यादि । यस्य कर्मण उदयात् कश्चिद् दर्शनमात्रेणैवोजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रविघातं वा करोति तत् पराघातनाम । आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः ॥ आतपनामनिरूपणायाहभा०-आतपसामध्यजनकमातपनाम ॥ टी-आतपसामर्थ्यजनकमिति । आतपतीत्यातपः । कर्तर्यच् । आतप्यते वाऽनेनेति आतपः । पुंसि संज्ञायां घः। तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जेन्यते तदातपनाम । आङो मयोदावचनत्वात् सहस्रांशुमण्डलपृथिवीकायपरिणाम एव तद् विपच्यते, नान्यत्रेति ॥ उद्दयोतनामस्वरूपप्रतिपादनायाहभा०-प्रकाशसामर्थ्यजनकमुद्दयोतनाम ॥ टी-प्रकाशसामर्थ्यजनकमुहयोतनामेति । उद्दयोतनमुद्दपोत:-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः । सप्तार्चिःसवितृमण्डलासम्भवि, यस्माद रुष्णः स्पर्शो लोहित रूपम् , अतः प्रकाशस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुइयोतनाम । उच्छवासनामस्वरूपमाचष्टेभा०-प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥ १' उत्पत्तेरनेकधा ' इति ङ-पाठः । २ 'प्राणीवीर्याख्यो' इति -पाठः । ३ 'कर्तव्यं च ' इति अ-पाठः । ४'हन्येत ' इति अ-पाठः । For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ १५८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ टी-प्राणापानेत्यादि । ऊर्ध्वगामी समीरणः प्राणः । अधोगतिरपानः । तौ च मृती पुद्गलात्मकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति । प्राणापानावनन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्गलानां ग्रहणम्-आदानं तस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुच्छ्वासनाम, यस्योदयादुच्छ्वासनिश्वासौ भवतः। विहायोगतिस्वरूपप्रतिपादनायाहभा०-लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम ॥ टी०-लब्धिशिक्षीत्यादि । विहायः-आकाशः तत्र गतिविहायोगतिः। सा द्विधा-शुभा च अशुभा च । तत्र शस्ता हंस-गज-वृषादीनाम् । अप्रशस्ता तूष्ट्र-टौल-शृगालादीनाम् । तत्र लब्धिर्देवादीनां देवत्वोत्पत्त्य विनाभाविनी । शिक्षया ऋद्धिः शिक्षद्धिः तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्तनप्रभावाद् वाऽऽकाशगमनस्य लब्धिशिक्षचिहेतोर्जनक विहायोगतिनामति॥ प्रत्येकशरीरनामनिर्धारणार्थमाहभा०-पृथक्शरीरनिर्वतकं प्रत्येकशरीरनाम ॥ टी-पृथक्शरीरनिर्वतकमित्यादि । यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपञ्चेन्द्रियविषयम् । यथा प्रत्येकवनस्पतिजीवो मूल-स्कन्ध-शाखा-प्रशाखा-त्वक्-पत्र-पुष्प-फलादिषु पृथक् शरीरं निवर्तयति तथा द्वीन्द्रियादयोऽपीति । साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे भा०–अनेकजीवसाधारणशरीरनिवर्तकं साधारणशरीरनाम । त्रसभावनिर्वर्तकं त्रसनाम। टी-अनेकजीवेत्यादि । अनेकशब्देनानन्तसङ्ख्याग्रहणम् । अनन्तानां जीवानामेकं शरीरं साधारणं किसलयनिगोदवज्रप्रभृति यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि । तदभिन्नं सद यस्य कर्मण उदयान्निर्वर्तते तत् साधारणशरीरनाम । तथा त्रसेत्यादि। अस्यन्तीति वसा-द्वित्रिचतुःपञ्चेन्द्रियलक्षणाःप्राणिनः, यस्मात् तस्य कर्मण उदयात् तेषु परिस्पन्दोऽञ्जसा लक्ष्यते, स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद् भवति तत् प्रसस्वनिवर्तकं त्रसनाम, तदुदये एव गत्यादिक्रिया भवतीति सोऽवधार्यते । गमनं तु तदुदयात स्वभावाच । तदुदयाद् द्वीन्द्रियादीनां स्वभावात् परमाणु-तेजो-वाय्यादीनामिति । कमलिनीखण्डादेर्देशान्तर एव गमनश्रवणाद् व्यभिचार इति चेत्र अधिष्ठातृव्यन्तरानुभावानुग्रहादिति । १' मधीतानां ' इति *-पाठः । २ ‘विषयाणां' इति -पाठः। ३ 'भस्तबस्य ' इति -पाठः ।। 'साधारणनाम' इति ग-पाठः । ५ ' नावधार्यते' इति च-पाठः । For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ सूत्र १२ ] भा० ० - स्थावर भावनिर्वर्तक स्थावरनाम | स्वोपज्ञभाष्य–टीकालङ्कृतम् स्थावर भावेत्यादि । स्थावरनाम स्थानशीलं स्थावरं तद्भावः स्थावरत्वं निर्वर्तयति यत् पृथिव्यम्बु वनस्पत्यादिलक्षणं तत् स्थावरनामकर्म । स्थानशीलत्वं तु स्थावरनाम कर्मो दयादेव पृथिव्यम्बुवनस्पतीनाम् । परमार्थतस्तु तत्र स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वाऽभूत् । एवं च तेजोवाय्वोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति ॥ - सौभाग्यनिर्वर्तकं सुभगनाम । भा० डी० - सौभाग्येत्यादि । कमनीयः सुभगो - मनसः प्रियस्तद्भावः सौभाग्यं तस्य निर्वर्तकं - जनकं सुभगनाम । भा० - दौर्भाग्यनिर्वर्तकं दुर्भगनाम । टी० - दौर्भाग्येत्यादि । सौभाग्यविपरीतलक्षणं दुर्भगनाम । अनिष्टो मनसो योऽप्रियस्तद्भावो दौर्भाग्यम् । यस्य कर्मण उदयादिति ॥ १५९ भा०- सौस्वर्यनिर्वर्तकं सुस्वरनाम । दौः स्वर्यनिर्वर्तकं दुःस्वरनाम । टी० – सौस्वर्येति । येन शब्देनोच्चरितेनाकर्णितेन च भूयेसी प्रीतिरुत्पद्यते तत् सुस्वरनाम । तद्विपरीतं दुःस्वरनाम । यत् तु श्रूयमाणमसुखमावहति तद् दुःस्वरनामेति ॥ भा० – शुभभावशोभामाङ्गल्यनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकं अशुभनाम | टी० - शुभेति । शुभो भावः पूजित उत्तमाङ्गादिस्तजनितः शोभा पूजा पुरस्कार : शिरसा पादादिनाऽस्पर्शनं माङ्गल्यमिति पवित्रं तन्निर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकमशुभनाम | शरीरावयवानामेव हि शुभाशुभता ग्राह्या । यथा पादेन स्पृष्टः क्रुध्यतीति ।। भा०-- सूक्ष्मशरीर निर्वर्तकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ॥ टी० – सूक्ष्मेति । सूक्ष्मं - श्लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद् भवति शरीरं पृथिव्यादीनां केषाञ्चिदेव तत् सूक्ष्मशरीरनाम । बादरशरीरनिर्वर्तकं बादरनाम । बादरं स्थूल के पाश्चिद् विद्यावतां जीवानामिव यस्य कर्मण उदयात् स्थूलशरीरखा भवति तद् बादरनामेति, न तु चक्षुर्ग्राह्यतां प्रतीत्यापेक्ष्य सूक्ष्मबादमिति ॥ पर्याप्तस्थिर देययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय प्रक्रम्यते भा०- पर्याप्तिः पञ्चविधा । तद्यथा - आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिरिति । पर्याप्तिः क्रियापरिसमाप्तिः आत्मनः । १' मनसोऽप्रिय' इति च - पाठः । २ ' भूयसा ' इति च-पाठः । ३ 'रतेति' इति - णठः । For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ १६० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ टी-पर्यासिः पञ्चविधेत्यादि । पर्याप्तिः पुद्गलरूपात्मनः कर्तुः करणविशेषः । येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यैः पुद्गलनियते ते पद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते । सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण 'निर्दिदिक्षनाह-तद्यथेत्यादि । आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः । शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः । इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः । प्राणापानौ-उवासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः । भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्ति षापर्याप्तिः । यथोक्तम् "आहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती। __ होइ जओ दलियाओ करणं एसा:उ पज्जत्ती ॥" इतिशब्दःइयत्ताप्रतिपादनार्थः ॥ ननु च षट् पर्याप्तयः पारमर्षवचनप्रसिद्धाः कथं पञ्चसंख्याका इति ? उच्यतेइन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्सेरपि ग्रहणमवसेयम् । अतः पश्चैवेति निश्चयः॥ ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः, कथमिन्द्रियग्रहणाद् ग्रपर्याप्तिसङ्ख्या- हीष्यते तदिति ? उच्यते-यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि न तथा मनः, सुखादीनां पुनः साक्षाद्ग्राहकं मनः, न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् । इन्द्रलिङ्गत्वात् तु भवत्येवेन्द्रियमिति ॥ तथा केचिदाचार्याः पृथग्मनापर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते । यच्चावधारणं पश्चैवेति तद् बाह्यकरणापेक्षया । मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद् दोषः । उभयथापि मनःपयोप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाहिरात्मनस्तैजसकार्मणशेरीरमाज एव, औदारिकादिशरीरप्रेक्षायां प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः । युगपचारब्धाः षडपि क्रमेण निष्पद्यन्ते, न सम्कम्, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् । क्रमथायम्-आहार-शरीरे-न्द्रिय-प्राणापान-वचन-मनोलक्षणः। तत्राहारपयोप्तिस्वरूपनिरूपणायाह भा०–शरीरेन्द्रियवाचनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्ति: आहारपयोप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपयोतिः। संस्थापनं रचना घटनमित्यर्थः। १ . निर्दिदृक्ष' इति च-पाठः । २ 'करणपरिनिष्पति' इति च-पाठः । ३ छाया माहारशरीरेन्द्रियोच्छ्वासनिःश्वासमनोऽभिनिर्वृत्तिः । भवति यस्मात् दलिकात् करण एषा तु पर्याप्तिः॥ ४'शरीर एव' इति -पाठः । परामर्शः हाव्यत तदिति ? उसने For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ सूत्रे १२] स्वोपज्ञभाष्य - टीकालङ्कृतम् टी० - शरीरेत्यादि । शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषामाहरणक्रिया ग्रहणम् - आदानं तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः । अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणे न मनसोऽप्युपादानमिति । सामान्येन गृहीतस्य योग्यपुद्गलसङ्घातस्य शरीराङ्गोपाङ्गतया संस्थापनक्रिया- विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः । संस्थापनशब्दार्थ प्रकाशनं पर्यायशब्दैरावेदयते - संस्थापनं रचना घटनमित्यर्थः । शरीरवर्गणायोग्यपुद्गलानां प्रतिनियतावयवेनेत्यर्थः । भा० ० - त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । टी० - स्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन-रसन घ्राण चक्षुः श्रोत्र- मनोलक्षणम् । तत्र च रूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ॥ भा० – प्राणापान क्रियायोग्यद्रव्य ग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥ टी० - प्राणेति । प्राणापानावुच्छ्वासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणशक्तिः-सामर्थ्यं तन्निर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥ भा०- भाषायोग्यद्रव्यग्रहणनिसर्गशक्ति निर्वर्तनक्रियापरिसमाप्तिर्भाषाप १६१ र्याप्तिः । टी० - अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गौ तद्विषया शक्तिः - सामर्थ्य तन्निर्वर्तन क्रियापरि समाप्तिर्भाषापर्याप्तिरिति ॥ भा० - मनस्त्वयोग्यद्रव्यग्रहणनिसर्ग शक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मन: पर्याप्तिरित्येके । डी० - मनस्त्वयोग्यानि मनोवर्गणा योग्य नि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मनः पर्याप्तिरिति । एके वाचार्या मेवेन मनः पर्याप्तिमुपाददते । इन्द्रियपर्याप्तिं नोइन्द्रियपर्याप्तिग्रहणेन गृहन्ते । इन्द्रियपर्याप्सिं व्यतिरेकेण पठन्तीत्यर्थः । न पुनर्मनः पर्याप्तिं केचिदिच्छन्ति के चिनेति ॥ भा०-- आसां युगपदारब्धानामपि क्रमेण सभातिरुत्तरोत्तर सूक्ष्मतर स्वात् सूत्रदार्वादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि - टी० -- आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाः क्रमेण परिसमाप्तिमासा - दयन्तीति दर्शयति । किं पुनः कारणं वैषम्येण परिनिष्ठा याऽसामित्याह उत्तरोत्तर सूक्ष्म १' स्वरूप' इति च पाठः । २ ' मनश्च' इति ङ-प 5: । ३ 'र्गस्य पर्यासस्य' इति ङ-पाठः । ४ 'यीप्तिशनिन्द्रिय इति ऊ-पाठः ' २१ For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ १६२ तत्वार्थाधिगमसूत्रम् [अध्यायः ८ तरत्वादिति । आहारपर्याप्तेः शरीरपाप्तिः सूक्ष्मतरा बहुतरसूक्ष्मद्रव्यनिचयघटिता । ततोऽपीन्द्रियपर्याप्तिः सूक्ष्मतरा । तस्या अपि प्राणापानपयोप्तिः। ततोऽपि वाक्पयाप्तिः। ततश्च मन:पयोप्तिः सुमुक्ष्मेति । तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन भावयति-सूत्रदावादिकतैनघटनव दिति । स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च ते कर्तनं युगपदारभेते । तत्र स्थूलसूत्रकर्तिका चिराय क्रुक्कुटकं पूरयति । इतरा त्वाशु परिसमापयति । दारुघटनेऽप्येष एव क्रमः । स्तम्भादीनां स्थलरूपनिर्वर्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुट्टिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्चिरेण निष्पाधते तुल्यकालेऽपि प्रारम्भे । आदिशब्दाचित्र-पुस्तलेप्यकादिपरिग्रहः । यथासङ्ख्यं च निदर्शनानीति॥ :___ अनेन षण्णामपि पर्याप्तीनां क्रमेण पभिरेव दृष्टान्तैः स्वरूपमुपक्रमते । अतो दृष्टान्तस्वरूपप्रतिपादनायाह . भा०-गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिचर्तनानीति। पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनाम, (अप. योप्तिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्मनोपात्तमित्यर्थः॥ ____टी-गृहदलिकग्रहणेत्यादि । तत्र गृहंदलिकग्रहणेनाहारपर्याप्ति साधयति । गृहं कर्तव्यमिति सामान्येन. दलिकमादत्ते शाकादिकाष्ठम् । ततः सामान्योपात्ते दलिकेऽत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते । एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणा. योग्याः पुद्गलाः शरीरनिष्पादनक्षमा इति शरीरपर्याप्तिः । भित्त्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिबारमिदं प्राङ्मुखमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्ति रप्यात्मन उपयोगवृत्त्या प्रवेशनिर्गमनद्वारस्थानी येति । एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये । दाष्टोन्तिकभेदात् तु दृष्टान्तभेदः। ततः सद्वारकेऽपि निष्पबे समनि अत्रासनमत्र शयनीयमत्र भुजिभूरिति स्थानशयनादिक्रियानिवर्तनमालोचयन्ति गेहिनः, नद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति । एवमेताः षट् पर्याप्तीर्यनिवर्तयति तत् कर्म पर्याप्तिनाम, जापाकप्रक्षिप्तेनिवृत्तघटवत् । अपर्याप्तिनाम तु अनिष्पन्नध्वंस्यनिष्पनघटवदिति । एतदुक्तं भवति-यस्योदये पर्याप्तयो नासादयन्ति परिपूरिमतामपर्याप्त एव म्रियते, कदाचिद् वा विनाऽपि भवति यथा सम्मूछेनजमनुष्यादिरिति । भा०-स्थिरत्वनिर्वतक स्थिरनाम । 'विपरीतमस्थिरनामः॥ टी-स्थिरत्वनिवर्तकं स्थिरनाम. । यस्योदयाच्छरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम । अस्थिरनामापि शरीरावयवानामेव । यदुदयादस्थिरता १ ‘सूत्रा-' इति ड-पाठः । धनुदिनान्तर्गतो घ-पाठः । ३ ' स्थापयतीति' इति उ-पाठः । ४ 'हारोपेक्षा ' इति च-पाठः । ५.धृतघटवद' इति -पाठः । ६ ‘तदेतद्विपरीत.' इति ग-पाठः । 'शिरोमुखदन्ता' इति ग-पाठः। For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ सूत्रं १३] स्वोपज्ञभाष्य-टीकालङ्कृतम् १६३ चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति । तदेतद्विपरीतमस्थिरनामेत्यनेन । प्रतिपादितम् ॥ भा०-आदेयभावनिर्वर्तकं आदेयनाम । विपरीतमनादेयनाम ॥ टी०-गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत् । एतदुक्तं भवति-यस्योदयेन नामकर्मोदयस्तेनोक्तं प्रमाणं क्रियते यत् किश्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकाः समाचरन्तीत्येवंविधविपाकमादेयनाम । विपरीतमनादेयनाम । युक्तियुक्तमपि वचनं यदुदयान प्रमाणयन्ति लोकाः, न चाभ्युत्थानाधहणाहस्यापि कुर्वन्ति तदनादेयनाम । अथवा आदेयता-श्रद्धेयता दर्शनादेव यस्य भवति स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम । तेद्विपरीतमनादेयनामेति ॥ भा०-यशोनिवर्तकं यशोनाम, तद्विपरीतमयशोनाम । टी०-यशः-प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसना यदुदयात् तद् यशोनाम । तद्विपरीतं अयशोनाम । दोपविषया प्रख्यातिरयशोनामेति ॥ भा०-तीर्थकरत्वनिर्वर्तकं तीर्थकरनाम ॥ टी०-तीर्थकरत्वेति । यस्य कर्मण उदयात् तीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधर्म च कथयति आक्षेपसंक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनामेति ॥ नामकर्मभेदाख्यानाय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये भा०--तांस्तान भावान् नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽनेकविधः प्रत्येतव्यः ॥ १२ ॥ टी०-तांस्तानिति । तांस्तानाभिजात्यादीन् (भावान ) नामयति-अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते । एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेद इति । गतिश्चतुर्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ १२ ॥ सम्प्रति प्रकृतिवन्धं गोत्रस्याख्यातुमुपक्रमते गोत्रप्रकृती सूत्रम्-उच्चैनीचैश्च ॥ ८-१३॥ भा०-उच्चैर्गोत्रं नीचैर्गोत्रं च (विभेदं गोत्रम्) । तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वयोंद्युत्कर्षनिवतकम् । विपरीतं नीचैगोत्रं चण्डालमुष्टिकव्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ १३ ॥ १ 'प्रमीक्रियते ' इति च-पाठः । २' विपरीत.' इति ग-पाठः । ३ 'यशोभावनिर्व.' इति ग-पाठः । ४ धमुश्चिनान्तर्गतः पाठो घ-पुस्तके नास्ति । For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ १६४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ टी०-यदुदयाज्जीवो गच्छत्युचैर्नीचैश्च जातीरुच्चावचास्तद् गोत्रं द्विविधम्-उच्चनींचैश्चेति उच्चैोत्रं नीचैर्गोत्रम् । चशब्दोऽवधारणार्थः । विभेदं द्विप्रकारमेवेति । तत्रोचे गोत्रमित्यादिना गोत्रकर्मणः कार्यमावेदयते । कार्यलिङ्गं हि कारणं तयोर्द्वयोः प्रकृत्योर्यदुर्गोत्रं तस्येदं कार्यमिति दर्शयति । आर्यदेशे मगधा-ऽङ्ग-वङ्ग कलिङ्गादिके सम्भवः जातिः । पितुरन्धयो हरिवंशेक्ष्वाकुप्रभृतिः । कुलं मातुरन्वयः । सोऽप्येवंप्रकार एवोग्रभोजादिलक्षणः। स्थानमिति । प्रभोः समीपे प्रत्यासन्ननिवेशित्वम् । मानः पूजा स्वहस्तेन ताम्बूलप्रदानादिः । सत्कारोऽभ्युत्थानासनाञ्जलिप्रग्रहादिः क्रियते तस्यासौ, उच्चैर्गोत्रादयः ऐश्वर्यमिभाश्वरथपदातिप्रभृतेः प्राभूत्यं उत्कर्षापकर्षभाक्त्वादनेकविधम् । एषां देशादिसम्भवानां निर्वर्तकमुच्चैर्गोत्रम् । विपरीतं नीचैर्गोत्रमिति । चण्डालाः प्रसिद्धा एव मातङ्गाः । चण्डालग्रहणं च प्रदर्शनं बहूनां वरुडकमुरुक्ककादीनाम् । मौष्टिकाः शौरिकादयः । व्याधा मृगयवो लुब्धकाः । मत्स्यबन्धाः प्राणातिपातहेतुभिरानायादिभिजीवन्ति ये। दासभावो दास्यं तनिर्वतकं नीचैर्गोत्रमिति । आदिशब्दादवस्करशोधकादिपरिग्रह इति ॥ १३ ॥ अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह सूत्रम्-दानादीनाम् ॥ ८-१४॥ भा०-अन्तरायः पञ्चविधः। तद्यथा-दानस्यान्तरायः, लाभस्यान्तरायः, अन्तरायस्य प्रकृति- भोगस्यान्तरायः, उपभोगस्यान्तरायः, वीर्यस्यान्तराय इति पञ्चकत्वम् ॥१४॥ टी-दानादीनाम् एतावत् सूत्रम् । तत्र दानादीनामिति षष्ठी प्रतिविशिष्टसम्बन्धापेक्षा । प्रस्तुतश्चान्तरायो मूलप्रकृतिबन्धमाह-अन्तरायः पञ्चविध इति । तद्यथेत्यनेन पञ्चविधतां दर्शयति-दानस्येत्यादि । दान-देयम् । सत्यपि द्रव्ये न ददाति तद्धि कर्मोदितं दीयमानस्य कर्मणो विनम्-अन्तरायमन्तर्धानं करोतीति दानान्तरायः। द्रव्ये प्रतिग्राहके च सन्निहितेऽस्मै दत्तं महाफलमिति जोनानोऽपि दातव्यं न ददाति । एवं लाभभोगोपभोगवीर्यान्तरायेष्वपि योज्यम् । तथा कश्चिद् वदान्यः सर्वदा दानाकरः समस्तार्थिभ्यो यथाप्रार्थनं स्वशक्त्या निर्विशेषमूर्जितचेता यस्मै याचतेऽपि नो विसृजति प्रदेयमल्पमपि तस्य लाभान्तरायकर्मोदयः । तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षम माल्य-चन्दनाऽगुरुप्रभृति, तच्च सम्भवादपि यस्य कर्मण उदयाद् यो न भुङ्क्ते तस्य भोगान्तरायकर्मोदयः। १ 'मुरुक्तकादीनाम्' इति च-पाठः । २ ' अन्तरायः ' इत्यधिको ग-पाठः । ३ ' मूलप्रकृतिबन्धितना(१)भिसम्बन्ध ' इति च-पाठः । ४ 'जॉनन्नपि ' इति च-पाठः । ५ ' मूञ्छित' इति ड-पाठः । For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ सूत्रं १५ ] स्वोपज्ञभाष्य - टीकालङ्कृतम् १६५ स्त्री-वस्त्र-शयना - Ssसन भाजनादिरूपो भोगः । पुनः पुनरुपभुज्यते हि सः । पौनःपुन्यं चोपशब्दार्थः । स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत् कर्म उपभोगान्तरायाख्यम् । वीर्यमुत्साहः चेष्टा शक्तिरिति पर्यायाः । तत्र कस्यचित् कल्पस्याप्युपचितवपुपोऽपियूनोऽप्यल्पप्राणता यस्य कर्मण उदयात् स वीर्यान्तराय इति । उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिव्यप्तेजोवायुवनस्पतिषु क्षयोपशमजनितारतम्यात् । द्वीन्द्रियादेस्तु वृद्धि वीर्यस्य यावद्धि चरमसंमयच्छद्मस्थ इति प्रकर्षापकर्षविशेषोपलब्धेः । उत्पन्न केवले तु भगव सर्ववीर्यान्तरायक्षयः । तत्र तु निरतिशयं वीर्यमिति । अत्र चाष्टानामपि कर्मणामुत्तर प्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति -बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिथ्यात्वयोर्धन्धो नास्ति । मिथ्यादर्शनपुद्गलानामेव तथा परिणामात्, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतम् । तायेमाः – ज्ञानावरणं पञ्चभेदम् अन्तरायं च दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुचतुर्धा, नामकर्मणि गतिश्चतुर्विधा आनुपूर्वी च, जातिनाम पञ्चविधं, शरीरनाम च, बन्धनसङ्घातनाम्नोः शरीरनामान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम षोढा संहननं च अङ्गोपाङ्गं त्रिधा, विहायोगतिर्द्विधा, वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्रासातपोद्योतत्रस स्थावर बादरमुक्ष्मपर्याप्तापर्याप्तप्रत्येक शरीर साधारणशरीरस्थिरास्थिरशुभाशुभसुभगदुर्भग सुस्वरदुःस्वरादेयानादेययशोनामायशोनाम निर्माणनामतीर्थकरना मान्येकभेदानि भवन्ति ॥ १४ ॥ इत्थं प्रकृतिबन्धनिरूपणमभिधाय स्थितिबन्धमभिधेयतयोपक्रममाण आहभा० – उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः । डी० ० उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्याम इति । प्रकृतिबन्धो यथादभिहितः । सम्प्रति स्थितिबन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः । तदभिधित्सया चेदमाह - सूत्रम् - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ ८-१५ ॥ डी० - आदित इत्यादि सूत्रम् । आदावादितः औपसंख्यानिकस्तसिः । सूत्रगतशब्दप्र योजनानि आद्यादिभ्यस्तसिर्वाच्यः । तिसृवचनमन्यमूलप्रकृतिव्युदासार्थम् । ततश्वान्यप्रकृत्य सम्प्रत्येयान्तरायवचनमन्तरस्थित्य विलङ्घनार्थम् । सामान्य स्थित्यर्थमित्यर्थः । चशब्देनान्तरायस्य समुच्चयः । सागरकोटीनां च कोट्यः । परेति प्रकृष्टा, मध्यम जघन्य स्थितिनिरासः । स्थितिवचनं 'प्रतिज्ञातोपसंहारार्थम् । आदितस्तिसृणामित्यादिभाष्येणातुमर्थ प्रतिपादयति- १' समयस्थ ' इति च पाठः । २ ' परिणतेः ' इति ङ-व-पाटः । For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ १६६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा०-आदितस्तिमृणां कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेद्यानाम् अन्तरायप्रकृतेश्च त्रिंशत् सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥ टी-ज्ञानदर्शनावरणवेद्यानामन्तरायकर्मणश्चैषा स्थितिः-अवस्थानं बन्धकाभातावरणीयादि- लात् प्रभृति यावदशेषं निर्जीणमित्येष स्थितिकालः । एवमासां चतसृणां प्रकृतीनामबाधा- मूलप्रकृतीनां उत्कृष्टः स्थितिबन्ध उक्तः । वर्षसहस्रत्रितयं चाबाधा कालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकम उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारभ्य त्रिषु वर्षेसहस्रेष्वतीतेषु, स खल्यबाधाकालो यतस्तत् कर्म नानुभूयते तावन्तं कालमिति ॥ १५ ॥ अथ मोहनीयकर्मप्रकृतेः कियान् स्थितिबन्ध इति तदभिधानायाह सूत्रम्-सप्ततिर्मोहनीयस्य ॥ ८-१६ ॥ भा०-मोहनीयस्य कर्मप्रकृतेः सप्ततिसागरोपमकोटीकोव्यः परा स्थितिः ॥ १६ ॥ टी.-सप्ततिर्मोहनीयस्येति । सागरोपमकोटीकोव्य इत्यनुवर्तते। ताः सप्ततिसंख्ययो सम्बध्यन्ते । मोहनीयेत्यादिना एतदेव स्पष्टतरं विवृणोति, प्रतिपादितार्थ चैतद भाष्यमिति । अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि । ततःपरं बाधाकालो यावदशेष क्षीणमिति ॥ १६॥ नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह सूत्रम्-नामगोत्रयोविंशतिः ॥ ८-१७ ॥ भा०-नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटीकोव्यः परा स्थितिः॥१७॥ टी-नामकर्मणो गोत्रकर्मणश्चविंशतिः सागरोपमकोटीकोट्यः परा स्थितिरिति । नामगोत्रेत्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः । अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ १७ ॥ आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह सूत्रम्-त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥ ८-१९॥ भा०-आयुष्कप्रकृतेस्त्रयस्त्रिंशत् सागरोपमाणि परा स्थितिः ॥ १८ ॥ टी-त्रयस्त्रिंशदित्यादि । त्रयस्त्रिंशत् सागरोपमाणि पूर्वको टित्रिभागाभ्यधिकानि। प्रयस्त्रिंशद्वचनात्.कोटीकोट्य इति निवृत्तम् । पूर्वकोटित्रिभागवावाधाकालः। भायुष्कप्रकृते. रित्यादि भाष्यं सुज्ञानमेव ॥ १८ ॥ १ 'एवमेतासां ' इति व-पाठः । २ " ०यकर्म० ' इति घ-पाठः । ३ 'याऽभिसम्ब० ' इति ग-पाठः । For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ सूत्रं १९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १६७ मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्ध उत्कृष्टः। सम्प्रत्युत्तरप्रकृतीनां प्रत्येकमु स्कृष्टो जघन्यश्वोच्यते सूत्रक्रमाश्रयणेन । तत्रासद्वेद्यप्रकृतेस्त्रिंशत् सागरोसातासात्योः पमकोटीकोट्यः स्थितिः परा, जघन्या सागरोपमस्य सप्तभागास्त्रयः परापरी बन्धी पल्योपमस्यासङ्ख्येयभागेन न्यूनाः, सद्वेद्यस्य पञ्चदश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या द्वादशमुहूतो, अबाधाऽन्तर्मुहूर्तम् । अत्रैतत्सूत्रमाह सूत्रम्-अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥ भा०-घेदनीयप्रकृतेरपरा बादशमुहूर्ता स्थितिरिति ॥ १९ ॥ सूत्रपाठभेदः टी०-वेदनीयप्रकृतेरित्यादिभाष्यम् । अपरेत्युत्कृष्टापेक्षया जघन्यो१ च्यते । अपरा जघन्येत्यर्थः । कथं मध्यमा नेति चेत् व्याख्याविशेषाददोषः। अधरेति वा सूत्रपाठः । अपरेति(?) स्पष्टमेव सूत्रमधीयते-जघन्या द्वादशमुहूर्तेति ॥ १९॥ - सम्प्रति नामगोत्रयोरुत्तरप्रकृतीनां स्थितिरुच्यते । तत्र नामप्रकृतीनां तावत् मनुष्यगतिमनुष्यगत्यानुपूर्योरुत्कृष्टः स्थितिबन्धः पञ्चदश सागरोपमकोटीकोव्यः पञ्चदशवर्षशतान्यबाधा, नरकगतिः तिर्यग्गतिरेकेन्द्रिया जातिः पश्चेन्द्रियजातिः औदारिक-वैक्रिय-तैजसकार्मणशरीराणि हुण्डसंस्थानं औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गं च वज्रसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतियेगानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रस . स्थावरवादरपर्याप्तप्रत्येकशरीरास्थिरासुभगदुर्भगदुःस्वरानादेयायशःकीनामकर्मोत्तरप्रकृ. तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटीकोव्यः तीनामुत्कृष्टा स्थितिरबाधा च च वर्षसहस्रद्वयमबाधा। देवगतिर्देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वर्ष " भनाराचसंहननं प्रशस्त विहायोगतिस्थिरशुभसुभगसुस्वरादेययश-कीर्तीनां दश सागरोपमकोटीकोट्यः परा स्थितिः दश वषेशतान्यबाधा । न्यग्रोधसंस्थानवज्रनाराच. संहननयोदशसागरोपमकोटीकोव्यः परा स्थितिः द्वादश वर्षशतान्यबाधा । साचिसंस्थाननाराचसंहननयोश्चतुर्दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा । कुब्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोट्यः षोडश वर्षशतान्यबाधा । वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापप्तिसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीर एतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः अबाधा १ 'श्रयणात्' इति ग-पाठः । २ 'क्त ' इति ङ-पाठः । ३ स्थितिबाधा ' इति च-पाठः । ४ 'द्वादश' इति च-पाठः । For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ १६८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ स्वन्तर्मुहूर्तम् । एवमेता नामकर्मणः सप्तपष्टिरुत्तरप्रकृतयः । शेषकर्मणां त्रिपश्चाशत् । एवं च विंशत्युत्तरं प्रकृतिशतं भवति ॥ सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते । मनुष्यतिर्यग्गतिपश्चेन्द्रियजातिरौ दारिकतैजसकार्मणानि संस्थानपट्कं औदारिकाङ्गोपाङ्गं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यग्मनुष्यानुपूव्यौँ अगुरुलधूपघातपराघातोच्छ्वासातपोद्योताः प्रशस्ताप्रशस्ते विहायोगती त्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मवादरपयोप्तापयोप्तप्रत्येकनामप्रकृतीनां साधारणशरीरस्थिरास्थिराऽऽदेयानादेयनिर्माणायशसां सागरोपमस्य द्वौ जघन्या स्थितिरखाधा च सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूतेकालः, देवनरगती आद्यं जातिचतुष्क वैक्रियशरीरं एतदङ्गो. पाङ्ग नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागभागेन न्यूनौ, अबाधाकालोऽन्तर्मुहूर्तः । आहारकशरीरे तदङ्गोपाङ्गतीर्थकरनाम्नां जघन्या स्थितिः सागरोपमकोटीकोट्यन्तः, अबाधा त्वन्तर्मुहूतकालः । यशाकीर्तेर्जघन्या स्थितिरष्टौ मुहूतोः, अबाधा त्वन्तमुहूतेकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचकेनेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता । सूत्रम्-नामगोत्रयोरष्टौ ॥ ८-२० ॥ भा०-नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥ टी.-नामगोत्रप्रकृत्योरित्यादि भाष्यं गतार्थम् । एवमेतासां नामप्रकृतीनां सप्तपेष्टिसंख्यानामुत्कृष्टा जघन्या च स्थितिरुक्तेति । सम्प्रति गोत्रकर्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते । नीचैर्गोत्रस्य जपल्या स्थितिः सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः । उच्चैर्गोत्रस्थितिजघन्येनाष्टी मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्रापि सूत्रानुप्रवेशः.॥२०॥ पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पश्चानां चान्तरायतावरणादीनां प्रकृतीनां जघन्या स्थितिरन्तर्मुहूर्त कालः, अवाधाप्यन्तमुहूर्त एव । दर्शनाउत्तरप्रकृतीनां वरणे निद्रापञ्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागा: जघन्या स्थितिर. पल्योपमासङ्ख्येयभागेन न्यूनाः । मोहनीयप्रकृतेः मिथ्यात्वस्य सप्त बाधा च। भागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनाः। अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकपायाणां द्वादशानां चत्वारो भागाः सागरोपमस्य जपन्या स्थितिः पल्योपमासङ्ख्येयभागन्यूनाः। संज्वलनक्रोधस्य जघन्या स्थितिर्मासद्वयम्,अन्त. महूर्तश्चाबाधा। संज्वलनमानस्य जघन्या,स्थितिर्मासः अन्तर्मुहूर्तमवाधा। संज्वलनमायाप्रकृतेजध १ 'षष्टेरुत्कृष्ट ' इति च-पाठः । ३ ' चत्वारो भागाः सागरोपमस्य ' इति च-प्रती नास्ति । For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ सत्र २२] स्वोपज्ञभाष्य-टीकालङ्कृतम् १६९ न्यार्धमासः,अबाधाअन्तर्मुहूर्तकालः। संज्वलनलोभस्यान्तर्मुहूर्तकाला स्थितिजघन्या, अबाधाप्यन्तर्मुहूर्त एव। पुंवेदस्य जघन्या स्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्तकालः। हास्यरत्यरतिमयशोकजुगुप्सास्त्रीनपुंसकवेदानां जघन्या स्थितिः सागरोपमभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ, अन्तर्मुहूर्तश्चाबाधा । देवनारकायुषां जघन्या स्थितिः दश वर्षसहस्राणि, अबाधा अन्तर्मुहूतेकालः। तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम्, अबाधा अन्तर्मुहूर्तकाल इति ॥ एवमेतेषां ज्ञानदर्शनावरणमोहायुषां कर्मणां यत्रान्तर्मुहूर्तकाला स्थितिस्तत्रेद सूत्रमुपतिष्ठते सूत्रम्-शेषाणामन्तर्मुहूर्तम् ॥ ८-२१ ॥ भा०-वेदनीय-नाम-गोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरण-दर्शनावरण-मोहमीया-ऽऽयुष्का-ऽन्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहृतं भवति ॥ २१॥ टी०-वेदनीयेत्यादि भाष्यं सुगममिति । भा०-उक्तः स्थितिबन्धः । अनुभावयन्धं वक्ष्यामः ॥ टी०-सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः । अनुभावपन्ध पक्ष्याम इति प्रतिज्ञातं तन्निस्तरणायाह __ सूत्रम्-विपाकोऽनुभावः ॥ ८-२२ ॥ टी०-विपाकोऽनुभाव इति । विपचनं विपाकः-उदयावलिकाप्रवेशः। कर्मणां विशिष्टो नानाप्रकारोवापाको विपाकः-अप्रशस्तपरिणामानां तीव्रः, शुभपरिणामानां मन्दः। यथोक्तकर्मविशेषानुभवनं अनुभावः "कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति वचनात् । अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभावबन्धः । "करणाधिकरणयोश्च" (पा० अ०३, पा० ३, सू० ११७) इति पञ् । अनुशब्दस्य समुदायार्थ प्रदर्शनम् । अनुगतोवा भावोऽनुभाव इति प्रादिसमासःक्रियालोपी। सर्वासां हि प्रकृतीनां फलं विपाकोदयानुभावबन्धाज्जीवस्यानुसमयं कर्मानुभवनमिच्छानिच्छापूर्वकम्। तद्यथा-ज्ञानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति । एवं सर्वकर्मणां स्वकार्यबन्धोऽनुभूतिरिति । ___ भा०--सर्षासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवतीति। विविधा पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्यय मेषानाभोगवीर्यपूर्व कर्मसक्रमं करोति । टी.-सर्वासां प्रकृतीनामित्यादि भाष्यम् । सर्वासामिति कायग्रहणम् । कर्मपन्धस्य फलं विपाका तस्योदयोऽनुभाव इति पर्यायकथनेन व्याख्या भवति । वेद्यते अवश्यभावी विपाकः सर्वस्य कर्मणः। विशब्दार्थमाचष्टे-विविधो-जानाभकारः पाको विपाक १ 'अनुभागबन्ध ' इति ग-पाठः । २ - बन्धनं ' इति ग-पाठः। ३ भवति ' इति घ-पाठः । २२ For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ १७० तत्त्वाधिगमसूत्रम् [ मध्याय: ८ उच्यते। तद्वैविध्य 'निरूपयति-तथा चान्यथा चेत्यर्थः । यथा येनाध्यवसायप्रकारेण यादृगभावं बद्धं कर्म तत तथा तेनैव प्रकारेण विपच्यते अन्यथा च, प्रकारान्तरेणापीत्यर्थः। अनुभावो विपाको रस इति पर्यायाः । स च तीव्रमन्दमध्यमावस्थाभेदः शुभश्चैककः । तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयते, अशुभं च शुभरसतयेति वैविध्यार्थः । तथा चाह " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। स रसोऽनुभावसंज्ञस्तीवो मन्दोऽथ मध्यो वा ॥१॥" तत्र चाष्टप्रकारे कर्मणि किश्चित् कर्म पुद्गलेष्वेव विपच्यते, तत्पुद्गलान् परिणमयति नानाप्रकारेण, किञ्चिद् भवविणकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते। अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः । अन्यजीवविपाकीति, जीव एव विपच्यते इति । एवं चतुर्षा विपच्यते । तथा चाह "संहननं संस्थानं वर्णस्पर्शरसगन्धनामानि । अङ्गोपाङ्गानि तथा शरीरनामानि सर्वाणि ॥ १॥ केषाश्चित् कर्मणां अगुरुलघुपराघातोपघातनामातपोद्योतनामानि । पुद्गलादिषु विपचनम् प्रत्येकशरीरस्थिरशुभनामानीतरः सार्धम् ।। २॥ प्रकृतय एताः पुद्गलपाका भवपाकमुक्तमायुष्कम् । क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोऽन्याः ॥३॥" कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्मविपाकमनुभवनित्यादि । स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाक सुञ्जानो रसमनुभवन्-वेदयमानः प्रकृतीनां सङ्क्रमं करोति । स च सक्रमः कर्मप्रत्यय:कर्महेतुक एव, निर्निमित्तो यः स्यादनाभोगो हि ज्ञानावरणोदयः । अनाभोगवीर्यपूर्वकर्मस क्रमोऽभिसम्बध्यते। करोति क्रियते आभुजतः-अध्यवस्यतश्चेष्टाऽऽत्मनो या तदामोगवीर्यमनाभुञ्जतोऽनध्यवस्यतः सामर्थ्य विशिष्टक्रियापरिणामः अनाभोगवीर्य तत्पूर्वकं तद्द्वारकं कर्मसक्रमं विधचे । स पुनः सक्रमः कासु प्रकृतिषु कासां वा प्रकृतीनामित्याह भा०-उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु, न तुमूलप्रकृतिषु सरकमो विद्यते, पन्धविपाकनिमित्तान्यजातीयकत्वात् । टी०-उत्तरप्रकृतिवित्यादि । मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानम् । अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः । उत्तरप्रकृतयस्तु पश्चमेदं ज्ञानावरणमित्यादिकाः । तत्रोतरप्रकृतीनामेवोत्तरप्रकृतिषु सक्रमः । सर्वास्वित्युत्सर्गः । कासाश्चिम भवतीत्यपीत्यर्थः। अपवदिष्यते चोपरिष्टात् । पश्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिप्वप्यविशेषण १ दर्शयति ' इति ग-पाठः । २ 'नानाऽऽ-' इति च-पाठः । ३ अपि वदिष्यते ' इति -पाठः। For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ सूत्रं २२ ] स्वोपज्ञभाप्य–टीकालङ्कृतम् १७१ सक्रमस्थानम् सर्वासु सङ्क्रामतीति प्राप्तम्, अत आह— मूलप्रकृत्यभिन्नास्विति । मूलप्रकृतिभ्यः अभिन्नासु-अपृथग्भूतासु - मूलप्रकृतीरजहतीषु । यथा - मूलप्रकृतिरेका ज्ञानावरणमिति । उत्तरप्रकृतयः पश्च । तत्रैताः पञ्चाप्यन्योन्यमेव सङ्क्रामन्ति, नान्यमूलप्रकृत्युत्तरप्रकृतिषु। एनमेवार्थं सावधारेणं दर्शयति- न तु मूलप्रकृतिषु सङ्क्रमो विद्यत इति । तुशब्दोऽवधारणार्थः । नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति । नहि ज्ञानावरणं दर्शनावरणे सङ्क्रामति, नापि दर्शनावरणं ज्ञानावरणे, इत्येवमन्यत्रापि योज्यम् । अमुमेवार्थ युक्त्तया प्रतिपादयन्नाह — बन्धविपाकनिमित्तान्यन्यजातीयानीति । भिन्नजातीयानीत्यर्थः । अन्यद् बन्धनिमित्तं ज्ञानावरणस्य तत् प्रदोषनिहवादि । अन्यदसद्वेदनीयादेर्दुःखशोकादि ज्ञानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशय विशेषाद् भेदमुपाद्भुत एव । विशेषग्राहि ज्ञानावरणम् । दर्शनावरणं तु सामान्यमात्रग्राहि, सामान्योपयोगमेवान्तर्धत्ते । एवं बन्धनिमित्तभेदाद विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति । पूर्व सर्वास्वित्युक्तं यत् तत् सम्प्रत्यपोद्यते— भा० - उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यगमिथ्यात्ववेदनीयस्यायुष्कस्य व जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यते ॥ टी० — उत्तरप्रकृतिष्वित्यादि । कासाञ्चित् उत्तरप्रकृतीनामपि कासुचित् प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति । तत्र दर्शन मोहश्वत्वारोऽनन्तानुबन्धिनः क्रोधादयो मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति । शेषश्चारित्रमोहोऽप्रत्याख्यानादिः । तत्र दर्शनमोहो न सङ्क्रामति चारित्रमोहे नापि चारित्रमोहो दर्शनमोहे इति । सम्यगमिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः । सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रमति । तथा सम्यक्त्वसम्यग् - मिथ्यात्वयोर्मिथ्यात्वं सङ्क्रामयति | आयुष्कस्य च नारक - तिर्यङ् - मनुष्य- देवभेदस्य परस्परं नास्ति सङ्क्रम इति । उक्तं चात्र 44 मूलप्रकृत्यभिन्नाः संङ्क्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥ १ ॥ शिथिलयति दृढ बद्धं शिथिलं दृ (द्र ) यति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीर्विपर्यासयति चापि ॥ २ ॥ " सक्क्रमणस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह " तारीकरण ताम्रस्य शोषणस्तेमने मृदुः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥ ३ ॥ " १' रणकं' इति ङ-च- पाठः । २ ' न्तर्वर्तते' इति ङ-पाठः । ३ ' सङ्क्रम इति' इति क-ग-पाठः । ४ 'प्रकृतयः' इति ङ-पाठः । ५ 'तेष्वेव' इति ङ-पाठः, ' तेष्वत्र ' इति तु ग-पाठः । For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ १७२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ यथासङ्ख्यममिसम्बन्धः कार्यः। " अनुभावांश्च विपर्यासयति तथैव प्रयोगतो जीवः । तीव्रान् वा मन्दान् वा स्वासु प्रकृतिष्वभिन्नासु ॥४॥ यद् यद् वा मन्दं संरक्षारीक्रियते हरिद्रया चूर्णम् । वाताऽऽतपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥ तीव्रोऽनुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्रे मिश्रोऽनुभावश्च ॥ ६ ॥" अत्र प्रतिज्ञातेऽर्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सक्रमोन विद्यते इति । जात्यन्तरस्यानुबन्धनमनुवर्तनं यः करोति पाकस्तस्य यनिमिर्च तदन्यजातीयकं भिन्नम् । तथाच दर्शनमोहनीयादीनामास्रवा भिन्ना एव पठिताः प्रवचन इति ॥ भा०--अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् (अ० २, सू० ५२ ) ॥ २२ ॥ टी-अपवर्तनं स्वित्यादि । सर्वासामेव प्रकृतीनां सम्भवत्यपवर्तनं । द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्तनम् । सर्वासामेव प्रकृतीनां तत् सम्भवत्यध्यवसायविशेषात् । तच प्राय व्याख्यातमेवेति तत्प्रतिपादनायाह—तदायुष्केण व्याख्यातमिति । तदपवर्तनमायुककर्मणा द्वितीयेऽध्याये (५२तमे सूत्रे) व्याख्यातमिति ॥ २२ ॥ विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातम् । सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयमाह सूत्रम् स यथानाम ॥ ८-२३ ॥ टी--स विपाक उक्तलक्षणो यथानाम भवति । यथाशब्देन वीप्सावाचिनाऽन्ययीभावः । यद् यस्य नाम संज्ञान्तरं कर्मणस्तत् तथा नामानुरूपमेव विपच्यते, यस्मात् ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः । ज्ञानमावियते येन तत् ज्ञानावरणम् । यद् विपच्यमानं ज्ञानाभावे विवर्तत इति । इत्थं दर्शनावरणमपि । सामान्योपयोगोपरोध इतियावत् । सुखानुभवः सद्वेद्यम् । दुःखानुभवोऽसद्वेद्यम् । तथा दर्शनमोहश्चारित्रमोहथ । दर्शनं तत्त्वार्थश्रद्धानलक्षणं चारित्रं मूलोत्तरगुणभेदं तन्मोहयतीति । आयुर्जीवनं-प्राणधारणं यदुदयाद् भवति तदायुः । तांस्तान् गत्यादीन् भावान् प्रशस्तानप्रशस्तश्च नामयति-प्रापयतीति नाम । यदुदयाद् गतिनामाघनुभवतीत्यर्थः । तथा प्रतिभेदमपि गति नामयतीति गतिनाम । एवं जातिनामाद्यपीति । गोत्रमिति । 'कै गै शब्दे' (पा० धा०७१६-७१७) गोत्रं संशब्दन १ 'तोत्रमन्दान्' इति च-पाठः । २ 'सत्कारी' इति ङ-पाठः । For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ सूत्रं २४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १७३ गीयते यस्योदयादुच्चैरयं पूज्य उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रम् । तथा यदुदयाद् दरिद्रः अप्रज्ञातो गर्हितश्चाण्डालादिस्तन्नीचैर्गोत्रम् | दोनादीनां विघ्नमुदयाद् यस्य सोऽन्तराय इति । नमेवार्थ भाष्येण प्रतिपादयति भा०-- सोऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥ २३ ॥ 0 टी० - सोऽनुभाव इति । अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः । अनुभावः कर्मणां सामर्थ्यम् । गतिनामादीनामिति यद् ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थम् । ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य । अन्यथा त्वसम्भव एवेति । सप्तम्यर्थे षष्ठीं । गतिनामादीनां वा सर्वकर्मणां स विपाको भवति, यथा नाम विपच्यते- विपाकमुदयमासादयतीतियावत् ॥ २३ ॥ यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, उत निःसारं सत् प्रच्यवते ? उच्यते - पीडानुग्रहावात्मनः प्रदायाभ्यवहृतौ दानादिविकारवन्निवर्तते अवस्थानहेत्वभावात् । अस्यार्थस्य प्रतिपादनाय सूत्रम् - सूत्रम् - ततश्च निर्जरा ॥ ८-२४ ॥ 1 टी० - ततश्चेति विरामार्थत्वात् पञ्चमी । ततो विपाकात् कर्मणो विरमणं परिशटनं भवति ॥ 1 भा०-- ततश्चानुभावाद् कर्मनिर्जरा भवति । निर्जरा क्षयो वेदनेत्येनर्थान्तरम्, अत्र चशब्दों हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति वक्ष्यते (अ० ९ सू० ३) ।। २४॥ टी० - ततश्चानुभावादित्यादि भाष्यम् । तस्मादनुभावाद् विपाकलक्षणात् कर्मणो ज्ञानावरणादेर्निर्जरा परिपतनमात्मप्रदेशेभ्यो भवति । निर्जराशब्दार्थमाचष्टे – निर्जरा क्षयो वेदनेति । निर्जरणं निर्जरा, हानिरित्यर्थः । क्षयो - विनाशः कर्मपरिणतेर्विगमः । वेदना रसानुभव आकर्मपरिणामफल परिणाम भोगपरिसमाप्तेः इति धारणा (?) शाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः । सा च निर्जरा द्विविधा विपाकजा अविपाकजा वा । विपाक उदयः । उदीरणा त्वविपाकः । तत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकास्त्रोतसि पतितस्य फलोपभोगादुपजातस्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा । यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीर्योदयावलिकामनुप्रवेश्य वेद्यते पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा निर्जराद्वयस्य व्याख्या १ 'भोग' इति ग-च- पाठः । २ ' दात्रादीनां' इति च पाठः । ३ ' अन्यथा इति क-ग-पाठः । ४ 'भवतीति' इति घ- पादः । ५ ' त्यर्थं ' इति घ- पाठः । ६ 'मनुप्रपद्यते ' इति ग-पाठः । For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ [अध्यायः८ १७४ तत्त्वाथाघगमसूत्रम् निर्जरा । आह च "तारीकरणं ताम्रस्य शोषणस्तेमने मृदा क्रमशः। आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥१॥" यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः । अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते । विपाकहेतुका निर्जरेत्येको हेतुः । अस्मादन्यो हेतुर्हेत्वन्तरम् । तदर्शनायाह-सपसा निर्जरा चेति वक्ष्यते-नवमेऽध्यायेऽभिधास्यते संवराधिकारे ( तृतीयसूत्रे )। वपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति । तपोऽपि निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थच शब्दः । इह चाष्टमे कर्मविरामणार्थ निर्जराग्रहणं, नवमे संवरार्थमिति ॥ २४ ॥ भा०-उक्तोऽनुभाववन्धः, प्रदेशबन्धं वक्ष्यामः॥ टी०-उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्याम इति उत्तरसूत्रसम्बन्धग्रन्थः। बन्धचतुष्टयी प्रकृता । ततः तृतीयोऽनुभावबन्ध उक्तः प्रपञ्चेन । सम्प्रति प्रदेशबन्धं वक्ष्याम इति प्रतिजानीते । तत्प्रतिपादनीयाह सूत्रम्-नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः॥८-२५ ॥ टी०-नामप्रत्यया इति सूत्रम् । अत्राष्टौ प्रश्नाः कस्य प्रत्ययाः कारणीभूताः, किंप्रत्ययां वा पुद्गला बध्यन्त (इति) एकः प्रश्नः १, जीवोऽपि तान् बधानः पुद्गलान् किमेकेन दिक्प्रदेशेन बध्नाति, उत सर्वदिक्प्रदेशैरिति ग्रहणमात्रमत्र विवक्षितम् २, . सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिनिमित्तादतुल्य! ३, किंगुणाः केवलाः पुद्गला बन्धास्पदं भवन्ति ४, यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः, आहोस्तिजीवप्रदेशावांढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि बध्यन्ते १.५, किं वा स्थितिपरिणत बध्यन्ते, अथवा गतिपरिणताः १६, ते च किमात्मना सर्वप्रदेशेषु अथैकैकदिशे श्लिष्यन्ति १७, स्कन्धा वा किसङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते,उतानन्तानन्तप्रदेशा इति।८। एषामष्टानां प्रश्नानां क्रमेणाष्टाभिः सूत्रावयवैर्निराकाङ्क्षीकरणं-नामप्रत्ययाः १ सर्वतः २ योगविशोषात ३ सूक्ष्माः ४ एकक्षेत्रावगाढाः ५ स्थिताः ६ सर्वात्मप्रदेशेषु ७ अनन्तानन्तप्रदेशाः ८ इति ॥ भा०-नामप्रत्ययाः पुद्गलाः 'बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः। . १ ' यन्नाह ' इति ग-पाठः । २ 'कारणभूताः' इति च-पाठः । ३ 'गाढभाग' इति ग-पाठः। ४ 'पज्यन्ते इति ग-पाठः । प्रदेशबन्धविचारोऽधविधः For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ सूत्र २५] स्वोपज्ञभाष्य-टीकालङ्कृतम् १७५ टी०--नामप्रत्यया इत्यादि भाष्यम् । संज्ञानामान्वथं सर्वकर्मणामुक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाः-कारणानीति षष्ठीसमासः । न हि तानन्तरेण तदाख्योदयादिसम्भवो मुक्तस्येवात्मनः संसारिणः प्रथमप्रश्नः । एवं द्वितीयविकल्पः किंप्रत्ययो वेति द्वितीयमेदाश्रयणेन भाष्यम्-नाम प्रत्यय एषां ते इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्व, गतिजात्यादिभेदं नामकर्म । औदारिकशरीरादयो योगाः कर्मणो निमित्ततां प्रतिपद्यन्ते पारम्पर्येण गत्यादयोऽपीत्यतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यानाख्यापनायाह-नामनिमित्ता इत्यादि । नाम निमित्तं-हेतु:-कारणमेषां ते इमे नामनिमित्तादयः । इतिशब्दः प्रकारवाची । अपरे नामप्रत्यया बन्धननाम व्याचक्षते । मामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति । तब गृहीतगृह्यमाणपुद्गलानामन्यशरीरपुद्गलैवा सम्बन्धो यस्य कर्मण उदयाद् भवति, काष्ठद्वयमेदैकध्यकरणे जतुवदिति । अथवाऽयमर्थः-प्रत्याययतीति प्रत्ययः । नाम प्रत्ययः कर्मैषामिति नामप्रत्ययाः नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरण वर्तनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषाम्, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्थाश्चेत्येवमन्यत्रापि योज्यम् । ननु चैकाकारा एव पुद्गलाः समादीयन्ते न तु झानावरणादिविशिष्टाः केचिद् बहिः सन्तीति ? उच्यते-सत्यमेतत् । वयं स्विंदमभिदध्महे-ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्ममेदानां सामर्थेऽन्ये(ने? )न पोगानो कर्मवर्गणानां ग्रहणमाम्नायते । ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक्पृथए ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ॥ ___ भा०-सर्वतस्तिर्यगूमधश्च षध्यन्ते । योगविशेषात् कायवाङ्मनाकर्मविशेषाच बध्यन्ते। टी.-सर्वत इति । सर्वासु दिक्षु आत्मावधिकासु.व्यवस्थितान् पुद्गलानादत्ते । सप्तम्यन्तात् तसिः । एतत् प्रतिपादयन्नाह-तिर्यगूर्ध्वमधश्च बध्यन्त इति । तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति । अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान् लाति, नैकदिक्प्रतिष्ठान्, सर्व . जीवप्रदेशैः सर्वजीवप्रदेशस्थानितियावत् ॥ अपरे व्याचक्षते-सर्वत पवस्य. इति । सर्वैरात्मप्रदेशैः कर्मपुद्गलान् गृह्णाति । तृतीयान्तात् तसिः। एते व्याख्याने मतभेदः ॥ चात्मप्रदेशाः शरीरिणो जीवस्य केचिदूधै केचिच्चाधस्तादिति, न चास्ति पुनरुक्ततादोषः। सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशाभिसम्बन्धादिति । नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः। कुतः १ योगविशेषादित्याह । आत्मना युज्यत इति योगा १'प्रत्ययाविति' इति ग-पाठः । २ 'नाममेदं' इति ग-पाठः।३ 'प्रत्याख्यानायाह' इति ग-पाठः। ४ यतो बध्यन्ते' इति ग-पाठः। ५'मेतत्संदध्महे' इति ग-पाठः, च-पाठस्तु 'मपि संदध्महे।६ 'सामाम्येन' इति ग-पाठः । ७ 'योग्याना' इति च-पाठः । For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ १७६ तत्वार्थाधिगमसूत्रम् अध्यायः ८ कायादिचेष्टा योगानां विशेषो भेदः : तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनम्, एतदेवाह - कायवाङ्मनः कर्मयोगाच बध्यन्त इति । कायस्य वाचः मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः - सम्बन्धः । क्रियाक्रियावतोः कथञ्चिदनन्यत्वात्, तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादि मेदो मन्तव्यः । किंगुणाः के वेत्यत्राह भा० – सूक्ष्मा बध्यन्ते, न बादराः । डी० - सूक्ष्मा बध्यन्ते, न बादरा इति । सूक्ष्मशब्दो ह्यापेक्षिकत्वाद् बहुमेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति । अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिप्रदेशात् केचिद् ग्रहणयोग्याः केचिन्नेति अतः सूक्ष्मग्रहणम् । एवं क्रमेणौदारिक वैक्रिया-ऽऽहारक- तैजस-भाषा- प्राणापान - मनोवर्गणाः समुल्लङ्घ्य कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति । एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद् ग्रहणयोग्याः, पुनरपि केचिदग्रहणयोग्या इति ॥ पश्चमप्रश्नप्रतिवचनार्थमाह भा०- एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः । टी० - एक क्षेत्रावगाढा इत्यादि । एकस्मिन् - अभिने क्षेत्रे जीवप्रदेशैः सर्वे येऽवगाढा - आश्रितास्ते बध्यन्ते । यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः । तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढास्तद्भावपरिणामाभावादना ( न्या) श्रितानामिति । षष्ठप्रश्नोत्तरमाद भा०—स्थिताश्च बध्यन्ते, न गतिसमापन्नाः । ढी० – स्थिता इत्यादिना । स्थिता एव बध्यन्ते । चशब्दस्यावधारणार्थत्वात् सामलभ्यमर्थं दर्शयति-न गतिसमापन्ना इति । समाप्तिः प्राप्तिः गतिपरिणाम इत्यर्थः । गतिप्राप्तास्तु गच्छन्त्येव, परिणामविशेषान्नात्मनि श्लिष्यन्ते वेगित्वादिति । सप्तमप्र प्रतिभेदायाह भा०- सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः । डी० – सर्वात्मप्रदेशेष्वित्यादि । सर्वे च ते आत्मप्रदेशाश्च सर्वात्मप्रदेशाः । आत्मप्रदेशाश्चासङ्ख्येयास्तेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्त इति । सर्वाश्च ताः प्रकृतयथ १ ' कर्मविशेषाच्च ' इति ङ - पाठः । २ ' भूयोमपि भूयो ०' इति च पाठः । ३ ' प्रक्षेपात् ' इति ङ-पाठः । ४ ‘सह तत्र येऽवगाढाः' इति ङ-पाठः । ५ ' प्रश्ननिर्भेदायाह ' इति ग-पाठः । For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ सूत्र २६ ] स्वोपज्ञभाप्य–टीकालङ्कृतम् सर्वप्रकृतयो– ज्ञानावरणादिकास्तत्स्वरूपाः पुद्गलाः सर्वप्रकृतिपुद्गलाः । सर्वात्मप्रदेशेषु बध्यन्त इति । पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्तः एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति - एकैको हीत्यादि । असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकः प्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्ब्रद्धः । एवं दर्शनावरणादिकर्म प्रदेशैरिति । प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेव्विति निर्वचनात् । अष्टमप्रश्ननिर्भेदायाह भाः – अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते । 2- टी० - अनन्तानन्तप्रदेशा इति । अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपांदनन्तानन्त इति व्यपदेशः । ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्म वर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः । अयोग्यास्तु न बध्यन्त इति । तत्प्रतिपादनायाह भा० --- - न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशाः । कुतः १ अग्रहणयोग्यत्वात् प्रदेशानामिति । एष प्रदेशबन्धो भवति ॥ २५ ॥ टी० – न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति । नैव सङ्ख्ये यादिप्रदेशा बध्यन्त इति । कुत एतदित्याह - अग्रहणयोग्यत्वात् प्रदेशानामिति । प्रदेशानां स्कन्धानामेवं विधानामग्रहणयोग्यत्वादिति । सम्प्रति उपसंहरति - एष प्रदेशबन्धो भवतीति । एतत् प्रदेशबन्धस्वरूपमित्यर्थः ।। २५ ।। १७७ भा०- - सर्वं चैतदृष्टविधं कर्म पुण्यं पापं च । तत्र - टी० – सर्व चैतदित्यादिसम्बन्धग्रन्थः । सर्वमिति सोत्तर प्रकृतिकमष्टप्रकारं ज्ञानावरणाद्यन्तराय पर्यवसानं पौद्गलं कर्म द्विधा (वि) भज्यते - पुण्यं पापं च । शुभं कर्म पुण्यं, अशुभं पापमिति । तत्र द्विप्रकारे कर्मणि प्राशस्त्याच्छुभमेवाभिधीयते । तन्निरूपणेन यच्छेषं तत् पापमित्यर्थाद् गम्यते, अतः - सूत्रम् --सदेद्य - सम्यक्त्व हास्य राति पुरुषवेद- शुभायु- नाम - गोत्राणि पुण्यम् ॥ ८-२६ ।। भा०2 - सद्वेद्यं भूतवत्यनुकम्पादिहेतुकं सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकं हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रं उच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम्, अतोऽन्यत् पापमिति ॥ २६ ॥ १' स्पष्टं पृथक् ' इति ङ-पाठः । २ 'पादनन्त इति च पाठः । १३ For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ १७८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ _____टी.-सद्यमिति । तत्र सद्वेचं सुखरूपेणानुभवनीयम् । तदुपादानहेतवः प्रागुक्ताः । कारणानुरूपं कार्य भवतीति स्मरयति-" भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः शान्तिः शौचमिति सद्वेद्यस्य" (अ० ६, सू० १३)। सम्यक्त्ववेदनीयं तत्वार्थश्रद्धानाकारेणानुभवनीयम्, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकम् । वर्ण:कीर्तिः, यशः सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनम् आदिग्रहणात्, ते हेतवो यस्य तत् तद्धेतुकम् । हास्यवेदनीयं हास्याकारेणैवानुभवनीयम् । एवं रतिवेदनीयं च रत्याकारेण, . पुरुषवेदनीयं पुरुषाकारेणेति । शुभायुर्नामगोत्राणीति । शुभशब्दः प्रत्येकमभिसम्बध्यते । तत्र शुभायुष्कं मानुषं दैवं च भाष्यकाराभिप्रायः । कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते । यदि च तत् तथा चशब्देनानुकृष्यते । शुभनाम गतिनामादीनां मध्यादुद्धर्तव्यं सप्तत्रिंशत्प्रकारम् । शुभं गोत्रमाचष्टे । उच्चैर्गोत्रमित्यर्थः । एवमेतदुच्चैर्गोत्रान्तं सद्वेद्यादि कर्माष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं पापमिति । कर्मप्रकृतिग्रन्थानुसारिणस्तु द्वाचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति-सद्वेद्य (१), तियेइ-मनुष्यदेवायुषि (३), मनुष्य-देवगती (२) पञ्चेन्द्रियजातिः (१), शरीराणि पश्च (५), समचतुरस्रसंस्थान (१), वज्रर्षभनाराचसंहननं (१), अङ्गोपाङ्गत्रयं (३), प्रशस्तवर्ण-गन्ध-रस-स्पर्शाः (४), मनुष्यदेवानुपूच्यौं (२), अगुरुलघु-पराघात-उच्छ्रास-आतप-उद्द्योत-प्रशस्तविहायोगति-त्रस-बादर-प _प्तिप्रत्येक स्थिर-शुभ-सुभग सुस्वर-आदेय-यशकीर्ति( १६ )पर्यवसानाः मतान्तरम्, तत्समा मशुमाः निर्माण-तीर्थकर-उच्चैर्गोत्रैः (३) सहेति ॥आसां च मध्ये सम्यक्त्वधानस्याशक्यत्वम् 'हास्यरति पुरुषवेदा न सन्त्येवेति । कोऽभिप्रायो भाष्यकृतः को वा कर्मप्रकृतिग्रन्थप्रणायिनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरादयस्तु संविद्रते यथावदिति निर्दोष व्याख्यातम् । द्वयधिकाशीतिरपुण्यकृतीनाम् । तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेषं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नारकायुः नरक-तिर्यग्गती एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आद्यवर्जानि संस्थानानि पञ्च संहननानि पञ्चैव अप्रशस्तवर्ण-गन्ध-रस स्पर्शाः नारकतिर्यग्गत्यानुपूज्यौं उपघा. प. तनाम अप्रशस्तविहायोगतिः स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-शुभ दुर्भग-दुःस्वरा-नादेया-यशकीर्तय इति, तथा नीचैर्गोत्रं पञ्चविधमन्तरायमिति । सम्यक्त्वादिषुभयथा दर्शनात् संशेते मनः। सातं तिर्यग्-नृ-सुरा-यूपि शरीराणि पश्च मनुजगतिः । देवगतिः पश्चेन्द्रियताऽङ्गोपाङ्गानि सर्वाणि ॥१॥ वज्रषेमनाराचं समचतुरस्रं च तीर्थकरनाम । स्पर्श-रस गन्ध-वर्ण-विहायोगतयः प्रशस्ताश्च ॥ २॥ १ 'श्रुतसंयमदेवानुवर्ण ' इति च-पाठः । २ ' यशोऽकीर्तयः' इति घ-पाठः । ८२ पापप्रकृतयः For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ सूत्र २६ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् १७९ अगुरुलघु-पराघातो-च्छ्वासो-योता-ऽऽतपाश्च निर्माणम् । उच्चैर्गोत्रं नर-देवप्रायोग्यानुपूव्यौँ च ॥३॥ प्रत्येकदेह-वादर-पर्याप्ता-ऽऽदेय-सुस्वर-त्रसताः। स्थिर-शुभ-सुभग-यशासि च शुभसंज्ञाः प्रकृतयः प्रोक्ताः॥४॥ सम्यक्त्व-हास्य-रति-धववेदानां पुण्यतामुशन्त्येके । न तथा पुनस्तदिष्टं मोहत्वाद् देशघातित्वात् ॥५॥ केवलवर्जज्ञानावृद्धिघ्नं नोकपायसंज्वलनाः। अवधिगनक्षिनेत्रावरणानि च देशघातीनि ॥ ६ ॥ दृगज्ञानावृन्मोहानां, शेषं सर्वघातिकर्मोक्तम् ।। पाति प्रतिपाति किञ्चित् (किश्चिद )पात्यन्यदुपदिष्टम् ॥७॥ अपरस्त्वाह रति-सम्यक्त्व-हास्यानां, पुंवेदस्य च पुण्यताम् । मभिप्राय प. मोहनीयमिति भ्रान्त्या, केचिन्नेच्छन्ति तच्च न ॥१॥-अनु० मित्रता सर्वमष्टविधं कर्म, पुण्यं पापं च निवृतम् । कि कर्मव्यतिरिक्तं स्याद्, यस्य पुण्यत्वमिष्यताम् ॥ २ ॥ शुभायु-र्नाम-गोत्राणि, सद्वेद्यं चेति चेन्मतम् । सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः ॥३॥ पुण्यं प्रीतिकरं सा च, सम्यक्त्वादिषु पुष्कला। मोहत्वं तु भवाबन्ध-कारणादुपदर्शितम् ॥ ४॥ मोहो रागः स च स्नेहो, मोहो रागः स चाहेति । रागस्यास्य प्रशस्तत्वान्-मोहत्वेन न मोहता ॥५॥ इति श्रीमदहत्प्रवचने तत्त्वार्थाधिगमे भाष्यानुसारिण्यां तस्वार्थटीकायां बन्धस्वरूपनिरूपकोऽष्टमोऽध्यायः ॥ ८॥ (ग्रन्थाग्रं १२६० अष्टमाध्यायस्य, समग्रतस्तु १८७७९) १'घातिमता (1) इत्यपि पाठः। For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः ९ टी०-तंत्र तावदध्यायसम्बन्धमाह भाष्यकारःभा०-उक्तो बन्धः । संवरं वक्ष्यामः ॥ टी०-उक्तः-प्रपश्चेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्मबन्धः। पौरुषेयत्वादेव कदाचित् केनचिदत्यन्तमुच्छिद्यतेऽपि, पुंसा समासादिततदुच्छेदसाधनेनात्यन्तिकं क्षयमापा घत इति । तत्र पूर्वोपचितकर्मजालविच्छेदाय "तपसा निर्जरा च" इति कात्स्न्यैनोच्छेदं वक्ष्यति (अ० ९, सू० २)। अपूर्वकर्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामःसंवरलक्षणम् सूत्रम्-आस्रवनिरोधः संवरः ॥९-१॥ टी०-आसूयते-समादीयते यैः कर्माष्टविधमाञवास्ते कर्मणां प्रवेशवीथयः शुभाशुभलक्षणाः कायादयस्त्रय इन्द्रिय-कषाया-ऽव्रत-क्रियाश्च पञ्च-चतुः-पञ्च-पञ्चविंशतिसङ्ख्यास्तेषां निरोधो-निवारणं-स्थगनं संवरः । पर्यायकथनेन व्याख्या ॥ भा०-यथोक्तस्य काययोगादेईिचत्वारिंशविधस्यास्रवस्य निरोधः संवरः ॥१॥ टी०-यथोक्तस्येत्यादि भाष्यम् । षष्ठेऽध्याये कायादिरास्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेरास्त्रवस्य यधिकचत्वारिंशद्भदस्य निरोधो यः स संवरः । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । अतो यावकिश्चित्कमोगमनिमित्त तस्याभावः संवरः। स च सर्व-देशभेदाद द्विधा। बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेष _काले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति। अत्राह-यदि सवरद्वविध्यम् सकलासत्रद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मनिमित्तास्रवच्छिद्रसंवुवर्षा कतिपयपुरुषसाध्यैव प्रमजति, अशेषस्य परिस्पन्दस्य निराचिकीर्षितत्वात्। अतः समचतुरस्रसंस्थानववर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निर्जिजीर्षता परिपूर्णशक्तिकानां परिस्पन्दस्वभावयोगत्रयनिग्रहः क्रमते, प्रागुपचितकर्मनिवृत्तिश्च, न पुनरैदंयुगीनपुरुषाणां यथोक्तसंवराभावादिति ?, उच्यते-संवरद्वैविध्ये सति सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे । देशसंवरस्तु सामायिकादिचारित्रवतां सत्यपि परिस्पन्दवत्वे विदिततत्वानां १ 'उक्तो बन्धः संवरं वक्ष्यामः इत्यनेनाध्याय 'इति छ-पाठः। २ तालव्यपाठो ङ-प्रतौ। ३ स्पन्दवच्च' इति -पाठः। For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ उपायाः सूत्रं २ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १८१ संसारजलधेरुत्तरीतुमभिवाञ्छतां प्रधानसंवराभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरः समस्त्येवेति । तत्प्रतिपादनायाहसंवरस्य सूत्रम्-स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय-चारित्रैः ॥९-२॥ टी०-अथवा आस्रवनिरोधलक्षणः संवर उक्तः । स पुनः केनोपायेन कर्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि । स इत्यनेन सर्वनाम्ना प्रक्रान्तं संवर परामृशति । गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संपण्यतो हि गुप्त्यादयः करणीभवन्ति सम्यग्गतिहेतुत्वात् समितयः, गतिरिति सकलकियोपलक्षणम् सर्वज्ञप्रणीतज्ञानानुसारिण्यश्चेष्टाः संवरमादधति । नरकादिकुगतिप्रपातधारणाद् धर्मः क्षमादिदशलक्षणकः । अनुप्रेक्षणम्-अनुचिन्तनम् अनुप्रेक्षा अनुप्रेक्ष्यन्ते-भाव्यन्त इति वाऽनुप्रेक्षाः। तादृशानुचिन्तनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति । समन्तादापतिताः क्षुत्पिपासादयः सह्यन्त इति परीषहाः, परीषहा इति कः शब्दसंस्कारः १ न तावत् पचायचि, कर्तरि विहितत्वात्। न कर्मसाधनो घञ्वृद्धिप्रसङ्गात् "पुंसि संज्ञायां घः" (पा० अ०३ पा०३ सू० ११८) इति चेत्, न, तस्य करणाधिकरणयोर्विधानात् । उच्यते-"कृत्यल्युटो बहुलं" (पा० अ० ३ पा० ३ सू० ११३) इति वचनात् कर्मण्येव घञ्प्रत्ययः । “उपसर्गस्य घज्यमनुष्ये बहुलं" (पा० अ०६, पा० ३, सू० १२२ ) इति (बहुल)वचनात् पनि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात् परीषहाणां जयः-न्यकरणमभिभवः परीषहजयः । चर्यते तदिति चारित्रं, पृषोदरादित्याद वा अष्टविधकर्मचयरिक्तीकरणात् चारित्रं सामायिकादिपञ्चभेदम् । गुप्त्यादीनां चारित्रान्तानां द्वन्द्वः। एभिगुस्यादिभिः करणभूतैः संवरोऽवाप्यत इति ॥ सम्प्रति भाष्यमनुस्रियतेभा०–स एष संवर एभिर्गुप्त्यादिभिरुपायैर्भवति ॥२॥ किश्चान्यत् टी०–स एष संवर इत्यादि । प्रस्तुतसंवरसम्बन्धनार्थस्तच्छब्दः । स संवरः आस्रवनिरोधलक्षणः । एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुस्यादिभिः करणभूतैरभ्युपायैर्भवति-जायते, स्वरूपं प्रतिलभत इतियावत् । कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते ? तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात मनो निर्वत्य निराकृतैहिकामुष्मिकविषयाभिलापस्य मनोगुतत्वादेव न रागादिप्रत्ययं कर्मास्रोष्यति, यच्च वाचिकमसंवृतस्यासत्पलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवागभाषिणः, वाचाऽपि गुप्तत्वादेव, तथा कायिकर्मनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचक्रमणद्रव्यान्तरादान १'धेस्तरीतुं' इति हु-पाठः। २ 'सत्यतः मस्त ' इति ङ-पाठः । ३ ‘मभिभूतस्य ' इति ग-पाठः, ‘मनिवृत्तस्य' इति तु ङ-पाठः। For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ I निक्षेपेणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोपविषयक्रिया कस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात् एवं सम्यग्योगत्रयनिगृही तिलक्षणास्तिस्रो गुप्तयः संवरस्य कारणीभवन्ति । समितयोऽपि गुप्तिरूपा एव प्रायचे टालक्षणत्वात् । चेष्टा च कायवाङ्मनोव्यापारः । तत्रेर्याऽऽदाननिक्षेपोच्चारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः । मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः । यत् तु पार्थक्येनोपादानं तत् मन्दधियां विवेकेन सुखप्रतिपत्त्यर्थं प्रथमत्रतमृपावादादिप्रपञ्चवत् । तथा क्रोध-मान- माया लोभानां सभेदानां क्षमा-मार्दवाऽऽर्जव-शौचैर्निगृहीतत्वात् संवरावाप्तिः । सत्य-त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि चारित्रानुरोधीनि । संयमोऽपि सप्तदशप्रकारः कचित् प्रथमव्रतान्तः पाती, कश्चिदुत्तरगुणान्तर्भूतः । तपो द्वादशविधमुत्तरगुणान्तः पात्येव । अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च । परीपहा अपि यथास्वमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति । तथा हिंसा ऽनृतवचन- परस्वाहरणा-ब्रह्मचर्य - परिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तानि । निरोधे सति विरमणभाजो न जातुचिदापतति तन्निमित्तकं कर्मेति । आधाकर्मादिपरिभोगनिमित्तं च कर्मास्रवणं तत्परित्यागे सति नैवास्ति । सर्वं चैतेदा रेकादिदोषजम्बाल विमुक्त सम्यग्दर्शन पीठप्रतिबन्धं गुप्त्यादि चारित्रान्तम् अतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्मास्रव इत्येवमेते गुप्त्यादयः संवरस्य हेतवः - अभ्युपायाः सम्पद्यन्त इति ॥ २ ॥ १८२ अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पद्यते उतापरेणापि केनचिदित्याह - किञ्चान्यदिति । अनेन कारणान्तरमपि सम्बध्नाति । न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किञ्चान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शयन्नाह - संवरस्य सूत्रम् - तपसा निर्जरा च ॥ ९-३ ॥ अपर उपायः टी० - तपसा निर्जरा चेति । पृथग् योगकरणमुभयहेतुत्वात् । तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च । तप्यत इति तपः सेव्यत इतियावत् । तपति वा कर्तारमिति तपः । तपसेति करणे तृतीया । निर्जरणं निर्जरा-विपकानां कर्मावयवानां परिशटनं, हानिरित्यर्थः । तपसा सेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत् । कर्तुः सन्तापकत्वाद् वा शुष्करसं कर्मातिरूक्षत्वान्निः स्नेहबन्धनं परिशटतीत्यर्थः । चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्च क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यन्तयैव संवृतावद्वारो भवतीति ॥ १' निक्षेपादि ' इति इ-पाठः । २ ' देकादि ' इति ङ-पाठः । ३ 'संवृतस्य' इति ङ-पाठः । , For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ सूत्र ४] स्वोपज्ञभाष्य-टीकालङ्कृतम् १८३ भा०-तपो द्वादशविधं वक्ष्यते ( अ० ९, सू० १९-२० ) । तेन संवरो भवति निर्जरा च ॥३॥ टी-तपो द्वादशविधमित्यादि भाष्यम् । द्वादश विधाः-प्रकारा यस्य तद् द्वादशविधं तपः, उपरिष्टात् इहैवाध्याये (सू०१९-२०) अभिधास्यते-बाह्यमनशनादि षोढा, आभ्यन्तरं च प्रायश्चित्तादि षोढा । तेन द्वादशभेदेन तपसा करणतामापनेनोक्तलक्षणः संवरो भवति-आगन्तुककर्माभावप्रतिपादनं, निर्जरा च भवतीति चिरन्तनबद्धकर्माभावप्रतिपत्तिः। एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ॥ ३ ॥ आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोध लक्षणसंवरात्यये गुप्त्यादिसामथ्योत् परिस्पन्दवतामपि संवरास्तित्व. उत्तरसूत्र माश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुप्त्यादिस्त्रसम्बन्धः रूपनिर्णयः कार्यः । तत्र तावद् गुप्तिस्वरूपमेवोच्यते--" सम्यगयोगनिग्रहो गुप्तिः" (सू० ४) । भाष्यकारस्त्वन्यथा कियताऽपि विशेषेण सम्बन्धमाह भा०–अत्राह-उक्तं भवता (अ० ९, सू० २)-गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति ? । अत्रोच्यते टी-अत्राह-उक्तमित्यादि । गुप्त्यादिभिः संवरो भवतीत्यत्रावसरे कश्चित प्रश्नयति–उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवति । तत्र-तेषु संवर कारणेषु के गुप्त्यादयः-किस्वरूपा गुप्त्यादय इति । अत्रोच्यते प्रतिपादयितुर्वचनम्, अत्र प्रश्ने निर्वचनमभिधीयते ॥ गुप्तिलक्षणम् सूत्रम्-सम्यग्योगनिग्रहो गुप्तिः ॥ ९-४ ॥ टी०–सम्यक्-प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्तिः-आत्मसंरक्षणम् । योगा मनोवाक्-कायलक्षणास्तेषां निग्रहो-निगृहीतिः प्रवचन विधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेति, अतो योगनिग्रहविशेषगार्थ सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापारः काय-वाग्व्यापारश्च निर्व्यापारता-वाक्-काययोर्निग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनकविवरस्य पराधीनात्मनोऽनिच्छतो( वृत्तो) योगनिग्रह इष्यते । सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह भा०-सम्यगिति विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः । १. वक्ष्यामः' इति इ-पाठः। २ 'गन्तुका' इति उ-पाठः। ३ 'काययोग' इति ग-पाठः । ४ 'प्रत्ययाप्रशो' इति ग-पाठः । For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [ अध्यायः ९ टी० - सम्यगित्यादि । सम्यगित्यस्य शब्दार्थमाचष्टे - विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिक- वैक्रिया ऽऽहारक- तैजस- कार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसङ्कल्पादयः । ज्ञात्वेत्यागमतो यथावदवबुध्य, अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावतः - एवमेते योगाः परिणताः कर्मबन्धाय, एवं च. कर्मनिर्जरायै । सम्यग्दर्शनपूर्वकमित्यभ्युपगम क्रियाविशेषणम् । प्रशम-संवेग - निर्वेदाऽस्तिक्या ऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्वं यस्याभ्युपगमस्येति । त्रिविधस्य योगस्येति मूलभेदाख्यानम्, उत्तरभेदानां मूलान तिलङ्घित्वात् परिग्रहः निग्रहः स्ववशे व्यवस्थापनं, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्ग नुकूलः परिणामो गुप्तिः, संरक्षणं भयानकात् कर्मबन्धशत्रोः । त्रैविध्यप्रतिपादनायाह— भा०- काय गुप्तिः, वाग्गुप्तिः, मनोगुप्तिरिति । तत्र शयनाssसनागुप्तेः प्रकारत्रयं काय गुप्तेर्लक्षणं च ऽऽदाननिक्षेप-स्थान- चङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः ॥ टी० - काय गुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । कायस्य गुप्तिः- संरक्षणं उन्मार्गगतेरागमतः । तथा च संरक्षितः कौयो नात्मानमुपहन्ति, एवं वाङ्मनोगुयोरपि व्याख्या । इतिशब्दोऽवधारणार्थः । त्रिविध एव मूलभेदतो योगः । तत्र तेषु योगेषु निगृहीतव्येषु काययोगनिग्रह एव तावदुच्यते - शयनमागमोक्तो निद्रामोक्षकालः । स च रात्रावेव, न दिवाऽन्यत्र ग्लानादेः । तत्रापि क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसतौ, एकस्य साधो ईस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहृत्यास्तीर्य च संस्तरणपट्टकद्वय मूर्ध्वमघश्च शयन- कार्य प्रमृज्य सपादं मुखवस्त्रिका - रजोहृतिभ्याम् अनुज्ञापित संस्तारकावविवरणम् स्थानः कृतसामायिकनमस्कृतिः वामबाहूपधानः आकुश्चितजानुकः कृकधाकुवद् वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदेशक मुद्वर्तन काले च मुखवस्त्रिका मृष्टकायो नात्यन्ततीत्रनिद्रः शयीत । आसनं - निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषों च रजोहरणेन प्रमृज्य च बहिर्नषद्यामास्तीर्य निविशेत । 'निविष्टोऽप्याकुञ्चनप्रसारणादि पूर्ववत् कुर्वीत । वर्षादिषु च हँसिकापीठकाद्यमुयैव सामाचार्या प्रत्यवेक्ष्य प्रमृज्य च सन्निवेशनं कुर्यात् । आदाननिक्षेपौ च दण्डकोपकरणचेष्टाभोजनादिविषयौ, वा तावपि प्रत्यवेक्षण प्रमार्जन पूर्व के निरवद्ये भवतः । तथा स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि के सुप्रत्यवेक्षितप्रदेश विषयं पिण्डीकृतवस्त्राद्यन्तधनमवष्टम्भादि च निरवद्यं, चङ्क्रमणं - गमनं तदपि प्रयोजनवतः पुरस्ताद् युगमात्र प्रदेश १८४ , १' निग्रहः परिग्रहः' इति ग-पाठः । २ ' कायेना' इति च - पाठः । ३ ' प्रमाणायुष्काणां ' इति - च-पाठः । ४ ' प्रमृज्यकायेन ' इति ङ-पाठः । ५ ' चक्षुषा प्रमृज्य च रजोहत्या बहिर्निष इति च पाठः । ६' यत्र भूप्रदेशे निविष्टो ' इति ङ-पाठः । ७ 'घूमिका' इति च - पाठः । ८ प्रत्युपेक्ष्य प्रमृज्य' इति गव पाठः । ९ दिवास्तुप्रत्य ' इति ङ-पाठः । " १० ' चक्रमणं ' इति ग-च- पाठः । For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ सूत्र ४] स्वोपज्ञभाष्य-टीकालङ्कृतम् १८५ सनिवेशितदृष्टेरप्रमत्तस्य स्थावराणि जङ्गमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् । एवमेतेषु गमनादिविषयेषु कायकृतचेष्टाया:-कायव्यापारस्य नियमोव्यवस्था निग्रहः-एवं कर्तव्यम्, एवं न कर्तव्यमिति । उक्तं च "कायक्रियानिवृत्तिः कायोत्सर्गे शरीरगुप्तिः स्यात् ।। दोषेभ्यो वा हिंसादिभ्यो विरतिस्तयोर्गुप्तिः॥१॥" अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्यापारः तथापि कायचेष्टायाः साक्षात्कायेनैव निष्पादितत्वाद् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥ वाग्गुप्तिविषयप्रदर्शनायाह. भा०-याचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः॥ टी०-याचनेत्यादि । याचनं-प्रार्थनं अन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्त्रभागस्य प्रवचन विहितवाक्यशुद्धयनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति । तथा पृच्छनमाचरतोऽध्वगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो वाग्गुप्तिः । तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेम केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद् वा सावद्यमनवा वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत, एवंविधः पृच्छनादिविषयो वागनियमो वाग्गुप्तिः, मौनमभाषणमेव वा वाचोगुप्तिरिति । आह च "अनृतादिनिवृत्तिा, मौनं वा भवति वाग्गुप्तिः।" इति ॥ . __ मनोगुप्तिस्वरूपाख्यानायाह भा०-सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशलाकुशलसकल्पनिरोघ एव वा मनोगुप्तिरिति ॥४॥ टी०-सावयेत्यादि । अवयं-गर्हितं-पापं सहावयेन सावद्यः सकल्पः-चिन्तनं आलोचनं आतेरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवचिन्तयति, तस्य निरोधः-अकरणमप्रवृत्तिमनोगुप्तिः। तथा च कुशलसङ्कल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावांश्चाध्यवसाय: कमोच्छेदाय यतते सोऽपि सर्वे: कुशलसङ्कल्पो मनोगुप्तिः। अथवा न कुशले सरागसंयमादौ प्रवृत्ति प्यकुशले संसारहेतौ,योगनिरोधावस्थायामभावाद् एवं मनसो गुप्तिः । तत्काले च ध्यानसम्भवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति ॥४॥ एवं कायादिनिरोधात् तनिमित्तकर्मानास्रवणे सति संवरसिद्विरुक्ता । सम्प्रति चेष्टाबतोपि संवरसिद्धयर्थमिमाः पञ्च समितयोऽभिधीयन्ते । आह च १ वाग्गुप्तिः' इति ग-पाठः । २ 'प्रवचनविदित' इति च-पाठः । २४ For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ १८६ तत्वार्थाधिगमसूत्रम् (अध्यायः ९ " तद्गुणपरिशुद्धयर्थं भिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पञ्च ॥१॥" इति ॥ पञ्चविधत्वं सूत्रम्-ईर्या-भाषै-षणा-ऽऽदाननिक्षेपो-त्सर्गाःसमितयः९.५ टी-अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकमभिसम्बन्धनीय समितिग्रहणं च । ईरणमिर्या-गतिपरिणामः। सम्यगागमानुसारिणी गतिः ईयोसमितिः । समितिरिति तान्त्रिकी संज्ञा पञ्चसु चेष्टासु । अथवा नानुवर्तते सम्यग्ग्रहणम् । समितिरिति समुपसर्गः प्रशंसार्थः । प्रशस्ता-इति चेष्टा सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्था । एवं भाषणं भाषा तद्विषया चेष्टा (भाषा)समितिः। एषणमेषो-गवेषणं तं करोतीति णिच तत्र स्त्रीलिङ्गे भावे युच् एषणा, यथागममाहारादेरन्वेषणमेषणासमितिः । आदान-ग्रहणं, निक्षेपो-न्यासः स्थापनं तयोः । समितिः-प्रावचनेन विधिना अनुगता आदाननिक्षेपसमितिः । उत्सर्जनमुत्सर्गः । उत्सर्जनमाहारोपधिशय्योचारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः । ईर्यादयः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति । अमुमेवार्थ भाष्येण स्फुटयति भा०-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पश्च समितयः । तत्रावश्यकायैव संयमार्थ सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैयस्तपदा गतिरीयोसमितिः॥ टी-सभ्यगीर्येत्यादिना, सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरबाधापरिहारेण। यथोक्तं (दशवैकालिके अ० ५, उ० १, सू० ३-४) " पुरओ जुगमायाए, पेहमाणो महिं चरे । वर्जितो बीयहरियाई, पाणे य दगमट्टियं ॥१॥" ओवायं विसमं खा', विज्जलं परिवजए। संकमेण न गच्छिज्जा, विजमाणे परकमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी - १'प्रतिष्ठा' इति ग-पाठः । २ छाया पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणितश्चोदकं मृत्तिकाम् ॥ १ ॥ अवमातं विषमं स्थाणुं विजल (सकदैम) परिवर्जयेत् । संक्रमेण (अस्थिरेण) न गच्छेत् विद्यमाने पराक्रमे (स्थिरे) ॥ २ ॥ For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम् १८७ "जो य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं नाइण्णा, न तं भासिज्ज पण्णवं ॥१॥" -दशवैकालिके ( अ० ७, उ० २, सू० २) सम्यगेपणा-गवेषणमागमविधिना पिण्डादीनाम् । सम्यगादाननिक्षेपौ प्रत्युपेक्षाप्रमार्जनपूर्वको । सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके । इतिशब्दः स्वरूपप्रतिपादनार्थः । एवंस्वरूपाः पश्चैव समितयः । तदेव स्वरूप प्रपश्चयति-तत्रेयादि । तत्र-तासु समितिष्वीर्यासमितिरित्थरूपा आवश्यकोयैवेति अवश्यकार्यमवश्यं कर्तव्यं यदागमचोदितं प्रयोजन विहारादिभूगमनं तदेव भूयः स्पष्टयति-संयमार्थमिति । संयमः मतदशभेदः । तदेव चावश्यकमवश्यंतया कर्तव्यम् । सर्वत इति सर्वत्र युगप्रमिते भूप्रदेशे, पादानादारभ्य यावद् युगमात्रं तावनिरीक्षणेत्यर्थः। युक्त आयुक्तस्तस्यैवं चेष्टमानस्य शनैः शनैः-मन्दं गतिभेदमकुर्वतोऽन्यासश्चरणयोराचरत ईर्यासमितिः । आह च " उपयोगोद्योतालम्बनमार्गविशुद्धिभियंतेश्वरतः । सूत्रोदितेन विधिना भवतीर्यासमितिरनवद्या ॥१॥" सम्प्रति भाषासमितिनिरूपणायाहभा०—हितमितासन्दिग्धानवद्यार्थनियतभाषणं भाषासमितिः ॥ री-हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितं, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातक षण्णां जीवकायानां एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः। आह च " त्यक्तानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ॥ १॥" एषणासमितिस्वरूपावधारणायाह भा०-अमपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोदमोत्पादनैषणादोषवर्जनमेषणासमितिः ॥ १ छाया या च सत्याऽवक्तव्या सत्यामृषा च या मृषा। याच बुद्धरनाचरिता नेमा भाषेत प्रज्ञावान् ॥ २ 'रूपाश्रयस्य काये.' इति च-पाठः । ३ 'आवश्यकायैवेत्या ' इति ग-पाठः । ४ 'विदितं ' इति उ-पाठः । ५ 'युगप्रतीते भूप्रदेशे' इति ग-च-पाठः । ६ ' त्यक्त्वा ' इति च-पाठः । ७ 'नुवीचि ' इति च-पाठः । For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ १८८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ टी०-अन्नपानेत्यादि। अन्नं-अशन-खाद्य-स्वाद्यभेदम् । पानं आरनालतन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धम् । तथा रजोहरणं समुखवसनम् । पात्रद्वयम् । चोलपट्टकादि चीवरम् । आदिग्रहणाच्चतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यो जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः। धर्मसाधनानामिति । श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च । न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् । एवमाहारोपकरणविपयामेपणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः शय्या। साऽप्युद्गमादिदोषरहितैव परिभोग्या । चशब्दः समुचितौ । तत्र षोडश आधाकमोदय उद्गमदोषाः । उत्पादनादोषाः षोडशैव धाच्यादयः । दशैषणादोषाः शङ्कितादयः । एतदोषपरिहारेणान्नपानादिग्रहणमेषणासमितिः । "उत्पादनोद्गमैषणधुमाङ्गारप्रमाणकारणतः। संयोजनाच पिण्डं शोधयतामेषणासमितिः ॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षयाह भा०-रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकार्थ निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः ॥ टी-रजोहरणेत्यादि । रजोहरणपात्रचीवरादीनामिति चतुर्दशविधोपधिग्रहणं द्वादशविधोपधिपरिग्रहः, पञ्चविंशतिविधोपधिग्रहः, पीठफलकादीनामिति वा शेषौपग्रहिकोपकरणसङ्ग्रहणमावश्यकार्थमित्यवश्यन्तया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीप्मयोरपि कचिदनूपविषये जलकणिकाकुलायां भूमावेवं द्विविधमप्युपछि स्थिरतरमभिसमीक्ष्य प्रमूज्य च रजोहत्या आदाननिक्षेपी कर्तव्यावित्यादाननिक्षेपणासमितिः। आह च "न्यासाधिकरणदोषान् परिहत्य दयापरस्य निक्षिपतः। न्यासे समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह भा०-स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥५॥ टी-स्थण्डिल इत्यादि । स्थानदानात् स्थण्डिलमुज्झितव्यवस्तुयोग्यो भूप्रदेशः। कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजङ्गमजन्तुवर्जितम् । तत्र स्थावराः संचित्ता मिश्राश्च पृथिव्यादयः पञ्च । द्वीन्द्रियादयो जङ्गमाः। तद्वर्जिते निरीक्ष्य चक्षुषोपयुज्य प्रमृज्य च रजोहत्या वस्त्रपाखेलमलभक्तपानमूत्रपुरीषादीनामुत्सर्ग-उज्झनमुत्सर्गस. मितिः। इतिशब्दः परिसमाप्तिव वनः । आह च--- २'परिग्रहः' इति छ-पाठः। ३ 'असचित्ता' इति च-पाठः । ४ 'लेखमाल १ 'ग्रहणं' इति छ-पाठः। भक' इति ग-च-पाठः। For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपनभाष्य-टीकालङ्कृतम् १८९ "न्यासादानसमित्या व्युत्सर्गे चापि वर्णिता समितिः । सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽर्थे प्रतिष्ठाप्यम् ॥१॥" एवं साधोर्नित्यं यतमानस्याप्रमत्तयोगस्य ।। मिथ्यात्वाविरतिप्रत्ययं निरुद्धं भवति कर्म ॥२॥" ॥५॥ अत्राह–उक्त समितिगुप्तीनां संवरहेतुत्वम् । अधुना को धर्मः संवरस्य कारणम् १ इति वक्तव्यम् । साध्वगारिधर्मभेदाहितसन्देहस्य प्रश्नः। उच्यते-सत्यप्यविशेषाभिधाने न पुण्यकर्म धर्मः, किं तर्हि ?, संवरापादनसामर्थ्य निमित्तं यो धर्मः स उच्यते । व सूत्रम्-उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयमदशविधता तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ ९-६ ॥ टी–उत्तमग्रहणं अगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्तादृशाश्थागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिणः शाठयरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद् दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति ॥न त्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः। संवरार्थ चात्मना धार्यत इति धर्मः। एतावन्ति धर्माङ्गानि तनिष्पादितश्च धर्म इति दर्शयतिभा०—इत्येष दशविंधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति ॥ टी०-एवमेष दशप्रकारो यतिधर्मः । उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्षःपराकाष्ठा तद्युक्तोऽनगाराणां धर्मो भवति ॥ .. भा०-तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनटी०-भत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा शान्तिः। सहिष्णुत्वं सहनशीलत्वम् । क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकवलेन निष्फलताऽऽपादनम् । एवमेतेऽनन्तरवाचिनः शब्दाः क्षमामेवाभिदधति । भाष्यकारस्तु स्वयमेवाशक्याह भा०–तत् कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् ॥ क्षमायाः पर्यायाः न्तरम् ॥ १'दृशागारिणि ' इति ग-पाठः । For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ १९० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १ टी-सत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः । वाक्यार्थस्तु-सा-क्षमा कथं-केन प्रकारेण कर्तव्या १ । एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आह-उच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तचिन्तनात् तदुपयोगाव उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तनिमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः १, यदि सत्यमस्त्येतनिमित्तं किं कोपेन? कृतं खलु मयेदं, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थ प्रकाशयतः, स्वकृतं हि दुश्चरितं तपतीत्येवं चिन्तयेत् । एतदेवाह-भावचिन्तनात् । तावद् विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्याब्रवीतीति क्षमितव्यं, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः। एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव ॥ किश्चान्यदालम्बनं सहिष्णुत्वे इत्याह भा०-परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनाभावचिन्तनांच क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासो मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम् , नैते विद्यन्ते मयि दोषा यानज्ञानादसी ब्रवीतीति क्षमितव्यम् । किश्चान्यत् ॥ टी-गतार्थमेवेदं भाष्यम् । क्षमाकरणे अन्यान्या- भा०-क्रोधदोषचिन्तनाच्च क्षमितव्यम् । क्रुद्धस्य हि विद्वेषा___ लम्बनानि सादनस्मृतिभ्रंशव्रतलोपायो दोषा भवन्तीति । किश्चान्यत्॥ टी-क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बनाति, परं वा निहन्ति व्यापादयति वा। अतः प्राणातिपातनिवृत्तिव्रतलोप: स्यात् , गुरूनासादयेदअधिक्षिपेत् , अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । क्रद्धो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभेगमप्यासेवेत। तथा प्रद्विष्टः सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् कारट्टक(करटुक?)भक्तालाभे मासक्षपकवत् ॥ किश्चान्य. दालम्बनं क्षान्तावित्याह १'अज्ञाच्चैव' इति ग-च-पाठः। २ 'नाद्वा' इति घ-पाठः।। ३ 'दपि नैते मवि' इति ग-पाठः । ४ भवन्तीति' इति घ-पाठः। ५'भगना 'इति ग-पाठः। For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ सूत्र ६ ] स्वोपज्ञभष्य-टीकालङ्कृतम् भा०- - बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशीनामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति वाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एतद् बालेषु । दिष्टया च मां प्रत्यक्षमाक्रोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः | ताडयत्यपि बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्टया च मां प्राणैर्वियोजयति, न धर्माद् भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत - टी० 91 - बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोवस्थावाची । तथैव चाह भाष्यकृत् । बालः मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वात् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणं, अतस्तचिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः । उत्तरोत्तररक्षार्थमिति परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरं, प्रत्यक्षाक्रोशनात् ताडनं, ताडनान्मारणं, मारणाद् धर्मभ्रंशनं, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाक्रोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दाक्षमा क्रोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम - इदमेव वा साधु यन्मां परोक्षमाक्रोशति न प्रत्यक्षमित्येष एव लाभः । लौकिकः कः खलु अयमाभाणकः - अयमेव ( मे ) लाभ इति, एवं सर्वत्र व्याख्या । किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते भा० – स्वकृतकर्मफलाभ्यागमाच्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् । किञ्चान्यत् १९१ डी० – स्वकृतफलाभ्यागमाच्चेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वा परः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्र कालभवभावापेक्षः कर्मणामुदयो भगवन्निराख्यातः । स्वकृतं च कर्मानुभवितव्यमवश्यन्तया निकाचितं, तपसा वा क्षपणीयमिति । किश्चान्यदालम्बनं क्षन्तुमनसा विधातव्यमित्याह - भा०—क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥ १ ॥ १ 'विधेयं' इति च पाठः । For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ १९२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ . टी.-क्षमागुणांश्चेत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासाद्यः । तांश्चानुचिन्त्य क्षमामेव विदधीत । आयासो-दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारुणविलोचनस्वेदेद्रवप्रवाहप्रहारवेदनादिकः। तद्विपरीतोऽनायासः-स्वस्थता । आदिग्रहणात् तत्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसनान्तरात्मत्वमित्यादयः। इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधमः। तथा मादेवधर्मः मृदुः-अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदशेनायाह __ भा०-नीचैवृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवं, मनिग्रहो मानविघातश्चेत्यर्थः। तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ॥ टी-नीचैवृत्त्यनुत्सेकाविति । नीचैर्वृत्तिः-अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपा नीचैवर्तनम् । उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः। संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह-मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदस्तस्य ( निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्पन्ति जात्यादिमदास्तस्य ) च निर्घातो मृलोत्कर्तनमित्यर्थः । तद्धाते चावश्यम्भावी जात्यादिमदविनाशः। तनिरूपणार्थमाह-तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि भेदाः। इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयति . भा०-तद्यथा-जातिः १ कुलं २ रूपम् ३ ऐश्वर्य ४ विज्ञानं ५ अष्टविधता मानस्य श्रुतं ६ लाभः ७ वीर्यम् ८ इति ॥ टी०-तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मात्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरह मिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानुभाजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः। मात्रन्वयः कुलं उग्रभोजादि वा । तेनापि मदोन युक्तएव जात्यादिभावनावदिति । रूपं शरीरावयवानां सनिवेशविशेषोलावण्ययुक्तस्तेनापि कश्चिन्माद्यति, तत्प्रतिषेधस्त्वाधुत्तरकारणालोचनाद् भवति । तत्राचं कारणं मातुरोजः पितुः शुक्रम् , उत्तरकारणं जननीग्रस्तानपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रूपमदः । त्व-मांसा-अस्थि-पुरीष-पूयाद्यशुभप्रायत्वात् । ऐश्वर्यमदो १'द्रव्य' इति च-पाठः। २'च' इति घ-पाठः। ३ 'जन्मात्मा जातः पञ्चेन्द्रिया.' इति च-पाठः। ४ 'भोगादि' इति च-पाठः । ५ 'षेधमुत्तर०' इति -पाठः। For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ सूत्रं ६] स्वोपज्ञभाष्य-टीकालङ्कृतम् १९३ धनधान्यसम्पत्प्रभवः । धनं रजत-चामीकर-मरकतादि गो-महिष्य-जाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभङ्गुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत ॥ वाचकेन त्वेतदेव प्रशमरतौ बलसंज्ञया प्रेशमरतावुपात्तम् । तच्च विधा-शरीर-स्वजन-द्रव्य-बलम् । मतान्तरम् इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथय गृहीतं वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं-बुद्धिश्चतुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितो. औत्पत्तिकीप्रमुख- पजना (१) अव्याहतफला भरतरोहकादेवि भवति । गुर्वादि विनयानु___ बुद्धिचतुष्टयम् ष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकालसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाश्चात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेवि । पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् । इत्थं लब्धया बुद्धया अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाचाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचित् अहङ्कारस्य कारणीभवन्ति । मानपरस्य च विनयखण्डनमवश्यम्भावि। विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवजेनीयः। श्रुतम-आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत्-प्रकोपकषेवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्येभ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वादुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च-चतुर्दशपूर्वधरेष्वपि पदस्थानकमवघुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकल १उकं च तत्र जाति-कुल-रूप-बल-बुद्धि-वाल्लभ्यक-श्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति ॥ ८ ॥ २ सन्तुल्या यदुक्तं नमस्कारनियुक्तौ हारिभद्रीये तद्विवरणे च (४१४-४३५ पत्राद्देषु ) । ३ 'मादाय' इति च-पाठः। 'भ्योऽलभ्यतर' इति च-पाठः। ५ स्यादिति' इति -पाठः । २५ For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ १९४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ श्रुतेनापि परिहार्यः श्रुतमद इति । लम्भनं लाभः-प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्र त्यस्वजनेभ्यो विज्ञान-तपो-ऽभिजन-शौर्याद्याधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादग्यन्तीति सर्वोऽप्ययं लाभमदः। स चैवं निगृहीतव्यो लाभान्तगयकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात् , संसागनुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः। वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीय-पराक्रमः शक्तिरुत्साहः सामथ्र्यमतिशयवती चेष्टेति पर्यायाः। वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीय-बलविशेषस्तेन वीर्येण माद्यतीति वीर्यमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात, वीर्यस्य चाशाश्वतत्वात् । तथाहि-बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयन्तो दृश्यन्ते, निर्बलाश्च बलवन्तः संस्कारवशादाशु जायन्ते, तथा व्याधि-जरा-मृत्युषद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्तेषां भूयांस इति ॥ सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयनपसंहरति भा०-एभिजात्यादिभिरष्टाभिर्मदस्थानमत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहकारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपिच श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥२॥ ____टी-एमिर्जात्यादिभिरित्यादि । उक्तलक्षणैर्जात्यादिभिर्मत्तः-अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीवेण-अतिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति-बध्नाति अकुशलं-पापमशुभफलम् , अकुशलमपि बर्द्ध कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तचाख्यायमानमपिन प्रतिपद्यते-न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहक, तन्निग्रहाच्च धर्म इति॥ सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयतिभा०-भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म १'प्रभृत्य ' इति ङ-पाठः। २'लभेयमपर' इति घ-पाठः। 7 'विबलता' इति-घ-पाठः। ५ "कुशलतया' इति अ-च-पाठः। ३ 'बन्धिचिन्तनात् ' इति ग-पाठः । 'प्रयते' इति पाठः। For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १९५ वाऽऽजैवम् । भावदोषवर्जन मित्यर्थः । भावदोषयुक्तो हि उपधिनिकृति संप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ३ ॥ टी० - भावविशुद्धिरिति । भावाः - कायवाङ्यानसानि तेषां विशुद्धिः - अवक्रतशाक्ष्य विरहितत्वम्, मनसोऽपि परिणामः कायवा चोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः केपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति । तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना । उपधिनिकृत्योर्विशेषः - उपधिः छद्म छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् | अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं - परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमार्जवं धर्मः ॥ अधुना लोभप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाह - - भा०-- अलोभः शौचलक्षणम् । शुचिभावः शुनिकर्म वा शौचम् ॥ टी० – अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गचेतनाचेतनमिश्रवस्तुविषयः । लोभदोषाच्च क्रोधमानमायाहिंसाऽनृतस्तेयाऽत्रह्मपरिग्रहार्जनमलजाले नोपचीयमान आत्मा भवत्यशुचिः । तत्रालोमो-लोभाभावो न कचिन्ममत्वम् । अलोभस्य हि लोभदोपविनिर्मुक्तत्वान्निर्भयत्वम् । ततः स्वपरेहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः । एतदेव स्पष्टयति भा० ० - भावविशुद्धिर्निष्कल्मषता । धर्मसाधन मात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मापचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ॥ ४ ॥ टी० - भावविशुद्धिर्ममत्वाभावो निःसङ्गता च, अपरद्रोहेणात्मार्थानुष्ठानं, निष्कल्म पता- -निर्मलता भाव ( धर्म ? ) साधनमात्राः - रजाहरण-मुखपत्रिका - चोलपट्टक- पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूर्च्छ इत्यर्थः । यस्मादशुचिर्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकपायस्तस्मात् तच्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचं तच प्रापणीयेन जलादिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ॥ १' कपटप्रच्छादित' इति ङ-पाठः | २' हिताहिताभि' इति ङ-पाठः । ३ 'महावर्ण' इति च - पाठः । For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ १९६ तन्वार्थाधिगमसूत्रम् [ अध्यायः ९ अवसरप्राप्तं पञ्चमं धर्माङ्ग निदिदिक्षुराह भा०-सत्यर्थे भवं वचः सत्यं, सद्भयो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमनसभ्यमचपलमनाविलमविरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् ॥ टी०–सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवं, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारि सत्यम् ॥ नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात् , किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः । प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात् । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्यायकलापभाजोऽर्थाः। तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादनमिति, तस्येदानी सत्यवचनस्य विशेषगुणानाचष्टे-तदनृतमिति । अनृतं-भूतनिहवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत् , तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम्। परुष-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषमपरुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम् , पिशुनं-प्रीतिविच्छेदकारि द्वयोर्वहनांवा सत्यासत्यदोषाख्यानात् । न पिशुनमपिशुनम् । सभाह-सभ्यं, न सभाहेमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत् । तस्य प्रतिषेधो नासभ्यमनसभ्यम् । चपल:अनालोचितभाषी, तद्वचनमपि चपलं, तच्च दोषाक्षेपि भवति । आविलं-कलुष, कषायवशवतिनो वचनं न आविलमनाविलं, प्रसन्नवचनमितियावत् । विरलं-विश्रम्यभाषणम् । सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच वणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं तु त्रासकर, न सम्भ्रान्तमसम्भ्रान्तं अतित्वरितं वा सम्भ्रान्तमर्नुच्छ्सन भाषते च यत् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्नपदघटितं श्रुतिसुखं, सुखावबोधार्थ च अनभिमान-विनयसहितं अभिजातं-सप्रश्रयं सविनयं सन्दिग्धम्-आकाक्षाविनिवर्तने अक्षम, तद्विपरीतमसन्दिग्धमाकाक्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अॅनिश्चितार्थत्वादालूनविशीर्णप्रायं, (वि)निश्चितार्थ तु स्फुटम् । अनौदार्यम्-अत्यौद्धत्यप्रदीपकं, तद्विपरीतमौदार्यम् । अप्रधानार्थे अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थ ग्राम्यं, न १'व्याप्त्यर्थ' इति च-पाठः । ४ 'अनभिमतमविनय' इति च-पाठः। २ 'न्तमुत्रास' इति च-पाठः।। ३ 'अनुच्छ्स' इति ङ-पाठः । ५'मविनिश्चिता' इति -पाठः। For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १९७ ग्राम्यमग्राम्यम् । पदार्थाश्च विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारम् , अग्राम्यत्वात् पदार्थानभिव्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारं, सीमरं विकत्थनं विमर्दकर, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तम् ॥ भा०-सूत्रमार्गानुसारप्रवृत्तार्थमर्थ्यमर्थिजनभावग्रहणसमर्थमात्मपरार्थानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमईच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः॥५॥ टी०-सूचनात् सूत्र-गणधरप्रत्येकबुद्धस्थविरप्रथितं तस्य यो मार्गः-उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थ-प्रस्तुतीर्थात् अनपेतं अर्थ शुश्रूषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थ-तदावर्जनसमर्थम् । तदेवंविधमात्मपरानुग्रहसमर्थे भवति। निरुपधं मायारहितम् । उपधाभावदोषः। देशे यद् यत्र यस्यार्थस्य प्रसिद्धं बद्देशोपपन्नमविरुद्धम् , कालोपपन्नं यद् यत्र काले भण्यमानं न परस्योद्वेगकारि भवति, प्रस्तावापेक्षमित्यर्थः । अनवद्यम्-अगर्हितम् । अर्ह. च्छासनं द्वादशाङ्गं प्रवचनं तत्र तेन वा प्रशस्तम् अनुजातं यत् तत् प्रयत्नसहितो मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखोवा। मितमिति यावता विवक्षितकार्यप्रतिपचिस्तावदेव, न त्वपरिमितं, याचनमभीक्ष्णावग्रहादिविषयं, प्रच्छनमुत्पन्नसन्देहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टःप्रवचनाविरुद्धं व्याकरोतीति । तदेवमनृतपरुषाधपोह्य तद्विपर्ययेण सत्यमन्वेष्यमिति । याचनप्रच्छनप्रश्नव्याकरणेषु च विष्वेव प्राधान्येन साधोर्वाग्व्यापारो, नान्यत्र निष्प्रयोजनत्वात् , स्वाध्यायवाचनाद्यपि न कतव्यमिति चेत्, न तत्, आत्मसंस्कारार्थी वाचनादिर्यत्नः। संस्कृतात्मा च त्रिष्वेव याचनादिषु व्याप्रियत इति । अथवा मुमुक्षोर्मुक्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति ॥ सम्प्रति संयमोऽभिधीयतेभा०-योगनिग्रहः संयमः । स सप्तदशविधः । तद्यथा-पृथिवीकापिक संयमः, अप्रकायिकसंयमः, तेजस्कायिकसंयमः, वायकायिविधत्वम् दश कसंयमा, वनस्पतिकायिकसंयमः, द्वीन्द्रियसंयमः, त्रीन्द्रिय - - संयमः, चतुरिन्द्रियसंयमः, पश्चेन्द्रियसंयमः ॥ टी-योगनिग्रहः संयम इति। योगा-मनोवाकायलक्षणास्तेषां निग्रहः-प्रवचनो. तविधिना नियमः एवमेव गन्तव्यमेवं स्थातव्यमेवं चिन्तयितव्यं एवं भाषितव्यमिति एष संयमस्य सप्तदशः 'तार्थ तदन्यतममर्थ ' इति ग-पाठः। २ अत्र पाठप्रपातो न वेति विचार्यताम् । ३ 'सप्त.' इति ग-पाठः । For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ १९८ तत्त्वाधिगमसूत्रम् [ अध्यायः ९ संयमोऽभिधीयते, स सप्तदशविध इति । स इत्थंरूपः संयमः सप्तदशप्रकारो भवति । तद्यथेत्यनेन तान् प्रकारानभिमुखीकरोति । पृथिवीकायिकसंयमः पृथिवी काय: शरीरं येषां ते पृथिवीकायाः। एवं चेन्मत्वर्थीयाभावः ? उच्यतेपृथ्वीकायिकशब्दस्य सिद्धिः १० पृथिवीकायशब्दस्य जातिशब्दत्वाद् भवत्येव मत्वर्थीयः कृष्णसर्पवल्मीक ___ इति यथा । अथवा ज्ञापकाद् भवन्ति “इधार्योः शत्रकृच्छ्रिणि" (पा० अ०३, पा० २, सू० १३०) इति । पृथिवीकायिकजातौ जातेवों संयमः-सम्यग यमः-उपरमो निवृत्तिरित्यर्थः। ये जीवाः पृथिवीशरीराः तेषां संघट्ट-परितापव्यापत्तीर्मनो-वाक्-कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः । एवं सर्वत्र यावत् पश्चेन्द्रियसंयमः। भा०—प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, अपहृत्यसंयमः, प्रमृज्यसंयमः, कायसंयमः, वाक्संयमः, मनःसंयमः, उपकरणसंयम इति संयमो धर्मः ॥६॥ टी-प्रेक्ष्येति । प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः। प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते । प्रेक्ष्येति चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चार्ध्वनिषद्यात्वग्वर्तनस्थानानि विदधीतेत्येवमाचरतः संयमो भवति । उपेक्ष्यसंयम इति व्यापार्याऽव्यापार्य चेत्यर्थः। एवं च संयमो भवति, साधन व्यापारयतःप्रवचनविहितासु क्रियासु संयम इति क्यापारणमेवोपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारवत उपेक्षमाणस्य-औदासीन्यं भजतः संयमो भवति । अपहृत्यसंयम इति । प्रोजय-परिवयं संयम लभते, वस्त्रपात्रायतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना परित्यजत इति । प्रमृज्यः संयम इति प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य पथि वा गच्छता सचित्ताचित्तमिश्रपृथिवीकायरजोऽनुरञ्जितचरणस्य स्थण्डिलात् स्थण्डिलं सक्रामतोऽस्थण्डिलाद् वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमगार्यादिरहितेऽन्यथा त्वप्रमार्जयत ऐव संयमः। कायसंयम इति । धावन-वल्गन-प्लवनादिनिवृत्तिः, शुभक्रियासु च प्रवृत्तिः । वाक्संयमो हिंस्र-परुषादिनिवृत्तिः, शुभभाषायां च प्रवृत्तिः । मनःसंयमोऽभिद्रोहा-अभिमानेयादिनिवृत्तिा, धर्मध्यानादिषु च प्रवृत्तिः। उपकरणसंयम इत्यजीवकायसंयमः । पुस्तकग्रहणे अजीवकार्यश्च पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभूवन् हेतुः पुरुषाः दीर्घायुषश्च तदा नासीत् प्रयोजनं पुस्तकैः, दुष्षमानुभावात् तु परिहीनैर्ग्रहणधारणादिभिरस्ति नियुक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो वा भवतीत्येवं संयमो धर्मः॥ १'यत्रोपरमः' इति ग-पाठः। २ 'निषद्यत्वेन' इति ङ-पाठः। ३ 'क्षणं ग्रहण गृहस्था' इति ग-पाठः। 'एचा इतिच-पाठः। ५ 'कायसंयमव' इति ग-पाठा। For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ सूत्र ६] स्वोपज्ञभाष्य टीकालङ्कृतम् सम्प्रति तपः प्रस्तावायातमुच्यते भा०-तपो विविधम् । तत् परस्ताद (अ० ९, सू० १९-२०) वक्ष्यते । प्रकीर्णकं चेमनेकविधम् । टी–तपो द्विविधमित्यादि । तपतीति तपः। कर्तर्यसुन् वा। संयमात्मनः शेषाशयविशोधनार्थ बाह्याभ्यन्तरतपनं तपः। शरीरेन्द्रियतापनात् कर्मनिर्दहनाच तपः । अपर वपोलक्षणे आह–“विशेषेण कायमनस्तापविशेषात् तपः"। द्विविधमिति बाह्यमा मतान्तरम् भ्यन्तरं वा (च)। बाह्यमिति वाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च । आभ्यन्तरं त्वन्यतीथिकानभ्यस्तत्वादन्तःकरणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च । अन्ये त्वाहुः-"परप्रत्यक्षं बाह्यम् । स्वप्रत्यक्षमाभ्यन्तरम्" । अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाह्यम् । अनशनादिभ्यो[ वा तेभ्यो ऽपि च बहिस्तरां वर्तत इति तदुपलक्षितं बाह्यम् । नैवं प्रायश्चित्तादि । तत् परस्ताद-उपरिष्टाद् वक्ष्यते-अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रमम् । इह त्वशून्यार्थ पुरुषविशेषचरितं प्रकीर्णकं का. लाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति भा०-तद्यथा-यववज्रमध्ये चन्द्रप्रतिमे है। कनकरनमुक्तावल्यस्तिस्रः। सिंहविक्रीडिते हे ॥ सी०-यववज्रमध्ये चन्द्रप्रतिमे वे इति। मध्यशब्दः प्रत्येकमभिसम्बध्यते-येवमध्या पेजमध्या च । चन्द्रप्रतिमे इति चन्द्रतुल्ये । यथा चन्द्रस्य कलावृद्धिः प्रतिदिनमेवं भिक्षाकरलवृद्धिः। यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति । तत्र यवमध्या चन्द्रप्रतिमा शुक्ल प्रतिपदारम्भादमावास्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिः (तथा मिक्षाकवलवृद्धिः), कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः। ततः कृष्णप्रतिपद्यपि पञ्चदशैव । एवमेकैककवलहान्या यावदमावास्यायामेकः कवल इत्येषा यवमध्या। वज्रमध्या कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पश्चदशकवलानभ्यवहरति । तत्राप्येकैककपलहानिर्यावदमावास्यायामेकः कवलः, शुक्ल प्रतिपद्यप्येक एवेति । द्वितीयादिग्वेकैकवृद्धिर्यावत् पोर्णमास्यां पञ्चदशेत्येषा वज्रमध्या। वक्ष्यति इति ग-पाठः। २'तप्यतीति' इति ग-पाठः। ३'तापनं तपः' इति -पाठः। ४-५ 'यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, धजस्येव मध्ये तनुरूस्त पर्यस्तयोस्तु स्थूलस्य मध्यं यस्याः सा पञमध्या' इति श्रीनेमिचन्द्रसरिवरविरचितस्य प्रवचनसारोद्धारस्य भीसिद्धसेनसूरिकृतटीकायो (४४०तमे पत्रा)। ६ यवमया चम्मप्रतिमामुद्दिश्य प्रोकम् “एकैको वर्धये भिक्षा, शुक्ले कृष्णे च हापयेत् । भुजीत नामावास्याया-मेष चानायणो विधिः॥" For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ २०० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तथा कनकरत्नमुक्तावल्यास्तिस्र इति कनकावली-रत्नावली-मुक्तावली च। तत्र केनकावली तावदाख्यायते -पाक तावच्चतुर्थभक्तं ततः षष्ठं ततोऽष्टमं ततोऽपि षष्ठान्यष्टौ । पुन चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिकनकावलीस्वरूपम् पइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि । ततः पुनश्चतुस्त्रिंशत् संख्यानि षष्ठानि । ततः परमेतदेवाद्यमधं चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोम विरचनीयं यावत पर्यन्ते चतुर्थभक्तमिति। अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिः पारणदिवसाः, तत्प्रक्षेपाच चत्वारि दिनशतानि द्विसप्तत्यधिकानि भवन्ति । पिण्डस्तु वर्षमेकं त्रयो मासाः द्वाविंशतिर्दिवसा इति ॥ अत्र च प्रथमकनकावल्यां सर्वकामगुणिकेन पारणाविधिः। द्वितीयकनकावल्या पारणके सर्वनिर्विकृतिकं पारयितव्यम् । तृतीयस्यां पारणाविधिरलेपकृताहारेण । चतुर्थी पारणाविधिराचाम्लेन परिमितभिक्षेणेति । एवमासा चतसृणामपि कालः पञ्च वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति ॥ कनकावल्या पारणाविधिः १प्रवचनसारोद्धारे तु प्रथम रत्नावलीतपो व्याख्यातम् , तदनन्तरं कनकावलीतपः । उक्तं च तहकाया (४३७तमे पत्रा)-" कनकमयमणिकनिष्पन्नो भूषणविशेषः कनकावली, तदाकार...यत् तपस्तत् कनकावली. त्युच्यते, एतच कनकावलीतपो रत्नावलीतपःक्रमेणैव क्रियते" कनकावलीस्थापना यथा तपोदिनानि ३८४ कनकावलीतपः पारणादिनानि ८८ | २/२/२/२/२ | २/२,२२२२२ |२|२२|२|२|२|२| २२ २२२ | २२२ २२ २/२/२ 'रलोपहारेण' इति उ-पाठः। For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ सूत्रं ६] स्वोपज्ञमाप्य टीकालङ्कृतम् २०१ सम्प्रति रत्नावल्याः स्थापना-चतुर्थषष्ठाष्टमानि। ततोऽष्टमान्यष्टौ । पुनश्चतुर्थषष्ठाष्टमदसमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुविशद्भक्तानि । ततश्चतुस्त्रिंशत्सङ्ख्यान्यष्टमभक्तानि । ततः परमाधम चतुस्त्रिंशद्भक्ता दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्याश्चारत्नावलीस्वरूपम् ष्टाशीतिः पारणादिवसाः, तैः सह तपोदिवसा एकस्थीकृता एष पिण्डितः कालो वर्ष पञ्च मासा द्वादश दिवसाः दिनशतानि पञ्च द्वाविंशत्युत्तराणि चतस्रो रत्नावलीमेदा इति। एष राशिः संवत्सरादिचतुर्गुणो जातं वर्षाणि पश्च नव मासा अष्टादश दिवसाः । पारणाविधिः पूर्ववत् । साम्प्रतं मुक्तावली भण्यते प्राक् तावत् चतुर्थषष्ठे ततधतुर्थाष्टमे चतुर्थदशमे १"रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदि सूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता, तदनु दाडिमपुष्पोमयोपशोभिता, ततोऽपि सरलसरिकायुगलशालिनी, पुनमध्यदेशे मुश्लिष्टपदकसमलहकृता च भवति, एवं यत् तपः...तद् रत्नावलीत्युच्यते" इति प्रवचनसारोद्धारटीकाया (४३६समे पत्राडे)। २ रत्नावलीस्थापना रत्नावलीतपः तपोदिनानि ३०४ 'पारणादिनामि ८ ३/३/३/३ . ३ | ३| |rrr or|mm] ३ "एतैः काहलिकाया अधस्तात् दाडिमपुष्पं मिष्पद्यते" प्रवचन ( ४३७तमे पाडे)।" एषा हि दाडिमपुष्पस्याधस्तदेका सरिका"। ५ "एतैः किल पदकं सम्पद्यते"। (अन्तकद्दशासु तु रत्नावल्यो पदके दाडिमद्वये च त्रिकस्थाने द्विका उकार, कनकावल्या च त्रिकाः। ७ मुक्तावली-मौक्तिकहारः, तदाकारस्थापनया यत् तपस्तन्मुक्तावल्युच्यते । एतत्स्थापना तु यथान- ------------THEMI-मानहानन -~-~-~-13-01-21-01-1-1-1-11-1 -1-1- वन २६ For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ २०२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ चतुर्थद्वादशे चतुर्थचतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे मुकावलीस्वरूपम् चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषड्विंशे चतुर्थाष्टाविंशे चतुर्थत्रिंश अक्ते चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुस्त्रिंशद्भक्ते । अतः परमन्यदधं चतुस्त्रिंशअक्तादि प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकम् । एतच्चतुर्गुणं जातं वर्षचतुष्टयं, पारणादिनान्यपि क्षेप्याणि । पारणाविधिश्च पूर्ववत् । तथा अपरस्तपोविशेषः-सिंहविक्रीडिते खे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्री डितं च । तत्र क्षुल्लकसिंहविक्रीडितस्य रचना । चतुर्थषष्ठे चतुर्थाष्टमे क्षुल्लकसिंहविक्री षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोड - शक्शेि ततोऽष्टादश, पुनराद्यार्घमेव प्रतिलोमं रचनीयं विंशषोडशादिक यावत् पर्यन्ते चतुर्थभक्तमिति, पद्भिर्मासैः सप्तभिश्च दिवसैः परिसमाप्तिः । एतच्चतुर्गुणं जातं वर्षद्वयं दिनान्यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । महतः सिंहविक्रीडितस्य रचना । चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडषविशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषविंशे चतुर्विंशाष्टाविंशे षड्विंशतित्रि र शद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशचतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्त, महासिंहविक्री - ततः परमाद्यार्धमेव चतुस्त्रिंशद्भक्तकादिकं प्रतिलोमं विरचनीयं यावद रितस्वक १८ पर्यन्ते चतुर्थभक्तमिति । अस्य च कालो वर्षमेकं षट् मासा दिनान्यष्टादश। एष कालधतुर्गुणो जातं वर्षाणि षट् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । तथा अपरं तपः १“ महासिंहनिष्क्रीडितापेक्षया लघु (क्षुल्लकं )-इस्वं सिंहस्य निष्क्रीडितं-गमनं सिंहनिष्क्रीडितम् , तदिष यत् तपः तत सिंहनिष्क्रीडितम् । सिंहो हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपसि अतिक्रान्ततपोविशेष पुनरासेम्य अप्रेतनं तं प्रकरोति तत् सिंहनिष्कोडितम्" इति प्रवचनसारोद्धारटीकायां (४३५तमे पत्राके)। स्थापना ननला क्षुल्लकसिंहनिष्क्रीडितं तपः त JIJ010 तपोदिनानि ३५४ पारणादिनानि ३३ ३स्थापना महासिंहनिष्कीरितं तपा तपोदिनानि ४९७ पारणादिनानि For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ सूत्र ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २०३ भा०-सप्तसप्तमिकायाः प्रतिमाश्चतस्रः भद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि ॥ टी०-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति । तत्र सप्तपतमिका प्रथमायामहोरात्राणामेकोनपश्चाशद् दिवसा इत्यर्थः । अष्टाष्टकाः। अष्टाष्टमिकायामहोरात्राणां चतुःषष्टिर्दिनानीति । तथा नवनवमिकायामेकाशीतिरहोरात्राणि । देशदशमिकायां दिवसशतम् । सर्वत्र प्रथमा अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वम् । सर्वत्रेति चतसृष्वपि प्रतिमासु प्रथमे सप्तमके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिन मे कैकभिक्षाशित्वं द्वितीये सप्तकेऽष्ट के नवके दशके च भिक्षाद्वयाशित्वम्, एवं शेषेवपि सप्तकादिष्वेकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्तभिक्षा अष्टमेऽष्टौ भिक्षा नवमे नव मिक्षा दशमे दशभिक्षाशित्वमिति ॥ _तथाऽन्यत् तपः सर्वतोभद्रमिति द्विविधं तत्-क्षुलुकसर्वतोभद्रं महासर्वतोभद्रं चेति । तत्र प्रथमस्य प्रस्तारविधिर्भण्यते-पञ्च गृहाणि कृत्वा तिर्यगृवं च । ततो रचना तपसः कार्यो। चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां च दशमद्वादशचतुर्थषष्ठाष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्या, पञ्चम्यामष्टमदशमद्वादशचतुर्थषष्ठानि । पारणादिवसाः पञ्चविंशतिः। कालो मासत्रयं दिनानि दश । एष एव चतुर्गुणो वर्षमेकं मासो दश दिनानीति ॥ १'सर्वतोभद्रं भद्रोत्तर.' इति ग-पाठः । २ सप्तसप्तमिकायाः स्वरूपं अन्तकृद्दशासु यथा “पढमे सत्तए एकेकं भोयणस्स दत्तिं पडिगाहेइ, एकेकं पाणयस्स, एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स, सत्त पाणयस्स..." [प्रथमे सप्तके एकैको भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य, एवं यावत् सप्तमे सप्त दत्तयो भोजनस्य, सप्त पानकस्य....] व्यवहारभाष्ये स्वेवम्“ अहवा एकेक्कियं दत्ति, जा सत्तेकेकस्स सत्तए । आएसो अत्थि एसो वि............॥" [अथवा एकैकां दत्तिं यावत् सप्त एकैकस्मिन् सप्तके । आदेशोऽस्ति एषोऽपि............] ३ 'दशमिकाया' इति च-पाठः । ४ क्षुल्लकसर्वतोभद्रस्य प्रथमो विकल्पः فهم ع اسم ३/४/ ५/१ २ For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ स्वार्थाधिगमसूत्रम् [ अध्यायः ९ क्षुल्लकसर्वतोभद्रमुच्यते - तिर्यगूर्ध्व कर्णयोश्च सर्वत्र दिनराशिस्तुल्यः पञ्चदशपरिमाणइति । अथवा क्षुल्लकस्य सर्वतोभद्रस्य द्वितीयो विकल्पः । चतुर्थषष्ठाष्टमदशमद्वादशानि, अष्टमदशमद्वादशचतुर्थषष्ठानि, द्वादशचतुर्थषष्ठाष्टमदशमानि षष्ठाष्टमदशमद्वादशचतुर्थानि, दशमद्वादशचतुर्थषष्टाष्टमानीति ॥ २०४ सम्प्रति महत्सर्वतोभद्रं भण्यते - सप्त गृहकाणि कृत्वा तिर्यगूर्ध्व च तपोरंचना । चतुर्थषष्ठाष्टमदशम द्वादशचतुर्दशषोडशभक्तानि, चतुर्दशषोडश चतुर्थषष्ठाष्टमदशम द्वादशभकानि, दशमद्वादशच तु देशषोडशचतुर्थषष्ठाष्टमानि, षष्ठाष्टमदश मद्वादश चतुर्दशषोडश चतुर्थानि, षोडश चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि, द्वादशचतु देशषोडश चतुर्थषष्ठाष्टमदश मानि, अष्टमदशमद्वादशचतुर्दशषोडशचतुर्थषष्ठानि ॥ ' १ शुक्र कसर्वतोभद्रस्य द्वितीयो विकल्पः, अयं तु प्रवचनसारोद्धारे निर्दिष्टस्य भद्रतपसः स्वरूपवाची । १ २ ३ ५ ३ ४ ५ १ २ ५ १ २ ३ ४ २ ३ ४ ५ १ ४ ५ १ २ ३ २ महासर्वतोभद्रम् १ २ ३ ४ ५ ६ ७ ६ ७ १ २ ३ ४ ५ ७ ४ ४ ५ ६ ७ १ २ ३ २|३|४|५|६ ५ ६ ७ १ ३ ४ ५ ६ ३ प्रवचनसारोद्धारे सर्वतोभद्रं यथा ५ ६ ७ ८ ९ १० ११ ८ ९ १० ११ ५ ६ ७ ११ ५ ६ ७ ८ ९ १० ७ ८ ९ १० ११ ५ ६ |१०|११ ५ ६ ७ ८ ९ ७ ८ ९ १० ११५ ९ १० ११५।६ ७ ८ १ २ ३ ४ ५ ६ २ ३ ४ ७ १ २ ७ प्रवचनसारोद्धारे महाभवमपि १ २ ४ ५ ६ ३ ४ ५ १ २ x 9 min 5069m w For Personal & Private Use Only १ ३ ४ ५ ६ ७ १ २ २३ મ ५/६ ७ १ २ दृश्यते तद्रचना यथा ६ ७ २ ३ ५ ६ १ २ Page #234 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भेद्रोत्तररचना । द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि, अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशपोडशाष्टादशविंशति द्वादशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादश विंशतिद्वादश चतुर्दशभक्तानि दिनानि पञ्चत्रिंशद्धद्रोत्तरतपसि । तथाऽपरं तपः आचाम्लवर्धमानम् । अलवणारनालौदनलक्षणमा चाम्लं तद् वर्धमार्ग यत्र तपसि तदाचाम्लवर्धमानं तस्य प्ररूपणा - प्राक् तात्रदाचाम्लं ततश्चतुर्थभक्तं पुनर्दे आचाम्ले पुनश्चतुर्थभक्तं पुनस्त्रीण्याचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थभक्तं पश्चाचाम्लानि पुनश्वतुर्थभक्तं एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तोवद् वर्धयितव्यमाचाम्लं यावदाचाम्लशतं पूर्ण पर्यन्ते च चतुर्थभक्तं कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिर्दिवसाचेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने ॥ अथवाऽऽदिशब्दसङ्गृहीता द्वादश भिक्षुप्रतिमास्तदर्शनार्थमाह भा० - तथा द्वादश भिक्षुप्रतिमाः - मासिक्यायाः आ सप्तमासिक्यः सप्त, संप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रि की चेति ॥ ७ ॥ टी० - तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या इति । मासिकी आदिर्यासां ता मासिक्याद्याः । द्वादशेति इयत्ता निरूपणाय संख्या । भिक्षुरुद्गमोत्पादनैषणादिशुद्धभिक्षाशी । प्रतिमा प्रतिज्ञा । मासः प्रयोजनमस्या इति मासिकी । मासेन परिसमाप्तिमायातीत्यर्थः । आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपञ्चषट्सप्त मासाख्याः । एवमेताः सप्त तथाऽपरास्तिस्रः प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सतरात्रिकी चेति । एवमेता दश । अपरे द्वे अहोरात्रिकी एकरात्रिकी चेति । एवं द्वादश । तत्र मासिकीं प्रतिमामारूढः साधुर्भोजनस्यैकां देत्तिमाते । १ भद्रोत्तरम् ५ ६ ७ ८ ९ ८ ९५ | ६ | ७ ६ ७ ८ ९ ५ ९ ५ ६ ७ ८ 9 ८ ९ ५ ६ २०५ INTERNET PRESTONE प्रवचनसारोद्धारे तु भद्रोत्तरं यथा ५ ६ ७ ८ ९ ७ ८ ९ ५ ६ ९ ५ ६ ७ ८ ६ ७ ८/९/५ ८ ९ ५ ६ ७ २ 'सदेव' इति ङ-पाठः । ३ ' सप्तरात्रिक्याः तिस्रः ' इति घ-पाठः । ४ ' रात्रिकी रात्रिकी ' इति ध-पाठः । ५ ' दत्तिकामा (?) ' इति ङ-पाठः । For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ स्वरूपम् २०६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तथा पानकस्य, दायिका च एलकस्यान्तः पादमेक विन्यस्यापरं बहिर्काएकमासिक्या: " वस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते । तथा आदिमध्यावसान " गोचरत्रयहीडी पेडा अर्धपेडा गोमूत्रिका पतङ्गवीथिः संबुक्कवृत्ता गत्वा प्रत्यागता चेति षड्विधगोचरभूमिचारी । एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रं कल्पते वासः। यत्र न ज्ञायते तत्रैकरात्रं वाऽहोरात्रद्वयं वा वस्तु कल्पते, न परतः। याचनप्रच्छनाऽनुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटगृहकवृक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथास्तीर्णसंस्तारकत्रयशायी कश्चित् तदध्यासिते प्रतिश्रये अनि लगयेत् ततो दाहभयाने निष्कामे कण्टकादिकं पादलममक्षितो वा कणुकांदि नो निर्हरेत् । जलस्थलादिषु यत्रास्तमेति तपनस्ततः स्थानादेकमपि पदं न प्रयाति । विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति । सन्मुखमापततो दुष्टाश्वहस्त्यादीत्या पदमप्येकं पश्चान्नापसप॑त् । एवमादिभिर्नियमविशेषैर्विचित्रा एषा मासिकी प्रतिमेति। द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानकस्य च, शेषों पूर्ववत् । एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यो सप्त दचयः । शेषं प्रथमप्रतिमावद्विधानम् । प्रथमसप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्त मपानकं ग्रामादेर्बहिरुत्तानपार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं सप्तरात्रिक्या: दिव्यमानुषतैयग्योनानुपसर्गान् सम्यक्सहमानस्येत्यन्यत् पूर्ववत् । द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च स्थान त्वस्य दण्डायतं लगडशायिता उत्कुटुकासनं वा। तृतीयामपि सप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जिता चेति । अहोरात्रिकी प्रतिपन्नस्य प्रतिमा षष्ठभक्तमपानकं बहियामादेश्चतुरङ्गुलान्तरौ चरणौ विधाय लम्बितबाहो कायोत्सर्गावस्थानमेकं, शेषं पूर्ववत् । एकरात्रिकी प्रतिमा कुर्वतोऽष्टमभक्तमपानकं ग्रामादेबहिरीषत् प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रिय ग्रामः कायोत्सगोवस्थायी दिव्यमानुषतेरश्चानुपसगान् सम्यक तितिक्षते यस्तस्य भवतीति सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति । नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि ? . प्रमत्तगीतमेतत् । वाचको हि पूर्व वित् कथमेवंविधमाषेविसंवादि निर्वभाज्यपाठपरामशः ध्नीयात ? सूत्रानवबोधादुपजातान्तिना केनापि रचितमेतद् वचनकम्दोच्चा सत्तराईदिया तइया सत्तराईदिया। द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः । द्वे सप्तरात्रे त्रीणीति सप्तरात्राणीति । सूत्रनिर्भेदं कृत्वा पठितमझेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति ॥ 'प्रातिकामेत्' इति ग-पाठः। २'कादिना' इति ङ-पाठः। ३ 'दण्डयतः' इति ड-पाठः। ४ 'उस्कुटकस्थान' इति हु-पाठः। ५ 'हिकापुनीरा' इति ङ-पाठः । ६ 'निरूढदृष्टि' इति च-पाठः। ७ 'मर्षवचना' इति -पाठः। ८'ब्रूयात्' इति उ-पाठः। ९ 'द्विसप्त' इति ग-पाठः। For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ २०७ सूत्र ६ ] वोपज्ञभाष्य-टीकालङ्कृतम् एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया प्राहभा०-बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यांगः। टी०-बाह्याभ्यन्तरोपधिशरीरानपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोभिधीयते । न हि निरालम्बनो भावदोषः समस्ति । यथा शुभ तपसा नादत्ते प्राक्तनं च त्यजत्येवं बायोपकरणादित्यागोऽपि संवृणोत्यास्रवद्वाराणि । तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसः अभ्यन्तरं क्रोधादिश्वातिदुस्त्यज उपधिः । शरीरं वाऽभ्यन्तरमन्नपानं च बाह्यम् । आदिग्रहणादौपग्रहिक च बहिनिषद्यादण्डकादि आश्रयभूतं भावदोषस्य भवति । भावदोषो मृच्छो स्नेहः गायोदिः। संयमसाधनं रजोहरणादीत्येवं धारयति, न पुना रागादियुक्तः शोभाद्यर्थम् । एवं विधस्य भावदोषस्य परित्यागः सर्वप्रकारस्त्याग उच्यते ॥ सम्प्रति आकिश्चन्यस्वरूपनिरूपणायाहभा०-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिञ्चन्यम् ॥९॥ टी-शरीरेति । उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राघुपभुञ्जानोऽप्यकिञ्चन एव भवति । शरीरमाश्रयमात्रमात्मनो यदा च तत्र त्यागार्हमशुचित्वङ्मांसास्थिपञ्जरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः साहायके वर्तते । तदिदं शकटाक्षोपाञ्जनवदाहारादिनोपग्राह्यम् । न त्ववयवसन्निवेशशोभार्थमिति । निर्ममत्वमाकिश्चन्यं धर्मोपकरणं रजोहत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति संयमोपकरणम् । अत्रापि निर्ममत्वमाकिश्चन्यमिति ॥ ब्रह्मचर्यस्वरूपनिदिधारयिषयाप्राह भा०-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् ॥ टी०-व्रतपरिपालनायेत्यादि । आकिञ्चन्ये व्यवस्थितो प्रमचर्य परिपालयेत् । तथ ब्रह्मचर्य गुरुकुलवासलक्षणम् । गुरुकुलवासो ब्रह्मचर्यमिति। बृहत्त्वादात्मा ब्रह्म [आवृत्तिरात्मनि ब्रह्मचर्यमाख्यातम् ] ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थानम् । अब्रह्मणश्च विनिवृत्तिव्रतं मैथुनवर्जप्राधान्येन । तत्परिपालनाय गुरुकुले वस्तव्यम् । यद्यपि मनोसामनोज्ञ १ 'त्यागधर्मः' इति ग-पाठः। २ 'मनसमभ्यन्तरं' इति ग-पाठः। ३ 'शोभार्थी प्रति' इति च-पाठः । ४'रजोगुप्त्यादि' इति उ-पाठः । ५ 'तस्य प्रतिपा.' इति ग-पाठः। For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ २०८ तस्वार्थाधिगमसूत्रम् [ अध्यायः ९ विषयराग विरागविमुक्तिर्ब्रह्मचर्य, तथापि प्रधानत्वेन विवक्षा मैथुनलेवृरेव । तत्परिपालनार्थं च भगवद्भिर्नवगुप्तय उपदिष्टाः - वसति - कथा - निषद्येन्द्रिय- कुड्यान्तर-पूर्व क्रीडितप्रणीताहाराऽतिमात्र-भोजनविभूषणाख्याः । ज्ञानसंवर्धनार्थं च गुरुकुलवासः । यथोक्तमार्षे - "" नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धना आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥” कषायाः क्रोधादयस्तेषां परिपाकः - परिणतिरुपशमः क्षयो वा तदर्थं च गुरुकुलवासोऽभ्युपेयः । गुरुरहितस्य हि परिणामवैचित्र्याद् विकथादिदोषात् असज्जनसम्पर्कात असत्क्रियासङ्गात् अनुस्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् । तस्मादाप्राणितात् गुरुकुलवासः श्रेयः । गुरुकुलवासेन वा स्वतन्त्रीकृतस्य ज्ञानदर्शनचरणव्रतभावना गुप्त्यादिपरिष्वृद्धिः। अत एव च साधोर्द्विसङ्गृहीतत्वमाचार्योपाध्यायाभ्याम् । निर्ग्रन्थ्यास्तु प्रवर्तिनी सङ्गृहीतत्वं च । तदेव च पर्यायशब्दैराख्यातमाद राधानार्थम् ॥ भा० - अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देश ( शाव १ ) स्थायित्वआचार्याणां मित्यर्थं च पञ्चाचार्याः प्रोक्ताः प्रव्राजकः, दिगाचार्यः, श्रुतोद्देष्टा, पञ्चविधत्वम् श्रुतसमुद्देष्टा, आम्नायार्थवाचक इति ॥ टी० – अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच्च पञ्चाचार्याः प्रोक्ताः - ख्याप्याः प्रब्राजकः - सामायिकत्रतादेरारोपयिता १, दिगाचार्य:सचित्ताचित्तमिश्रवस्त्वनुज्ञायी २, श्रुतोद्देष्टा - श्रुतम् - आगममुद्दिशति यः प्रथमतः ३, एवमुद्दिष्टगुर्वेदरपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयितुत्वेन सम्यग् धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा । समुद्देष्टानुज्ञयोरेककालत्वात् समुद्देशसङ्ग्रहीतमनुज्ञानम् ४, आम्नाय - आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्तीत्याम्नायार्थवाचकः, पारमर्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पश्चम आचार्य: ५ ॥ भा० – तस्य ब्रह्मचर्यस्येमे विशेषगुणा भवन्ति । अब्रह्मविरतेर्व्रतस्य भावना यथोक्ता इष्टस्पर्श-रेंस- गन्ध- विभूषानभिनन्दित्वं चेति ॥ टी०- ० – तस्य ब्रह्मचर्यस्येत्यादि । पुनरपि तद्रक्षणदृढीकरणार्थं ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते - इमे इति प्रत्यक्षीक्रियन्ते । विशेषेण - अतिशयेनोपकारित्वाद् विशेगुणा अब्रह्म विरतेर्ब्रह्मव्रतस्य । यथोक्ता भावनाः प्राक् पञ्च दोषवर्जनेन निगूढंख्यङ्गा 1 १ छाया- ज्ञानस्य भवति भागी थिरतरतो दर्शने चरित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ २ ' गुर्वाद्यपाये' इति ङ-पाठः । ३ ' रतिव्रतभावना ' इति घ-पाः । 'रस-रूप- गन्ध-शब्द- विभूषा० इति घ-पाठः । For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २०९ लोचनपूर्वरतस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावमथाच विरतयो भावना ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः, शरीरविभूषा. च, तत्रानभिनन्दत्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः-अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायते इति । तदेवं क्षमया क्रोधं निहन्यात, निहतक्रोधो नीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत्, परित्यक्तमदस्थान आर्जवं भावयेत् , भावदोषवर्जनेन निगूढदोषां मायामार्जवेन प्रेकटीकृत्य शौचमाचरेत् अलोभसंश्रयेण, लोभाशौचं अलोमशौचेन .....संशोध्य शुद्धात्मा सत्यं ब्रूयात् , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत, ब्रह्मचर्यस्य प पा संयतात्मा शेषाशयविशोधनार्थे तपश्चरेत्, ततो बाह्यान्यपि धर्मसाधनानि पूर्णतायां साधनानि त्यजेत. विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु स्वजनसुहृत्सम्बन्धिषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिश्चन्यं भावयेत् । सत्याकिञ्चन्ये ब्रह्मचर्य परिपूर्ण भवतीति ॥६॥ एवं परमविशुद्धिलक्षणे धर्मे व्यवस्थितः पुनरपि आत्मगुणदोषजुगुप्साथ जगद् द्वादशभिः स्वतत्त्वैविभज्यानुचिन्तयेदित्याह सूत्रम्-अनित्या-ऽशरण-संसारै-कत्वा-ऽन्यत्वा-शुचिद्वादश भावना त्वाऽऽत्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्म स्वाख्यातंत्वानुचिन्तनमनुप्रेक्षाः ॥ ९-७॥ टी-अपरे पठन्ति-अनुप्रेक्षा इति अनुप्रेक्षितव्या इत्यर्थः। अपरेऽनुप्रेक्षाशब्दमेकवचनान्तमधीयते, तत्रार्थोऽनित्यादिचिन्तनमनुप्रक्षाच्यते, बहुवचनान्ते त्वनित्यादिचिन्तनान्यनुप्रेक्षा इति । भा०-एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीर-शय्या-ऽऽसनवस्त्रादीनि द्रव्याणि सर्वसंयोगाश्वानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गो न भवति । मा भून्मे तहियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥१॥ टी-एता द्वादशानुप्रेक्षा इत्यादि । एता अनित्यादिकाः परामृश्यन्ते। द्वादशेति द्वादशैव, नाधिका न्यूना वा। अनुप्रेक्षणमनुप्रेक्षा । अनुप्रेक्ष्यन्ते अनुचिन्त्यन्त इति वाऽनुप्रेक्षाः। तत्र-तास्वनित्यभावना तावद् भण्यत । तत्रानित्यादया धर्मस्वाख्यातान्ताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिन्तनशब्देन सह कृतषष्ठासमासास्तत्पुरुषसमानाधिकरणानुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते । अभ्यन्तरं शरीरद्रव्यं जीवप्रदशेम्पोसत्वात् बाह्यानि शय्या-ऽऽसन-वखा दीनि । आदिग्रहणादोधिकोपग्रहिकोपधेः समस्तस्य ग्रहणम् । तत्र अनित्यभावनाया शरीरं तावत जन्मनः प्रभृति पूर्वावस्थां जहदुत्तरावस्थामास्कन्दत् प्रतिक्षस्वरूपम् णमन्यथाऽन्यथा च भवजराजरितसकलावयवं पुद्गलजालविरचनामात्र १'वसत्वाच' इति हु-च-पाठः। २ 'प्रकृत्य' इति ङ-पाठः । ३ 'ततत्त्वानु०' इति घ-पाठः । For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ २१० तत्वार्थाधिगमसूत्रम् [ अध्यायः९ पर्यन्ते परित्यक्तसन्निवेशविशेषं विशीर्यत इत्यनित्यमेव परिणामानित्यतया । एवमनागतमेवानुप्रेक्षमाणस्य तत्राभिष्वङ्गा-स्नेहप्रतिबन्धो न भवति । तंत्र स्नेहाभ्यञ्जनोद्वर्तनमर्दनसानविभूषादिषु निःस्पृहस्य धर्मध्यानादिष्वासङ्गो भवति । आगमेऽप्यभिहितम्-"जं पि मे इमं सरीरगं इह कंतं पियं मणुण्णं" इत्यादि । शय्या-प्रतिश्रयः संस्तरणपट्टकादिः संस्तारकफलकादिर्वा । आसनं-गोमयपीठकादि । वस्त्रं-कल्प-चोलपट्टकादि। प्रतिदिवसं रजसा विपरिणम्यमानं सर्वप्रकारं स्वां सन्निवेशावस्थां विहाय विशरारुतां प्रतिपद्यत इत्यनित्यभावनाभ्यासान तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणम् । सर्वसंयोगाश्चानित्या इति । यावन्तः संयोगा-मम सम्बन्धाः केचिद् बाह्याभ्यन्तरैद्रव्यः शय्याशरीरादिभिस्ते घकाण्डभङ्गुरा इत्यवश्यं चादिमता संयोगेन वियोगान्तेन भवितव्यम् । स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिन्तयेत् । कस्माद्धेतोः ? यसाच्चैवं चिन्तयतस्तेष्वभिष्वङ्गो न भवति स्नेहप्रतिबन्धः। एतदेवाह-मा भून्मे तहियोगजं दुःखमित्यादि। तैर्वियोगो बाह्याभ्यन्तरैव्यैः, तद्वियोगे जातं दुःखं शारीरं मानसं वा। तन्मा भूदित्यनागतमेवेत्यनित्यानुप्रक्षा ॥ अधुनाऽशरणानुप्रेक्षाप्रतिपादनायाहभा०-यथा निराश्रये जनविरहिते धनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिपैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते । एवं जन्म-जरा-मरणव्याधि-प्रियविप्रयोगा-प्रियसंप्रयोगे-प्सितालाभ-दारिद्य-दौभाग्य-दौमनस्य-मरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत्। टी०-यथा निराश्रये इत्यादि। यथेति दृष्टान्तप्रदर्शनम् । निराश्रये इति गुप्तिस्थानशून्ये । जनविरहिते इति निवारकाभावप्रदर्शनम् । यत्र तु जनस्तत्र कदाचित् कश्चिद कारुणिको निवारयत्यपि । वनस्थलीपृष्ठ इति । वनशब्देन वृक्षा एव गृह्यन्ते, न पुनर्जालिकॅटादिगुप्तिस्थानम् । बलवतेति । दुर्बलेनाभिभूतः कदाचित् प्रणश्यत्यपि । बलवानपि यदि धाणो भवति ततो मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेन आमिषैषिणेति । सिंहेन-मृगराजेन अभ्याहतस्य-अभिभूतस्य । मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःसरणः प्रगल्भत्वात् प्रणश्येदपि, न पुनः शावः । शरण-भयापहारि स्थानं तस्य चाभावः। १ 'ततश्च' इति ग-पाठः। २ भगवत्यां (श० २, उ० १, सू० ९४) १२७ तमे पत्रा। छाया यदर्षि मे.इदं शरीरकं इष्टं कान्तं प्रियं मनोज्ञम् । ४ ' मे सम्बन्धा' इति ग-पाठः। ५ ‘र्जालिझाटाविगुप्ति' इति ग-पाठः। For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २११ एवमित्यादिना दाष्टन्तिकमर्थं समीकरोति । जन्म - योनेर्निःसरणं गर्भाधानं वा, उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीड्यमानः कृच्छ्रेण अशरणभावनायाः निःसरति । उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः स्वरूपम् कतिचिन्मासान् दुःखेन गमयति । निलुठितस्तु योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः । मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः । व्याधयो ज्वरातीसार-कास- श्वास- कुष्ठप्रभृतयः । प्रियः - इष्टो जनस्तेन सह विप्रयोगः । तद्विपरीतोप्रियस्तेन च सं (प्र) योगः । ईप्सितमाप्तुमिष्टं तस्याऽलाभः । दौर्मनस्यं मानसमेव दुःखम् । अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानाद् वा सकलायुषः परिक्षयाद वाऽवश्यंतया प्राणिनां संसारे भवति । आदिग्रहणाद् वधबन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः ॥ भा०- - एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्योद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तंद्धि परं शरणमित्यशरणानुप्रेक्षा ॥ २ ॥ टी० – एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते- प्रवर्तते इति । जन्मजरामरणभयपरिष्वक्तस्य च यस्मात् तदेव परं - प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥ संसारानुप्रेक्षा निरूपणाय प्रक्रमते भा० - अनादौ संसारे नरक- तिर्यग्योनि- मनुष्या-मर भवग्रहणेषु चक्रवत् परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा ॥ टी०–अनादौ संसारे इत्यादि । अविद्यमान आदिर्यस्यासावनादिर्नाभूत् उत्पन्नो नाप्युत्पादितः केनचिदिति । संसरणम् - इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन । भवशब्दो जन्मवचनः । नरकादिजन्मनां ग्रहणानि - उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल- दहन - पवन-वनस्पतिशरीराः द्वि-त्रि- चतु:पञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्ब न्धमन्वभूवन्ननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः । एतदेव दर्शयति- १' नाद्यसकला' इति च पाठः । २ ' तद् विपरीतं ' इति ग-पाठः । ३ ' स्वजनः परजनो वा' इति घ टी-पाठः । For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ २१२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ भा०नहि स्वजनपरजनयोव्यवस्था विद्यते । माता हि भूत्वा भगिनी भायों दुहिता च भवति । भगिनी भूत्वा माता भायो दुहिता स्वजन-परजनविवेकः न च भवति । भार्याभूत्वा भगिनी दुहिता माता च भवति । दुहिता भूत्वा माता भगिनी भार्या च भवति । तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति । पुत्रो भूत्वा [ शत्रुर्भवति ] पिता भ्राता पौत्रश्च भवति । पौत्रो भूत्वा पिता (भ्राता) पुत्रश्च भवति । भर्ता भूत्वा दासो भवति । दासो भूत्वा भर्ता भवति । मित्रं भूत्वा शत्रुर्भवति । शत्रुभूत्वा मित्रं भवति । पुमान् भूत्वा स्त्री भवति नपुंसक च । स्त्री भूत्वा पुमान, नपुंसकं च भवति । नपुंसकं भूत्वा स्त्री पुमांश्च भवतीति ॥ ____टी-नहि स्वजनपरजनयोर्व्यवस्था विद्यत इति । न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति । स्वजनो भूत्वा कर्मानुभावात् परजनो भवति । परजनश्च भूत्वा स्वजनो भवति इयमव्यवस्थैव संसारे न व्यवस्थाऽस्तीति । माता हि भूत्वेत्यादिना तामेवाव्यवस्था प्रपञ्चयति ॥ भा०–एवं चतुरशीतियोनिप्रमुखशतसहस्रेषु राग-द्वेष-मोहाभिभूतैर्जन्तुभिरभिनिवृत्तविषयतृष्णैरन्योन्यभक्षणाभिघातबन्धाभियोगाक्रोशादिजनितानितीवाणि दुःखानि प्राप्यन्ते । अहो द्वन्द्वारामः कष्टस्वभावः संसार इति चिन्तयेत्। एवं यस्य चिन्तयतः संसारभयाद्विग्नस्य निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय घटत इति संसारानुप्रेक्षा ॥ ३ ॥ टी०–एवं चतुरशीतियोन्यादिर्यत्र सम्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद वैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्येण । तत्र पृथिवी८४००००० जल-ज्वलन-समीरणेषु प्रत्येकं सप्त सप्त लक्षाः, दश लक्षाः प्रत्येकवनस्पतिषु, योनयः निगोदजीवेषु च चतुर्दशलक्षाः, द्वि त्रि-चतुरिन्द्रियेषु प्रत्येकं द्वे द्वे लक्षे, तिये. नारक-देवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षाः, एवं चतुरशीतिर्लक्षा योनीनां, चतुरशीतियोनिप्रमुखानि शतसहस्राणि । प्रमुखशब्दः प्रधानवचनः । चतुरशीतियोनिप्रधानानि यानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः। रागो माया-लोभौ देषः क्रोध-मानौ मिथ्यात्वहास्यादिर्मोहः, एभिरभिभूतैः-वशीकृतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां तैरविच्छिन्नविषयतर्थैरन्योन्यं-परस्परं भक्षणं पृथुरोमादीनामिव । तथा वधः (अभिघातः १)-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं ( आ. क्रोश:-अप्रियवचनं, एभिरन्योन्यभक्षणादिभिर्जनितानि तीव्राणि-प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते । अहो इति विस्मये न, ) आः खल्वेवंविधदुःखभाजनमन्यदस्ति १ पौर्वापर्ये विपरीतत्वं घ-पुस्तके । २ — भवति' इति घ-पाठः । ३ 'मवस्यैव ' इति च-पाठः । For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१३ यादृशः संसारः, बन्दा वधबन्धदंशमशकशीतोष्णादयः त एवारामो यत्र संसमो। आरामो हि नानाजातीयतरुसमूहः । आराम इवारामो द्वन्द्वानां सबातः। कष्टं-कृच्छ्रे सुःखं गहनं स्वभावः-स्वरूपं यस्य संसारस्येत्येवं चिन्तयेत् । ततः संसारभयानुदिनस्य जातारतेः सांसारिकसुखजिहासालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा ॥ ___ एकत्वभावनास्वरूपभावनायाह भा०—एक एवाहं, न मे कश्चित् सः परो वा विद्यते। एक एवाहं जाये। एक एव प्रिये ॥ टी०-एक एवाहमित्यादि । एक एवाहं न जातुचित् ससहायो जाये प्रिये वाजननं मरणं वाऽनुभवामीति । यमलकयोरपि क्रमेणैव निःसरणम् । यच जन्मनि दुःखं मरणे वा तदेक एवा(हम)नुभवामीत्यर्थः। न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति । ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयन्त्यमुमर्थमेक एवाई जाये एक एवाहं म्रिये इति ॥ एतदेव भाष्येण दर्शयति भा०-न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधि-जरा-मरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति । एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । एवं यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिवन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः। ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटत इत्येकत्वानुप्रेक्षा ॥ ४ ॥ टी-न मे कश्चिदित्यादि । मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्ते इत्येतन, प्रत्यंशो विभागो वण्टनम् । न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन विभाजयन्तीत्यर्थः । ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत् । स्नेहानुरागप्रतिबन्ध इति । जनन्यादिष्वकामविषये स्नेहः, भार्यायां कामविषयोऽनुरागः, प्रतिबन्धः-आसक्तिन भवति । परसंज्ञकेषु देषानुवन्धः। पर एवायं न कदाचिदात्मीयो भवति किमनेन ममाहतेनेति । ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायैव यतेत (घटेत ?) इत्येकत्वानुप्रेक्षा ॥ अन्यत्वभावनाविभावनायाह भा०-शरीरव्यतिरेकेणात्मानमनुचिन्तयेत्-अन्यच्छरीरमन्योऽहम्, ऐन्द्रिपकं शरीरम्, अतीन्द्रियोऽहम् । For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [ अध्यायः टी० - शरीरव्यतिरेकेणेत्यादि । शरीरं पञ्चप्रकारं औदारिकादि तस्माच्छरीरपञ्चकादन्योऽहम् । कुत एतत् १ यस्मादिन्द्रियग्राह्यं शरीरं, अतीन्द्रियोऽहं न चक्षुरादिना करणेन ग्रहीतुं शक्यः । इन्द्रियग्राह्यं शरीरमित्यव्यापिनी भेदप्रतिपत्तिरित्याह । २१४ भा०- अनित्यं शरीरं नित्योऽहम्, अज्ञ शरीरं ज्ञोऽहम्, आद्यन्तवच्छरीरं अनाद्यन्तोऽहम्, बहूनि च मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति । अन्यच्च शरीरान्नित्योऽहमिति श्रेयसे घटत इत्यन्यस्वानुप्रेक्षा ॥ ५ ॥ टी० – अनित्यं शरीरमित्यादि । पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्निवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्ख्येयप्रदेशसन्निवेशं परित्यज्य ज्ञानदर्शनरूपं वो वृत्तो वर्तते वर्तिष्यते वा । ततश्च नित्यत्वमात्मनः । नेनु परिणामानित्यतया आत्मा अनित्योऽपीष्यते इत्यपरितुष्यन्नाह - अज्ञं शरीरं ज्ञोऽहमिति । न कदाचित् पुद्गला ज्ञानाद्युपयोगरूपेण परिणामिनो भवन्ति । आत्मा तु परिणामी । ज्ञानाद्युपयोगपरिणामेन अतोऽन्यत्वं, तथा आद्यन्तवच्छरीरं अनाद्यन्तोऽहम् । आदि : - आरम्भकालः अन्तो - विनाशकालः, तौ यस्य स्तस्तद् आद्यन्तवत् । आदिरौदारिकवैक्रिया - ssहारकाणां सुज्ञानः । तैजस- कार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायाङ्गीकारेण तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च । यदाऽऽश्लेषमायान्ति तैजसकार्मणतया तदा आदिः यदा परिशदन्ति तदाऽन्तः । नैवमात्मनः कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात् । ज्ञानरूपेण दर्शनरूपेण वा (दर्शयति) अविच्छिन्नत्वात् तत्स्वरूपत्वाच्च सर्वदेवानाद्यन्तोऽहं इतश्चान्यत्वम् । बहूनि च मे शरीरशतसहस्राणीत्यादि । न हि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति । संसारे परिभ्रमतः । अनादौ च संसारे परिश्रमतो बहून्यतीतानि शरीरकाणि, नहि तेषां अधुनातनशरीरेsaयोऽस्ति स्वल्पोऽपि । अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरशनमहस्राणीत्यतोsहमन्यस्तेभ्य इत्यनुचिन्तयेत् । अन्यत्वे च सति विच्छिन्नशरीरममत्वो निःश्रेयसायैव यतते इत्यन्यत्वानुप्रेक्षा ॥ " अशुचित्वानुप्रेक्षा निर्धारणायाह ४ १' चावृत्तो' इति ग-पाठः । २ ' न च ' इति घ-पाठः । ३. ' परिणमितोऽतोऽन्यत्वं ' इति उ-पाठः । आरम्भारभ्यकाभावात् ' इति ङ -पाठः । ५ ' त्वात्सर्व' इति ङ - पाठः । For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१५ भा०- - अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत् कथमशरीरस्याशुचित्वे हेतुपञ्चकम् शुचीति चेत् आद्युत्तरकारणाशुचित्वात्, अशुचिभाजनत्वात्, अशुच्युद्भवत्वात्, अशुभ परिणामपाकानुबन्धात्, अशक्य प्रतीकारत्वाचेति ॥ टी० - अशुचि खल्विदं शरीरमित्यादि । शुचि-मलरहितं न शुच्यशुचि शरीरकंपाणिपादाद्यवयवसन्निवेश विशेषस्तदशुचीत्येवं चिन्तयेत् । ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह भा०- तत्राद्युत्तरकारणाशुचित्वात् तावच्छरीरस्याचं कारणं शु शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहार परिणामादि । टी० - तत्राद्युत्तरकारणाशुचित्वादित्यादि हेतुपञ्चकम् । तत्र तेषु पञ्चसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या । तावच्छन्दः क्रमावद्योतनार्थः । आद्यं कारणंप्रथमं शुक्रं शोणितं च । करोतीति कारणम्, निर्वर्तयति उत्पादयतीत्यर्थः । येनासा (यो ना ?)बुत्पद्यमानो जीवस्तैजस कार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति शरीरीकरोति औदारिकशरीरतया परिणमयति । ततः कललार्बुदपेशीघनपाणिपादाद्यङ्गोपाङ्गशोणित मांस मस्तुलुङ्गास्थिमज्ज केशश्मश्रुनख शिराधमनी रोमकूपादिना परिणमयति । उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति । तदेव तदुभयमत्यन्ताशुचीति शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति ॥ भा०-- तद्यथा - कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति । ततः पित्ताशयं प्राप्य पच्यमानः खेली भूतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना 'विभिद्यते पृथक खलः पृथग रसः, खलात् मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांस, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मैज्जानः, मज्जभ्यां शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादात्तरकारणाशुचित्वादशुचि शरीरमिति ॥ टी० – तद्यथा - कवलाहारो हीत्यादिनोत्तरकारणस्याशुचित्वमाचष्टे । कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽस्य १' मनुचिन्त' इति पाठः । २ अम्लीकोलाचि०' इति घ-पाठः । ३' विभज्यते ' इति घ-पाठः । ४' मज्जा मज्जाभ्यां शुक्रं ' इति घ-पाठः । ५ ' शुचिभवात ' इति घ-पाठः । For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ २१६ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ न्ताशुचिः । ततोऽपि पित्तस्थानप्राप्तो मलतामापन्नोऽशुचिरेव । ततो वाय्वाशयं प्राप्तः समीरणेन विभज्यमानः पृथक् खलः पृथग् रस इति द्वयीं परिणतिमापद्यते । तत्र खलात् मूत्र-पुरीष दक्षिका-स्वेद-लालादयो मलाः प्रादुष्ष्यन्ति । रसाच्छोणित-मांस-मेदोऽस्थिमज्जा-शुक्राणि जायन्ते । सर्वे चैतत् कफादिशुक्रान्तमशुच्येव, तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति निगमयति ॥ अशुचित्वे हेत्वन्तरमाह भा०-किश्चान्यत्-अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्ण-नासा- क्षि-दन्त-मल-स्वेद-श्लेष्म-पित्त-मूत्र पुरीषादीनामवस्करभूतं तस्मादशुचीति ॥ किश्चान्यत्-अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् ॥ किश्चान्यत्अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-ऽर्बुदपेशी-घनव्यूह सम्पूर्णगर्भ-कौमार-यौवन-स्थविर-भावजनकेनाशुभप. रिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ॥ टी-किश्चान्यत् । अशुचिभाजनत्वादिति । अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् । अवस्करो वचःस्थानं पाद(पायुः)क्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति । किश्चान्यत्-अशुच्युद्भवत्वादिति हेत्वन्तरम् । एषामेव कणमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात् तत उद्भवन्ति-उत्पद्यन्ते एते कणेमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितम् । अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्त इति प्रतिपाद्यते। अथवाऽयं विशेष:-अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् । गर्भः-उदरमध्यम् । चशब्दो वाशब्दार्थे । अशुचो वा गर्ने पुरीषादिप्राय सम्भवतिउत्पद्यते यस्माच्छरीरं तस्मादशुचीति । किश्चान्यदित्ययमपरो हेतुरशुचित्वे । अशुभपरिणामपाकानुबन्धादिति । अशुभः परिणामो यस्य पाकस्य तेनानुबन्धित्वात् अनुगतत्वात् । तमेवाशुभपरिणामं पाकं प्रकाशयति (आर्तव इत्यादिना) आर्तवम्-ऋतौ (भव) शोणितं तस्मिन् आर्तवे सति । बिन्दोराधानात् प्रभृतीति । बिन्दुः--शुक्रावयवस्तदाधानात्-तत्प्रक्षेपात प्रभृति औदारिकं कललादिभावेन परिणमते । अर्बुद-घनव्यूहोऽवयव विभागः । सर्वश्वायमशुभपरिणामः पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धि-अशुभगन्धम् । अत एव पूतिस्वभावं कोथस्वभावम् । दुरन्तमिति । पर्यवसानेऽपि कुंम्यादिपुञ्जो वा गृध्र-सारमेय-वायसादिभक्ष्य वा भस्मान्तमस्थिशकलानि वा । एवमिदं दुष्टा(र १)न्तं शरीरं यतस्तस्मादशुचीति ।। - १' अशुचि परि० ' इति ङ-पाठः। २ 'बन्धाद् दुर्गन्धपूति' इति ग-पाठः। ३ ' अशुचिभाजनवदिति ड-पाठः। ४'वयंस्थानं ' इति उ-पाठः । ५ काथस्व.' इति ग-पाठः । ६ 'कृष्णादि ' इति क-पाठः । For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१७ भा० - किञ्चान्यत् - अशक्यप्रतीकारत्वात् । अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वम्, उद्वर्तन रूक्षण स्नाना- अनुलेपन- धूप- प्रघर्ष वासयुक्ति माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् । टी० - किञ्चान्यदिति प्रकारान्तरेणाशुचित्त्रप्रतिपादनम् । अशक्यप्रतीकारत्वादिति । अशक्यः प्रतीकारो यस्याशुचित्वस्य । अशुय्यपनयनप्रकारच लोके जलक्षालनादिना प्रसिद्धः । उद्वर्तनकं प्रतीतम् । रूक्षणं रोधकषायादिभिः । स्नानं जलेन । अनुलेपनं चन्दनादिकम् । धूपो विशिष्टसुगन्धिद्रव्यसमवायः । प्रधर्षोऽङ्गघर्षणकम् । वासयुक्तिः पटवासादिकम् । माल्यं मालाई पुष्पम् । आदिग्रहणात् कर्पूरोशीर तुरुष्ककस्तूरिकाग्रहः । एभिरयस्य शरीरकस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यम् । कुतः ? भा० - अशुच्यात्मकत्वात् शुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति । निर्विण्णश्च शरीर (रे जम्म) प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा ॥ ६॥ टी० - अशुच्यात्मकत्वादिति । अशुचिरात्मा - स्वभावो यस्य तदशुच्यात्मकम् । अशुचिस्वभावस्य पुरीषादेखि अशक्यप्रतीकारम् अशुचित्वापनयनम् । शुच्युपघातकत्वाचाशुचि शरीरम् । शुचीनि द्रव्याणि शाल्योदन दधिक्षीरादीनि तान्यप्यात्मसम्पर्कादुपहन्ति - अशुचीकरोति । तथा कर्पूर- चन्दन- काश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्र देव पूतीकरोति, अतोऽन्विष्यमाणं सर्वप्रकारं शरीरमेवाशुचि । परमार्थतो नापरं किञ्चित् स्वतोशुचि समस्ति शरीरकं वा शरीरसम्पृक्तं वा विहायेति । एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह - निर्वेदः -- अप्रीतिः अरतिः - उद्वेगः । शरीरके निर्विण्णच न शरीरसंस्कारार्थमायतते । जन्मप्रहाणायैव तु घटते इत्यशुचित्वानुप्रेक्षा ॥ ६॥ आस्रवानुप्रेक्षास्वभावप्रकाशनायाह भा०—आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान अक्कुशलागमकुशलनिर्गमद्वारभूतान् इन्द्रियादीन् अवद्यतश्चिन्तयेत् । डी० - आस्तूयते यैः कर्मा दीयते त आस्रवास्ते इन्द्रियादयस्ताना स्त्रवानिह लोके । अमुत्रेति परलोके । अपायो - दोषः पीडा दुःखं तेनापायेन युक्तान् । महानदी - गङ्गादिका १ 'घातत्वा०' इति ग-पाठः । २ ' भवति' इति घ-पाठः । ३ ' दधिपूरवधि' इति ङ-पाठः । २८ For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ २१८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तस्याः स्रोतः-प्रवाहः तस्य वेगः-(सं)सर्पणविशेषः तद्वत् तीक्ष्णान् । यथा स नदीप्रवाहः तृणकाष्ठादि पतितमपहरति, एवमेते चक्षुरादयः स्वप्नवाहपतितमात्मानमउत्तरार्धस्य पहरन्ति, सन्मार्गाद् भ्रंशयन्ति । अकुशलं-पापं सामान्येन वा कर्मबन्ध___ अर्थद्वयम् स्तस्यागमः-प्रवेशस्तवारभूतान्, कुशलस्य च पुण्यस्य दशविधधर्मस्य निर्गमद्वारभूतान्। इन्द्रियमादिर्येषां ते इन्द्रियाद्यस्तानवद्यतः-खण्डयतो जीवस्यापकारिणश्चिन्तयेत्। अथवा अवयं-गर्हितं गर्हितान् पापान इत्येवं चिन्तयेत् । तद्यथेत्यादिना सोदाहरणानास्रवान् दर्शयति भा०—तद्यथा-स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्याबलसम्पन्नोऽप्याकाशगोऽष्टाऽङ्गमहानिमित्तपारगो गायः सत्यकिनिधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसम्पन्नविचारिणश्च मदोत्कटा बलवन्तो हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपगाछन्ति । ततो बन्ध वध-दमन(वाहन)निहननाऽङ्कुश पाणिप्रतांदाभिघातादिनितानि तीव्राणि दुःखान्यनुभवन्ति । नित्यमेवं स्वच्छन्दप्रचारसुखस्य वनवासस्यानुस्मरन्ति । तथा मैथुनसुखप्रसङ्गादाहितगर्भाश्वतरी प्रसवकाले प्रसवितुमशक्नुवती तीवदुःखाभिहता अवशा मरणमभ्युपैति । एवं सर्व एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति॥ टी-सिद्धविद्यः सोऽनेकेन विद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणादि अष्टाङ्गनिमित्तं तस्य पारङ्गतो गार्य इति गोत्राख्या सत्यकिः स्त्रीष्वासक्तचित्तो निधनंविनाशमुपजगामेति । तथेत्यपरमुदाहरणम् । यवस:-चरणीयविशेषः तस्य प्रमाथो भञ्जनमर्दनाभ्यवहारलक्षणः । उदके च स्वेच्छयाऽवगाहः । अवगाहादिगुणसम्पन्नेति । आदिग्रहणात् सिंहादिव्यालरहितत्वम् । एवंविधवनविचारिणो मदेन दुष्टतरा हस्तिनः । हस्तिबन्धकीध्विति गणि(करेणु?)कानां संज्ञा । तास्वनेकप्रकारं चाटुकरणस्पर्शनादिभिः प्रौढयोपित इव मनुजान् प्रतारयन्ति हस्तिमूर्खान् । बन्धः-संयमनं वधः-ताडनं दमनंशिक्षाग्रहणं पश्चाद् (वाहन) निहननं-अङ्कुशाभिघातः प्रतोदः-प्राजनकस्तेनाभिघातः । आदिग्रहणाद तिभारारोपणं, युद्धकाले च शस्त्राभिघातः । तथेति दृष्टान्तान्तरमाह-तथा मैथुनति। मैथुनसुखप्रसङ्गेनाहितः-धृतो गर्भो यस्या अश्वतरी-वेगसरी प्रसवकाले मरणमभ्युपैत्यवशा। एवमित्यादिना दान्तिकमर्थमुपसंहरति । एवमुक्तेन न्यायेन लोकद्वयेऽपि विनाशमृच्छन्ति-प्राप्नुवन्तीति । 'मार्गात् ' इति ङ-पाठः। २ 'वन्तोऽपि हस्ति.' इति घ-पाठः । घ-पाठः। ४ 'मूर्तान् ' इति ङ-च-पाठः । ३ 'स्वयूथस्य स्वच्छन्द ' इति For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१९ भा०-तथा जिहन्द्रियप्रसक्ता मृतहस्तिशरीरस्थस्रोतोवेगोढवायसवत् हेमन्तघृतकुम्भप्रविष्टमूपिकवत् गोष्ठप्रसक्तहदवासिकर्मवत् मांसपेशीलुभ श्येनवत् बंडिशागतमांसगृद्धमत्स्यवचति ॥ तथा घाणेन्द्रियजिहादिविषयग्रस्ता स्त प्रसक्ता ओषधिगन्धलुब्धपन्नगवम् पललगन्धानुसारम्पकवनां विडम्बनाः चति ॥ तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रप्तङ्गादर्जुनकचोरबत् दीपालोकनलोलपतङ्गवद विनिपात मृच्छन्तीति चिन्तयेत् ॥ तथा श्रोत्रेन्द्रियप्रसक्तास्तित्तिरि कपोत-कपिलवत् गीतसङ्गीतध्वनिलोलमृगवद विनि. पातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवानुप्रेक्षा ॥७॥ टी०-तथेत्यास्रवान्तरेऽपि दोपदर्शनम् । सामयिकानि च वायसाधुदाहरणानि । बडिशो-गला तत्र मांसम् । तथेत्यपराम्रवगतदोपोदघाटनमुदाहरणद्वयेन । तथाऽपरत्रास्रवे दोषोपपादनम् । अर्जुनचोरः श्यामायां निवेशितदृष्टिर्निवनं गत इति सामयिकमेवाख्यानकम् । तथेत्ययमप्यास्रवः सदोष इति कथयति । तित्तिरः पञ्जास्थः तित्तिरीशब्दश्रवणादागतो युयुत्सार्थी पाशेन बध्यते । एवं कपोत कपिञ्जलादेरपि, गीतमे रुकगीतमङ्गीतयो या एव गार्याखेटके गायति, सङ्गीतकं तु वंशकांस्यादियुक्तम् । एवमेता " नासवान दोपबहलाने चिन्तयेत् । एवं च परिचिन्तयन्नास्रवनिरोपायैव घटत इत्यास्रवानुप्रेक्षा ॥७॥ संवरानुप्रेक्षानिरूपणायाह भा०-संवराश्च महाव्रतादीन् गुप्त्यादिपरिपालनाद गुणतश्चिन्तयेत् । सर्वे घेते यथोक्तास्रवदोषाः संवृतात्मानो भवन्तीति चिन्तयेत्। एवं यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८॥ टी--संवराश्च महावतादीनित्यादि । आस्रवद्वाराणां पिधानमास्रवदोपपरिवर्जन संवरः । तांश्च संवरान् प्राणातिपातनिवृत्यादीन् गुप्त्यादिपरिपालनादिति । गुप्त्यादयः परिपालना:-परिपालका येषां महाव्रतादीनाम् । आदिग्रहणादुत्तरगुणपरिग्रहः । इतरत्रादिग्रहणात समितिग्रहणम् । तान् गुणतश्चिन्तयेत् । गुणा-उपकारिणस्तान् गुणान् इत्येवं चिन्तयेत् । सर्वे ह्यते इत्यादि गतार्थ भाष्यम् ॥ ८ ॥ निर्जराऽनुप्रेक्षास्वरूपावधारणमधुना मिरायाः पर्यायाः भा०-निर्जरा वेदना विपाक इत्यनर्थान्तरम् । १.हेमनत' इतिव-पाठः। २ बडिशामराद्ध.' इति घ-पाः। ३ 'लोक लोक ' इति घ-पाठ। ४ 'अर्जुन ' इति च पाठः। ५'पालना ' इति च पादः। ६ गुणवतः' इति ग पाठः । For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ २२० तस्वार्थाधिगमसूत्रम् [ अध्यापः ९. टी-निर्जरा घेदनेत्यादि । निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशंटना । निर्जराया एकार्थाविमौ वेदना बिपाक इति । तत्र वेदना अनुभवः तस्याः स्वादनं विपचन विपाका । कर्मपुद्गलानां उदयावलिकाप्रवेशेऽनुभूतरसानामुत्तरकालं परिशाटः। विपच्यमाना विपकाः परिशटन्ति । भा०–स विविधः-अबुद्धिपूर्वः कुशलमूलश्च। तत्र नरकादिषु कर्मफल - विपाकोदयोऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेत् अकुशलानु विपाकस्य वैविध्यम् बन्ध इति ॥ टी-स द्विविधः इति विपाकाभिसम्बन्धः । निर्जरया सहैकार्थत्वाद् । तद्वैविध्यप्रदर्शनायाह-अबुद्धीत्यादि । तत्राबुद्धिपूर्वः बुद्धिः पूर्वा यस्य कर्म शाटयामीत्येवंलक्षणा धुद्धिः प्रथमं यस्य विपाकस्य स बुद्धिपूर्वः न बुद्धिपूर्वोऽबुद्धिपूर्वः, तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्य मनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत् फलमाच्छादकादिरूपं तद्विपाकः-तदुदयस्तस्मात् कर्मफलाद् विपच्यमानाद् यो विनिर्जरगलक्षणो विपाकः । सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः। न हि तैस्तपः परीपहजयो वा नारकादिभिर्मनीषितः । तमेवंविधं विपाकमवद्यतः पापं संसारानुबन्धिनमेव चिन्तयेत्, नहि तादृशा निर्जरया मोक्षः शक्योऽधिगन्तु मिति । एतदेवाह-अकुशलानुबन्ध इति । यस्मादुपभुज्यापि तत् कर्मफलं पुनः संमृतावेव भ्रमितव्यम् । भा०-तपःपरीषहजयकृतः कुशलमूलः । तं गुणतोऽनुचिन्तयेत् शुभानुपन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्म निर्जरणायैव घटत इति निर्जेराऽनुप्रेक्षा ॥९॥ टी०---यः पुनः कुशलमूलो विपाकस्तपसा द्वादशविधेन परीषहजयेन वा कृतः सोऽवश्यंतयैव बुद्धिपूर्वकः । तमेवंविधं गुणत इति । गुणम्-उपकारकमेव चिन्तयेत् । पस्मात् स तादृशो विपाकः शुभमनुषध्नाति, अमरेषु तावदिन्द्रसामानिकादिस्थानानि अवाप्नोति । मनुष्येषु च चक्रवर्तिबलमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभानुबन्धो निरनुबन्धो वेति । वाशब्दः पूर्व विकल्पापेक्षः । तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः साक्षान्मोक्षायैव कारणीभवतीति ॥ ननु च यदि धुद्धिपूर्वको देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन सह विरोधः “नो इह लोगहयाए तवं अहिडेजा" (अ०९, उ०४, सू० ४) भण्यते, न मुमुक्षुणा देवादिफलमिष्टं, सहित(?) मोक्षार्थमेव घटते, यदान्तरालिकं फलं देवादि तदानुषङ्गिक, इक्षुवनसेके तृणादिसेकवत् । 'परिशटनं' इति -पाठः। ४ 'देवादिकृतः' इति -पाठः। २ 'वा निर्जरणक' इति ग-पाठः। ३ 'महितै' इति च-पाठः । ५ दशवैकालिकाख्येन। छाया-न इह लोकार्थ तपः अधितिष्ठेत् । For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् २२१ मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्यः। तत्र या प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाकहेतुरिति । तस्मादेवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा ॥९॥ पश्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयति भा०-पञ्चास्तिकायात्मक विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलय. युक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिभवतीति लोकानुप्रेक्षा ॥ १०॥ टी-पश्चास्तिकायात्मकमित्यादिना । पञ्चास्तिकाया धर्मा-ऽधर्माऽऽकाश-पुद्गलजीवाख्यास्ते आत्मानः-स्वरूपमस्येति, लोकमित्युपरिष्टाद् वक्ष्यति । विविधो-नानाप्रकारः परिणामो यस्येति, तमेवं विधपरिणामं दर्शयति-उत्पत्तिस्थितीत्यादि । उत्पत्ति िविधा प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च । प्रतिक्षणवर्तिनी च अविभाव्यान्त्यउत्पत्तेद्वैविध्यम् प्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणमन्ते भावा अस्ति ___कायाः । कालान्तरवर्तिनी मृद्रव्यं पिण्डाद्याकारेण मृद्भावं प्रेक्षीणमपहाय पिण्डादिरूपेण परिणमते । स्थितिः-अवस्थानं [ अस्तिकाय इति ] अस्तिकायरूपेण सर्वदा व्यवस्थानात् । धर्मास्तिकायादिव्यपदेशमजहतः ते सर्वदा व्यवतिष्ठन्ते वचनार्थपर्यायैः। भन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं-विनाशः । सोऽपि द्विविधः-क्षणिक कालान्तरवर्ती च । विवक्षितक्षणाद् द्वितीयक्षणेऽन्यत्वमवश्यम्भावीत्यवस्थान्तरापत्तिरेव विनाशः, न निरन्वयः कचिदस्ति प्रलयः। स्थित्युत्पत्ती अनुग्रहकारिण्यौ सवानाम् । घटो हि समुत्पमस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति । प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः । कुण्डलार्थिनः कटकविनाशवत् । अत एव(भिः) उत्पत्त्यादिभिर्युक्तमुत्पत्यादिपरिणतिस्वभावं लोकं जीवाजीवाधारलक्षणं क्षेत्रम् । अत एव चित्रस्वभावमिति । चित्रो-नानाप्रकारः स्वभावः-स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षरूपत्वात् पैचिच्याच कर्मपरिणतेः। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा। एवम्उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तत्त्वेषु जीवाजीवादिषु पदार्थेषु विशुद्ध-निर्मल शङ्कादिदोषरहितं ज्ञानं भवति । यथा भगवद्भिरुक्तम् (आवश्यके )-"सन्ध(वाई) ठाणाई असासयाई" ति । न कचिदस्मिन् व्यावर्णितलक्षणे लोके किश्चित् स्थानमस्ति शाश्वत यंत्रात्यन्तिकी निर्वृतिरात्मनो भवतीत्याह । परलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा ॥ १'उत्पत्तिस्थित्यनन्तानुग्रहप्रलययुक्त' इति ङ-पाठः। २ ‘प्रकीर्णमय' इति ङ-च-पाटः। ३ छायासर्वाणि स्थानानि अशाश्वतानि इति। ४ 'यत्रीत्पत्तिकी' इति घ-पाठः। For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ २२२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ अनादौ संसारे इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति-- भा०--अनादौ संसारे नरकादिषु तेषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोविविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेज्ञानदर्शनावरणमो. हान्तरायोदयाभिभूतस्य ।। टी-अनादाविति सर्वकालावस्थायिनि । संसारे किंस्पेरूपेण नरकादिष्वित्याह, तेषु तेषु भवग्रहणेष्विति । तेष्वेव नरक-तियङ्-मनुष्या-ऽमरभवग्रहणेषु पुनः पुनश्चक्रवत् परिभ्रमतोऽनन्तकृत्वः प्राणिनः शारीरमानसैर्नानाप्रकारैर्दुःखैरालीढस्य तत्वार्थाश्रद्धानाविरतिप्रमादकषायादिभिरुपहतमतेः, ज्ञानावरणाादयाभिभूतस्य-ज्ञानावरणादिकर्मचतुष्टयं घातिकर्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदाह । भा०-सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं घस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥११॥ टी०-सम्यग्दर्शनादीत्यादि । सम्यग्दर्शनविरत्यप्रमादकषायविशुद्धो बोधिदुर्लभो . भवतीति विभक्तिविपरिणामेनाभिसम्बन्धनीयम् । जन्तुना दुर्लभ इति । बोधिशब्देनात्र चारित्रमेव विवक्षितम् । अथवा पाठान्तरं सम्यग्दर्शनादिविशुद्धो बोधिः सम्यग्दर्शनादिरेव बोधिरपगतसकलशङ्कादिदोषरहितो दुःखेन लभ्यत इति । एवं बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति घोधिदुर्लभत्वानुप्रेक्षा ॥ स्वाख्यातधर्मानुप्रेक्षाप्रतिपादनायाह भा०-सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो बादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहकः । टी.-सम्यग्दर्शनद्वार इत्यादि । तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तत् द्वार-मुखं यस्य धर्मस्येति । नहि सम्यग्दर्शनप्रतिष्ठामन्तरेण महाव्रतादिलाभः समस्ति । प्रागेव सम्यग्दर्शनं द्वारभूतं धर्मानुष्ठानस्येति प्रतिपादयति, सम्यग्दर्शनद्वारेण धर्मावगाह इति । पञ्च महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः । आचारादीनि दृष्टिवादपर्यन्तानि द्वादशाङ्गानि-अर्हदाप्तप्रणीतागमः तेनोपदिष्टं तत्त्वं-स्वरूपं यस्य धर्मस्य, चरणकरणलक्षणस्येत्यर्थः । गुप्तिसमितिपरिपालनविशुद्धं व्यवस्थानमस्येति । गुप्तिभिः समितिभिश्च परिपालनं-परिरक्षणं विशुद्धं-निर्मलं व्यवस्थान-स्वरूपावस्थानं यस्य स पाटभेट १ स्वरूपे इति ग-पाठः। २ ' दर्शनाधारभूतं ' इति ङ-पाठः। ३ * धर्माचार्यस्य इति ङ-पाठः । For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ सूत्र ८ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २२३ तथोक्तः । संसारो नरकादिगतिचतुष्टयं तस्मान्निर्वाहको निस्तारकः । न चासावभावीभवति मुक्तावस्थायामित्याह - भा० – निःश्रेयसप्रापको भगवता परमेषिणाऽर्हताऽहो स्वाख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥१२॥७॥ टी० - निःश्रेयप्रापक इति । निथितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्तकर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः । यशोविभवादियुक्तो भगवान्, परमर्षिरिति समधिगतसकलज्ञानस्तीर्थ करनाम कर्मोदयात् तीर्थस्य प्रणायकः चन्दनपूजाद्यर्होऽर्हन्, तेनामोघवचनेन स्वाख्यातो अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः सुप्रत्सर्गापवादलक्षणः ख्यातो धर्म इत्येवमस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने वाऽवस्थानं भवतीति । मार्गो - रत्नत्रयं मुक्तेः पन्थाः तस्मादच्यवनम् - अप्रच्यवनमनपेतत्वम् । तदिति मार्गस्य सम्बन्धः, तस्यानुष्ठानंश्रद्धानं स्वाध्यायक्रिया चरणम् । एतदेव परमार्थतोऽच्यवनं मार्गाद् यथोक्तक्रियाऽनुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥ ७ ॥ भा०—उक्ता अनुप्रेक्षाः । परीषहान् वक्ष्यामः टी० - उक्ता अनुप्रेक्षाः सोदाहरणाः । सम्प्रति परीषहान् वक्ष्याम इति प्रतिजानीते परीषह सहने हेतू - सूत्रम् - मार्गाच्यवन निर्जरार्थं परिषोढव्याः परीषहाः ।। ९-८ ।। भा०- सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थं च परिषोढम्पाः परीषहा इति ॥ ८ ॥ टी० - अर्थशब्दः प्रत्येकमभिसम्बध्यते - मार्गाच्यवनार्थं निर्जरार्थं च । परीषदाघिसने मार्गाच्यवनं प्रयोजनम् । कदाचित् क्लिष्टचित्तः क्लीवत्वात् सहनासमर्थः सन्मार्गात् प्रच्यवेतापि अतस्तत्सहनादरः मार्गः, तस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्प - सो निराकुलध्यानस्य जायते कर्मनिर्जरा । एतदेवाह - सम्यग्दर्शनादेरित्यादिना । तत्वार्थश्रद्धांनादिलक्षणो मार्गों निर्वृतेरात्यन्तिक्याः, तस्या मार्गान्मा प्रच्योष्महीति सान्ते १ ' निःसारकः' इति च पाठः । २ 'मर्षिणाऽहो ख्यातो धर्म' इति ग-पाठः । ३' स्वाख्याततत्त्व • " इति ध-पाठः । ४ ' आत्मन्येव ' इति ङ - पाठः । ५ ' विभावादि ' इति घ- पाठः । ६' कुलस्य ध्यानैक (?) जायते ' इति ग-च-पाठः । ७ ' श्रद्धानाश्रद्धानादि' इति ग-पाठः । For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ २२४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ परीषहाः । तथा ज्ञानावरणादिकर्मक्षपणार्थ च (परि)सोढव्याः सिद्धि[प्रस्थान प्राप्तिकारणसंवरविघ्नहेतवः परिषोढव्याः, परीषहा इति निर्वचनम् । समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः-सहितव्याः परीपहा भण्यन्ते । “कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, मू० ११३ ) इति करणाधिकरणाभ्यामन्यत्रापि कर्मणि घप्रत्ययः । परिसह्यन्त इति परीषहाः॥८॥ कियन्तस्ते किनामानः किंस्वरूपाश्चेत्याहमा०-तद्यथाटी०-तद्यथेति सङ्ख्यादिनिरूपणोपक्रमणम् । सूत्रम्-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्या. ... शय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कार२२ परीषहाः पुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥ ९-९॥ टी०-क्षुत्पिपासेति सूत्रम् । क्षुत्पिपासादयः परीपहा द्वाविंशतिर्नामतः क्षुदादिनामानः । स्वरूपमपि शब्दार्थेनावेदितमेव । सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार: भा०-क्षुत्परीषहः १ पिपासा २ शीतं ३ उष्णं ४ दशमशकं ५ नान्यं ६ अरतिः ७ स्त्रीपरीषहः ८ र्यापरीषहः ९ निषद्या १० शय्या ११ आक्रोशः १२ वधः १३ याचनं १४ अलाभः १५ रोगः १६ तृणस्पर्शः १७ मलं १८ सत्कारपुरस्कारः १९ प्रज्ञाऽज्ञाने २०-२१ अदर्शनपरीषहः २२ इति ॥ टी०-क्षुद्वेदनामुदिता शेपवेदनातिशायिनी सम्यग् विषहमानस्य जठरान्त्रविदाहिनीमागमविहितेन विधिना क्षुधां शमयतोऽनेपणीयं च परिहरतः क्षुत्परीषहजयो भवति । अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीपहः । एवं पिपासापरीषहः । एषणीयभावे तु प्राणिदयालुना समस्तमनेपणीयं परिहरता शरीरस्थितिः कार्यो । शीतपरीषहजयस्तु शीते पतति महत्यपि जीणेवसनः परित्राणवर्जितो नाकल्पानि वासांसि गृह्णाति शीतत्राणाय । आगमविहितेन विधिना एपणीयमेव कल्यादि गवेपयेत् परिभुञ्जीत वा । नापि शीतार्ताऽनि ज्वालयेत् । अन्यज्यालितं वा नासेवेत । एवमनुतिष्टता शीतपरीपहजयः कृतो भवति । एवमुष्णतप्तोऽपि जलावगाहनस्तानव्यजनवातादि वर्जयेत्, अभिधारितच्छायादि वा । अत १ 'क्षुधादि' इति च-पाठः। २ ऽनैषणायां च.' इति ड-च-पाठः । For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २२५ उष्णमापतितं सम्यक सहेत । न चातपत्रायुष्णवारणायाददीतेति । दंशमशकादिभिः दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनार्थे धूमादिना यतेत, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीपहजयः कृतः स्यात् , नान्यथेति । नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् । किं तर्हि १ प्रवचनोक्तविधानेन नाग्न्यम् । प्रवचने तु द्विप्रकारः कल्प:-जिनकल्पः स्थविरकल्पश्च । तत्र स्थविरकल्पे परिनिष्पन्नः, क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः। ततो द्वादश वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यस्थविरकल्पः नियतवासी देशदर्शनं कुरुते । कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान् । शिष्यनिष्पचेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम। सच विविधः-जिनकल्पः शुद्धः परिहारो यथालन्दश्च । तत्र जिनकल्पप्रतिपत्तियोग्य एव जिनकल्पं प्रतिपत्तकामः प्रथममेव तपःसत्त्वादिभावनाभिरात्मानं भावयति । भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते । यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्माचेष्टते । अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते । तत्र यः कल्पे उपधिः पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यंतया रजोहरणं मुखवस्त्रिका च । कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा । प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो (द्वादशविधो) वा उपधिरागमाभिहितः। एवंविधं नाग्न्यमिष्टम् । दशविधसामाचार्यों चेमाः पञ्च तेषां सामाचार्यः आप्रच्छनं मिथ्यादुष्कृतमावश्यका निशीथि(षेधि ?)का गृहस्थोपसम्पच्च । उपरितनी वा त्रिप्रकारा सामाचारी आवश्यकादिका । श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः । तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि । वज्रर्षभनाराचसंहननाश्च ते वज्रकुड्यकल्पधृतयः। स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा। क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालता तृतीयचतुर्थयोः समयोजेन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः। चतुथ्यो लब्धजन्मा पञ्चम्यां प्रव्रजति । उत्सर्पिण्यां दुष्पमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भावः। सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिश्चरणयोः । एवं तीर्थपर्यायागर्मवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या । ___ननु चाचेलक्यादिदेशविधः कल्पः । तत्राचेलक्यं स्फुटमेवोक्तम् । तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यतया करणीयः । यथाऽऽहअवस्थितकल्पस्य "शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः। चातुर्विध्यम् पुरुपज्येष्ठत्वं हि, चत्वारोऽवस्थिताः कल्पाः ॥ १॥" १ प्राणाया० ' इति च-पाठः । २ 'तत्र प्रहणं' इति उ-पाठः । ३ स्थापनयोः' इति ग-पाठः । ४ 'वेषादि' इति -पाठः। For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ २२६ षड्विधवानवस्थितः कल्पः । यथोक्तम् तचार्याविनम् 44 अनवस्थितस्य आचेलक्यौदेशिक-नृपपिण्डत्याग-मासकल्पाश्च । पाव्यम् वर्षाविधिः प्रतिकमणविधानं वानवस्थिताः कल्पाः ॥ १ ॥ " आद्यचरमतीर्थङ्करतीर्थदर्तिनां तु दशविधो व्यवस्थितः कल्पः । अस्य तु पुनर्भगवतस्तीर्थे श्रीवर्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ॥ १ ॥ किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ? " आर्जव -जडा अनार्जव जडा वृषभ वीरतीर्थ कालभवाः । [ अध्यायः ९ मनुजा यस्मात् तस्मात्, कल्पः स्थित एव स प्रोक्तः ॥ १ ॥ " सत्यमुक्तमाचेलक्यम् । तत् तु यथोक्तं तथा कर्तव्यम् | तीर्थकर कल्पस्तावदन्य एव, मति श्रुताऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुर्ज्ञानिन इति युक्तमेव तेषां पाणिपात्रभोजित्वमेकदेव दुष्परिग्रहाच | साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽप्यचेलका एव । यथाऽऽपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि तथास्त्र गुह्यप्रदेशस्थगनाय गृहीत चोल पट्टकोsपि नन एवेति । योषिच्च काचित् परिजूर्णशादिकापिधाना तन्तुवायमाह - नमाऽहं देहि मे शाटिकामिति । एवं साधवोऽप्य महाधनमूल्यानि खण्डितानि जीर्णानि च विभ्रतः श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति । चारित्रमुत्रे शुद्धपारिहारिकांन् वक्ष्यामः ॥ गच्छः, यथालन्दिकास्तु भण्यन्ते । लन्दमिति कालस्याख्या । तच्च पञ्चरात्रं, तेषां हि पञ्चको सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः । परिसमाप्तार्थास्त्वप्रतिबद्धाः । तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः । तत्र जिनकल्पिकाः निष्प्रति कर्मशरीराः समुत्पन्नरोगाचिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति स्थविर - जिनकल्पः कल्पिकास्तूत्पन्न रोगं गच्छे प्रक्षिपन्ति । गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति पजादिना । स्थविरकल्पिकास्त्वेकैकप्रतिग्रहधारिणः सप्रावरणाः । जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि । एकत्र पञ्चपञ्चरात्रचारिण एते । गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः। भिक्षाचर्या तु तेषां पञ्च पञ्चैव, एकैकवीथौ चरन्तः पञ्चभिः पटुकैर्मासकल्प परिसमापयन्ति । स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति । एवमेते जिनकैल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नान्यमिष्यते तद नागमोपरोधः । अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति । स्थविरकल्पिकास्तु चतुर्दशविधोषधयः उत्सर्गापवादव्यवहारिणः औपग्रहिको पधिधारिणश्च । प्रव्रज्यादिद्वार: १ 'महार्घमूल्यानि ' इति ङ-पाठः । २ ' काद् वक्ष्यामः' इति ङ-पाठः । ३ एकत्र पञ्चरात्र' इति ङ-पाठः । ४ 'कल्पिकयो' इति ङ-पाठः । ५ ' ततो' इति ङ-पाठः । ६ ' औषधप्राहिको' इति च - पाठः । ७ ' धारणाच ' इति पाठः । For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २२७ समधिगम्याः आचार्यो-पाध्याय-स्थविर-भिक्षु-क्षुल्लकविभागाः मासकल्पविहारिणः परितनुकमूल्यवसनस्थगिताग्रिमभागाः वर्षाकल्पादिपरिभोगकारिणः दशविधसामाचार्यनुष्ठायिनः उद्गमोत्पादनैषणादिशुद्धाहारोपधिशय्यासेविनश्चेति । एवं जिनकल्पिकादीनां गच्छवासिना च पारमर्षप्रवचनानुसारिणां नाग्न्यपरीपहजयः सम्भवतीति, नान्येषाम् । अरतिः उत्पद्यते कदाचिद् विहरतः तिष्ठतो वा सूत्रोपदेशेन, तत्रोत्यभारतिनाऽपि सम्यग्धर्मारामरतेनैव भवितव्यम्, एवमरतिपरीषहजयः स्यादिति। स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाश्चिन्तयेत् न जातुचित् , चक्षुरपि न वासु निवेशयति मोक्षमार्गार्गलासु कामबुद्धया, एवं स्त्रीपरीपहजयः कृतो भवति । . तर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः। निषीदन्त्यस्यामिति निषधा-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्विनेन निषद्यापरीपहजयः कार्यः। शय्या-संस्तारकः मञ्चकादिपट्टो वा मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांमुत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः। आक्रोश:-अनिष्टवचनं, तद् यदि सत्यं कः कोपः १ शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः। वधः-ताडनं पाणिपाणिलताकशादिभिः। तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपम् , आत्मा पुनर्न शक्यत एव ध्वंसयितुम् । अतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः। __ याचर्न-मागेणं भिक्षोवस्त्र-पात्रा-ऽन्न-पान-प्रतिश्रयादेः परतो लब्धव्यं सर्वमेव । शालीनतया च न याच्या प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा याचनमवश्यमेव कार्यमित्येवं बाच्यापरीषहजयो विधेयः। . __ अलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति, यस्य स्वं तत् कदाचित् वा दत्ते, कदाचिन, कस्तत्रापरितोषो न यच्छति सति । यथोक्तम् (दशवै० अ० ५, उ० २)-बहुं परघरे अत्थि" इत्यादि । अलामेऽपि समचेतसैव अविकृतस्वान्तेनैव भवितव्यमित्यलाभपरीपहजयः । १'अनृतं ' इति उ-पाठः। २ याचनया०' इति हु-पाठः । ३ सम्पूर्ण पद्यं साक्षीभूतपाठरूपेण दृश्यते श्रीजिनसूरप्रणीतायां प्रियङ्करनृपकथायां (पृ. २२), तचैवम् "बहुं परघरे अस्थि विविहं खाइमं साइमं । म तत्व पंडिओ कुप्पे इच्छा दिन परो नवा ॥" एतच्छाया यथा बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥ For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ रोगो ज्वरातीसार काम- श्रामादिः, तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते । गच्छ्वासिनस्त्वल्पबहुत्वालोचनया सम्यक सहन्ते प्रवचनोक्तेन वा विधिना प्रतिक्रियामाचरन्तीति रोगपरीपहजयः । २२८ अशु पितृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ्वासिनां च तत्र येषां शयनमनुज्ञातं निष्पन्नानां तेषां ( निशायां ते तान् ? ) दर्भान् भूमावास्तीर्य संस्तारकोतरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा प्रतनुकसंस्तारकादिपट्टो वाऽत्यन्तजीर्णत्वात् तथापि तं परुपकुशदर्भादितृण संस्पर्श सम्यगधिसहते यस्तस्य तृणस्पर्शपरीपहजयः । रजः परागमात्रं मलस्तु स्वेदवारिसम्पर्क कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मोष्मसम्पातजनितधर्मजलार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमुत्पादयति । तदपनयनाय न कदाचिदभिषेकाद्यभिलाषं करोतीति मलपरीषहजयः । सत्कारो भक्तपानवस्त्र पात्रादिना परतो योगः, पुरस्कारः सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारथ, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात्, न दूषयेत् मनोविकारेणात्मानमिति सत्कारपुरस्कार परीषहजयः । प्रज्ञायतेऽनयेति प्रज्ञा - बुद्धयतिशयः, तत्प्राप्तौ न गर्वमुद्रद्दत इति प्रज्ञापरीषदजयः । प्रज्ञाप्रतिपक्षेणाल्पबुद्धिकत्वेन परीषहो भवति । नाहं किञ्चिज्जाने मूर्खोऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषदः, तदकरणात् कर्मविपाकोऽयमितिपरीषहजयः । ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशाङ्गानि, समस्तश्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्व करणात् ज्ञानपरीषहजयः । ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणक्षयोपशमोदय विजृम्भितमेतदिति, स्वकृतकर्म फलपरिभोगादपैति तपोनुष्ठानेन चेत्येवमालोचयतो ज्ञानपरीषहजयो भवति । अदर्शन परीषहस्तु सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्राहं तथापि धर्माधर्मात्मदेवनारका दिभावाने, अतो मृषा समस्तमेतदिति अदर्शनपरीषदः । तत्रैवमालोकयेत् धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ, धर्माद्यदर्शने हेतवः ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिकौ धर्माधर्मौ, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष विरोधः । देवास्त्वत्यन्तरत सुखासक्तत्वान्मनुष्यलोके च कार्याभावात् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति । नारकास्तु तीव्र वेदनार्ताः पूर्वकृत कर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवतीति । इतिशब्द इयत्ताप्रदर्शनार्थः ॥ १' सन्पात' इति ग-पाठः । २ ' बुद्धिरतिशयः' इति ङ-पाठः । 'धर्मात्म' इति ङ-पाठः । यतश्व दर्शन ' इति पाठः । ७ " For Personal & Private Use Only ३ तापस्तस्य इति ग-पाठः । > Page #258 -------------------------------------------------------------------------- ________________ सूत्र १० ] स्वोपज्ञभाष्य-टीतालङ्कृतम् २२९ भा०-एते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसन्धाय रागशेषौ निहत्य परिषोढव्या भवन्ति ॥ ९ ॥ टी-एत इति । क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृता द्वाविंशतिरिति न न्यूना नाधिकाः क्षमादिदशलक्षणकस्य धर्मस्य विनहेतवः-अन्तरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमीक्ष्य अभिसन्धाय संवरफलं चाभिसन्धाय मोक्षं रागद्वेषौ निहत्येति । केचिद् रागादुदयमासादयन्ति केचिद् द्वेषादिति, अतः सर्व एवैते प्रादुःष्यन्तः समापतिताः समन्तात् परिषोढव्या भवन्तीति ॥ ९॥ पञ्चानामेवेत्यादिना सूत्रं सम्बध्नाति भा०—पश्चानामेव कर्मप्रकृतीनामुदद्यादेते परीषहाः प्रादुर्भवन्ति । तद्यथाज्ञानावरण-वेदनीय-दर्शनचारित्रमोहनीया-ऽन्तरायाणामिति ॥ टी-पश्चानामेव न षण्णां न चतसृणां कर्मप्रकृतीनामुदयाद् विपाकादेते द्वाविंशतिः परीषहाः समुपजायन्ते । काः पुनस्ताः पश्च कर्मप्रकृतय इति नामग्राहमाचष्टे-ज्ञानावरणस्य वेद्यस्य मोहनीयस्य । तच मोहनीयं द्विप्रकार-दर्शनमोहनीयं चारित्रमोहनीयं च । तथा अन्तरायस्येत्येवमेताः पञ्च प्रकृतयः । तत्र कः परीपहः कस्य गुणस्थानेषु चेत्याह सूत्रम्-सूक्ष्मसम्पराय-छद्मस्थवीतरागयोश्चतुर्दश ॥ ९-१०॥ भा०-सूक्ष्मसम्परायसंयंते छद्मस्थवीतरागसंयंते च चतुर्दश परीषहाः सम्भवन्ति, क्षुत्पिपासाशीतोष्णदंशमशकचर्याप्रेज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥ १० ॥ ___टी-सूक्ष्मेत्यादि । स्वामिविशेषावधारणम् । चतुर्दशानां परीपहाणां सम्परायःकषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशाटितानि नवमे गुणस्थाने । दशमे तु गुणस्थाने सूक्ष्मलोभपरमाणवो वेद्यन्ते । ततः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्मसम्परायः, शमकः क्षपको वा संयतो मूलोत्तरगुणसम्पन्नस्तस्मिन् सूक्ष्मसम्परायसंयते अमी चतुर्दश परीषहाः सम्भवन्ति, उदयमासादयन्तीतियावत् । छद्म-आवरणं तत्र स्थितश्छमस्थः, सावरणज्ञान इति । वीतः-अपेतो रागः सकलमोहोपर्शमात् समस्तमोहक्षयाच यस्य, क्रमेणैकादशद्वादशगुणस्थानवर्तिनी संयती परिगृह्यते । छद्मस्थवीतरागसामान्याच्चैकवचनम् । सूक्ष्मसम्परायश्च छमस्थवीतरागश्चेति द्वन्द्वः। तयोश्चतुदेशते भाष्यपरिपठिताः परीपहाः क्षुदादयो मलावसानाः ॥ १० ॥ १.परीषहाः ' इत्यधिको घ-पाठः। २-३ 'यतेः' इति ग-पाठः । ४'भवन्ति' इति घ-पाठः । ५.अलाभप्रज्ञाज्ञानशय्या' इति ग-पाठः । ६ 'शमसमस्तन्मोह' इति ङ-पाठः । For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ कवलिनः २३० तत्त्वार्थाधिगमसूत्रम् [अध्यायः भवस्थकेवलिनः शेषकर्मकारणामावाद् वेदनीयसम्भवाच्च तदाश्रया एव परीषहा भवन्तीत्याह सूत्रम्-एकादश जिने ॥ ९-११ ॥ री०-अस्य भाष्यम्भा०-एकादश परीषहाः सम्भवन्ति जिने घेदनीयाश्रयाः। तद्यथा - क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावघरोगतृणस्पर्शमल परीषहाः ॥ ११॥ री०-एकादशैव परीषहाः पूर्वोक्तचतुर्दशकमध्यादपनीय अमून् प्रज्ञाज्ञानालाभाख्यास्त्रीन् एकादश शेषा भवन्ति वेदनीयकर्माश्रया जिने । मोहपुरःसरेषु ज्ञानदर्शनाबरणान्तरायेषु क्षयमात्यन्तिकमुपगतेषु घातिकर्मसु उत्पन्नसकलज्ञेयग्राहिनिरावरणज्ञानो जिनः केवलीतियावत् । तत्रान्त्योपान्त्ययोर्गुणस्थानयोर्जिनत्वं, तत्र सम्भवः ॥ ११ ॥ सर्वेषां परीषहकारणानां कर्मणामुदयसम्भवमङ्गीकृत्याहसूत्रम्-बादरसम्पराये सर्वे ॥ ९-१२ ॥ भा०-चादरसम्परायसंयते सर्वे द्वाविंशतिरपि परीषहाः सम्भवन्ति ॥१२॥ टी० बादरः-स्थूलः सम्परायः-कषायस्तदुदयो यस्यासौ पादरसम्परायः संमतः। स च मोहप्रकृतीः कश्चिदुपशमयतीत्युपशमकः । कश्चित् क्षपयतीति क्षपकः । तत्र सर्वेषां मार्विशतेरपि क्षुदादीनां परीषहाणामदर्शनान्तानां सम्भव इति उक्ता गुणस्थानेषु यथासम्भवं परीषहाः ॥ १२ ॥ सम्प्रति कर्मप्रकृतिष्वन्तर्भावकथनायाह सूत्रम्-ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ ९-१३ ॥ भा०-ज्ञानावरणीयोदये प्रज्ञाऽज्ञानपरीषहौ भवतः ॥ १३ ॥ टी-प्रज्ञा चाज्ञानं च प्रज्ञाऽज्ञाने। प्रज्ञापरीषहोऽज्ञानपरीषहश्च ज्ञानावरणे भवतः। ज्ञानावरणक्षयोपशमात् प्रज्ञाऽज्ञानं च । सत्येव हि ज्ञानावरणे तस्य क्षयोपशमः । ज्ञानावरणोदयाच्च अप्रज्ञा-निर्बुद्धिकत्वमज्ञानं चेति । कथं पुनरिदमुभयं लभ्यते । १ तुल्या हि संहिता अप्रज्ञा च ज्ञानं च अप्रज्ञाज्ञाने ज्ञानावरणोदये भवत इत्युभयथाऽपि स्पष्टं भाष्यम् ॥ १३॥ १ भवपरीषहा' इति -पाठः । २ — उत्तरगुण. ' इति ङ-पाठः । ३ 'रिदै लभ्यते' इति:-पाठः, “रिदमुदयं लभ्यते' इति तु च-पाठः । For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ सूत्राणि १४-१६] स्वोपज्ञभाष्य-टीकालङ्कृतम् २३१ सूत्रम्-दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ ॥ ९-१४ ॥ भा०-दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्खधं दर्शनमोहोदयेऽदर्शमपरीषहः । लाभान्तरायोदयेऽलाभपरीषहः ॥ १४ ॥ टी०-दर्शनमोहः-अनन्तानुबन्धिनो मिथ्यात्वादित्रयं च, यथासङ्ख्यमिति क्रमेण दर्शनमोहे अदर्शनपरीषहः । अन्तराये अलाभपरीषहः । अदर्शनम्-अश्रद्धानं देवादिसद्भावविषयम्, अतो मिथ्यात्वानुबन्धाद् दर्शनमोहेऽन्तःपात इति ॥ १४ ॥ सूत्रम्-चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना सत्कारपुरस्काराः॥ ९-१५॥ भा०-चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति ॥१५॥ टी०-दर्शनमोहवर्ज शेषं चारित्रमोहनीयम् । चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात् पराङ्मुखत्वाचारित्रमोहनीयम् । तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति । नाग्न्यं जुगुप्सोदयात् । अरत्युदयादरतिः । स्त्रीवेदोदयात् स्त्रीपरीषहः । निषद्यास्थानासेवित्वं भयोदयात् । क्रोधोदयादाक्रोशपरीषहः । मानोदयाद् याच्यापरीषहः । लोभोदयात् सत्कार (पुरस्कार)परीषह इति ॥ १५ ॥ सूत्रम् वेदनीये शेषाः ॥ ९-१६ ॥ भा०-वेदनीये शेषा एकादश परीषहा भवन्ति ये जिने सम्भवन्तीस्युक्तम् ( अ०९, सू० ११)। कुतः शेषाः १ एभ्यः प्रज्ञा-ऽज्ञान-दर्शना- लाभनाग्न्या-ऽरति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारेभ्य इति ॥१६॥ टी०-वेदनीयकर्मोदये शेषाः एकादश परीषहाः सम्पतन्ति । कुतः शेषाः ? उपर्युक्तेभ्योऽन्ये शेषाः। के पुनरुपयुक्ताः प्रज्ञा-ऽज्ञाने अदर्शना- लाभौ सप्त च नान्यादयः, एभ्यः शेषाः केवलिनो ये सम्भवन्ति । एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगणस्पर्शमलपरीषहाख्या इति ॥ १६॥ _ एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः आबादरसम्परायात् सर्वे भवन्ति । परतस्तु नियताः । तत् किमेते कदाचित् सर्वेष्वेकस्य जन्तोर्योगपद्येन सम्भवन्ति न वा ? सम्भवन्तीत्याह १'वेधात् ' इति घ-पाठः। २ 'ततः' इति च-पाठः। ३ 'केवलिनि' इति घ-पाठः । For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ सूत्रम् - एकादयो भाज्या युगपदेकोनविंशतेः ॥ ९–१७ ॥ भा० - एषां द्वाविंशतेः परीषाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीपही युगपन्न यौगपद्येन परी- भवतः, अत्यन्तविरोधित्वात् । तथा चर्याशय्यानिषद्यापरीषहाः पाणामेकस्य सम्भवे द्वयोरभावः || १७ ॥ २३२ टी० – एकादय इति तद्गुणसंविज्ञानो बहुव्रीहिः । अथवैकशेषः । एकश्चासावादिचै कादिः, एक आदिर्येषां ते एकादयः, एकादिश्व एकादयश्च एकादयः । तदेते द्वाविंशतिः परीषा भाज्या - विकल्प्या युगपदेकस्मिन् यतौ । तत्र कस्यचिदेकः कस्यचिद् द्वौ कस्यचित् त्रयस्तावद् यावदेकोनविंशतिरविरोधात् युगपदेकत्रोदयन्ते, विरोधात् तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । भाज्या इति णिजन्ताद्यत् । णिजपि चौरादिकः । आ ऐकोनविंशतेरिति एकेनोना विंशतिरिति तत्र समासः । तृतीयेति योगविभागान्नञः प्रकृतिभावः । आङुक्तः, ऊनार्थाभिधायी चात्र नञ् । एकेनोना विंशतिरित्यर्थः । विंशतिशब्दस्य द्विदशवर्गवृत्तत्वात् द्वौ दशकौ परिमाणमस्य सङ्घस्य विंशतिः । एकवचनान्तता एकत्वेन निपातनात् । बहुत्वाद् बहुवचनमिति चेत् न, एकार्थत्वाद् यूथ-वनादिवत् । कथं पुनरेकोनविंशतिः समस्ति युगपत् न पुनर्द्वाविंशतिरपीत्याह - अत्यन्तविरोधादिति । शीतोष्णयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः । अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थम् । शीतोष्ण पर्यायावत्यन्तभिन्नौ-विरुद्धौ तयोश्चैकस्मिन् काले नैकत्वेनावस्थानम् । द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्युत्थितासीन पुरुषवद् उत्फणविकणीभूतसर्पवद् वा नास्ति कश्चिद् विरोधः । तथा चर्या - शय्या - निषद्यानामेकस्य सम्भवे द्वयोरभावः । चर्यायां सत्यां निषद्या - शय्ये न स्तः । निषद्यायां तु शय्या चर्ययोरभावः । शय्यायां पुनर्निषद्या- चर्ये न भवतः इति त्रयो वर्ज्यन्त इति ॥ १७ ॥ उक्तः परीषहजयः । सम्प्रति प्रस्तावप्राप्तं चारित्रमुच्यते चारित्रस्य पञ्चविधत्वम् सूत्रम् — सामायिक च्छेदोपस्थाप्य - परिहारविशुद्धिसूक्ष्मसम्पराय - यथाख्यातानि चारित्रम् ॥ ९-१८ ॥ भा० – सामायिकसंयमः १ छेदोपस्थाप्यसंयमः २ परिहारविशुद्धिसंयमः ३ सूक्ष्म सम्परायसंयमः ४ यथाख्यातसंयमः ५ इति पञ्चविधं चारित्रम् । तत पुलाकादिषु (अ० ९, सू० ४८ ) विस्तरेण वक्ष्यामः ॥ १८ ॥ १' ' इत्यधिको ग-पाठः । २ एकान्नविंशतेः एकेन म विंशतिरिति नञ्समासः For Personal & Private Use Only ' इति च पाठा | Page #262 -------------------------------------------------------------------------- ________________ सूत्र १८] स्वोपज्ञभाष्य-टीकालङ्कृतम् २३३ " टी. - सामयिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः केचित् विच्छिन्नपदमेव सूत्रमधीयते, एकमेव चारित्रं समुदाये मा प्रापदिति, तच्च नातीव सूत्रपाठाविमर्शः बहु मन्यामहे, सामायिकमेवेदं छेदोपस्थाप्यादिभेदेन ज्ञापितम्, मतोऽतः परमार्थत एकमेव चारित्रं संयम इति अभेदं मन्यमानो भाष्यकृदाह – सामायिकसंयम इत्यादि । सर्वसावद्ययोगविरतिलक्षणं सामायिकं तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्धतराध्यवसाय विशेषाः सावद्ययोगविरतेरेव । तत्र शब्द निर्भेदः - रागद्वेषविरहितः समः अयो- गमनम् । सकलक्रियोपलक्षणमेतत् । सर्वैव क्रिया साधोररक्तसामायिक- द्विष्टस्य निर्जराफला । समस्यायः समायः, समाय एव सामायिकमिति शब्दस्य निष्पत्तिः स्वार्थिकः ठक् । समाये वा भवं सामायिकं, समायेन निर्वृत्तं सामायिकं, समायस्य वा विकारः तन्मयः सामायः, स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक् । तच सामायिकं द्विप्रकारम् — इत्वरकालं यावज्जीविकं च । तत्राद्यं प्रथमान्त्य तीर्थकर - तीर्थयोः प्रव्रज्या प्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः सामायिकस्य छेदोपस्थाप्य संयमारोपण विशिष्टतरत्वाद विरतेः सामायिकव्यपदेश द्वैविध्यम् जदातीत्यत इत्वरकालम् | मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं - प्रव्रज्याप्रतिपत्तिकालादारभ्य - आप्राणप्रयाणकालादवतिष्ठते । प्रथमान्त्यतीर्थकर - शिष्याणां सामान्य सामायिकपर्यायच्छेदो विशुद्धतरसर्वसावद्ययोगविरताववस्थानं विविक्ततरमहाव्रतारोपणं छेदोपस्थाप्यसंयमः । छेदोपस्थापनमेव छेदोपस्थाप्यम् । पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् । तदपि छेदोपस्थाप्यस्य द्विधा, निरतिचार-सातिचारभेदेन । तत्र शिक्षकस्य निरतिचारमद्विविधता धीतविशिष्टाध्ययनविदः मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति । सातिचारं तु भग्नमूलगुणस्य पुनर्वतारोपणात् छेदोपस्थाप्यम् । उभयं चैतत् सातिचौरं निरतिचारं च स्थितकल्प एव, आद्यन्ततीर्थङ्करयोरेवेत्यर्थः । परिहारः- तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति । तदपि द्विधा - निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानकम् - आसेव्यमानकं, परिपरिहारविशुद्धेः भुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तम्, तत्सहयोगात् द्विविधत्वम् तदनुष्ठायिनोऽपि निर्विश्यमानकाः ताच्छील्ये शक्तौ वा चानय । निर्देश: - उपभोगः, निर्विशमानकास्तत् उपभुञ्जानाः, निर्विष्टकायिकास्तु निर्विष्टः कायो येषामस्ति ते निर्विष्टकायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो १ 'निर्वर्तितं ' इति ङ-पाठः । ४' चारमनतिचार ' इति च पाठः । २ 'सामान्यर्यातपर्याय' इति घ-पाठः । ३ ' विधत्ते' इति ध-पाठः । For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ प २३४ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ यैरिति परिभुक्ततादृग्विधतपसः, निर्विष्टकायिका इत्यर्थः । परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः । तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः । सर्वेऽपि ते श्रुताधतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः। नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारिणां सहायके वर्तन्ते । कल्पस्थितोऽपि नियताचाम्लभक्त एव । तच्च तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव । शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि । वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि । पारणाकालेऽप्या चाम्लमेव पारयन्ति । उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनु कि परिहारित्वं प्रतिपद्यन्ते । अनुपरिहारिणश्च परिहारिणो भवन्ति । तेऽपि संयमस्य सीमा - षण्मासान विदधते तत तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते । तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्वकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति । परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति । परिहारविशुद्धिकाच स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति । सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति । श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकी च । तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकस्त्रीवेदी हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमःप्रारभते, र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो भोपशमिकी पाका दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहन्नपुंसकवेदं, ततः स्त्रीवेद, योषिदारो. श्रेणी हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक् स्त्रीवेदं, ततः पुरुषवेद, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेदं, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधी संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनी मानौ, पश्चात् संज्वलनमानं, पुन माये, ततः संज्वलनमायां, पुनद्वौ लोभी, पश्चात् संज्वलनलोभम् । सङ्ख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति । ततः प्रतिसमयमसङ्ख्येयभागमुपशमयन् समस्तमन्तमुहूर्तेन शमयति । तश्विासख्येयभागान् शमयन् सूक्ष्मसम्परायसंगमी भवति । अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता १'षण्मासी' इति हु-च-पाठः । २ 'हारिणं' इति -पाठः । ३ 'सावधिकं' इति घ-च-पाठः।। For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ २३५ वर्णनम् सूत्र १९] स्वोपज्ञमाष्य-टीकालङ्कृतम् संक्लिष्टाध्यवसायस्य संक्लिष्टं, सूक्ष्मः-श्लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् । स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेच. नादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नानिवद् वा वाग्विन्धनादिप्रत्ययतः स्वरूपसुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायाग्निश्चरणेन्धनमामूलतो दहन् प्रच्याव्यते प्रतिविशिष्टाध्यवसायादिति । क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकस्त्रीवेदौ हास्यादिपटकं पुंवेदः संज्वलनाथ, अस्याश्वारोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स क्षपकश्रेणी र चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन । ततः क्रमेण दर्शनत्रिकं, । ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते । विमध्य __ भागे चैषामिमाः षोडश प्रकृतीः क्षपयति-नरकतियेग्गती एतदानुपूयों एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रचलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते । सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः। तमपि सङ्ख्येय( भाग )मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्डं क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति। समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति । क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निर्ग्रन्थो यथाख्यातसंयमी जायते । अथशब्दो यथाशब्दार्थे । यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः १, अकषायः, स चैकादशद्वादशयोगुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाच कपायाभाव इति । एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् । तच पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० ९, सू० ४८), पुलाकादिभेदेषु सामायिकादिसंयमः पञ्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति ॥१८॥ उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते--- बाह्यतपसः सूत्रम्-अनशना-ऽवौंदर्य-वृत्तिपरिसङ्ख्यान-रसपरिपविधता त्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः॥९-१९॥ टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइ निरूपितः । तदेकैकं पोढा । तत्र बाह्यस्य तावद् भाष्यकारो भेदानाचष्टे षडपि सूत्रं विवृण्वन्-. १ ‘न्धनादिमामूल ' इति घ-पाठः । २ 'स्त्वारोहकः ' इति च-पाठः । ३ ' जातिरातपो' इति घ-पाटः । For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ २३६ तत्वार्थाधिगमसूत्रम् [अध्यायः १ भा०-अनशनं १ अवमौर्य २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षड्विधं याचं तपः॥ "सम्यग् योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतःप्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थ कमनिर्जराथ च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः॥ टी०-अनशनमवमौदयं वृत्तिपरिसङ्ख्यानमित्यादि । प्राक प्रकृतः सम्यकशब्दोऽनुवर्तते । स च विशेषणम्-सम्यगनशनं सम्यगवमौदर्यम् , एवं च सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि । किं पुनर्विशेषणेन व्यावत्यते ?, नृपशत्रुतस्करकृताहारनिरोधादि तथा पङ्क्तिनिमित्त माजीवादिहेतोः उपहतभावदोषस्य हि न संयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणे हेतवः सम्यग्ग्रहणम् । यस्तु प्रवचनोदितशु(श्रा)द्धतया स्वसामथ्योपेक्षो द्रव्यक्षे कालभावाभिज्ञः क्रियाचाहापयन्नहोरात्राभ्यन्तरकार्याः करोत्यनशनादितपः स कर्मनिर्जराभाद् भवतीत्येवंमर्थमनुवय॑ते । सम्यग्ग्रहणं घालतपःप्रतिषेधार्थ च । संयमः सप्तदशभेद उक्तः (अ०९, सू०६), चारित्रं वा पञ्चप्रकारं संयमः। तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति । कर्म ज्ञानावरणादि तस्य निर्जरा-आत्मप्रदेशेभ्यः परिशाटनम् । यथोक्तम् (प्रशमरतौ श्लो० १५९)-यद्वद् विशेषणादुपचितोपीत्यादि । तपश्च प्रायः सर्वे समये प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थे चेत्युक्तम् । चशब्दः समुच्चयार्थः । तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्केन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनम्-आहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीवकं च। तत्रेत्वरं व नमस्कारसहितादि । चतुर्थभक्तादि तु भाष्यकारेणोपन्यस्तमतीत्वर " त्वादितरदुपेक्षितम् चतुर्थभक्तादि षण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे । यावज्जीविकं तु त्रिविधम्-पादपोपगमनं, इङ्गिनी, भक्तप्रत्याख्यानयावजीविकान on मिति । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । सतोऽप्याशनस्यभेदप्रभेदाः युषो यदोपक्रान्तिः क्रियते समुपजातव्याधिनोत्पन्नमहावेदनेन तत् सव्याघातम् । निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जेरितशरीरः करोति यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन व पाश्वेन निपत्याऽपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यावृत्तान्तःकरणो नशनम् यावदुत्क्रान्ताः प्राणास्तदेतत् पादपोपगमनाख्यं अनशनम् । इङ्गिनी श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् । अयमपि हि १ 'व्यावृत्यते ' इति ङ-पाठः। २ 'त्येवमनु' इति ङ-पाठः। ३ 'शटनं ' इति च-पाठः । ४ सम्पूर्ण पद्यं यथा “ यद्वद् विशोषणादुपचितोऽपि यत्नेन जीयते दोषः। तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥". For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ २३७ . भक्तप्रत्याख्याना सूत्र १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुध्य आत्तनिजोपकरणः स्थावरजङ्गमप्राणि.... विवर्जितस्थण्डिलस्थायी एकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायात - उष्णं उष्णाच्छायां सङ्क्रामन् सचेष्टः सम्यग्ज्ञानपरायणःप्राणान् जहाति। एतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति । भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित् _____ त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुर्विधाहारप्रत्याख्यायी, पर्यन्ते कृत याना समस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्व: नशनम् स्वयमेवोद्राहितनमस्कारः समीपवर्निसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालमेतद् भक्तप्रत्याख्यानं मरणमिति ॥ ___ उक्तमनशनम् । अवमौदर्यमुच्यते. भा०–अवमौदर्यम् । अवममित्यूननाम । अवर्ममुदरमस्य (इति) अवमोदरः। अवमोदरस्य भावः अवमौर्यम् ॥ टी-अवमौर्यम् । अवममित्यूननामेत्यादि । अवमं-न्यूनमुदरमस्येत्यबमोदरः तद्भावोऽवमौदर्य-न्यूनोदरता॥ कवलप्रमाणनिरूपणार्थमाह ___ भा०-उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रिअवमौदर्यस्य स्य विधमवमोदयं भवति । तद्यथा-अल्पाहारावमवौदर्य, उपा र पप र्धावमौदर्य, प्रमाणप्राप्तात् किश्चिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग द्वात्रिंशद्भयः कवलेभ्यः ॥ टी-उत्कृष्टावकृष्टावित्यादि । उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते, अवकृष्टस्त्वत्यन्तलघुकः, तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्यम्, तच्च त्रिविधमवमौयं तद्यथेत्यादिना प्रत्यक्षीकरोतिअल्पाहारावमौदर्यमित्यादि । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्यम् । उपार्धावमौदर्य द्वादश कवलाः, अर्धसमीपम् उपाध, द्वादश कवला:, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति । प्रमाणप्राप्ताहारो द्वात्रिंशत्कवलः । स चैकेन कवलेन न्यूनः किश्चिदूनावमौदर्य भवति। इतिशब्दः प्रकारार्थः । प्रमाणप्राप्तावमौदर्य चतु विंशतिः कवलाः । [भागद्वयावमौदर्य षोडश कवलाः] त्रिविधे चावमौदर्ये पुरुषप्रमदानां न एकैककवलहासेन बहूनि स्थानानि जायन्ते। सर्वाणि च तान्यवमौदर्य विशेषाः । कवलपरिसङ्ख्यानं चेति पुरुषस्य द्वात्रिंशत् , योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ विध्यम वरख्या कवलस १' साधुकृत' इति ग-पाठः। २ममूनमुदर.' इति ग-पाठः । For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ २३८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ भा०-वृत्तिपरिसख्यानमनेकविधम् । तद्यथा-उत्क्षिप्तनिक्षिप्तान्तप्रान्त. चर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् । टी०-वृत्तिसङ्ख्यानमनेकविधमित्यादि । वर्त्यते यया सा वृत्तिः-भैक्षं तस्याः परिसङ्ख्यानं-परिगणनं, आगमविहितोऽभिग्रहो वा परिगणनं, व दत्तीनां भिक्षाणां वा । तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादौ शेषः पटलकेन वा दोहनकादिना वा । भिक्षा तु हस्तेनोरिक्षप्य यद् ददाति कडुच्छुकेन ओदङ्किकया वा तत् परिगणनम्-एका दत्तिं ग्रहीष्याम्यद्य द्वे तिस्रो वा इत्यादि । एवं भिक्षाणामपि परिगणनं गोचरप्रवेशकाले करोति । तद्यथेत्यादिना अभिग्रहार नेकविधत्वं दर्शयति-उत्क्षिप्तनिक्षिप्तान्तेत्यादिना । उत्क्षिप्तं पटलका दिकं कडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यतं तादृशं यदि लप्स्ये ततो ग्रहीष्यामि, नावशिष्टमित्युत्क्षिप्तचर्या-उत्क्षिप्ताभ्यवहरणमिति । तथा परो निक्षिप्तचरकः पूर्वोक्तविपरीतग्राही। इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति भिक्षायै । सक्तुकुल्माषौदनादीनां चेत्यनेन द्रव्य-क्षेत्र-काल-भावविभक्तानभिग्रहान् सूचयति । तत्र द्रव्यतः सक्तुकुल्मापानशुष्कोदनम् । आदिशब्दात् तकं एककमाचाम्लपणेकं मण्डकान् वा ग्रहीष्ये, क्षेत्रतो देहली जङ्घयोरन्तः कृत्वा, कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु, भावतो हसनरोदनादिव्यापृतो निगडादिबद्धोऽक्ताक्षः कृततमालपत्रो वा दायको ददाति यत्, तदेवमन्यतमं द्रव्याद्यभिगृह्य शेषप्रत्याख्यानं वृत्तिपरिसङ्ख्यानं तप इति ॥ भा०-रसपरित्यागोऽनेकविधः । तद्यथा-मद्य-मांस-मधु-नवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च ॥ टी-रसपरित्यागोऽनेकविध इत्यादि । रस्यन्ते-खाद्यन्तेऽतिशयेनेति रसाः । तत्परित्यागो हि तत्परिहारः । सोऽनेकप्रकारस्तद्बहुत्वादेव । तद्यथेत्यादिना रसान् प्रत्यक्षी. करोति, मद्य-मांसेत्यादि । तेत्र मद्यं गौडपिष्टद्राक्षाखजूरादिद्रव्यसम्भारोपजातमदसामर्थ्य विषगरादिवजीवमस्वतन्त्रं करोति, अस्वतन्त्रश्च तद्वशः कार्याकार्यविवेकशून्यः प्रभ्रष्टस्मृतिसंस्कारो न किञ्चिन्नाचरति गर्हितम् । [ अतो नित्यावपरिहार्यद्रव्यक्षेत्रकालभावापेक्षयाऽनुयुक्तितः शुद्धनागमानुसारिणा यथायुक्तमाचरणीयं,] सर्वथा तत्परित्यागस्तपः। मांसं तु प्राणिशरीरावयवः, तच्च प्राणव्यपरोपणमन्तरेण दुष्प्रापम् । प्राणातिपातश्च स्वशरीरसम्भूतदुःखानुमानेन न शक्यः प्राज्ञेन कतुं, स्वयं न करोतीत्यन्यः कार्यत इत्येतदपि न, अन्योऽपि नेव कायते । न १ 'तान्तप्रान्त ' इति घ-पाठः । २ 'कटुच्छकेन ' इति ड-च-पाठः । ३ 'उदङ्किकया' इति ग-च-पाठः । .चरकां' इति ङ-पाठः ५' देवमद्रव्या' इति उ-पाठ For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ २३९ सूत्रं १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् चानुमोदनीयः। स्वयमेव कुर्वन् मुनिना साधुभ्यो दास्यामीति, एवं कृतकारितानुमतिभिः . . परिहारः सवेथा मुमुक्षोरुपदिष्टः शासनप्राणायिना सर्वज्ञेनेति । अथ यत • कृतकारितानुमतिपरिशुद्धमोदनादिवत् तत् किमिति न वर्ण्यते ? । तदपि गाग्रंपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः ।। ननु चैवमोदनादयोऽपि गायेपरिहारिणा त्याज्याः १, नैतदेवम्, मांसरसो हि सर्वरसातिशायी वृष्यतमश्च किल। तत्र चावश्यंभावि गाय॑म् । न चैवमोदनादयः ॥ ननु च क्षीर-दधि-धृतादयोऽपि रसा वृष्या एवेति, उच्यते-तेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः । यदाऽप्यनुज्ञातास्तदाऽपि मात्रया तप्तायोभाजनप्रक्षिप्तघृतादिबिन्दुक्षयवन्न चरणबाधायै प्रत्यलाः । परेणाप्यवश्यमिदमभ्युपेयं, न नियोगतोऽभ्यवहर्तव्यं सर्वमेव, त्रिकोटिपरिशुद्धश्चाहिगजाश्वनरमांसाभ्यवहारप्रसङ्गात् । तस्मान सर्वमेव त्रिकोटिपरिशुद्धमभ्यवहार्यम् । मद्यपाने चातिप्रसङ्गः । अथ मद्यपानं प्रकृतिसावधमिति परिहियते । एतदप्यसत् प्राणातिपातसम्बन्धात् रसातिशयगाोच्च । मांसमपि प्रकृतिसावद्यमेव । अपि च-मद्यमुपभुञ्जते युक्तितो येन न तेषु किश्चिदवद्यमुपलभ्यते । तस्मान्मांसरसपरित्यागः श्रेयानिति । मधु त्रिप्रकारम्-माक्षिकं कौत्तिकं मधुनस्लैविध्यं भ्रामरं च । एतदपि प्राण्युपपातनिष्पन्नमेवेति परिहार्य द्रव्यादिचतुष्टनवनीतस्य च चातुर्विध्यम् । व यापेक्षयेति । गो-ऽमहिष्य-जा-विकानां नवनीतं चतुर्धा । स चापि रसो - वृष्य इति परिहार्यः। आदिग्रहणात् क्षीर-दधि-गुड-घृत-तैलाख्याः पञ्चावरुध्यन्ते :विकृतयः। तत्र क्षीरविकृतिः पञ्चप्रकारा गो-महिष्य-ऽजा-विको ष्ट्रीणाम् । दधिविकृतिरपि करभीवर्जानां चतुःप्रकारैव । गुडविकृतिरिक्षुविकारः। फाणितादि प्रसिद्ध, खण्ड . शर्करावर्जः । दधिविकृतिरिव घृतादिविकृतिरपि चतुर्विधैव । तैल विकक्षीरादिविकृतीनां विविधता । - तिरपि चतुर्विधा । तिला-ऽतसी-सिद्धार्थक-कुसुम्भकाख्यानि तैलानि । दशमी घृताधवगाहनिष्पन्ना। अवगाह्यकविकृतिरपूपादिका । साऽपि आदिग्रहणादागृहीतैव । एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः । एता हि वृष्यत्वाद् वाजीकरणप्रसिद्धेश्व, न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वात् । एवं च विकृतयोऽन्वर्थसञ्ज्ञां लभन्ते । अतो मुमुक्षुणा ललनाऽङ्गप्रत्यङ्गविलोकनवत् प्रत्याख्येयाः । इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः । विरसरूक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणसंरक्षण यतिनेति दर्शयन्ति । विगतरसं विरसम्, विकृतिभिरसंसृष्टं विरसं वा । तस्माद रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकम् । आदिग्रहणादन्तप्रान्तपरिग्रहः ॥ भा-विविक्तशय्यासनता नाम एकान्तेऽनावाधेऽसंसक्ते स्त्रीपशुपण्डक वर्जिते । १'प्रणायिमा ' इति ङ-पाठः। २' षण्डकविवर्जिते' इति घ-पाठः। For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ २४० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ टी--विविक्तशय्यासनता नामेति । शय्याग्रहणेन प्रतिश्रय-फलक-संस्तारकग्रहणम् । आसनग्रहणेन पीठसिकादिविविक्तं गर्हितजनसम्पातरहितं अचलाशुपिरादि च । विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता । नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा । अस्यैव विवरणमेकान्तेऽनाबाध इत्यादि, पर्यायकथनेन व्याख्यानम् । विविक्तम्-एकान्तम् अनाबाधम् असंसक्तं स्त्रीपशुपण्डकवर्जितमिति पर्यायाः । अथवा एकान्ते इति । 'अम गत्यादिषु' ( पा० धा०४६६ ) "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादमनम्-अन्तः श्रुतज्ञानं तद्व्यापार एवैको यत्र वाचना-प्रच्छनादिभिरुत्सर्पति तदेकान्तम् । अनाबाधे इति । आबाधः-शरीरोपघातः, स.न विद्यते यत्र तदनाबाधम् । असंसक्ते इति सूक्ष्मस्थूलजन्तुरहिते। स्त्रीपशुपण्डकवर्जित इति । स्त्रियो-मानुष्यः पशवो-गो-महिष्य-जाविकाद्याः पण्डका नपुंसकानि। वस्तुतश्चारित्रोपघात एवैष सर्वः॥ तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि दर्शयति भा०-शून्यागार-देवकुल-सभा-पर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थ संलीनता॥ टी०--शून्यागारेत्यादिना। शून्यागारं शून्यगृहमदोषम् । देवकुलं दुर्गाद्यायतनादि । सभा यत्र प्राङ्मनुष्याः समवायमकक्षत । सम्प्रति तु न तत्र समवयन्ति । पर्वतगुहा-पर्वतविवरं गिरिनगरादाविव लयनानि । आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मण्डपकादि परिगृह्यते। एषां यथोक्तानां अन्यतमस्थाने व्यवस्थानम् । किमर्थमिति चेत् समाध्यर्थम् । समाधिज्ञानदर्शन-चारित्र-तपो-वीर्यात्मकं पञ्चधा । समाधानं समाधिः ज्ञानादीनामपरिहाणिवृद्धिश्च । इत्थमियं संलीनता तपोविशेषः । इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवति । प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन कषायसंलीनता । क्रोधस्य तावदुदयनिरोधः, प्राप्तोदयस्य च वैफल्यापादनम्, एवं शेषाणामपि । तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा । एवं वागपि वाच्या। कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते । विना तु प्रयोजनेन निश्चलासनमेव श्रेयः। विविक्तचों तु भाष्यकृतवोक्ता । भा०-कायक्लेशोऽनेकविधः। तद्यथा-स्थानवीरासनोत्कटुकासनैकपादण्डायतशयनातापनाप्रावृतादीनि । री०-कायक्लेशोऽनेकविध इत्यादि। कायः-शरीरं तस्य क्लेशो-बाधनम् । कायात्ममोरभेदः संसायेवस्थायामन्योन्यानुगतत्वात् क्षीरोदकादेरिव, अतः कायबाधायामात्मनो बाधा १ एव एतत्सर्वं ' इति च-पाठः । २ निरूपयति' इति ङ-च-पाठः। ३ ' मकृषत ' इति च-पाठः । ४'दाहरणं वा' इति उ-पाठः। For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ सूत्रं १९ ) स्वोपज्ञभाष्य-टीकालङ्कृतम् २४१ ऽवश्यम्भाविनी, एकत्वपरिणतेश्च विना संसार्यात्मनः सुखदुःखाभाव एव स्याद्, एवमात्मनः कायद्वारेण क्लेशोपपत्तिः "सम्यग्योगनिग्रहो गुप्तिः" (अ०९, सू०४) इत्येतस्मात् सम्यग्ग्रहणमनुवर्तते, तच्च कायक्लेशविशेषणम् । आगमानुसारिणी सम्यक्क्लेशोत्पत्तिः निर्जरायै न्याय्या। स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः। तद्यथेत्यादिना तदनेकविधत्वं दर्शयतिस्थानवीरासनेत्यादि । स्थानग्रहणार्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः । तस्य चाभिग्रहवि. शेषात् स्वशक्त्यपेक्षातः कालनियमचन्द्रावतंसकनृपतेरिवावगन्तव्यः । वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं, निवेष्टी च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति । तत्राप्यभिग्रह विशेषादेवं स्वसामथ्योपेक्षातः कालनियमः। उत्कटुकासनं तु प्रसिद्धमेव विनाऽऽसनेन भूमौ वा प्राप्तस्फिग्द्वयस्य भवति । एकपार्श्वशायित्वं स्वधोमुख उत्तानमुखस्तियग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत् तपः काय. क्लेशाख्यम् । तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्वयश्चलनरहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्वबाहोरूर्वस्थितस्य निविष्टस्य निपण्णस्य वा प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति । अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम्। आदिग्रहणात् हेमन्तेऽपि रजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः। तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्त्रानकं केशोल्लुश्चनमित्येवमेतानि स्थानवीरासनादीनि ॥ भा०-सम्यक् प्रयुक्तानि वायं तपः । टी०-सम्यक प्रयुक्तानि आगमचोदितानि-अनुगता(नि) बाह्यं तपः । यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधानात पीडयेदविध्युपयुक्तविषवत् । किं पुनरितो बाह्यात् तपसः फलमवाप्यत इत्याह भा०-अस्मात् षविधादपि बाह्यात् तपसः बाह्यतपसः अनेक सङ्गत्याग-शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा विध फलम् भवन्ति ॥ १९॥ टी०--अस्मात् षइविधादपीति । सङ्गत्यागः शरीरलाघवं इन्द्रियविजयः संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते । तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वन १ 'क्षात् ' इति उ-पाठः। २ एतद्वर्णनार्थं विलोक्यता योगशास्त्रस्य स्वोपझं विवरण (पृ. १७७)। ३.निश्चेष्टा' इति उ-पाठः। ४ देतत्' इति कु-पाठः। ५. पेक्षात् ' इति -पाठः। 'नियमस्थस्य इति ग-पाठः। ७.चोदनानि नुगता बाह्यं' इति च-पाठः । For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ तासा २४२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ भिष्वङ्गो-निर्ममता। प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारित्वायोग्यता । तद्वर्जनात् तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाघवमुपजायते । ततथाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः । भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति । अत्र केचिन्मोहान्धतमसछाया(च्छ)नाचोद . यन्ति-आतापनशिरोलुश्चनानशनकायोत्सर्गादिकायक्लेशोपक्रमेण न कर्मकायक्लेशस्य विफल ल विच्छेदो भवतीति प्रतिजानते । विकल्प्य चैनमर्थ युक्त्या प्रसाधयन्ति । दुःखं चेत् पूर्वकृतजं व्यर्थो यत्नो न वा क्षयः, कर्माभावो न वा मोक्षो वेति नाकृतद्वन्द्वः। यत् तदनेकेनोपक्रमेणातापनादिना प्रयोगेणोपक्रमिकं बुद्धिपूर्वकमात्मानं तापयतां दुःखमुपजायते तत् किं पूर्वकृतकर्महेतुकमाहोस्विदातापनाशुपक्रमेणैव जनितमिति १ । तत्र यदि प्रथमो विकल्पः पूर्वकृतकर्महेतुकं तदातापनादिर्ज दुःखमेव तर्हि व्यर्थ एवातापनाद्युपक्रमः । पूर्वकृतकर्मविपाके ह्यातापनादिप्रयत्नस्यानीश्वरत्वदर्शनानारकादिष्विति । ततश्चाहतानामात्मसन्तापनाशुपक्रमविशेषवैयर्थ्यमन्यजन्मकृतकर्मफलोपभोगित्वान्नारकादिवदिति प्रयोगः । न च तत् पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वान्नर्तकीभ्रूभङ्गवदिति । अथ द्वितीयो विकल्प:-आतापनाशुपक्रमजनितमेव दुःखं, न पूर्वकृतकर्महेतुकम् , एवं तार्ह न वा क्षयः, कर्मणां क्षयाभावो वा यत्नवैयर्थं वेति वाशब्दाद् विकल्पः। नहि पूर्वकृतस्य पापस्य क्षयः सिद्धयति, तत्फलाप्रतिवेदनात्, अदत्तफलत्वादित्यर्थः । न तस्य कर्मणः परिक्षयः, अदत्तफलत्वात्, इतरादत्तफलकर्मवत् । अथ आतापनादिप्रयत्नोऽपि पूर्वकृतहेतुक एवाभ्युपेयते, न तर्हि कश्चित् पुरुषकारोऽस्तीति प्राप्तः काभावः । असति च पुरुषकारे प्राक्तनस्याकृतत्वादभावः स्यात् कर्मणो यस्यायमातापनादिप्रयत्नं फलमभ्युपगम्यते तदपि प्राक्तनं कर्म न सिध्यति इत्यत्यन्ताभाव एव कर्मणां प्राप्तः । न वा मोक्षः। अथ योऽसौ पापस्य कर्मणो विपाकः सोऽपि कर्मैव प्रतिज्ञायते, अतस्तदप्यौपक्रमिकं कर्म प्राप्नोति, पापविपाकत्वात् । अतो न सिध्यति मोक्षः, पापक्षयासम्भवात् । न वा पापस्य कर्मणः कुशलो विपाक आतापनादिः समस्ति, कुशलस्यापि अकुशलविपाकप्रसङ्गादिति । स एव मोक्षाभावप्रसङ्गः । नैवाहतानां पापस्य कर्मणः क्षयः सम्भाव्यते। असञ्चेतिता कृतबन्धतः असञ्चेतितमपि प्राणातिपातादि कुर्वनेनसा युज्यते । लोकश्च व्याप्तः स्थावरजङ्गमजन्तुभिः सूक्ष्म दरैश्च । तत्र चावश्यम्भावी चक्रमणादिक्रियासु जन्तुवधः। तथा अप्रकुर्वतोऽपि च पापं परेषामनुत्पादयन्तोऽपि च दुःखं कामक्रोधशोकभयादीनां निमित्तीभवन्तः पापेन युज्यन्ते । एवमसञ्चेतितबन्धतोऽकृतबन्धतश्च १'चर्याजन्तूप. ' इति उ-च-पाठः । २ ‘भावीति' इति ङ-च-पाठः । ३ ' प्रपन्नानु' इति च-पाठः । ४'कर्मणःइति उ-पाठः । For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ तपोष्ट सूर्व १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २४३ जैनानां नास्त्येव मोक्ष इति । अत्रोच्यते-द्विविधः कर्मपरिपाकहेतुभंगउसका वद्भिक्ता-स्थितिक्षयस्तपश्च । तत्र प्रणिधानादिगमनमन्तरेण कर्मक्षयः स्थितिक्षयात । यथोक्तं (अ०८, १० १५-१८)-"आदितस्तिसृणामन्तरायस्य च त्रिंशत सागरोपमकोटीकोट्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य" इति च । स्फुटमिदं प्रणिधानमन्तरेण स्थितिक्षयात् कर्मविनाशः । तथा अपरं कर्मक्षपणार्थमहता दर्शितं तपो द्विविधम्-अभ्यन्तरं बाह्यं च । एकैकं चापि षइभेदम् । लोके परसमयेषु च यत् प्रथितं तत् तपो भवति बाह्यम् । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राझं तथैतदागोपालाङ्गनादिजनप्रसिद्धमशुभकर्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्वं च रोमनखधारणं वृक्षमूलवीरासनादीनि अज्ञातपिण्डपातोत्थादप्रतिबद्धमटन _ मामरणात् । अदर्शनधावनचीवरधारणभूकाष्ठशय्याच इत्येवमादयः कायस्य लेशा ननु प्रसह्यन्ते सर्वैरपि पापण्डिभिः । अतस्तपस्तद् भवति सिद्धं दुःखसहनार्थितालक्षणं सुखेऽनादरस्तपः कष्टं देहत्यागो वीर्योद्यमौ च विषयेष्वसङ्गत्वं स्वात्मवशीकरणं च । प्रियधर्माणां च वीर्यसञ्जननं कायक्लेशस्य गुणाः प्रभावना ध्यानदाढ्यं च । __ ततश्चैवं प्रमाणयतो मायासूनवीयस्य 'आहेतानामात्मसन्तापनाशुपक्रमवि " .. शेषवैयर्थ्यम्' (पृ० २४२) इति लोकविरोधिनी प्रतिज्ञा । लोके त्वविगानतोनशनादितपः प्रसिद्ध कर्मक्षयकृत् , तदपढुवानस्य परिस्फुट एव लोकविरोधः । तथा मध्याहादुपर्योदनादि न भोक्तव्यं बुभुक्षितेनापि । रात्रौ च कालोपस्थायिमिक्षुदर्शननिमित्तगर्भपातादीनां च दर्शनान्न भोक्तव्यं इति । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेध उक्तो वृक्षमूलासेवित्वनिष्प्रतिक्रियत्वादि च कायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति । अतस्तपोऽकिञ्चित्करमित्यागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनोदिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अन्यजन्मकृतकर्मफलोपभोगित्वादिति यद्यन्यजन्मकृतं ददाति स्वतन्त्रसेवनोपभोक्तुः कश्चिद् व्यापारः, ततो द्रव्य-क्षेत्र-काल-भावनिरपेक्षत्वादसिद्धो हेतुः । नहि किश्चिदपि द्रव्यादिनिरपेक्षं फलमिष्टं जैनेन्द्रैर्येन कर्मणां विपाकोपशमावात्मचेष्टापूर्वको, न तु यादृच्छिकौ । अतः कथं व्यर्थता लोचमौण्ड्यादिक्रियायास्तदुदयहेतुकायाः । यथोक्तम् " यदि भाग्यं फलहेतु-र्ननु विफलो हेतुनाऽप्यनुपदेशः। न्याय्या पाचयति नृणा-मीहा पुण्यं हि सापेक्षम् ॥१॥–आर्या तपसः १'दिकाय ' इति - पाठः । २ 'यतः कर्म ' इति -पाठः । ३ ' यादृच्छिकादिवत् ' इति च-पाठः । For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ २४४ तत्वार्थाधिगमसूत्रम् उभयोपशम पुक्तौ, सापेक्षौ कर्मणोः शुभाशुभयोः । स्याद् विफलेहा सर्व, निरपेक्षं कर्म कल्पयतः ॥ २ ॥ - आर्या तस्मादवश्यभावा, अप्यर्थास्ते प्रयोगतः सिद्धाः । विभिर्भवति, कदाचिदनुन्नं सलिलमन्यैः ॥ ३ ॥ " आर्या न तस्मान्मुमुक्षोः श्राद्धस्य प्रवचनानुसारिवृत्तौ स्ववीर्येण कर्मोदयमाविर्भावयतो न व्यर्थ आतापनादिक्रियाकलापः कर्मनिर्जरणफलः ।। अथ न स्वतन्त्रमेव फलं ददाति कर्म, तर्हि व्यर्थमातापनादि तपः पूर्वकृतं तद् भवति कर्म । न च व्यर्थो यत्नः, पुरुषप्रयत्नेन विपच्यमानत्वात् । ततश्च नारकदृष्टान्तः साध्यशून्यः । नारकीयमपि कर्म [अन्य] जन्मान्तरोपाचं नरकभवापेक्षमुदयति । स्त्रपरिणामापेक्षं च न व्यर्थ, निर्जराफलत्वात् । एवं चातापनादिप्रयत्न - स्यानीश्वरत्वमसिद्धं, कर्मापगमहेतुत्वात् । यच्चोक्तं ( पृ० २४२ ) ' न च तत्पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वात्' इति, तदप्यपेशलम् । यद् यत् प्रयत्नानुविधायि तत् तत् पूर्वकृतकर्मजं न भवति, यथा नर्तकी भ्रूभङ्गकर्मेति । खदिरशलाकाभीतः किल नश्यन्ननाकुलः सुगतः प्रयत्नवानपि पादे विद्धः शलाकया । तच्च पादवेधनकर्म प्रयत्नानुविधायि भवति पूर्वकृतकर्मजं चेत्यने कान्तः । 'इत एकनवते कल्पे, शत्तया मे पुरुषो हतः । 46 तस्य कर्म विपाकेन पादे विद्धोऽस्मि भिक्षवः ! ॥ १॥” " [ अध्यायः ९ इति तत्सिद्धान्तः । नर्तकीभ्रूभङ्गोऽपि पूर्वकृतकर्म एव । भ्रूभङ्ग इति भ्रुवोर्विन्यासः - औदारिकशरीरावयवः । तच्चौदारिकं पूर्वकृतकर्मजं क्रियाक्रियावतोरभेदादिति साधनशून्यो दृष्टान्तः । न चकर्म क्रियैवार्हतानाम् । कर्म हि पौगलिकमिष्टं तच्च पूर्वमिति । अथातापनाद्युपक्रम जनितमेव तद् दुःखं, न पूर्वकृतकर्मजं, ततः कर्मक्षयाभाव इति यदुक्तं ( पृ०२४२, पं० १५) तदसम्बध्यकमामेव । मात् पूर्वकृतमेव कर्म द्रव्याद्यपेक्षमुदेति, न पुनरातापनादिक्रियया तदपूर्वमेवोत्पद्यत इत्यज्ञातजैन सिद्धान्तेन वैयावृत्यादि कल्पितं मूढेनेति । तच्चाशङ्कितमातापनादिप्रयत्नोऽपि पूर्वकर्मकृत एवेति, ततश्च पुरुषकाराभाव इत्येतदप्यज्ञान विजृम्भितम् । जीवकर्मणोरनादिसम्बन्धः । आत्मा च संसारी सकर्मकः कर्ता । क्रियत इति च कर्म, वीर्यान्तरायक्षयोपशमाच्च । वीर्यं प्रयस्न विशेषः आत्मनः करणजन्यः । करणानि च कर्तृव्यापारापेक्षाणि प्रयत्नमारभन्त इति । ईदृशि प्रक्रियायां कथं पुरुषकाराभावश्वोत्पद्यते ? । तथा अपरमुक्तमज्ञेन ( पृ० २४२, पं० २१) यदि पापस्य कर्मणो यो विपाकः सोऽपि कर्म, ततो मोक्षाभावः, पापक्षयासम्भवात्। यस्मात् किल तदप्यौपक्रमिकं कर्म तस्याप्यपरो विपाकस्तस्याप्यपर इति कुतो मोक्षः १ । अत्राप्यज्ञानमेवापराध्यति । कर्मपुद्गलानां विपाकोऽनुभावो रस विशेषः । स कर्मैव गुणगुणिनोः कथञ्चिदैक्यात् । तच्च कर्म १ नन्विद्दानोम भवति' इति च पाठः । २' प्रवृनेः' इति ङ-त्र-पाठः । ३ ' मानकमेव ' इति ज-पाठः । For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ पूर्व १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९५ पकं परिशटति जीवप्रदेशेभ्यः, न हि ततोऽन्यत् कर्मोपादानमस्ति, कथः मोक्षामावः ।।न चार्य नियमः-पापस्य कर्मणः पापेनैव विपाकेन भवितव्यं कुशलस्य व कुशलेनैवेति, स्थित्यनुभावबन्धयोर्विपर्यासवचनात् । यथोक्तम्-- "मूलप्रकृत्यभिन्नाः, सक्रमयति गुणत उत्तराः प्रकृतीः। न त्वात्माऽमूर्तत्वा-दध्यवसोनप्रयोगेण ॥१॥-आर्या शिथिलयति दृढं बन्धं, शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्या, स्थितिर्विपर्यासयति चापि ॥ २॥-आर्या तारीकरण ताम्र-स्य शोषणस्तेमने मृदः क्रमशः। वृक्षपरिपाचनं वा, काले तेधूपदृष्टान्ताः ॥३॥"-आर्या सङ्क्रमस्य तारीकरणं, स्थितेः शोषणस्तेमने, वृक्षपरिपाचनमित्युदीरणाः। " अनुभावांश्च विपर्या-सयति तथैव प्रयोगतो जीवः । तीव्रत्वमन्दत्वावस्थासु प्रकृतिष्वभिन्नासु ॥४॥-आर्या यद्वद् वा मन्दं सत्क्षारी-क्रियते हरिद्रया चूर्णम् । वातातपादिभिश्व, क्षारं मन्दीक्रियेत यथा ॥ ५॥"-आर्या इति । यदप्युक्तं (पृ० २४२ ) असश्चेतिता कृतवन्धतो मोक्षाभावः इति तदप्ययुक्तम् । यदि सश्चेतितमेव शुभमशुभं वा बध्यते नासश्चेतितं, एवं तर्हि न कश्चिन्मिथ्यादृष्टिरस्ति । न हि साङ्खयः काणभुजो वो द्विजादिर्वा स्वं दर्शनं मिथ्येति सञ्चेत्य प्रतिपयते । सर्वोऽपि हि स्वं दर्शनं निश्चितमेव सम्यनित्यभ्युपगच्छति, न मिथ्येति सञ्चेतयति । अथैवमाशकेथा:विपरीताभिनिवेशात् तस्य मिथ्यादर्शनम् । तदेवं सति रज्जुबुद्धया छिन्दतः सर्पमवश्यम्भाविनी हिंसाप्राप्तिः, विपरीताभिनिवेशात् संसारमोचकयाज्ञिकगलाकार्तप्रभृतीनां च निमतां धर्मोज्यमेवेति पापमिति वा सञ्चेतनान्न पापं स्यात् । न हि ते अपुण्यमेव सञ्चेतयन्ति । अथ यथा तथा वा प्राणवधे विहिते पापं भवति, ततः सिद्धव हिंसा।नावश्यम् । यदि प्राणी च भवति प्राणिसंज्ञा च भवति वधकचित्तं वाऽस्योत्पद्यते वधितश्च भवति ततो हिंसेति । अथ ते हिंसामित्येवं सञ्चेतयन्ति संसारमोचकादयो भिक्षुरपि तर्हि सञ्चेतयितुं नियमेन जीववधो भवत्यारम्भ इति । यथोक्तम् "भूकाष्ठाग्न्यपगोमय-बनवायुवनस्पतीन् पशून प्रेष्यान। मत्वाऽऽरभमाणस्य, प्राणव्यपरोपणं नियतम् ॥ १॥-आर्या १ 'निगमः' इति उ-पाठः। २ — सानान्नयोगेन' इति हु-पाठः। ३ 'न तु' इति -पाठः । ४'वा द्विजो वा' इत्यधिको उ-पाठः। For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ २४६ तत्त्वार्थाधिगमसूत्रम् [अभ्यायः ९ आरम्भे सञ्चेतन-मस्त्येतेषां च न तु जिघांसायाम् । इति तदपि तुल्यमुभये-पामप्यन्याभिसन्धित्वात् ॥ २॥आर्या सञ्चेत्यहिंसकोऽतिनृ-शंसस्तेषां तथा तु नारम्भी। पन्धोऽपि तदनुरूपो, बन्धविशेषो हि भाववशात् ॥ ३॥"--आर्या अजाननवमन्यमानो वा यः शोणितमुत्पादयति मायासूनोस्तस्यानन्तर्यकमबुंदबुद्धिस्वान समस्ति । न च भक्तिशून्यस्य बुद्धोध्यमिति तत्त्वतोऽशुद्धिरस्ति । यस्य चास्ति भक्तिः स उपासकः कथमुत्पादयेद बुद्धस्यामृक् । न च संशयितस्याश्रद्दधतश्च सञ्चेतन मिष्टम् । नो चेद पामारम्भेऽपि सर्वपाखण्डिनां भवेद् दोषः। यत् ते विदन्ति निर्ग्रन्थानां जीवाः किलेमे इति । आनन्तर्यकमेवं मातापित्रहतां वधेऽवार्य स्तूपभिदश्च तथैव चौर्याण्यनृताद्यकुशलानि यथोक्तेन चतुष्टयसंयोगेनेति । बालस्य पांसुमुष्टी राज्यं फलित इति वाऽस्ति बुद्धोक्तिः। न च पांसुष्वमत्वं व्यक्तम् । सञ्चेतयन्ति पांसून् रन्धनाद्यारम्भोपदेशित्वाच्च बुद्धस्य हिंसकत्वं प्राप्तं, न तु चेतयति स जन्तून् काष्ठाद्याश्रितकुन्थूद्देहिकापिपीलिकादीन नो चेन भवेत् स सर्वज्ञः यद्यसश्चेतितः कर्मबन्धो न भवति, ततः सर्व एव प्रयत्नो व्यर्थः स्यात् । "ई भाषादानो-त्सर्गस्थानशयनाशनादिषु च ।। यतनं व्यर्थ सर्व, प्रतिलिख्यसमीक्ष्यकरणादि ॥१॥-आर्या पात्रपरीक्षणमुदक-स्रावणमुपसम्पदादिनियमाच । भावप्रामाण्येन तु, बुद्धस्य भवन्त्यपार्थानि ॥२॥-आर्या शुभबुद्धथा शुभफलदं, यदि च शुभं कर्म तत् समारब्धम् । शुभबुद्धया विप्राणां, पश्वादिवधे कथमधर्मः ॥३॥"--आर्या यदप्युक्तं गन्धसमुद्गकवजन्तूनामापूर्णो लोकः । तदत्राहिंसकत्वं दुर्लभमिति । उक्तं च "जीवव्याप्ते लोके, यतेरहिंसा कथं भवेत् कृत्स्ना । उदधिमवगाहमानः, कथं न सचट्टयेत् सलिलम् ? ॥१॥-आयो अत्रोच्यते" इत्येष विप्रलापो, यत्कायाः सूक्ष्मपरिणताः पञ्च । अप्रतिघातिन इष्टाः, स्कन्धप्रतिभेद उक्तश्च ॥२॥–आर्या अपि चाचित्ताः कायाः, प्रचुराः सन्तीह जीवनिमुक्ताः। स्याद् येषु यतेवृत्ति-निश्वासप्रभृतिचेष्टासु ॥ ३ ॥–आर्या १:भिनिवेशसन्धित्वात् ' इति ग-पाठः। २ 'बुद्धिबुद्धत्वात् ' इति हु-पाठः। ग-पाठः। ४'वीर्याण्य' इति ग-पाठः। ५ 'श्रितं उद्देहिका' इति इ-पाठः। ३'वीयोस्नू' इति For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ २४ सूत्र १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २४७ अपि वा प्रमत्तमाह-हिंसकमहन्न वक्रजडकरणम् । सूत्रोदितेन मार्गे-ण विहारश्चाप्रमादाख्यः॥४॥-आर्या ज्ञानस्य हि सगुणो यत्, स्वाध्यायशुभाय कर्मणे यतते । नोऽसाध्य साधयितुं, प्रवर्तते ज्ञानवान् पुरुषः॥५॥-आर्या ज्ञानी कमेक्षपणा-र्थमुत्थितो नो शठः प्रयतमानः।। सूत्रोदितेन विधिना, न बन्धकः सत्त्वमरणेऽपि ॥ ६॥-आर्या स्यानाम यदा बन्ध-श्छद्रस्थस्य प्रमाददोषेण । तस्य प्रायश्चित्तं, दशविधमातिष्ठति तदा सः॥७॥-आर्या उपपादिताच कायाः, सर्वे मोक्षश्च सर्वतन्त्रेष्टः । यदि चैवं नाहिंसा, स्यात् तस्मान्मोक्ष एव ननु ॥ ८॥-आर्या अवते परामहिंसां, सर्वे धर्मप्रवादिनो लोके। तिष्ठति भिक्षावृत्तौ, ज्ञानरतौ सा त्वनारम्भे ॥ ९॥"-आर्या तस्मादसश्चेतितोऽपि कर्मबन्धः समस्ति जीवव्यातेऽपि लोकेऽस्त्यहिंसका साधुरिति । यथोक्तमनुत्पादयन्तोऽपि दुःखं परस्य कामक्रोधादीनां निमित्ततां प्रतिपद्यमानाः काययोगद्वारेणैव सायुज्यन्ते । यतः सर्वाङ्गोपाङ्गसुन्दरो मुनियोषितां कामानिमुद्दीपयति कस्यचिव तदर्शनात् प्रद्वेषः। यदि च बाह्यनिमित्तमात्राद् बन्धः, ततो मृगोऽपि वधहेतुरिति स्यात्, न तस्यापि वनिमित्तत्वाद् बन्धः । तथा जैनेश्वोद्यते-नैमित्तिकं पापमनिच्छतो मायासूनवीयस्य मांसभक्षणमप्यदोष स्यात् । एवं चोदित आह-यदि त्रिविधमाशयं नोत्पादयति । तद्यथामांसरसगृद्धाशयं तत्पर्येष्टयाशयं वध्ये नैघृण्याशयं चेत्येतदप्यज्ञातपरसमयस्य फल्गु वचनम् । यतो यावदात्माधिष्ठित: कायस्तावदप्रमत्तस्य आगमानुसारेण यतमानस्य नैवास्त्येनसा योगः । यथोक्तम् "यो रक्तो द्विष्टो वा, मूढो वा यं प्रयोगमाचरति।। तस्माद्धि तदनुरूपो, बन्धस्तस्यार्हता प्रोक्तः ॥ १॥"—आर्या यदा त्वचेतनः कायोपविद्धः सत्त्वेन तदाऽत्युस्सृष्टस्त्रिविधस्त्रिविधेनेति न तज्जनितः कर्मबन्धोऽस्ति । एतेन काष्ठादीनां पुण्यपापप्रसङ्ग उक्तो वेदितव्यः। यथोक्तमार्षे-"यं हि धर्मपुण्यपापक्रियायामिच्छतः क्रुद्धस्येव पुण्यार्थिनो निग्रन्थशिरोलुश्चने पापप्रसङ्गात्" इत्यादि सर्व प्रतिहतं बोद्धव्यम् । न च दृष्टान्तः सर्वैर्विकल्पैरुपनेयः, अनुमानाभावप्रसङ्गादिति । यथोक्तम्--" मृगस्यापि वधनिमित्तकर्मबन्धः" इति। तत्राप्युक्तमेव पूर्व इति चानुक्कोप १ 'कस्याधिष' इति ग-पाठः। २ 'पर्येष्याशयं ' इति -पाठः । ३ 'चेति तदपि ' इति -पा। For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ २४८ तस्वार्थाधिगमसूत्रम् [ अध्यायः ९ लग्भोऽयम् । बन्धो हि नः प्रयोगवशात् । न च तस्य हन्यमानस्य तत्र हिंसाप्रयोगोऽस्ति । औदेशिकाद्यारम्भे चावश्यंभावी जीववधः शाक्यानाम् । यथोक्तम् " प्रतिसेवासंवासः, प्रतिश्रुतिश्चानुमोदना हीष्टाः । औद्देशिकादिनिर्वर्तने च नियमेन जीववधः ॥ १ ॥ -आया भिक्षूनुद्दिश्य हते, दोषो न तु मांसभक्षणेऽभीष्टः । शाक्यानां सर्वानुद्दिश्यारब्धमदन् भिक्षुः ॥ २ ॥" - आर्या कथमदुष्टः ? यस्मात् सङ्घोऽपि हि न भिक्षुव्यतिरेकेणान्योऽस्ति । यच्च समुद्दिश्य कृतं तद् भिक्षूद्देशेनैव कृतं तदव्यतिरेकात् । मायासूनवीयश्चोदयति " कथमेषणीयमपि भिक्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यल्लब्ध्वा, ग्रहणं नास्त्यसति दोषे ॥ १ ॥ " - आर्या जैनेन्द्रास्त्वाहुः " इत्येष विप्रलापो, न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेयं, धर्मोऽनेनेति तुष्यति तु ॥ २ ॥ - आर्या ननु देहेन समर्थेनानेन सुखं तपोऽधितिष्ठामि । इति तुष्यतोऽस्ति न यते - र्मातापितृमैथुनानुमतिः ॥ ३ ॥ " - आर्या अथ कदाचिदाशङ्कत “ औद्देशिकादिभोज्यपि, तथैव न तु तुष्यतीत्यपि न युक्तम् । आत्मार्थं हि हितानां, न यतिर्दयते स जीवानाम् ॥ ४ ॥ - आर्या हत्वाऽऽत्मार्थं सत्त्वं, समक्षमुपहृतमुदीक्ष्य तन्मांसम् । न हि गृह्णाति दयालु - गृह्णन् ननु निर्दयो भवति ॥ ५ ॥ - आर्या परमुद्दिश्यारब्ध-मपि तद् गृह्णन् कथं न विकृपः स्यात् । इत्येष विप्रलाप - स्तद्धघारब्धं स्वभावेन || ६ || आर्या गृहिणा नारम्भः, शक्यो वारयितुं सर्व एव जीवानाम् । स हि धर्मः संसरत शक्यस्त्वौदेशिकारम्भः ॥ ७ ॥" आर्या निवारयितुं यश्वोक्तमाशयत्रयविशुद्धमदतो मांसं न दोष इति ( पृ० २४७, पं० १९ ) तत्रोक्तं रसपरित्यागस्तपसि तवमिति ।। १९ ॥ 1 प्रकृतमुच्यते । किञ्च प्रकृतं तपस्तत्र बाह्यमुक्तम् । अधुनाऽऽभ्यन्तरमुच्यते । तच्चातिशमेन कर्मनिर्दहनक्षमम् । For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ सूत्रे २०-२१ ] अभ्यन्तराणि षट्र तपांसि अभ्यन्तरतपोलक्षणम् भा० - सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं १ विनयो २ वैयावृत्त्यं ३ स्वाध्यायो ४ व्युत्सर्गे ५ ध्यानं ६ इत्येतत् षड्विधं अभ्यन्तरं तपः ।। २० ।। स्वोपज्ञभाष्य–टीकालङ्कृतम् सूत्रम् - प्रायश्चित्त - विनय - वैयावृत्य-स्वाध्यायव्युत्सर्ग-ध्यानान्युत्तरम् ॥ ९-२० ॥ अभ्यन्तरतपो भेदनिर्देशः टी० - अन्तर्व्यापार भूयस्त्वा - दन्यतीर्थविशेषतः । प्रायवित्तादीनां ध्यानान्तानां द्वन्द्वः । मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारः चित्तं मलि - - नयतीति तत्प्रकाशनाय तच्छुद्धचैव प्रायश्चित्तं विहितं पापच्छेदका - प्रायश्चित्तादीनां रित्वात् प्रायश्चित्तमिति । पृषोदरादित्वाच्छन्द संस्कारः । प्रायो बाहुव्युत्पत्तिः येन चित्तविशुद्धिहेतुत्वात् प्रायश्चित्तम् । विनीयते येनाष्टप्रकारं कर्मा - पनीयते स विनयः । श्रुतोपदेशेन व्यावृत्तो व्यग्रस्तद्भावो वैयावृत्यम् । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽऽध्यायः स्वाध्यायः । विविधस्यान्नपानवस्त्र पात्रादेः संसक्तस्यातिरिक्तस्य च परित्याग उत्सर्गो व्युत्सर्गः । वाक्कायचित्तानां आगमविधानेन निरोधो ध्यानम् । उत्तरमिति पूर्वसूत्रोपन्यस्त बाह्यतपोऽपेक्षया सूत्रानुपूर्वीप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । एतदपि षट्कारमभ्यन्तरं तप इति तदेतदभ्यन्तरं तपः ॥ २० ॥ बाह्यद्रव्यानपेक्षत्वा - दान्तरं तप उच्यते ॥ १ ॥ - अनु० २४९ सूत्रम् - नव चतुर्दश पञ्च विभेदं यथाक्रमं प्राग् ध्यानात् ॥ ९-२१ ॥ भा०—तदभ्यन्तरं तपः नव चतुर्दश- पश्च द्विभेदं भवति यथाक्रमं प्राग् ध्यानात् । इत उत्तरं वक्ष्यामः ॥ २१ ॥ तद्यथा टी० – नवादीनां भेदशब्दोपसंहितानां भेदशब्देन बहुब्रीहिः, द्विपदवृत्तौ समासे समानाधिकरणे बहुलमुत्तरपदलोपविज्ञानमुष्ट्रमुख न्यायेन । नव च चत्वारथ दश च पञ्च च द्वौ च भेदाच ते नवचतुर्दशपञ्चद्विभेदाः । एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः । यथाक्रममिति यथासङ्ख्यम् । प्राग् ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति । इतःअस्मात् सूत्रादुत्तरं यद् वक्ष्यामः प्रायश्चित्तादित्थं भेदमवसेयमिति ॥ २१ ॥ १' उत्सर्गः - परित्यागः ' इति प्रतिभाति । ३२ For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ २५० तत्त्वार्थाधिगममूत्रम् [अध्यायः ९ तद्यथेत्यनेन सूत्रं सम्बध्नाति । अभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसङ्ख्यस्य तद्भेदानामाख्याविशेषप्रेक्लयर्थमिदमुच्यतेऽत्र सूत्रम्-आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्गप्रायश्चित्तस्य नव भेदाः तप-श्छेद-परिहारो-पेस्थापनानि ॥ ९-२२ ॥ भा०–प्रायश्चित्तं नवभेदम् । तद्यथा-आलोचनं, प्रतिक्रमणं, आलोचनप्रतिक्रमणे, विवेकः, व्युत्सर्गः, तपः, छेदः, परिहारः, उपस्थापनमिति ॥ टी-आलोचनादय उपस्थापनान्ताः कृतद्वन्द्वा नपुंसकलिङ्गेन निर्दिष्टाः । प्रायचित्तं नवभेदमित्यादि विवरणम् । औपसङ्ख्यानिकः सुट् । तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति । तदुभयमित्येतद् व्याचष्टे-आलोचन-प्रतिक्रमणे इति । तदित्यनेनालोचनं प्रतिक्रमणं च सङ्ग्रहीतम् । एष च तृतीयो भेदः । आलोचनादीन् भाष्यकार एव क्रमेण विवृणोति । अनया मयोदया दोषरहितः कायोकायोव्युत्पन्नवाल जल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोति प्रकाशयत्यालोचनाहोय गुरवे । तत्र कश्चिदतीचारः प्रकाशमात्रेणैवापोह्यते, यथाश्रुतोपदिष्टव्यापारानुष्ठायी मोक्षाय प्रयतमानोऽवश्यकरणीयेषु प्रत्युपेक्षणप्रमार्जनवैयावृत्यस्वाध्यायतपश्चरणाहाराघुच्चारविहारावनिचैत्ययतिवन्दनादिषु कार्येषु अत्यन्तोपयुक्तो निःसपत्नः प्रवतेते व्यस्तस्थूलातिचारः सूक्ष्मास्रवप्रमादक्रियाविशुद्धयर्थमालोचनमात्रादेव विशुध्यति । तस्यालोचनस्यैकार्थाः पर्यायाः भा०-आलोचनं विवरणं प्रकाशनमाख्यान प्रादुष्करणपर्यायाः मित्यनान्तरम् ॥ टी.-आलोचनं मर्यादनं मर्यादया गुरोनिवेदनम् । पिण्डिताख्यानस्य विवरण द्रव्यादिभेदेन । प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणम् । आख्यानं प्रथम मृदुना चेतसा । प्रादुष्करणं निन्दा-गर्दाद्वारेण । इति-एवमनन्तरम्-एकार्थत्वं परमार्थत इति ॥ प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकार: भा०-प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च ॥ टी-अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणम्-अपसरणं प्रतिक्रमणम् । एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः । दुष्टं कृतं दुष्कृतं चरणविराधनमित्यर्थः । तेन सम्प्र भालोचनस्य १ 'प्रकृत्यर्थ ' इति ड-च-पाटः। २ 'स्थानानि ' इति च-पाठः। ३ स्थानमिति' इति ग-पाठः । 'मिष्पन्नः' इति च-पाठः। ५ 'प्रकटनं' इति घ-पाठः । For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ पर्यायाः सूत्र २२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २५१ युक्तः प्रत्यवमर्शः-पश्चात्तापः उत्सूत्रमिदं मया दुष्टं कृतमिति स्वच्छन्दतो न सूत्रानुसारेणेति समुपजातविप्रतिसारः प्रतीपमपसर्पति प्रत्याख्याति-न पुनरेवं करिष्यामीति प्रत्याख्यानं प्रतिक्रमणं, कायोत्सर्गकरणं चेति । कायस्य-शरीरस्य उत्सर्गः-उज्झन भावतः कायोत्सर्गः। यस्मात् सुविशुद्धभावस्यापि ममायं कायो बलानिपतितः कायेष्विति न मे भावदोष इति। तदेतदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य गुप्तिसमितिप्रमादिनो गुरूनासादयतो विनयहानिमाचरत इच्छाकारादिसामाचारीमप्रयुञ्जानस्य लघुकमृषादत्तमूर्छावतो विधिशून्यकासजृम्भितक्षुतवातमोक्षणकन्दर्पहासविकथादिमतो विहितं तदुभयप्रायश्चित्तनिरूपणायाह-- ___ भा०-एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचन विशोविवेकस्य धनं प्रत्युपेक्षणमित्यनर्थान्तरम् । स एष संसक्तानपानोपधि शय्यादिषु भवति ॥ टी०-एतदुभयमालोचनप्रतिक्रमणे इति । आलोचनं व्याख्यातं प्रतिक्रमणं च । एतदेवोभयं प्रायश्चित्तं प्रागालोचनं पश्चाद् गुरुसन्दिष्टस्य प्रतिक्रमणम् । एतचोभयं प्रायश्चित्तं सम्भ्रमभयातुरापत्सहसाऽनाभोगानात्मवशगतस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् । सम्प्रति विवेकप्रायश्चित्तावसरः-विवेको विवेचनमित्यादि । विवेकः-त्यागपरिणामः । विवेचनं-मावविशुद्धिः । विशोधन-निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव वा प्रयत्नेन स्वल्पोऽप्यवयवो नास्तीति । विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति । विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवतीति । उपयुक्तेन गीतार्थेन गृहीतं प्राक पश्चादवगतमशुद्धं विवेकाहेम् । अन्नपानग्रहणात् पिण्डपरिग्रहः। उपधिरौधिकौपग्रहिकलक्षणः। शय्या-प्रतिश्रयः । आदिग्रहणाद् डगलकभस्ममल्ल(क)भेषजादिपरिग्रह इत्येवं विवेक एव प्रायश्चित्तमिति ॥ सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते भा०-व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यव्युत्सर्गस्य पर्यायः नेषणीयानोपकरणादिषु अशङ्कनीयविवेकेषु च भवति ॥ टी०--व्युत्सर्ग इत्यादि। विशिष्ट उत्सर्गो व्युत्सर्गः-प्रणिधानपूर्वको निरोधः । कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनान्तरम् । प्रतिष्ठापनशब्दः परित्यागार्थः । कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपि कायोत्सर्गः प्रायश्चित्तं भवति । क? अनेषणीयादिषु-त्यक्तेषु । तत्रानेषणीयमुद्गमाद्यविशुद्धमन्नपानमुफ्करणं वा प्रतिष्ठाप्य १'कायव्यापारस्य' इति क-पाठः । For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ २५२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ कायोत्सर्गः कार्यः । आदिग्रहणाद गमनागमनविहारश्रुतसावद्यस्वप्नदर्शननौसन्तरणोचारप्रस्रवणावरणपरिग्रहः । अशकनीयविवेकेषु चेति । धनसंसक्तसक्तुदधितकादिषु न प्राणिनो विवेक्तुं शक्यन्त इत्यशङ्कनीयविवेकेषु च सक्तुप्रभृतिषु प्रतिष्ठापितेषु कायोत्सर्गत एव तपः प्रायश्चित्तं भवतीति । तपःप्रायश्चित्तविवक्षया त्वाहभा०–तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि । टी-तपो याह्यमनशनादि । प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि तु बाह्यम् । बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः । तत्रानशनग्रहणाचतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च । तच्च मध्यमग्रहणं मध्यमग्रहणाचायभेदपरिग्रहोऽपि । तत्राद्या: पञ्चक दशक-विंशति-पञ्चविंशतिभेदा लघवो गुरवश्च । मासोऽपि च लघुर्गुरुः । चत्वारश्च मासा लघवो गुरवश्व। षट् च मासा लघुगुरवः मध्यं च । भिन्नमासो लघुगुरुभेदः। सर्वमेतत् तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्धयर्थम् । सम्प्रति पञ्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति । तच्च निर्विकृत्याद्यष्टमभक्तान्तम् । तच्चानेकातिचारविषयम् । यथा उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु प्रमादिनः कालविनेयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढयोगे, आगाढे तु पुरस्तादर्धेचतुर्थभक्तान्तम् । एवमादि प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बाह्ये तपसि प्राक प्रपश्चनेति ॥ __ छेदप्रायश्चित्ताभिधित्सयोवाच भा०-छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसछेदस्य पर्यायाः पक्ष-मास-संवत्सराणामन्यतमेषां भवति ॥ टी-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः पर्यायाः । स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते । एतदेवाह-प्रव्रज्येत्यादि । प्रव्रज्यादिवस-पक्ष-माससंवत्सराणामन्यतमेषां भवति । प्रवज्यादिवसो यत्र महाव्रतारोपणं कृतं तदादिः पर्यायः । तत्र पञ्चकादिच्छेदपर्यायस्य यथा यस्य तावद् दश वर्षाण्यारोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिच्च दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुगुरुवा, एवंविधेन छेदेन छिद्यमानः प्रव्रज्यादिवसमप्यपहरतीति । अस्य च विषयस्तपसा गर्वितः तपसोऽसमर्थस्तपश्चाश्रद्दधानः तपसा च यो न दाम्यत्यतिपरिणामकश्चत्यादि ॥ सम्प्रति मूलप्रायश्चित्तमभिधीयते ... भा०-परिहारो मासिकादिः । उपस्थानं पुनर्दीक्षणं पुनउपस्थापनस्य पयोयाः श्चरण पुनर्वतारोपणमित्यनान्तरम् ।। १'श्रुतानेषु' इति ङ-पाठः। २ “विनयता' इति ङ-पाठः। ३ दिवसादिपक्ष.' इति ग-पाठः । For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ सूत्र २२] स्वोपज्ञभाष्यटीकालङ्कृतम् २५३ री०-परिहारो मासिकादिरिति । इदं मूलप्रायश्चित्तोपलक्षणम् । परिहियते अस्मिन् सति वन्दनालापानपानप्रदानादिक्रियया साधुभिरिति परिहारः। स च मासादिकः षण्मासान्तः । तस्य चान्ते कचिन्मूलं पुनर्वतारोपणं तद्विषयः सङ्कल्पात् कृतः प्राणातिपातो .... दर्पाचतुर्थासेवनमुत्कृष्टं मृषावादादि वा सेवमानस्येत्येवमादिः । अनवअनवस्थाप्यपार- चिकयोरन्तर्भावः । पर स्थाप्यपारश्चिकप्रतिपादनार्थमाह-उपस्थापनं पुनीक्षणमित्यादि । नियालामाह - अनवस्थाप्यपारश्चिकप्रायश्चित्ते लिङ्गक्षेत्रकालतपःसाधादेकस्थीकृत्योक्ते वत्र यथोक्तं तपो यौवन कृतं तावन्न व्रतेषु लिने वा स्थाप्यते इत्यनवस्थाप्य तेनैव तपसातिचारपारमश्चतीति पारश्चिकः । पृषोदरादिपाठाच संस्कारः शब्दस्य । तयोः पर्यन्ते तेषुपस्थापन-व्यवस्थानं पुनःक्षणं-पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं-चारित्रं पुनव्रतारोपणमित्यनान्तरम् । तत्रानवस्थाप्यविषयः साधर्मिकान्यधार्मिकास्तेयहस्तताउनादिः दुष्टमूढान्योन्यकरणादिः पारश्चिकस्येति ॥ भा०–तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुध्यर्थं यथाऽहं दीयते चाचर्यते च ॥ टी-तदेतन्नवविधं प्रायश्चित्तमित्यादि । तदेतदित्यालोचनादेः परामर्शः । नवविधमिति स्व:तसूत्रसनिवेशमाश्रित्योक्तम् । आर्षे तु दशधा विशप्रायश्चित्तप्रकाराणां सङ्ख्या ! " तिधा वाभिहितं प्रायश्चित्तं वक्ष्यमाणनिर्वचनम् । देशो निर्गुणः किले " क्षेत्रम् । कालः स्निग्धो रूक्षः साधारणश्च । शक्तिः प्रायश्चित्तकारिणो वीर्य-सामर्थ्यम् । संहननं वज्रर्षभनाराचादि । संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापः तस्य विराधना-खण्डनमतिचरणम् । चशब्दः समुच्चयाथैः । तां विराधनां विशिनष्टि-कायेन्द्रियेत्यादि । कायाः पृथिव्यादयः षट्सङ्खथाः। तत्रावनि-जल-ज्वलन-पवन-प्रत्येकवनस्पतिषु सङ्घट्टन-परितापना-ऽवद्रावणविषयमन्यादृशं प्रायश्चित्तमन्यादृक् साधारणवनस्पतावन्यादृशं च द्वि-त्रि-चतु:-पञ्चेन्द्रियकायेषु इत्थमुपयुज्य यथावद् देयम् । एवं कालादयोऽपि पर्यालोचनीयास्तदनुरूपं च देयमिति । तथा एक-द्वि-त्रिचतु:-पञ्चेन्द्रियप्राणिप्रत्युपेक्षणेन च विभजनीयं प्रायश्चित्तम् । अथवा एक-द्वि-त्रि-चतु:पञ्चेन्द्रियजातिद्वारेण गुणा राग-द्वेष-मोहाः तेषामुत्कर्षा-ऽपकर्ष-मध्यावस्थाः समीक्ष्य मृगराज-गवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्य अतिचारविशोधनार्थ यथाऽहमपराधानुरूपं दीयते चाचर्यते च प्रायश्चित्त मिति ॥ --------------- ----- ------------- - ----- -- ----- ------------ १'मूलं व्रता' इति उ-पाठः। २ 'यावत्कृतं ' इति उ-पाठः। ३ 'लिङ्गे वा स्थाप्यः' इति रु-पाठः । 'कृत-स्तत्र' इति उ-पाठः। ५ 'खिलक्षेत्रं ' इति छ-च-पाठः । For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयति भां० - 'चिंती सज्ञानविशुद्धयोः ' धातुः । तस्य चित्तमिति भवति निष्ठान्त मौणादिकं च ॥ एवमेभिरालोचनादिभिः कृच्छ्रस्तपोप्रायश्चित्तशब्दस्य विशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न व्युत्पादनम् पुनराचरतीति । अंतः प्रायश्चित्तमपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥ २२ ॥ २५४ टी० - चिती सज्ञानविशुद्धयोर्धातुरित्यादि । भीमसेनात् परवोऽन्यैर्वैयाकरणैरर्थद्वये पठित धातुः सञ्ज्ञाने विशुद्धौ च । इह विशुद्धयर्थस्य सह सज्ञानेन ग्रहणम् । अथवा 'sनेकार्था धातव' इति सञ्ज्ञाने पठितो विशुद्धावपि वर्तते । भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता तस्य चित्तमिति रूपं भवति निष्ठान्त मौणादिकं च चेततीति चित्तं विशुद्धयतीत्यर्थः । भावविशुद्धिमुपजायमानां सञ्जानीते चेतति - प्रणिदधानइति । 'अजृष्टसिभ्यः क्तः ' ( उणादिसूत्रे ३७७ ) तस्य च निष्ठासञ्ज्ञा । औणादिकं चैतच्छब्दरूपं चित्तमिति नान्यलक्षणमन्वेष्यम् ' उणादयो बहुलं ' ( पा० अ० ३, पा० ३, सू० १ ) इति चितेरपि क्तः कर्तरि । केन पुनः प्रकारेण विशुद्धिरित्याहएवमेभिरित्यादि । उक्तलक्षणैरालोचनादिभिः पारश्चिकावसानैः कृच्छ्रः- दुष्करैस्तपोविशेषैर्जनिताप्रमादः कृताप्रमादः, अप्रमत्त इत्यर्थः । तं च मूलोत्तरविषयं व्यतिक्रममतिचारमुपयुक्तः प्रायो - बाहुल्येन चेतयति । प्रायोग्रहणमत्यन्तसूक्ष्माति चारव्युदासार्थम् । चेतश्च - सञ्जानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते । प्रायः शब्देन वाऽपराधोऽभिधीयते । तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्धयस्यपीति । अतश्च - अस्माच्च हेतोः प्रायश्चित्तमिति ॥ २२ ॥ उक्तं प्रायश्चित्तम् । अधुना विनयोऽभिधीयते । तत्प्रतिपादनायाह [ अध्यायः ९ विनयस्य चातु- सूत्रम् — ज्ञानदर्शनचारित्रोपचाराः ॥ ९-२३ ॥ विध्यम् भा० - विनयश्चतुर्भेदः । तद्यथा - ज्ञानविनयः, दर्शन विनयः, चारित्रविनयः, उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः । टी० - ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । एतद्विवरणायाह – विनयतुर्भेद इति । विनय निर्वचनमुपरि व्याख्यास्यते तांश्चतुर्धा भेदान्नामग्रहमाचष्टे । तथथाशब्दस्तदुपन्यासार्थः । ज्ञानविनय इत्यादि । तत्र - तेषु चतुर्षु भेदेषु ज्ञानविनयस्तावत् पश्च१' चिती सज्ञाने ' इति पाणिनीये ( धा० ३९ ) । २ ' महणमा' इति ङ-पाठः । For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ एकवि सूत्रं २३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् विधो मतिज्ञानादिः। आदिग्रहणात् श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानपज्ञानविनयस्य रिग्रहः । अस्मिन् सति ज्ञानादिपञ्चके भक्तिर्बहुमानो ज्ञानस्वरूपपञ्चविधत्वम् श्रद्धानं तद्विषयं श्रद्धानं च ज्ञानविनयः । श्रुते च विशेषः-"काले विणए बहुमाणे उवहाणे" इत्यादि ॥ दर्शनधिनयस्य भा०-दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । टी०-दर्शनविनयस्त्वेकविध एव । "तत्वार्थश्रद्धानं सम्यग्दर्शनम्" (अ०१,सू०२) इत्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः। तथाईत्प्रणीतस्य च धर्मस्याचार्योंपाध्याय-स्थविर कुल-गण-सङ्घ-साधु-संभोगा(मनोज्ञा १)नां चानासादनाप्रशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनय इति ॥ भा०-चारित्रविनयः पञ्चविधः। सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः टी०-सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानपूर्वकं चानुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः। औपचारिकेत्यादि । उपचरणं उपचारः-श्रद्धानपर्वकः क्रियाविशेषलक्षणो व्यवहारः, स प्रयोजनमस्येत्यौपचारिकः । स चानेकप्रकारः। तस्य विषयनिर्देशार्थमाह भा०-सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु अभ्युत्थानासनप्रदानवन्दनानुगमनादिः । विनीयते तेन तस्मिन् वा विनयः ॥२३॥ टी०–सम्पग्दर्शनेत्यादि । सम्यक्त्वज्ञानचरणानि गुणास्तैरभ्यधिका ये मुनयः । आदिग्रहणाद् दशविधसामाचारीसम्पत्परिग्रहः तेषु । अभ्युत्थानासनप्रदानेत्यादि । अभिमुखमागच्छति गुणाधिके उत्थानमासनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानम तदनन्तरमासनप्रदान ततो वन्दनप्रतिपत्तिः। गच्छतः कतिचित् पदान्यनुगमनमनुव्रजनम् । आदिग्रहणान्मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोञ्जलिप्रग्रहः, वस्त्रादिपूजासत्कारः। सद्भूतगुणोत्कीर्तनं सन्मानः । विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते-क्षिप्यतेऽनेनाष्टप्रकार कर्मेति विनयः। पचायचि करणसाधनम् । विनीयते चास्मिन् सति ज्ञानावरणादिरजोराशिरिति विनयः । अधिकरणसाधने च ॥ २३ ॥ १ सम्पूर्णा गाथा तच्छाया चैवम् “काले विणए बहुमाणे उबहाणे तह अनिन्हवणे । बंजण अत्थ तदुभए अविहो नाणमायारो॥" [काले विनये बहुमाने उपधाने तथा अनिलवने । व्यजनेऽर्थे तदुभये अष्टविधो ज्ञाने आचारः ॥] For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ २५६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ सम्प्रति वैयावृत्त्यमुच्यतेवैयावृत्त्यस्य सूत्रम्-आचार्यो-पाध्याय-तपस्वि-शैक्षक ग्लान-गणदशविधता " कुल-सङ्घ-साधु-समनोज्ञानाम् ॥९-२४ ॥ टी-आचार्यादीनां समनोज्ञान्तानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः ॥ भा०-वैयावृत्त्यं दशविधम् । तद्यथा-आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शिक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, गणवैयावृत्त्यं, कुलवै. यावृत्त्यं, सङ्घवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यं, इति व्यावृत्तभावो वैयावृत्त्यमिति व्यावृत्तकर्म वो॥ टी-वैयावृत्त्यं दशविधमित्यादि । आचार्यादिभेदाद दशधा । तान् दश प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना । वैयावृत्त्यशब्दव्युत्पादनायाह-व्यावतेत्यादि । व्यावृत्तो-व्यापारप्रवृत्तः, प्रवचनचोदितक्रियाविशेषानुष्ठानपरः, तस्य यो भावःतथाभवनं तथापरिणामस्तद्वैयावृत्त्यम् । व्यावृत्तकर्म वेति । तथाभूतस्य यत् कर्म क्रियते तद् वैयावृत्त्यम् । पूर्वत्र क्रियाक्रियावतोः प्राधान्यमुत्तरत्र क्रियाया इति । तच वैयावृत्त्यं यथासम्भव क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामन्त्रप्रयोगसाध्यादिः। आचार्यााद्देशेनाचार्यादीनां यत् कर्तव्यं तत्र व्यग्रता ॥ भा०-तत्राचार्यः पूर्वोक्तः (अ० ९, सू० ६) पञ्चविधः । आचारगोचरयायशास्य विनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः, अर्थः सङ्ग्रहोपग्रहानुग्रहार्थ चोपाधीयते सङ्ग्रहादीन् वाऽस्योपाध्येतीत्युपाध्यायः । विसङ्ग्रहो निर्ग्रन्थः आचार्यो-पाध्यायसंग्रहः । त्रिसङ्ग्रहा निग्रन्था आचार्यो-पाध्याय-प्रवर्तिनीसङ्ग्रहाः ॥ टी-आचार्यः पूर्वोक्तः पञ्चविध इत्यादि । आचरत्याचरयति वेत्याचार्यः । 'कृत्यल्युटो बहुले' (पा० अ० ३, पा०३, सू० ११३) वचनात् । पूर्वोक्त इति ('उत्तमः) क्षमामादेवा'दिसूत्रे (पृ० १८९) पश्चप्रकार:प्रव्राजकः १ दिगाचायः २ श्रुतोद्देष्टा ३ श्रुतसमुद्देष्टा ४ आम्नायवाचक ५श्चेति । आचारोज्ञानादिभेदः पञ्चधा । तस्य गोचरो-विषयो यथास्वं तद्विषयो विनयस्तमाचारगोचरविनयं स्वाध्यायं पञ्चप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनुपश्चात् तस्मादुपाधीयत इत्युपाध्यायः अपादानसाधनो घञ् । सङ्ग्रहोपग्रहानुग्रहार्थं चेति । वस्त्रपात्रप्रदानात् सङ्ग्रहः । अन्नपानभेषजप्रदानाद् उपग्रहः । एतदर्थ चोपाधीयते-सेव्यत 'च' इति घ-पाठः। २ 'तरक्रियाया' इति ङ-पाठः । For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ सूत्रं २४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २५७ इत्युपाध्यायः पृषोदरादित्वात् । सङ्ग्रहादीन् वाऽस्योपाध्येतीति संग्रहोपग्रहानुग्रहान् - वाऽस्य सम्बन्धिनस्तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीति उपाध्यायः द्विसङ्ग्रहो निर्ग्रन्थ इति । सङ्गृह्यतेऽनेनेति सङ्ग्रहः । द्वाभ्यां सङ्गृह्यते इत्यर्थः ॥ का पुनरियं प्रवर्तनीत्याह- भा० - प्रवर्तनी दिगाचार्येण व्याख्याता । हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तनी ॥ Q टी० - प्रवर्तनी दिगाचार्येण व्याख्यातेति । दिगाचार्यो दिशामनुजानाति । सचित्ताचित्तमिश्रप्रदायीत्यर्थः । तेन व्याख्याता तत्सदृशी द्रष्टव्या श्रुतसकलनिशीथाध्ययनासमुचितकल्पव्यवहारस्तत्र ग्राहिणी संविना प्राप्तदिगनुज्ञा चात्महिताय प्रवर्तते निःश्रेयसायैव घटते । अन्याश्च प्रवर्तयति साध्वीः स्मारणावधारणवारणादिप्रयोगेणेति प्रवर्तनी ॥ भा० - विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः, शिक्षामर्हतीति शैक्षो वा । ग्लानः प्रतीतः । गणः स्थविरसन्ततिसंस्थितिः । कुलं एकांचार्य सन्तति संस्थितिः । सङ्घश्चतुर्विधः श्रमणादिः । साधवः- संयताः । सम्भोगयुक्ताः समनोज्ञाः ॥ टी० - विकृष्टेत्यादि । विकृष्टं - दशमादि किञ्चिन्न्यूनपण्मासान्तं उग्रं - भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तेन युक्तस्तपस्वीति । अचिरप्रव्रजित इत्यादि । आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोs - चिरप्रव्रजितः । अनारोपितविविक्तत्रतो वा ग्रहणासेवनशिक्षामुभयीं शिक्षयितव्यः शिक्षः । शिक्षामर्हतीति । वा शिक्षाशीलो वा शैक्षः । छत्रादित्वाण्णप्रत्ययः । ग्लानो मन्दो - पटुर्व्याध्यमिभूतः । प्रतीतः- सुज्ञात एवेत्यर्थः । कुलानि स्थानीयादीनि । कुलं समुदायः । गणः- स्थविरसन्ततिसंस्थितिः । स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः - परम्परा तस्याः संस्थानं - वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसन्ततिसंस्थितिः एकाचार्यप्रणेयसाधुसमूहो गच्छः । बहूनां गच्छानां गच्छ-कुलयोरर्थः एकजातीयानां समूहः कुलम् । तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं तेषां प्राधान्यम् । सङ्घश्चतुर्विधः - साधु-साध्वी श्रावक-श्राविकाः । तत्र ये ब्यवस्थिताः ज्ञान-दर्शन-चरणगुणास्ते परमार्थतः सङ्घः श्रमणादिद्रिति । 'पुरुषोत्तरो धर्म : ' इति ज्ञापनार्थमुक्तम् । साधवः संयता इति । ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः साध n १' अविरते प्रत्रजित' इति घ-पाठः । २ ' आचार्य०' इति घ-पाठः । ३ ' गुणो यस्तत्' इति ङ-पाठ । " धम्मो पुरिसप्पभवो पुरिसवर देसिओ पुरिसजिहो । लोए वि पहू पुरिसो किं पुण लोगुत्तमे धम्मे ! ॥ इत्युलेख उपदेशमालायां ( गा० १६ ) । ५ ' लक्ष्याभिः ' इति ग-पाठः । ३३ For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ २५८ तत्वार्थाधिगमसूत्रम् [अध्यायः १ यन्तीति साधवो मोक्षम् , संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगमाजः समनोशानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्मोगकारणानि संविशेष्वपि विद्यन्ते ॥ भाग--एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनैरुपप्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥ टी.-एषामित्यादि । आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन । अन्नपानादयः प्रसिद्धाः तैरुपग्रहः-उपकारः । शुश्रूषा-विश्रामणादिका। भेषजक्रिया-मान्ये सति तदनुरूपभैषजसम्पादनम् । कान्तारम्-अरण्यम् । श्वापदबहुलत्वाद् विषमदुर्ग-गर्ताकूपकण्टकादिप्रचितम् । उपसगों-ज्वराऽ-तीसार-कास-श्वास-मरकादिः। अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादिभिः) यत् तद् वैयावृत्त्यमिति ॥२४॥ सम्प्रति स्वाध्यायोऽभिधीयतेस्वाध्यायस्य सूत्रम्-वाचना-प्रच्छना-ऽनुप्रेक्षा-ऽनायपञ्चविधत्वम् धर्मोपदेशाः ॥९-२५ ॥ भा०-स्वाध्यायः पञ्चविधः। तद्यथा-वाचना, प्रच्छनं, अनुप्रेक्षा, आ नायः, धर्मोपदेश इति। तत्र वाचनं शिष्याध्यापनम् । प्रच्छन धर्मोपदेशस्य ग्रन्थार्थयोः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः। आपर्यायाः " मायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥२५॥ टी०–स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति । तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकमदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोमनसाऽभ्यासोऽनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं-सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवणेन मनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥ २५ ॥ १ 'म्नाया ' इति ग-पाठः । २ 'प्रन्थः सूत्राभि.' इति ग-ङ-पाठः । ३ हपदाम• ' इति क-पाठ। For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य–टीकालङ्कृतम् सूत्रम् – बाह्या - ऽभ्यन्तरोपध्योः ।। ९-२६ ॥ भा० - व्युत्सर्गो द्विविधः - बाह्योऽभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । अभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६ ॥ टी० - व्युत्सर्गो विविध इत्यादि । विविधस्योत्सर्गो व्युत्सर्गः । संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सर्गः । स द्विप्रकारः बाह्याभ्यन्तरभेदात् । तत्र तयोर्बाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः । उपग्राहकत्वादुपकारत्वादुपधिः । अभ्यन्तरः शरीरस्य कषायाणां वेति । शरीरस्य पर्यन्तकाले विज्ञायाकिञ्चित्करत्वं शरीरकं परित्यजति उज्झति । यथोक्तम् (भग० श० २, उ० १ सू० ९५ ) - " जं पि य इमं सरीरं इर्ड कंर्त " इत्यादि । क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सर्गः - परित्यागो मनो - वाक्- कायैः कृतकारिता - Sनुमतिभिश्चेति ॥ २६ ॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तन्निरूपणायाहसूत्रम् — उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ ९–२७ ॥ ध्यानस्य लक्षणम् भा० – उत्तम संहननं वज्रर्षर्भनाराचं वज्रनाराचं नाराचं अर्धनाराचं च । तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥ टी० -- उत्तमं प्रकृष्टं संहननम् - अस्थां बन्धविशेषः । उत्तमं संहननमस्येत्युत्तमसंहननं, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् । वज्रं - कीलिका, ऋषभः - पट्टः, नाराचो - मर्कटबन्धः । प्रथमं त्रिर्तययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वर्षभौ न स्तः । ततो वज्रर्षभं अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः । उत्तम संहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योतमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् । अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाग्रं, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रप्रचारो निरोधः । अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् । केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः । नह्यवाप्तकेवलस्य १ छाया सूत्रे २६-२७ ] अधुना व्युत्सर्गे व्याख्यायते---- यदपि च इदं शरीरमिष्टं कान्तम् । २ ' भमर्धवज्रनाराचं च' इति घ-पाठः । ३ 'नाराचं कीलका' इति ग-पाठः । ४ 'त्रिनयन' इति च पाठः । ५ ' मन्यत्राथवा निरोधः' इति चन्पाठः । २५९ For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ २६० तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति । तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य । एकाग्रचिन्तानिरोधः। चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् । अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिानमिति भावसाधनः । कालतो मुहूर्तमात्रं चतुःप्रकारमार्तादिभेदेन । ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमार्त, उत्सनबद्धादिलक्षणं रौद्रं, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्य, अबाधाऽसम्मोहादिलक्षणं शुक्लम् । फलं पुनस्तियङ्-नरक देवगत्यादिमोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया ॥२७॥ सम्प्रति ध्यानकालप्रमाणनिरूपणायाहध्यानस्य कालमानम् सूत्रम्-आ मुहूर्तात् ॥ ९-२८॥ भा०–तयानमा मुहूर्तात् भवति परतो न भवति दुर्ध्यानत्वात् ॥ २८ ॥ टी०-आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः। अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः। तद्धथानमित्यादि । तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामहर्तात भवति, परतो न भवत्यशक्तेरेव । यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते। उक्तं च "नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् । नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥"-आर्या किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुर्ध्यानत्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापनं दुनिमिति । अथवा ___ व्यद्धौ दुःशब्दः । ऋद्धिवियुक्ता यवना दुर्यवनं दुष्क(ष्टं) बीजमिति । एवं दुःशब्दस्य अथाः ध्यानलक्षणविनिर्मुक्तं दुनिं । अनीप्सायां वा दुःशब्दः। अनीप्सितोऽस्या भग इति दुर्भगा कन्या । एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्माद् दुर्थ्यानत्वान परतो ध्यानमस्ति ॥२८॥ ____सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाहध्यानस्य चतुर्विधता सूत्रम्-आर्त-रौद्र-धर्म्य-शुक्लानि ॥९-२९॥ भा०–तचतुर्विधं भवति-तद्यथा आत, रौद्र, धर्म्य, शुक्लमिति ॥ २९ ॥ तेषाम् १'प्यानमिति' इति ग-पाठः। २'धर्म' इति घ-पाठः। ३ 'धर्म' इति घ-पाठः । For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ व्युत्पत्तिः सूत्र ३०] स्वोपज्ञभाष्य-टीकालङ्कृतम् २६१ टरी०–कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तचतुर्विधं भवतीत्यादि। तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति-चतुर्धा भिद्यते । चतस्रो विधा यस्य तच्चतुर्विधम् । 'विधाप्रदर्शनायाह-तद्यथेति । आर्त, रौद्रं, धा, शुक्लमिति । तत्रातस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्यायवाच्याश्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो . निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आर्त दुःखभवं आर्तादीनां - दुःखानुबन्धि चेति । तथाचामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्र " शिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं-शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयतिग्लपयति निरस्पति शुक्लं इत्येतावदेव ध्यानं चतुर्विधमिति ॥ २९ ॥ तेषामित्यनेन सूत्र सम्बनाति सूत्रम्-परे मोक्षहेतू ॥ ९-३०॥ भा० तेषां चतुर्णी ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतु भवतः। पूर्वे स्वार्तरौद्रे संसारहेतू इति ॥३०॥ टी०-तेषां चतुर्णामित्यादि । यानि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णोध्यानानांसूत्रसनिवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतु-मुक्तेः कारणतां प्रतिपद्यते। तत्रापि साक्षात् मुक्तेः कारणीभवतः। पाश्चात्यौ शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धHध्यानादि देवगतेमुक्तेश्च कारणं, न मुक्तरेव । अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्रे संसारहेतु इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारच नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः । तदनुगत चातरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अतः संसारपरिभ्रमणहेतुता तयोरिति ॥३०॥ भा०-अत्राह-किमेषां लक्षणमिति । अत्रोच्यते-- टी-सम्प्रति ध्येयप्रकाराः विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते--अत्राहेत्यादि। सम्बन्धो लक्ष्यते येन तल्लक्षणं विलापशोकादि । अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी ॥ १ 'तत्प्रदर्शनाय"इति पाठः। 'विधानप्र.' इति च पाठः। For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ २६२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः मार्तस्य प्रथमो. सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ ९-३१॥ मा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ पः स्मृतिसमम्वाहारो भवति तदातध्यानमित्याचक्षते ॥३१॥ किश्चान्यत् टी-आर्तमनोज्ञानां इत्यादि । आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः। .. अर्तिर्धातुर्दुःखार्थः । तस्यार्तिरिति रूपम् । अर्तिश्च-दुःखं शारीरं मानसं भातशब्दस्य - चानेकप्रकारं तस्यां भवमात ध्यानम् । अमनोज्ञा-अनिष्टाः शब्दादयः निष्पत्तिः - तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेने विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तदिप्रयोगायेति । तदित्यमनोज्ञविषयाभिसम्बन्धः । तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमसादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति । सर्यतेऽनेनेति स्मृतिमनोभिधीयते । स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समबाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ॥ ३१ ॥ किश्चान्यदिति सम्बनाति। प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहमार्तस्य द्वितीयो विकल्प यो सूत्रम्-वेदनायाश्च ॥ ९-३२॥ टी-वेदनं-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदमिसम्बभन् भाष्यकृदाह भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तबिप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२॥ किश्चान्यत्____टी-वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी घेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तदिप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । किश्चान्यदित्यार्तप्रकारान्तरं दर्शयति १ 'स्वेन' इति छ पाठः। For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ सूत्र ३३-३४ ] स्वोपज्ञभाग्य-टीकालङ्कृतम् २६३ भातस्य तृतीय- सूत्रम्-विपरीतमनोज्ञानाम् ॥९-३३॥ . विकल्प भा०-मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आतम् ॥ ३३ ॥ किश्चान्यत् ___टी-मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः तेषां विपरीत संयोजन कार्यम् । मनोज्ञानामित्यादि । मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतप्रधानामिसम्बन्धो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थः तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति । एवं प्रणिधसे दृढं मनस्तदप्यार्तमिति ॥३३॥ किश्चान्यदिति तुरीयमार्तप्रकारं दर्शयतिआर्तस्य चतुर्थो सूत्रम-निदानं च ॥९-३४॥ विकल्पः सूत्र निदान च ॥ टी.-निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते-लूयते लुप्यते येनात्महितमैनिदानशनस्य कान्तिकात्यन्तिकानाबाधसुखलक्षणं तनिदानमिति । शब्दः समुच्चये। सिद्धिः। एष चार्तप्रकार इत्यर्थः।। भा०-कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यान भवति ॥३४॥ टी-कामोपहतचित्तानामित्यादि । काम-इच्छाविशेषः शब्दाधुपयोगविषयः । अथवा मदनः-कामः चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया खल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बहविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपममवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यनिदानं तदार्तध्यानं निदानरूपम् । एष एवार्थों विभक्त्यन्तरेण प्रतिपादितः। कामोपहत. चित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तव्यानं भवतीति । तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्याप्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हु मानस्योरस्ताड परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यास्यास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ॥ ३४॥ इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तदर्थमाह 'मवगम्य' इति च पाठः। २ 'पर्यस्तप्रम्लान' इति ग-पाठः, 'पर्यन्तप्रलान.' -पाठः । ३ 'मारस्ताडन' इति उ-पाठः । For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ २६४ आर्तध्यानस्य स्वामिनः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तदविरतदेशविरतप्रमत्तसंयतानाम् । ९ - ३५॥ सूत्रम् — भा० - तदेतदातध्यानं अविरतदेशविरतप्रमत्तसंयतानामेव भवतीति ।। ३५ ।। डी० - तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्ट्यादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य त्रयः स्वामिनचतुर्थ पञ्चमषष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः । अविरतश्वासौ सम्यग्दृष्टिश्वेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरैणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टिः । आह च — “ आवृण्वन्तिं प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते न हिंसोऽल्पार्थः ॥ १ ॥ - आर्या प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः ॥ २ ॥” आर्या औपशमिक - क्षायोपशमिक - क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोर्धिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह च 46 'तस्मादविरतसम्यग् - दृष्टिस्थानाद् विशोधिमुपगम्य । स्थानान्तराण्यनेका- न्यारोहति पूर्वविधिनैव ॥ १ ॥ - आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततो येन भवेत् तस्य विरमणे बुद्धिरल्पेऽल्पा ॥ २॥ —,, तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि । गच्छन्ति सर्वथापि, प्रकर्षतस्ते क्षयोपशमम् ॥ ३ ॥ —,, श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुः सङ्ख्य- व्रतगुणशिक्षामयः शुद्धः ॥ ४ ॥ —” सर्वं प्रत्याख्यानं, येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्याना -वरणास्ते निर्विशेषोक्ताः ॥ ५ ॥” –,, इदानीं प्रमत्तसंयतः । तस्मादसङ्ख्येयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति । उक्तं च १ 'संयतानां' इति ङ-पाठः । २ ' वरणो देशविरति' इति च पाठः । ३ ' संयतीसंयतः ' इति घ-पाठः । ४' घितस्थानानि ' इति च पाठः । ५ ' शमनीयेषु' इति घ- पाठः । For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ सूत्र ३६] स्वोपज्ञभाष्य टीकालङ्कृतम् "देशविरतोऽपि ततः, स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि ॥१॥ -आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् , तस्य विरमणे सर्वतोऽपि मतिः ॥२॥-, छेदोपस्थाप्यं चा-वृत्तं सामायिकं चैरित्रं वा ।। स ततो लभते प्रत्या-ख्यानावरणक्षयोपशमात् ॥३॥ -, तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाञ्च निरुद्धाश्रवस्य निर्वेदा दिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सश्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहतात परावर्तते । ततः सज्वलनकषायोदयाद् , इन्द्रियविकथाप्रमादाद् , योगदुष्प्रणिधानात् , कुशलेष्वनादराच प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः। एते त्रयोऽप्या ध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदार्तध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदात नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति॥३५॥ सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह सूत्रम्-हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रस्वामिनः मविरतदेशविरतयोः॥९-३६ ॥ भा०–हिंसार्थमनृतवचनार्थ स्तेयाथै विषयसंरक्षणार्थ च स्मृतिसमन्याहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति ॥ ३६॥ टी-हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्योत्सन्नबह्वज्ञानामरणदोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सन्नशब्दवाच्यः । यथोत्सनकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दायुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीववधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुयेदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः खल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति ॥ ३६॥ 'विरतेऽपि' इति ङ-पाठः । २ 'चरित्रं' इति ङ-पाठः। ३ 'प्रमोदात्' इति हु-पाठः। ४ भाष्यस्य रौटायानस्य ५'हिंसादिषु' इति च-पाठः। विवरण समुपलभ्यतेऽनन्तरसत्रटीकायाम्। ३४ For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ २६६ तत्त्वार्थाधिगमसूत्रम् [ मध्यायः ९ ___ आर्तरौद्रे व्याख्याते । सम्प्रति धर्मध्यानव्याख्यावसरः। तच्च सभेदं सखामिकमाख्यायतेधर्मध्यानस्य चातु- सूत्रम्-आज्ञा-पाय-विपाक-संस्थानविचयाय धर्ममप्र मिनश्च मत्तसंयतस्य ॥९-३७॥ धर्मध्यानस्य चातुविध्यं तत्स्वा भा०-आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७ ॥ किश्चान्यत् .टी०-आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः। आज्ञादीनां विचयःपर्यालोचनम्। विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात तादर्थं चतुर्थी । धर्मशब्दो व्याख्यातः। अप्रमत्तसंयतस्येति स्वामिनिर्देशः। तत्राज्ञासर्वज्ञप्रणीत आगमः । तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महार्थो महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाथनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू०५८) वचनात् । सत्र प्रबायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात् । यथोक्तम् " नहि नामानाभोग-च्छद्मस्थस्येह कस्यचिन्नास्ति ।। ज्ञानावरणीयं हि, ज्ञानावरणप्रकृति कर्म ॥१॥"-आर्या तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथावयन्ति भाषन्ते वाऽनृतकारणाभावात् । अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः। प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् । ___ अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया-विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः-अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोतरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् तादर्थे चतुर्थीबहुवचनम् । हिंसायै हिंसाथ हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च १ छाया इत्येतद् द्वादशाङ्ग गणिपिटक न कदापि नासीत् । २.बिचित्रता' इतिच-पाठः । For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ सूत्रं ३७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २६७ देशविरतश्च कृतद्वन्द्वौ स्वामिनौ रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत देश विरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः । एतदेव भाष्यकारो विवृणोति - हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्यं दर्शयति । " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा " ( अ० ७, सू० ८ ) तच्च सश्वव्यापादनोद्बन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगांस्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रचलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्द्भूतघातामिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । त्रैवं दृढप्रणिधानमनृतानन्दमिति । स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते । तीव्र सङ्केशाध्यवसायस्य ध्यातुः प्रचलीभूतलोभप्रचा राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः । द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषय संरक्षणार्थं चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजनं च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । विषयशब्दस्य पृषोदरादित्वात् संस्कारः । अथवा 'पिञ् बन्धने' ( पा० धा० १४७८ ) भोक्तारं विशेषेण विविधं वा सिन्वन्ति - बनन्तीति विषयाः - शब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः । यथोक्तं ( प्रशमरतौ श्लो० १०७ ) - निष्पादनम् " यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥ " आर्या विषयाणां च संरक्षणमुक्तं परिग्रहेष्वंप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य ग्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रेण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् । तच्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनः तीव्रसंक्लिष्टाः कापोर्तनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच्च नरकगतिमूलमेतत् । पर्याप्तमादाय कर्मजालं दुरन्तं १' ये च व्यापादनो ' इति उ-पाठः । २ ' प्रसंगा' इति च पाठः । ३ ' ष्वप्राप्तनष्टेषु' इति च पाठः । ४' स्येव त (?) प्रमत्त ' इति ग-पाठः । ५ 'संक्केशाः' इति ङ-पाठः । ६' नीललेश्या ' इति ङ-पाठः । For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ २६८ तवााधिगमसूत्रम् [अभ्यायः ९ नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाघपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति । तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः-- अनुभावः । अनुभावो रसानुभवः। कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः-अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृतिं समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति । ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् । दर्शनावरणाचक्षुरादि ... वैकल्यं निद्रायुद्भवश्च । असवद्याद् दुःखं, सद्वद्यात् सुखानुभवः । मोहनीकर्माष्टकस्य . स्थ याद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः । फलानि ' नाम्नोऽशुभप्रशस्तदेहादिनिवृत्तिः। गोत्रादुच्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति । इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति ॥ संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च। लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्रलोकमूर्ध्वमधोमल्लकसमुद्गम् । तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः । असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धमा-ऽधमो-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद् , अरूपं कारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्ती विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवा नारकाधिवसतिः । धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्ये, इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाच क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोअमत्तस्थानमाप्नोति । यथोक्तम् " निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः। तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् ॥१॥"-आर्या १'चारित्रेतिनिवृत्तिश्च' इति ङ-पाठः। २: 'धर्म्यध्यानं' इति ङ-पाठः। ३ 'तत्राधातुखगलक' इति स-पाठः। ४ 'देवनार' इति हु-पाठः। ५'स्थान एव नरतच्छमाणकामाप्नोति' इति ग-पाठः । For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ सूत्रे ३८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २६९ अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि" अवगाहते च स श्रुत - जलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा, विज्ञानं वा कोष्टादिबुद्धिर्वा ॥ १ ॥ - आर्या चारणवैक्रियस-पधा [व]द्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि ॥ २ ॥ " अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याऽभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्योत् क्षप यति । यथोक्तम् " “ क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनचतुरः । मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥ १ ॥ - आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधो ऽपि दृष्टिमोहश्च । देशयतीयतसम्यग् - दृगप्रमत्तप्रमत्तेषु ॥ २ ॥ पाणिग्राहारींस्तान्, निहत्य विगतस्पृहो विदीर्णभयः । प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् ॥ ३ ॥” –,, इति ॥ ३७ ॥ 17 किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नाति– सूत्रम् — उपशान्तक्षीणकषाययोश्च ।। ९ - ३८ ॥ भा०—–उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति ॥ ३८ ॥ किश्वान्यत् टी० – चशब्दः समुच्चये । कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः एकादशगुणस्थानवर्ती । क्षीणाः कषाया यस्य स क्षीणकषायः । भस्मच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्मं भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम्, अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थिति - घात- रसघातस्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्वं निर्गच्छतीत्यपूर्वकरणम् । अप्राप्तपूर्वकत्वाद् वा १ भिमुख' इति ङ-पाठः । २ ' यतायतेन सम्यग् ' इति च पाठः । • For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ २७० तत्त्वार्थाधिगममूत्रम् [ अध्यायः १ संसारे तदपूर्वकरणम् । न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति । उक्तं च " स ततः क्षपकश्रेणिं, प्रतिपद्य चरित्रघातिनीः शेषाः । क्षपयन् मोहप्रकृतीः, प्रतिष्ठते शुद्धलेश्याकः ॥१॥-आयो प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् ।। तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् ॥२॥" -" ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्यर्थः । सम्परायाः कषायास्तदुदयो बादरो येषां ते कादरसम्परायाः । अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः। ते उपशमकाः क्षपकाय । तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति "अणदसणपुंसगइत्थिवेयछक्कं च पुरसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥१॥"-आर्या -आवश्यकनियुक्तौ गा० ११६ क्षपको निद्रानिद्रादिउदय(यादित्रय?)क्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादि कमायाकनपुंसकस्त्रीवेदक्रमाच क्षपयति । उक्तं च " अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र ।। नरकगमनानुपूर्वी, नरकगतिं चापि कार्येन ॥१॥-आर्या सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा, तिर्यग्गत्यानुपूयों च ॥२॥ -" चतुरेकद्वितीन्द्रिय-नामानि तथैव नाशमुपयान्ति। तिर्यग्गतियोग्यास्ताः, प्रकृतय एकादशप्रोक्ताः ॥३॥-, अष्टौ ततः कषायान् , पण्डकवेदं ततस्ततः स्त्रीत्वम् ।। क्षपयति पुंवेदे सङ्-क्रमय्य षण्णोकपायांश्च ॥४॥ -, पुंस्त्वं क्रोधे क्रोध, माने मानं तथैव मायायाम् । मायां च तथा लोभे, स क्षपयति सङ्कमय्य ततः॥५॥-, १ छाया अनदर्शनपुंसकत्रीवेदषट्कं च पुरुषवेदं च । द्वी द्वौ एकान्तरितौ सदृशे सदृशं उपशामयति ॥ २' पूर्व्याच ' इति ग-पाठः, 'पूर्वी च ' इति च-पाठः। ३ पुवेदो' इति -पाठः । For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ ' सत्र ३८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २७१ लोभस्य यावद् बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयताः । ततः सूक्ष्मप्रकृतिवेदनाल्लोभकपायस्य सूक्ष्मसम्परायसंयतः उपशमकः सज्वलनलोभमुपशमयति क्षपक: क्षपयति । यथोक्तम् " अथ सूक्ष्मसम्पराय-स्थानं प्राप्नोति बादरे लोभे । क्षीणे सूक्ष्मे लोमे-कषायशेषे विशुद्धात्मा ॥१॥ यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते-न कषायाः सम्परायाख्याः ॥ २॥ सम्यग्भावपरायण-हेतुत्वाद् वापि सम्परायास्ते । प्रकृतिविशेषाच पुनर्लोभकषायस्य सूक्ष्मत्वम् ॥ ३॥ स ततो विशुद्धियोगे, नयति स्थानान्तरं व्रजस्तमपि। क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति ॥४॥" ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकपायवीतरागश्छद्मस्थः वीतो-गतो (रागो यस्मादिति वीतरागः) छद्म-आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्मक्षयात् स क्षीणकपायवीतरागच्छमस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयावशेषोणि कर्माणिक्षपयति । तत्र निद्राप्रचले द्विचरमसमये क्षपयति । ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि । तत्र चतस्रोभावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः। ज्ञाने नित्याभ्यासान्मनसः तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धयं ध्यायति । तथा विगतशङ्कादिशल्यः प्रशम-संवेगनिर्वेदा-ऽनुकम्पा-ऽऽस्तिक्य-स्थैर्य-प्रभावना-यतना-सेवन-भक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्म ध्यायति । तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सश्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्ये भावनावष्टब्धचेताः लीलयैव धर्मध्यायी भवति । देशोऽपि निष्कण्टको यः। कण्टकाः स्त्री-पशु-पण्डकाः । कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः । यथोक्तम् "त्थि कालो अकालो वा झायमाणस्स भिक्खुणो।" आसन-कायावस्थाविशेषः । य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् यथोक्तम् १ शेषाणि' इति च-पाठः। २ 'विमलकृत' इति च-पाठः। नास्ति कालोऽकालो वा ध्यायमानस्य भिक्षोः। For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ २७२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः "कालः समाधिर्ध्यानस्य, कायावस्था जितासनम् । शुचिनिष्कण्टको देश-स्ते च स्त्री-पशु-पण्डकाः ॥ १॥" आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तन-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि । एमिरालम्बनधर्मध्यानं समारोहति ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिः। भवकाले केवलिनः शेषस्य ध्यातुर्यथो समाध्यपेक्षमिति । लेश्यास्तु पीत-पम-शुक्लाख्यास्तीव-मन्दादिमेदाः। निसर्गा-ऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनं प्रशंसा-विनय-दानानि च धर्मध्यानलिङ्गम् । "तस्मादथाप्रमत्त-स्थानात् स विशोधिमुत्तमं प्राप्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैवः॥ १॥-आर्या देशे ततो विविक्ते, समे शुचौ जन्तुविरहिते कल्पे । ऋज्वायम्य स देह, बद्ध्वा पल्यङ्कमचलाङ्गः ॥२॥-, वीरासनादि चासन-मथ समपादादि वाचलं स्थानम्। यद् वाधिष्ठाय यतिः, शयनं चोत्तानशयनादि ॥३॥-, ज्ञेयमखिलं. विविदिष-अधितिष्ठासंश्च मोक्षविधिमखिलम् । सन्धाय स्मृतिमात्मनि, किश्चिदुपावर्त्य दृष्टिं स्वाम् ॥४॥-, विषयेभ्य इन्द्रियाणि, प्रत्यवहत्य च मनस्तथा तेभ्यः । धारयति मनः स्वात्मनि, योग प्रणिधाय मोक्षाय ॥५॥-, ध्यानं ततः सधर्म्य, भिक्षुर्विचिनोति मोहनाशाय । उत्तमसंहननबलः, क्षपकश्रेणीमुपयियासन् ॥ ६॥ तल्लक्षणान्युपशमा-जेवमार्दवलाघवानि दृष्टानि। उपदेशाज्ञामूत्रनि-सर्गास्तद्र्चय इष्यन्ते ॥७॥ -, तत्प्रश्नवाचनानु-प्रेक्षापरिवर्तनावलम्बनकः।। तदनुप्रेक्षाः संसा-रैक्यानित्याशरणचिन्ताः ॥ ८॥ - एकाग्रेण मनः स्वं, निरुध्य भावाजिनाज्ञया ग्राह्यान् ।। विचिनोति यथातत्त्वं, तथैव च शुभाशुभापायान् ॥९॥-" संस्थानानि च सर्व-द्रव्याणां कर्मफलविपाकाश्च । प्रवचनसम्भिनमति-विशुद्धलेश्याः प्रविचिनोति ॥ १०॥-, 'मनःसमाधि' इति च-पाठः। २ पेक्षमेति' इति च-पाठः। स्तम'इतिच-पाठः। ५'द्रचय' इति च-पाठः। . ३ तदापि' इति च-पाठः । For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ सूत्रं ३९ ] स्वोपज्ञभाप्य–टीकालङ्कृतम् क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः । मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥ ११ ॥ - आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च । देशयतायतसम्यग् -- दृगप्रमत्तप्रमत्तेषु ।। १२ ।। " एवं पूर्वोक्तेन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकेपायस्थनप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति ॥ ३८ ॥ सूत्रम् शुक्ले चाद्ये ॥ ९-३९ ॥ उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानं, ततश्चैकादशाङ्गविदो द्रष्टव्यम् । एवमवस्थिते किं धर्ममेव ध्यानं तयोः ९ नेत्युच्यते । किञ्चान्यदिति सम्बध्नाति । न केवलमेतयोर्धर्म्य, शुक्लं च ध्यानमुपशान्तक्षीणकपाययोर्भवति । किं चतुर्विधमपि पृथक्त्ववितर्क एकत्वसविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरत क्रियमनिवर्तीति ? । उच्यते- न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? 99 Bad २७३ भा०- - शुक्ले चाये ध्याने पृथक्त्ववित कैकत्ववितर्के चोपशान्तक्षीणकषाययो भवतः ॥ ३९ ॥ टी० - शुक्ले चाद्ये चे(ह? ) ति । शुक्ले ध्याने उपशान्तक्षीणकषाययो भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के। स्वरूपतः कीदृशे ? । उच्यते - पृथग् - अयुतकं भेदः तद्भावः पृथक्त्वम् - अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययधौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च येत् तत् पृथक्त्व - वितर्क सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - " त्र्येककाययोगायोगानां ", “ वितर्कः श्रुतं ", " विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः " ( अ० ९, सू० ४३, ४६, ४७ ) । पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्तिः - गमनं विचारः । अर्थाद् व्यञ्जनसङ्क्रान्ति:, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति । एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः । एक 1 १ ' कषायस्थः क्षीणकषायः क्षीण. ' इति छ-पाठः । > २ ' स्थानप्राप्त उपशमकषायः ३ ' तर्क सवि०' इति ङ-पाठः । ४ ' उप ' इति ग-पाठः । ५ ' यत्र' इति च पाठः । ३५ For Personal & Private Use Only इति च पाठः । Page #303 -------------------------------------------------------------------------- ________________ २७४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ एव योगत्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवन्निष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् । आह च "क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति ॥१॥- आर्या एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन । ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ॥ २॥- " श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते ये-न तेन सवितर्कमिष्टं तत् ॥ ३॥अर्थव्यञ्जनयोगा-नां सङ्क्रान्तिरुदितो हि 'विचारः। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ॥ ४ ॥व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम् । न च सम्भवन्ति कात्स्न्यै न तानि लिङ्गानि मोहवतः ॥५॥-, व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं सः ॥ ६॥- " प्राप्नोति परं हादं, हिमातपाभ्यामिव विमुक्तम् ।। तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति ॥७॥शेषाणि घातिकर्मा-णि युगपदपरञ्जनानि ततः । कात्यान्मस्तकशूच्यां, यथा हतायां हतो भवति तालः॥कर्माणि क्षीयन्ते, तथैव मोहे हते कात्स्यात् ॥ ८॥- , निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः। चरमान्ते क्षीयन्ते, शेपाणि तु घातिकमोणि ॥ ९॥-- आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् प-श्यतो हि भावंक्षयोपशमः ॥ १० ॥-- , शटितप्रायं हि तदा-ऽऽवरणं परमावधिश्च भवति तदा । अथ कात्स्यात् तत्पतनाद् द्वितीयसमये क्षयायैति ॥ ११ ॥-, १'निवातव्यशरणमप्रति ' इति छ-पाठः । २ 'योग्यन्तरेषु इति ङ-पाठः। ३'मुहूर्तः सः' इति - पाठः। ४'वीचारः' इति ङ-पाठः। ५ यद्यपि इयं पङ्क्तिः सर्वासु प्रतिषु समस्ति तथापि अशुद्धव सा प्रतिभाति । 'चिमुक्तः' इति हु-पाठः। 'समुपघातः' इति च-पाठः । 'क्षयात्राम' इति छ-पाठ।। ९'समयोपक्षयायैति' इति च-पाठः। For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ सूत्रे ४०-४१ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्क्षयाच्छुद्धम् ॥ १२ ॥ चित्र चित्रपटनिभं त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्व, सालोकं सर्वभावज्ञम् ॥ १३ ॥ वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात् ॥ १४ ॥,, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य ॥ १५ ॥ - आर्या 19 11 भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ॥ ३९ ॥ २७५ सूत्रम् - पूर्वविदः ॥ ९-४०॥ भा० - आधे शुक्ले ध्याने पृथक्त्ववितर्कैकत्ववितर्फे पूर्वविदो भवतः ॥४०॥ टी० - पूर्वविदो य उपशान्त क्षीणकषायौ तयोर्भवतः । सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् । पूर्वं प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः । एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ॥ ४० ॥ अथ पञ्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच सूत्रम् — परे केवलिनः ॥ ९-४१ ॥ भा०- परे हे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥ ४१ ॥ अन्तिम शुक्लध्यानअत्राह — उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने द्वयस्य स्वामिनः इति । तत् कानि तानीति ? अत्रोच्यते For Personal & Private Use Only टी० परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तच्च योगनिरोधका भवति । वेद्य- नाम - गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धात सामर्थ्यादचिन्त्यैश्वर्यशक्ति योगाद । युष्कसमीकृतानां मनो वा काययोगपरिणतस्यौदा रिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्त कमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरत क्रियानिवृत्तिध्यानावाप्तेः । उक्तं च १ ' भावज्ञः' इति ङ-पाठः । २ ' शुभध्याने ' इति ग-पाठः । Page #305 -------------------------------------------------------------------------- ________________ २७६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ "अप्रतिपाति ध्यायन् , कश्चित् सूक्ष्मक्रिय 'विहृत्यन्ते । आयुःसमीक्रियाऽर्थे, त्रयस्य गच्छेत् समुद्धातम् ॥ १॥-आयों आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा । समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे ॥ २॥" तथाऽन्य आह आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥१॥-आर्या स्थित्या च बन्धनेन, च समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुपि समुजिघांसति सः ॥२॥आर्द्र विरल्लितं सद्, वस्त्रं मवेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् ॥ ३॥- , स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्वातात् । क्षीणस्नेहं शटंति हि भवति तदल्पस्थिति च शेषम् ॥ ४ ॥-, आयुष्कस्यापि विरल्लितस्य, ने हास्यते स्थितिः कस्मात् । इति वा चोद्यं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ॥ ५॥-, दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया ॥ ६॥ -, विकसनसोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यच्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् ॥ ७॥ -, शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् ।। भागान् स्थितेरनन्तान् , भागान् शुभानुभावस्य ॥ ८॥ -, स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थिति बन्ध, योगनिमित्तं स हि रुरुत्सन् ॥ ९॥-, समये समये कर्मा-दाने सति सन्ततेनं मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥ १०॥ - नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः ॥ ११॥ -, १'विकृत्यन्ते' इति च-पाठः। २ ग-च-छ-प्रतिष्वपि चिह्निताक्षराण्यधिकानि सन्ति । वितरकइतिच-पाठः । ४ 'तद् भास्यते' इति ग-पाठः। ५'प्रोक्तवतुःसमये' इति -पाठः। ६ नोकर्मणा हि. इति -पाठः। For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ सूत्र:४१] स्वोपज्ञभाष्य टीकालङ्कृतम् २७७ बादरतत्वात् पूर्व, वामनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र 'वीर्यवतः ॥ १२॥ -आर्या सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेना(न?) न निरुध्यते हि सूक्ष्मो योगः ॥१३॥-, सति बादरे योगे, न हि धावन् वेपथु वारयति । नाशयति काययोग, स्थूल सोपूर्वफडकीकृत्य । शेषस्य काययोग-स्य तथा कृतीश्च स करोति ॥ १४ (१)॥ -, सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ॥१५॥ -, तमपि स योगं सूक्ष्म, निरुरुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ॥ १६ ॥ -, ध्याने दृढार्पिते पर-मात्मनि ननु निष्क्रियो भवति कायः। प्राणापातनिमेषो-न्मेषवियुक्तो मृतस्येव ॥ १७॥ ध्यानार्पितोपयोग-स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादुप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् ॥ १८॥ सततं तेन ध्याने-न 'निरुद्ध सूक्ष्मकाययोगेऽपि । निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ॥ १९॥-आर्या तुर्यध्याने योगाभावात् समयस्थितिना(नोs)पि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात्, किञ्चिच्च ससंहतावयवाः ॥२०॥ -, लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव ॥ २१ ॥" - असबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरच वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नयिमतमस्कं परं ध्यान व्युपरतक्रियमनिवर्तीत्यर्थः। तद्धि तावनिवर्तते यावन्न मुक्तः॥४१॥ 'वीर्यत्वे' इति ङ-पाठः । २ ‘पदानुगत' इति -पाठः । ३“किया' इति -पाठः । ४ 'निरखं' इति उ-पाठः। ५ 'वयवलेश्याः ' इति ग-पाठः। ६ नामनि' इति ग-पाठः। 'प्रातयः' इति कु-पाठः। ८'क्रिययातमस्कं' इति ङ-पाठः । ९ 'गच्छे' इत्यधिको ग-पाठः। For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ तच्चार्थाधिगमसूत्रम् [ अध्यायः ९ अत्राह — उक्तमित्यादिसम्बन्धः । शुक्ले चांद्ये द्वे पूर्वविदः इत्युक्तं (अ० ९, सू० ३९, ४०), परे द्वे केवलिन इति चाभिहितं ( अ० ९, सू० ४१ ) । तत् कानि तानीति अजानान प्रश्ने कृते अत्रोच्यते इत्याह २७८ सूत्रम् — पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपाति शुक्लध्यानस्य वातुर्विध्यम् व्युपरतक्रियानिवर्तीनि ॥ ९-४२ ॥ भा०- पृथक्त्ववितर्कम्, एकत्ववितर्क, सूक्ष्मक्रियमप्रतिपाति, व्युपरत क्रियानिवतीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥ टी० – पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् ॥४२॥ एते चोक्तलक्षणा भेदाः शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् । तस्याधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते सूत्रम् — तत् त्र्येककाययोगायोगानाम् ॥ ९४३ ॥ - भा० - तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्क, एकान्यतमकयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरत - क्रियानिवर्तीति ॥ ४२ ॥ टी० - तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयो ( ९ ) तमसंहननवतो भवति । तत्राद्यं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो चाक् काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितर्क एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायै योगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनो वाक् काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं च " यदर्थव्यञ्जने काय - वेचसी च पृथक्त्वतः । मनःसङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ॥ १ ॥ - अनु० सङ्क्रान्तिरर्थादर्थं यद्, व्यञ्जनाद् व्यञ्जनं तथा । योगाच्च योगमित्येष, विचार इति वा मतः ॥ २ ॥ १' बाह्ये ' इति ङ-पाठः । २ - ३ ' निवृत्ती ' इति घ-पाठः । ४ ' वचसा' इति ङ-पाठः । For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ सूत्र ४४] ___ स्वोपज्ञभाष्य-टीकालङ्कृतम् २७९ अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ॥३॥ -अनु० अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् । तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् ॥ ४ ॥ सूक्ष्मकायक्रिया-रुद्धमूक्ष्मवाङ्मनसक्रियः।। यद् ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥ ५॥ -, कायिकी च यदेपाऽपि, सूक्ष्मोपरमति क्रिया । अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियम् ॥ ६॥" ॥ ४२ ॥-, सूत्रम्- एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥ भा०–एकद्रव्याश्रय सवितर्के पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचार प्रथम, अविचारं द्वितीयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥ ४४ ॥ टी०- एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदारभ्ये मतिगर्भश्रुतप्रधानन्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “ वितर्कः श्रुतम्" वक्ष्यति (अ०९, सू०४५) इति । सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारिणीत्यर्थः। पूर्व च पूर्वे च पूर्वे ध्याने । एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितकं च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्क तत सविचारं सह विचारेण सविचारं, सह सङ्क्रान्त्येति यावत् । वक्ष्यति (अ०९, मू०४६)"विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते । अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथम सविचारमिति । __ अविचारं द्वितीयम् । अविद्यमान विचारं अविचारं, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः। द्वितीयमिति सूत्रक्रमप्रामाण्यांदेकत्ववितकेमविचारं भवति ध्यानमिति ॥ ४४ ॥ भा०--अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यतेटी०-अत्राहेत्यादि वितर्कविचारयाविशेषमजानानः स्वरूपमवगच्छन् परः पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । तशब्दस्य यथा-शोभनश्चैत्रः प्रतिमातरं एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं भर्थनानात्वम् वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् । अत्रोच्यत इत्याह १'कम्पमन' इति ङ-पाटः। २.दारम्भ' इति उ-पाठः। ३ देकत्वविचार' इति उ-पाठः। For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ २८० तत्त्वार्थाविगमसूत्रम् [ अध्यायः ९ सूत्रम्-वितर्कः श्रुतम् ॥९-४५॥ भा०-यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५ ॥ टी-वितर्को-मतिज्ञान विकल्पः । वितळते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद् विगतं तर्क वा वितर्क, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति ॥ ४५ ॥ सम्प्रति विचारस्वरूपनिरूपणायाह सूत्रम्-विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः॥९-४६ ॥ भा०-अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ॥४६॥ टी-अर्थव्यञ्जनयोर्योगेषु च सङ्क्रमण सङ्क्रान्तिः । अर्थः--परमाण्वादिः, व्यञ्जन तस्य वाचकः शब्दः, योगा-मनोवाकायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्ये अर्थस्वरूपा(त) व्यञ्जनं व्यञ्जनस्वरूपादर्थ वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः। एतदुक्तं भवति-प्राशब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति ॥ एतदभ्यन्तरं तप इत्यादि संवरकारणं संवरप्रस्तावे (अ०९, सू० ३) इदमुक्तं “तपसा निर्जरा च" इति । संवरो निर्जरा च भवति उभयं करोति तपः। तच्च तपो बाह्यमाभ्यन्तरं च संवरकारणं संवररूपत्वाच्च स्थगितास्रवद्वारस्याभिनवकर्मोपचयप्रतिषेधकारि नापूर्वकर्मपुद्गलप्रवेशः । कर्मनिर्जरा चेति निर्जरणफलत्वात् कर्मनिर्जरकं कर्म निर्जरयति, परिशाटयतीत्यर्थः । ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वाद पूर्वोपचितकर्मनिर्जरकत्वाच सकलकर्मपरिक्षयान्निर्वाणप्रापकमिति ॥४६॥ भा०-अत्राह-उक्तं भवता ( अ० ९, सू० २-३) परीषहजयात् तपसो. ऽनुभावतश्च कर्मनिर्जरा भवतीति । तत् किं सर्वं सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित् प्रतिविशेष इति । अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः । किमुक्तं तद् दर्शयति-परीषहजयात्, क्षुत्पिपासादयः परीपहास्तज्जयात्-सम्यगतिसहनात् । तपो द्वादशभेदमनशन १कारिता अपूर्व ' इति च-पाठः। For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ विषमाणि सूत्र ४७] स्वोपज्ञभाष्य टीकालङ्कृतम् २८१ प्रायश्चित्तादि तदनुष्ठानात् । अनुभावतश्च। अनुभावो विपाकस्तस्माच विपाकात् कर्मणः परिशाटो निर्जरा भवतीति । एवमनूद्य निर्जरां सन्देहस्थानमुपन्यस्यति । यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्वे एव समनिर्जरास्तुल्यमेव कर्म निर्जरयन्ति आहोस्विदस्ति कश्चित् प्रतिविशेष इति १ । विशेषो विषमनिर्जरण, न तुल्यनिर्जरत्वमिति । आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरणामाह-अत्रोच्यत इति । यत् तत्त्वं तदाख्यायत इत्यर्थः॥ सूत्रम-सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप . शमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येनिर्जरणानि यगुणनिर्जराः॥९-४७॥ भा०-सम्यग्दृष्टिः, श्रावकः, विरतः, अनन्तानुबन्धिवियोजकः, दर्शनमोहक्षपकः, मोहोपशमकः, उपशान्तमोहः, मोहक्षपकः, क्षीणमोहः, जिनः इत्येते दश क्रमशः असङ्ख्येयगुणनिर्जरा भवन्ति । तद्यथा-सम्यग्दृष्टेः पावकोऽसङ्ख्येयगुणनिर्जरः, श्रावकाद् विरतः, विरतानन्तानुबन्धिवियोजकः, इत्येवं शेषाः ॥४७॥ टी-सम्यग्दृष्टिरिति । तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तद्युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः । आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः । शृण्वंश्च सकल चरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षावतलक्षणं धर्ममनुतिष्ठति । यथाश्रावकस्य व्याख्या शक्ति वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव । विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद् यावजीवं विरतः, एवं मृषावादादिभ्योऽपि अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयस्तान् वियोजयति क्षपयत्युपशमयति वा अनन्तवियोजकः । दर्शनमोहक्षपक इति । दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्-मिथ्यात्व-तदुभयानि च । अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः । तथाऽस्यैवोपशमकः। मोहोष्टाविंशतिभेद:-षोडश कषायाः सम्यक्त्व-मिथ्यात्व-सम्यरिमथ्यात्व-हास्यरति-अरति-भय-शोक-जुगुप्सा-स्त्री-पुं-नपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । अस्यैव सकलस्य क्षपणान्मोहक्षपकः । क्षपणोपशमनक्रियाविशिष्टयोहणम् । क्षपितनिरवशेषमोहः क्षीणमोहः। स चतुर्विधघातिकर्मजयनान्जिन:-केवली। एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमश:-परिपाट्या यथोपन्यस्तास्तथैवासङ्ख्येयगुणनिजेरा भवन्ति, न तु तुल्यनिर्जरा इत्यर्थः । तामेवासङ्ख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिर्जर इत्यादिना । केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादि १.जिनानां' इति ग-पाठः। For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ २८२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ कलापः श्रावकोऽसङ्ख्येयगुणनिर्जरो भवति यांवन्ति कर्माणि निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत्कर्मापरेणासङ्ख्येयराशिना गुणितं तद् यावद् भवति तावद् देशविरतः क्षपयति । एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरोऽसङ्ख्येयगुणनिर्जरो भवतीति दर्शयति श्रावकाद् विरतो विरतादनन्तानुबन्धिवियोजक इत्येवं शेषा यावजिनः सर्वेभ्य एवासङ्ख्येयगुणनिर्जर इति । अस्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति तनिर्दिदिक्षयाऽऽहनिर्ग्रन्थानां पञ्च.. सूत्रम्-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका "विधत्वम् निर्ग्रन्थाः ॥ ९-४८॥ भा०—पुलाको बकुशः कुशीलो निर्ग्रन्थाः स्नातक इत्येते पैश्च निर्ग्रन्थविशेषा भवन्ति ॥ टी-पुलाकादयः पश्चान्वर्थसञ्जका निर्ग्रन्थाः स्वामिनः। तद्विवरणार्थमाह-पुलाकः बकुशः कुशीलः निर्ग्रन्थः स्नातक इति । एते पञ्च निर्ग्रन्थविशेषा-भेदा भवन्ति निर्ग्रन्थानामिति । ग्रन्थः कमोष्टकप्रकारं मिथ्यात्वा-विरति-(कषाय)दुष्प्रणिहितयोगाश्च । तज्जये प्रवृत्तानि निर्ग्रन्थानि । निर्गच्छद्रन्था निर्ग्रन्थाः धर्मोपकरणाहते निर्ग्रन्थशब्दार्थः ३. परित्यक्तबाह्याभ्यन्तरोपधयो निम्रन्थाः । पुलाकादिस्वरूपनिरूपणायाह MINS भा०-तत्र सततमप्रतिपातिनो जिनोक्तादागमानिन्थपुलाकाः । 'नैपुलाक-धकुशयोः न्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियश स्वरूपम् स्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशवलयुक्ता निर्ग्रन्था बकुशाः॥ टी०-तत्र सततमित्यादि । तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः । र पुलाको निःसार इति प्ररूढं लोके । पलञ्जिस्तन्दुलकणशून्या पुलाकः । पुला कशाया एवं निर्ग्रन्थोऽपि लब्धिमुत्पन्नां तपःश्रुताभ्यां हेतुभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति । ज्ञानदर्शनचरणानि च सारः तदपगमानिःसारः। जिनप्रणीतादागमाद्धेतुतः, सदैवाप्रतिपातिन आगमाच सम्यग्दर्शनमूलज्ञानचरणे निर्वाणहेतू इत्यस्मादपरिभ्रष्टाः श्रद्दधाना ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्ति । उपजीवन्तश्च निःसारतामात्मनः कुर्वन्तीति ग्राह्यम् । सततमप्रमादिन इत्यपरे पठन्ति । जिनोक्ताद् वाऽऽगमाद्धेतुभूतान्मुक्तिसाधनेषु न प्रमाद्यन्ति भ्याख्याभेदः जातुचिदिति ॥ १ यावत् कर्म' इति च-पाठः। २ 'दिदिक्षुराह' इति च-पाठः। ३ 'पञ्चविधा' इति ग-पाठः। ४ शब्दसाम्यार्थ विलोक्यता तत्त्वार्थराजवार्तिकं (पृ. ३५८)। - For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ शारीरबकुशस्य स्वरूपम् सूत्र ४८ ] . स्वोपचभाष्य-टीकालङ्कृतम् २८३ बकुश इति शबलपर्यायः । शबलो वर्णव्यतिकरः कचिद् वलक्षः कचित् कृष्णः कचिद् रक्तः एक एव पटः। एवमयमपि निर्ग्रन्थः । सातिचारत्वाचरणपटं शबलयति बकुशशब्दाथा विशुद्धयशुद्धिव्यतिकीर्णस्वभावं करोति । स च द्विधा-शरीरोपकरणभेदेन । तदाह वृत्ति(भाष्यी)कारः-नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि । निर्ग्रन्थस्य भावो नैर्ग्रन्थ्य ___ अष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखास्तत्क्षअकुशस्य छावण्यम् याकामिणः। शरीरम-अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं वस्त्रपात्रादि तद्विषयां विभूषाम्-अलङ्कृतिमनुवर्तन्ते, तच्छीलाश्चेति । शरीरे तावदनागुप्तव्यतिरेकेण ___ कर-चरण-वदनप्रक्षालनमक्षि-कर्ण-नासिकावयवेभ्यो दृषिकामलाद्यपनयनं त्य दन्तपवनभ(म्र)क्षणं केशसंस्कारं च विभूषार्थमाचरन् शारीरबकुशो भवति । उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षकवास:प्रियः पात्रदण्डकाद्यपि तैलपात्रया(त्र्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशःख्यातिगुणवन्तो उपकरणबकुशस्य विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धियस्वरूपम् शस्कामाः। सातगौरवमाश्रिता इति। सुखशीलता-सातगौरवं तदाश्रिताः । आदरवचनो गौरवशब्दः । सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः। अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजच्चाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवाराः सर्वदेशच्छेदाऱ्यातीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः॥ कुशीलस्वरूपनिर्धारणायाह भा० --कुशीला विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाश्च । तत्र कशील वैविध प्रतिसेवनाकुशीला नैग्रेन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः प्रतिसेवनाकुशील- कथश्चित् किश्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते' प्रतिसेवना. स्य स्वरूपं च कुशलाः ॥ टी-कुशीला द्विविधा इत्यादि । अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केनचित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः । तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति । आसेवनं-भजनं प्रतिसेवना तया कुत्सितं शीलमेपामिति प्रतिसेवनाकुशीलाः । कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः । 'ते' इत्यूनो ग-पाठः । For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ २८४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तत्र-तयोः प्रतिसेवनाकुशीला नैर्ग्रन्थं प्रति प्रस्थिता अनियमितेन्द्रिया-इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथञ्चित्-केनचित् प्रकारेण व्याजमुपदिश्य किश्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति-भावना-तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्तः-खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लचनमाचरन्ति ते प्रतिसेवनाकुशीलाः ॥ कषायकुशीलानाचष्टे भा०-येषां तु संयतानां सतां कथञ्चित् सज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः ॥ टी०-येषां त्वित्यादि । येषां संयतानां सतां-मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित् केन प्रकारेण स्वल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सञ्ज्वलनकषायाः क्रोधादयः उदीयन्ते-उदयमुपनीयन्ते, किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ॥ सम्प्रति निर्ग्रन्थनिरूपणार्थमाह भा०-ये वीतरागच्छद्मस्था र्यापथप्राप्तास्ते निर्ग्रन्थाः। ईयायाः पयर्यायाः ईो योगः, पन्थाः संयमः, योगसंयमप्राप्ता इत्यथैः । टी०-ये वीतरागच्छद्मस्था इत्यादि। उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादश-द्वादशगुणस्थानवर्तिनस्ते वीतरागच्छद्मस्थाः । छद्म-आवरणं तत्र स्थिताः। सावरणज्ञानाः छद्मस्थाः । ईयोपथं प्राप्ताः अकषायत्वादुपशान्तकषायाः क्षीणकषायाश्च एकसमयावस्थायीर्यापथं कर्म बदन्ति । ईर्यायाः पन्था ईर्यापथः। ईर्या व्यापारो योग इति पर्यायाः। तस्य व्यापारस्य विषयः-पन्थाः स च संयमः सप्तदशप्रकारः। एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः । योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इति यावत् । ते निर्ग्रन्था विकीर्णमोहग्रन्थय इत्यर्थः ॥ भा०-सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४८ ॥ टी०-सयोगा इत्यादिना स्नातकनिरूपणं करोति । योगः-कायादिचेष्टा । सह योगेन सयोगाः त्रयोदशगुणस्थानवार्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिकर्ममलपटला इत्यर्थः। शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः। ते च केवलिनो विहृत्य कश्चित् कालं ततोऽकृतसमुद्धाताः समुद्धाताद् विनिवृत्ताः क्रमेण योगान् निरुन्धन्ति वा । स चोक्त एव क्रमः प्राक् । निरुद्धयोगाश्च व्युपरतक्रियानिवर्तिनो ध्यानेन शेषकर्माशान् क्षपयन्ति । यथोक्तम् For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ २८५ सूत्र ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् " ध्यानं ह्यभिसन्धान, ध्यानेन च कर्मणो भवति मोक्षः। ध्यानेन ततः क्षपयति, कर्माणि स पञ्चमात्रेण ॥ १॥"-आर्या पश्च मात्रा यत्र ध्यान इति । एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते तदा चेमाः प्रकृतीः क्षपयन्ति " स्पर्शरसवर्णगन्धा-ऽनादेयनिर्माणदेहनामानि । संहननाङ्गोपाङ्गा-नि तथा संस्थाननामानि ॥१॥-आर्या नृसुरगतिप्रायोग्ये, सुरगत्युपघातमगुरुलघुता च । उच्छासपराघाता, पर्याप्तशुभाशुभानि तथा ॥२॥-, दुर्भगदुःस्वरमुच्चै-नींचैर्गोत्रस्थिरास्थिराणि तथा । अन्यतरवेद्यखगति, प्रत्येकशरीरमयशश्च ॥ ३॥-, प्रकृतय एता द्विचरम-समये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्याश्च ततः प्रकृतीः स चरमान्ते ॥४॥-, तैजसशरीरबन्धो-ऽपि तस्य नामक्षयात् क्षयं याति । औदारिकबन्धो-ऽपि, क्षीयत आयुःक्षयात् तस्य ॥ ५॥-, एवमशेषकर्मक्षयान्मुक्तो भवति ॥ ४८ ॥ एवमेते पुलाकादयोऽभिहिताः पञ्च निर्ग्रन्थाः स्वरूपतः । अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याहमनगम विकल्पा- सूत्रम्-संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाएकम् तस्थानविकल्पतः साध्याः ॥ ९-४९ ॥ टी-संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वा विकल्पशब्देन सह समस्यन्ते । संयमादीनां विकल्पाः-चरणभेदाः तैः संयमादिविकल्पैः । संयमादिविकल्पतः संयमादिकारणैर्हेतुमिः __ साध्याः-साधनीयाः प्रतिविशिष्टाः संयमादिरूपेण । केचित् तु विकल्पव्याख्याऽन्तरम् शब्दं स्थानसनिधावेव नियुञ्जते स्थानस्य विकल्पाः संयमस्थानभेदा इति ॥ भा०–एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुयोगविकल्पैः साध्या भवन्ति । तद्यथा-संयमः । कः कस्मिन् संयमे भवतीति । उच्यते-पुलाक-बकुश-प्रतिसेवनाकुशीला द्वयोः संयमयोः सामयिके छेदोपस्थाप्ये च, कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च, निर्ग्रन्थ-स्नातको एकस्मिन् यथाख्यातसंयमे ॥ 'गमविकल्पैः' इति घ-टी-पाठः। For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ २८६ विध्यम् तवार्थाधिगममूत्रम् [ अध्यायः ९ टी-एते पुलाकादय इत्यादि। एत इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः । एभिः संयमादिभिरष्टाभिरनुगमविकल्पैरनुगमनम् -अनुसरणमनुगमोऽनुयोगद्वाराण्यर्थार्पणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति । तद्यथेत्यादिना । तान् संयमादिविकल्पानुपन्यस्यति । संयम इति प्रथमोऽनुगमविकल्पः । पुलाकादीनां पश्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति-वर्तत इत्यज्ञप्रश्नः । उच्यते----यो यस्मिन संयमादौ भवति स तथा भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते सामयिकसंयमे छेदोपस्थाप्यसंयमे च । तत्र पुलाकः पञ्चपुलाकस्य पश्च य पञ्च मेदः ज्ञान-दर्शन-चरण-लिङ्ग-सूक्ष्माख्यः । स्खलितादिभिर्ज्ञानपुलाकः । विधता कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः । यथोक्तलिङ्गाधिकरणाल्लिङ्गपुलाकः । किश्चित्प्रमादात् सूक्ष्मपुलाकः । एष पञ्चप्रकारोऽपि संयमद्वये वर्तते । बकुशोऽपि आभोगा नाभोग-संवृता-संवृत-मूक्ष्मबबकुशादेः पाच - कुशभेदात् पश्चप्रकारः । तत्र सश्चिन्त्यकारी आभोगबकुशः । सहसाकारी अनाभोगबकुशः। प्रच्छन्नकारी संवृतबकुशः । प्रकटकारी असंवृतबकुशः । किश्चित्प्रमादी सूक्ष्मबकुशः । प्रतिसेवनाकुशीलोऽपि ज्ञान-दर्शन-चरण लिङ्ग- सूक्ष्मभेदेन पश्चप्रकारः । ज्ञानाधतिचारप्रतिसेवनादिति । प्रतिगता सेवना प्रतिसेवना । क्रियायोगात्यये सत्युपसर्गसज्ञाभावात् षत्वाभावोऽतिसिक्तवत् । अन्ये तु प्रतिपेवणामेवेच्छन्ति । कषाय कुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसम्परायसंयमे च द्वयोरेव मतान्तरम् दर्शिता भाष्यकारेण । अपरे तु ब्रुवते-"कषायकुशीला: सामायिकादिषु चतुर्यु संयमेषु यथाख्यातसंयमरहितेषु वर्तन्ते"। यथाऽऽह "आधचारित्रयोराधा-स्त्रय एकश्चतुर्ध्वपि । निर्ग्रन्थ-स्नातको नित्यं, यथाख्यातचरित्रिणौ ॥१॥"-अनु० प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पश्चमेद एव। निर्ग्रन्था स्नातकश्च एकस्मिन्नेव पथाख्यातसंयमे वर्तते । उपशान्तक्षीणमोहा निग्रेन्थाः । स्नातकाः सयोगायोगकेवलिनः। निर्ग्रन्थोऽपि पश्चमेद एव, प्रथमसमया-प्रथमसमय-चरमसमया-ऽचरमसमय-सूक्ष्ममेदतः । स्नातकोऽपि पश्चप्रकार:-अच्छविः, अशबलः, अकाशः, अपरिश्रावी, संशुद्धज्ञानदर्शनधरश्चेति । छवि:-शरीरं तदभावात् काययोगनिरोधे सति अच्छविभेवति । निरतिचारत्वादशबलः । क्षपितकर्मत्वादकोशः । निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी । ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति ॥ १'स्खलनादिमिः' इति हु-पाठः। २ 'आमिकानाभोग' इति ग-पाठः । For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ २८७ २८७ सुत्रं ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् श्रुतं कियत् कस्येत्याह भा०-श्रुतम् । पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशील- निन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुश-कुशील-निर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥ ____टी-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति । अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः । कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः । जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छ्रुतम् । बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः । . श्रुतरहितः केवलीति । आंगमस्त्वन्यथा व्यवस्थितः-"पलाए णं भंते आगमे मतभेदः केवतियं सुर्य अहिजि(ज्जे? )ज्जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तियं आयारवत्थु, उकोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अहपवयणमायाओ, उक्कोसेणं चोदस पुव्वाइं अहिजिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोदस पुन्वाइं अहिज्जिञ्जा ॥" सम्प्रति प्रतिसेवनामाश्रित्योच्यते-- भा०-प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । टी-प्रतिसेवना पश्चानामित्यादि । मूलगुणाः प्राणातिपातनिवृत्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते । पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव । परैस्तु राजादिभिर्बलात्कारेण प्रवर्त्यते । तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवा कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति । अत्राप्यन्यथैवागमः-"पुलाए णं भंते ! किं पडिसेवए होज्जा अप्पडिसेवए. होज्जा ? गोयमा ! पडिसेवए, नो अपडिसेवए । जह मतान्तरम् पडिसेवए कि मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए १ 'आगमरहितः' इति ग-पाठः । २ कोऽयमागम इति न निणर्णीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श० २५, उ० ६, सू० ७५७)। ३ छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत ? गौतम | जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयाताम् । कषायकुशीलनिर्ग्रन्थौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । ४ 'दस पुव्वाई' इति मुद्रितायो भगवत्याम्। ५ प्राय ईदृक् पाठो वर्तते भगवत्यां (श० २५, उ०६,सू०७५५)। ६ पुलाको भदन्त ! किं प्रतिसेवको भवेत् अप्रतिसेवको भवेत् । गौतम । प्रतिसेवकः नो अप्रतिसेवकः । यदि प्रति For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ २८८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ उत्तरगुणपडिसेवए य । मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेजा ॥" भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकर ___ णाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बकुशस्य द्वैविध्यम् बविशेषोपकरणाकाक्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति ॥ टी-बकशो द्विधा-उपकरण-शरीरभेदात् । तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः । वस्त्रं विविध देशमेदेन पौण्डूवर्धनककासाकुलकादि । पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दुसितपट्टकादिप्रचितं महाधन-महामूल्यम् । एवमादिना उपकरणपरिग्रहेण युक्तो ममेदं स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवर्णादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः । सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः॥ भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्पतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते । कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति ॥ टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि । तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति । एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति । यथोक्तमागमे-"उसे पुच्छा । गोयमा! नो मूलगुणपडिसेवी होजा उत्तरगुणपडिसेवी होज्जा । उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"। सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः ? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च । मूलगुणान् प्रतिसेवमाना पश्चाना महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्य अन्यतर प्रतिसेवेत । 'काङ्गधारक' इति ग-पाठः । २ छाया बकुशे पृच्छा । गौतम । नो मूलगुणप्रतिसेवी भवेत् , उत्तरगुणप्रतिसेवी भवेत् । उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत । ३ 'सेवए' इति भगवत्यां (श• २५, २० ६, सू० ७५५)। For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ भागमे सूत्र ४९] स्वोपज्ञभाष्य टीकालङ्कृतम् २८९ प्रतिसेवनाकुशीलो मूलगुणान् प्राणातिपातनिवृत्त्यादीनविराधयन्-अखण्डयनुत्तरगुणेषु ..... दशसु काश्चिद् विराधनां न सर्वो कदाचिदेव प्रतिसेवत इति । "अत्राप्यागमोऽन्यथाऽतिदेशकारी-"पंडिसेवणाकुसीलो जहा पुलागो"। कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ॥ भा०-तीर्थम् । सर्वे सर्वेषां तीर्थकराणांतीर्थेषु भवन्ति । मतान्तरम् एके त्वाचार्या मन्यन्ते-पुलाक-बकुश-प्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति, शेषास्तीर्थे वाऽतीर्थे वा ॥ टी०-तरन्त्यनेनेति तीर्थ-प्रवचनं प्रथमगणधरो वा । तत्र किं कस्यचिदेव तीर्थकृतस्तीर्थेषु पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याह-सर्वे सर्वेषामित्यादि । सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति । एके त्वाचायों इत्यादि। पुलाको बकुशा प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव । शेषाः कपायकुशील-निर्ग्रन्थ-स्त्रातकाः तीर्थे भवन्ति । एते कदाचिंदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्त इति । मतमा इदमेव चादेशान्तरमाश्रित्यागममुपलभामहे--"पुंलागे णं भंते । किं तित्थे होजा अतित्थे वा होजा ? गोयमा! तित्थे होजा नो अतित्थे । एवं ब्रउसपडिसेवणाकुसीला वि कसायकुसीला तित्थे वा होजा अतित्थे वा होजा ? एवं नियंठसिणाया वि"॥ भा०–लिङ्गम् । लिङ्ग विविध-द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्ग प्रतीत्य सर्वे पश्च निर्ग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्ग प्रतीत्य भाज्याः ॥ टी-लिङ्ग विविधमित्यादि । लिङ्ग-चिह्न मुमुक्षोः । तच्च द्विधा-द्रव्य-भावभेदात् । तत्र व्यलिङ्गं रजोहरण-मुखवस्त्रिकादि । भावलिङ्गं ज्ञान-दर्शन-चारित्राणि । भावलि प्रतीत्य-निसृत्य सर्वे पश्चापि पुलाकादयो भावलिङ्गे भवन्त्येव । द्रव्यलिङ्ग प्रतीत्य भाज्याः कदाचिद् रजोहरणादि भवति कदाचिन्नेति, मरुदेवी-भरतप्रभृतीनामिति ॥ भा०-लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुश-प्रतिसेवना. कुशीलयोः सर्वाः षडपि। कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः। सूक्ष्म १ छाया___ प्रतिसेवनाकुशीलो यथा पुलाकः। २'कुसीले जहा पुलाए' इति भगवत्या (२० २५, उ० ६, सू. ७५५)। ३ सन्तुल्यता यदुक्तं भगवस्यां (सू. ७५८)। ४ छाया पुलाको भदन्त । किं तीर्थे भवेत् अतीर्थे वा भवेत् ? गौतम | तीर्थे भवेत् , नो अतीर्थे । एवं बकुशप्रतिसेवनाग कुशीला भपि । कषायकुशीलः तीर्थे वा भवेत् अतीर्थे वा भवेत् । एवं निम्रन्थस्नातको अपि । For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ २९० तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ सम्परायस्य निर्ग्रन्थ-स्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति॥ टी०-लेश्याः पूर्वोक्तनिर्वचनाः । उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्म-शुक्लनामानस्तिस्रो भवन्ति । बकुश-प्रतिसेवनाकुशीलयोः सर्वाः । कियन्त्यः ? सर्वाः षडपीत्याह । परिहारविशुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः। सूक्ष्मसम्परायसंयमप्राप्तस्य कषायकुशीलस्य तथा 'निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामप्येषां शुक्लैव, केवला-अन्यलेश्यानिरपेक्षेति । शैलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति॥ ____ भा०-उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुश-प्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वारणा-ऽच्युतकल्पयोः । कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ॥ टी-उपपात इति उपपत्तिः-जन्मान्तरप्राप्तिः, पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः । सहस्रारेऽष्टादशसागरोपमा स्थितिरुत्कृष्टा । तत्र पुलाकस्योत्पत्तिर्जन्ममरणोत्तरकालम् । वकुश-प्रतिसेवनाकुशीलयोः अच्युते बाविंशतिसागरोपमस्थितिषूत्पत्तिः। कषायकुशील-निर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः। सर्वेषां पुलाकादीनां शमितकषायाणां प्रथमकल्पे जघन्येन द्विप्रभृत्या नवभ्यः पृथक्त्वपरिभाषात् स्थितिकेषु देवेषूत्पत्तिः । स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति स्थानद्वारमधुना चिन्त्यते भा० स्थानम् असङ्ख्ययानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाक-कषायकुशीलयोः । तौ युगपदसङ्ख्ये ___ यानि स्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते। कषायकुशीनिर्ग्रन्थानामध्य- लस्तु असङ्ख्ययानि स्थानान्येककोगच्छति। ततः कषायकुशीघसायस्थानानि " ल-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्ययानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽसङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निम्रन्थः प्रतिपद्यते । सोऽप्यसउख्येयानि स्थानानि गत्वा व्युच्छिद्यते। अत ऊर्ध्वमेकमेव स्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोति । एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ॥४९॥ 'निर्ग्रन्थकुशीलस्य' इति ग-पाठः । २ स्थित्युत्पत्तिः' इति च-पाठः। ३ 'कषान्ताना' इति ग-पाठः । - कलमेव' इति ग-पाठः। ५'एतेषां इति 'ग-पाठः। For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ सूत्र ४९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९१ टी० - असङख्येयानीत्यादि । स्थानमित्यध्यवसायस्थानं परिणामस्थानं संयमस्थानमिति पर्यायाः । तत्र यावत् सकषायस्तावत् सङ्केशविशोधयोऽवश्यम्भाविन्यः । क्षीणकषायस्य तु विशोधिरेव न सकेशः । तत्र सकपायस्या सख्येयानि संयमस्थानानि भवन्ति । तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदम । गमोक्तम् "सेव्वागासपदेसग्गं सव्यागासपए सेहिं अनंतगुणियं पढमं संजमहाणं भवति " | का पुनर्भावना ? उच्यते— "सेव्वगयं संमत्तं सुए चरिते ण पज्जवा सव्वे | देसविरतिं पहुच दोह वि पंडिसेहणं कुज्जा ॥ १ ॥ - आर्या व्व्वाणि जतो सव्वद्दव्त्राण पज्जवा जे य । सव्वा णय बोधव्वा तिकालवितयम्मि जे भणिया ॥ २ ॥ - सव्वे विय सहओ व्यस्स उवएसतो व संमत्तं । तव्ववयं मिच्छतं दरिसणं देसियं समए ॥ ३॥ 17 एएणं कारणं सव्वागासपएसग्गं सव्वागासप्पएसेहिं अनंतगुणियं पढमं संजमहार्ण पज्जायवग्गेण भवति । ततो एयं चैव पढमं संजमहाणं एयप्पमाणपरिणामविसुद्धिनिमित्तेनाधिगतरं भवति । ततो पढमं संजमहाणपरिणाम विसुद्धाओ बीयं संजमहाणपरिणामो विसुद्धतरो ति काउं पढमसंजमहाणाओ बीर्य संजमद्वाणं अनंतभागमन्महियं । एतेण चैव कमेण बीया १ छाया- सर्वाकाशप्रदेश के सर्वाकाशप्रदेशः अनन्तगुणितं प्रथमं संयमस्थानं भवति । तच्छाया 'चैवम्— सर्वगतं सम्यक्त्वं सूत्रे चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ २ आवश्यक निर्युक्तेरियं ८३० तमी गाथा । ३ ' सेवणे' इति च पाठः । ४ छाया--- सर्वद्रव्याणि यतो सर्वद्रव्याणां पर्यवा ये च । सर्वे या बोधव्यास्त्रिकालविषये ये भणिताः ॥ सर्वेऽपि च श्रद्धवतः सर्वस्य उपदेशात् वा सम्यक्त्वम् । तद्विपरीतं मिथ्यात्वं दर्शन देशितं समये ॥ " एतेन कारणेन सर्वाकाशप्रदेशगं सर्वाकाशप्रदेशैरनन्तगुणितं प्रथमं संयमस्थानं पर्यायवर्गेण भवति । तत एतत् चैव प्रथमं संयमस्थानं एतत्प्रमाणपरिणामविशुद्धिनिमित्तेन अधिकतरं भवति । ततः प्रथमं संयमस्थान परिणामविशुद्धेद्वितीयं संयमस्थानपरिणामो विशुद्धतर इति कृत्वा प्रथम संयमस्थानाद् द्वितीयं संयमस्थानमनन्तभागमभ्यधिकम् । एतेन चैव क्रमेण द्वितीयात् तृतीयमनन्तभागमभ्यधिकं यावत् चरममनन्तभागमभ्यधिकम् । For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ २९२ तत्त्वार्थाधिगमसूत्रम् [ अध्याय: ९ ओ ततियं अणंतभागमभहियं जाव चरिमं अर्णतभागमभहियं "। एवं संयभस्थानप्ररूपणा । "एतेसिं चेव जहा भणिताणं संजमहाणाणं असंखिजाणं समुदएणं जं निप्पजइ ते कंडगं ति वा अंतरकंडगं ति वा भणइ । एगमि कंडके केवतियाई संजमहाणाई ? असंखिज्जाई असंखिजाहिं उस्सप्पिणीहिं कालओ अवहारंति, खेत्तओ अंगुलस्स असंखिज्जाई भागेणं ॥ सम्प्रति भाष्यभावना क्रियते । पुलाकादिस्थाननिरूपणद्वारेण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं पुलाकस्य कषायकुशीलस्य सर्वजघन्यानि स्थानान्यधः । ततस्तौ युगपदसङ्ख्येयानि स्थानानि गच्छतः, तुल्याध्यवसानत्वात् । ततः पुलाको व्युच्छिचते, हीनपरिणामत्वात् । व्युच्छिन्ने पुलाके कषायकुशीलस्त्वेक एवासङ्ख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात् । ततः कषायकुशील-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति । ततश्च बकुशो व्युच्छिद्यते । ततोऽप्यस ङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽप्यसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । एवमेतानि स्थानानि द्रष्टव्यानि । अत ऊर्चेमिति कषायकुशीलव्युच्छेदनादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते। सोऽप्यसङ्ख्यातानि गत्वा व्युच्छिद्यते । अत ऊध्र्व-निग्रन्थस्थानादुपरि गत्वा निग्रेन्थ: क्षपितसकलकांशः स्नातको निर्वाणमेवाप्नोति । एषां च पुलाकादीनां संयमलब्धिः संयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तानन्तगुणा भवतीति भावितमेवेति ॥४९॥ इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचनसंग्रहे भाष्यानुसारिण्या तत्त्वार्थटीकायां संवरस्वरूपनिरूपको नाम नवमोऽध्यायः समाप्तः ॥९॥ १ एतेषु चैव यथा भणिताना संयमस्थानानाम् असमख्येयानां समुदयेन यत् निष्पद्यते तत् कण्डकमिति वा अन्तरकण्डकमिति वा भणति । एकस्मिन् कण्डके कतिपयानि संयमस्थानानि ? असङ्खयेयानि असङ्ख्याताभिरुत्सर्पिणीमिः कालतोऽवहारन्ति, क्षेत्रतोऽगुलस्य असङ्ख्यातानि भागेन । For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ श्रीपरमगुरुभ्यो नमः। दशमोऽध्यायः १० उपक्रमः टी०-निर्दिष्टे संवर-निर्जरे "आस्रवनिरोधः संवरः" (अ० ९, सू० १), " तपसा निर्जरा च" (अ० ९, सू०३) इति । सम्प्रति तत्फलं मोक्षः तं वक्ष्यामः । स च केवलज्ञानोत्पत्तिमन्तरेण न जातुचिदभूद् भवति भविष्यति । अतः केवलोत्पत्तिमेव तावद् वक्ष्यामःसूत्रम्-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच __ केवलम् ॥ १०-१॥ टरी-अथवा तपसा निर्जरातश्च कर्मणां केवलज्ञानमुत्पद्यते । तत् केषां कर्मणां निर्जरातः केन वा क्रमेण निर्जरणे सति केवलज्ञानमाविर्भवतीति ? । तानि कर्माणि क्रम चानेन सूत्रेण दर्शयति-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ भाo-मोहनीये क्षीणे ज्ञानदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां प्रकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यते इति। टी.-मोहनान्मोहोऽष्टाविंशतिभेदः पूर्वोक्तः (पृ० १४२)। तस्य क्षयो-निरवशेषतः परिशाटनमात्मप्रदेशेभ्यः । क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पञ्च-चतुः-पञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु केवलज्ञानं दर्शनमाविर्भवतिसमस्तद्रव्यपर्यायपरिच्छेदिघातिकर्मविगमादुत्पद्यते । यथोक्तम् " तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसङ्ख्याच्छुद्धम् ॥१॥ आर्या चित्रं चित्रपटनिर्भ, त्रिकालसहितं ततः स लोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञाः ॥२॥" आसामिति सूत्रनिर्दिष्टानां कियतीनाम् १ चतसृणां कर्मप्रकृतीनां-कर्मस्वभावानां मोहन आच्छादनं विनकारित्वं चेति स्वभावाः । क्षयो-निःशेषसादः। केवलस्य ज्ञानस्य दर्शनस्य च । हेतुः कारणं निमित्तमिति पर्यायाः । फलसाधनयोग्यः पदार्थो हेतुरिति भाषितः । For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ २९४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः। "विभाषा गुणेऽस्त्रियां" (पा० अ० २, पा० ३, मू० २५) इति ॥ भा०-हेतौ पञ्चमीनिर्देशः। मोहक्षयादिति पृथकरणे क्रमप्रसिद्धयर्थम् । यथा--गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते। ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति। ततः केवलमुत्पद्यत इति ॥१॥ टी-हती पञ्चमीनिर्दशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरापरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबहलाभ्रपटलाच्छादितमण्डलस्य सङ्कुचितकिरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्धयर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तमुहर्तमानं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे-वीसमिऊण नियंठो” इत्यादि "चरिमे नाणावरणं" इत्यादि ॥१॥ भा०-अत्राह--उक्तं (पृ० २९३) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते टी-अत्राह-उक्तमित्यादिनोत्तरमूत्रं सम्बनाति । मोहक्षयात् केवलज्ञानो. त्पत्तिः। अथैषां मोहादीनां क्षयः कथं-केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः-यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच प्रतिक्षणं बधन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह कर्मपरिक्षये हेतू सूत्रम्---बन्धहेत्वभाव-निर्जराभ्याम् ॥ १०-२ ॥ ____टी-आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा--आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥ १ तथा विपक्षे' इति उ-पाठः । २-३ छाया विधामयित्वा निर्ग्रन्थः: चरमे ज्ञानावरणम् । ४ 'सन्तानं' इति ग-पाठः । ५ 'प्रदेशिनां ' इति ग-पाठः । For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ सूत्र २] स्वोपज्ञभाष्य–टीकालङ्कृतम् २९५ भा० - मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः ( पृ० १२१ ) । तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवति संम्यग्दर्शनादीनां चोत्पत्तिः । " तत्त्वार्थश्रद्धानं सम्यग्दर्शनं " ( अ० १ सू० २ ), 66 तन्निसर्गाद्विगमाद् वा " (अ० १, सू० ३ ) इत्युक्तम् ॥ टी० - मिथ्यादर्शनादय इत्यादि भाष्यम् । प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयादभावो भवति । मिथ्यादर्शनं अज्ञानविशेषः । ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते । अन्यथा व्यवस्थितान् जीवादिपदार्थान् अन्यथा - वैपरीत्येन प्रतिपद्यते, अत आह- तदावर णीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य मिथ्याज्ञानस्य यदावरणं तदभावान्मिथ्यादर्शनाभावः । नाप्यविरतिप्रमाद - कषाया- दर्शनावरणमोहक्षयात् योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्धः । इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणोऽन्त्यकाले समस्ति । सम्यग्दर्शनज्ञानावरणानां चोत्पत्तिः प्रागभिहितानामुपलक्षयति- “तत्त्वार्थश्रद्धानं सम्यग्दर्शनं " (अ० १ सू०२) " तन्निसर्गादधिगमाद् वा" (अ० १ सू० ३) इत्युक्तैव न पुनरपि व्याख्यायते । अथवा सर्वमेतत् पूर्वमुक्तम् । भा०-- - एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मणः उपचयो न भवति । टी० - एवं संवरसंवृतस्येत्यादि । एवम् उक्तेन प्रकारेण बन्धहेत्वसम्भव एव संवरस्तेन संवृतस्य- स्थगित सकला स्रवद्वारस्य महात्मनः परमातिशयसम्पन्नस्य सम्यग्व्यायामस्यसम्यक्रियानुष्ठायिनः छद्मस्थस्य सयोगिकेवलिनश्थ निरुद्धसकलयोगस्य च अभिनवस्यापूर्षकर्मणः उपचयो - बन्धो न भवति ॥ भा०- - पूर्वोपचितस्य च यथोक्तै र्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्वद्रव्यपर्यायविषयं पारमैश्वर्यमनन्तं केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति । ततः प्रतनुशुभचतुः कर्मावशेषः आयुःकर्मसंस्कारवशाद् विहरति ॥ २ ॥ ततोऽस्य टी० – पूर्वोपचितस्य प्राम्बद्धस्य क्षयो यथोक्तस्तपोऽनुष्ठानादिभिर्निर्जराहेतुभि रात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः । ततो घातिकर्मक्षयात् समनन्तरमेव समस्तद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति । परं - प्रकृष्टमैश्वर्यं विभूतिः परम्असाधारण ईश्वरत्वं ऐश्वर्ये अनन्तमपर्यवसानत्वादनुच्छेदित्वात् केवलम् - असहायं मत्यादि - रहितं ज्ञानं च दर्शनं च प्राप्य - लब्ध्वा शुद्धो धोतोऽपनीतसकलकर्ममलः । बुद्ध इति कर्तरि १ 'सम्यग्दर्शनज्ञानावरणानां' इति ग-पाठः । २ " अपगत ' इति ग-पाठः । For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ २९६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० निष्ठा । बुध्यतेरकर्मकत्वात् सुप्तविबुद्धवल्लोके प्रयोगदर्शनादकर्मकत्वम् । बुध्यत इति बुद्धा, ज्ञानस्वभाव इत्यर्थः । केवलज्ञानेन सर्व जानीत इति सर्वज्ञः । केवलदर्शनेन सर्व पश्यतीति सर्वदर्शी । रागद्वेषमोहजिज्जिनः । केवली केवलज्ञानदर्शनसम्भवात् । तत उत्पत्रकेवलज्ञानः प्रतनूनि-स्वल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्या-ऽऽयुनर्नाम-गोत्राणि स चायुषः कर्मणः संस्कारवशात्, प्रतिक्षणमनुवृत्तिः संस्कारः, तदशाद विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदाचिद् ध्याति विहरति तिष्ठनपि वा। विविध रजो हरतीति विहरति ॥२॥ ततोऽस्य विहरत उक्तेन विधिना आयुष्ककर्मपरिसमाप्तावितराण्यपि त्रीणि कर्माणि क्षीयन्ते । अत:-- सूत्रम्-कृत्स्नकर्मक्षयो मोक्षः॥ १०-३॥ टी०-कृत्स्नं सम्पूर्ण निरवशेष ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिवाच्य, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतम् । एतत् कृत्स्नं कर्म तस्य क्षय:-शाटः आत्मप्रदेशेभ्योऽपगमः । कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ॥ भा०-कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । टी-कृत्स्नकर्मक्षयलक्षण इत्यादि भाष्यम् । कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य । कृत्स्नकर्मविमुक्त्या आत्मा मुक्त इति लक्ष्यते । स एव मोक्षः सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव । परिणामिनो निरन्वयनाशे न तेदुपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा न सोऽभावः । स च कर्मणामपगमः क्रमेणामुनेति दर्शयति___ भा०-पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद् वेदनीय-नाम-गोत्रा-ऽयुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाचोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते॥३॥ किश्चान्यत् दी-केवलज्ञानोत्पत्तेः प्राक्-पूर्व मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणिक्षीणानि । ततः केवलज्ञानोत्पत्तिः पश्चादूघेदनीय-नाम-गोत्रा-ऽयुष्कक्षयो भवतीति । केवलज्ञानोत्पादात् पश्चादनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि । तत्र का प्रकृतिः क गुणस्थाने क्षीणेति प्रपञ्चेन प्रदर्श्यते-अविरतसम्यग्दृष्टि-देशयति-प्रमत्ताप्रमत्तस्थानानामन्यतमस्थाने मोहनीयप्रकृतयः सप्त क्षीणाः, अनन्तानुबन्धिनश्चत्वारः सम्यक्त्व-मिथ्यात्व-तदुभयानि च । अतोऽनिवृत्तिस्थाने मोहनीयप्रकृतयो विंशतिः क्षीणा, तदुत्पत्ति' इति -पाठः। For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ सूत्रं ४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९७ नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः। क्रमेणानेनाप्रत्याख्यानाः क्रोधादयश्चत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तियेग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्म, साधारणं च । निद्रानिद्रा प्रचलाप्रचला स्त्यानर्द्धिः। ततो नपुंसक-खीवेदौ हास्य-रत्य-रति-शोक-भय-जुगुप्साः पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये कस्मिन् गुण- संज्वलनलोभः क्षीणः। ततः क्षीणकषायस्थाने निद्रा-प्रचले वे द्विचरमस्थाने कस्याः प्रकृतः भय समये क्षीणे । चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः-ज्ञानदर्शनावरण विनानि पञ्च-चतुः-पञ्चभेदानि । अयोगिकेवलिनो द्विचरमसमये नामप्रकतयः पश्चचत्वारिंशत् क्षीणाः । ताश्चेमाः-देवगतिः, औदारिकादिशरीरपञ्चक, संस्थानषट्कं, अङ्गोपाङ्गत्रयं, संहननषट्कं, वर्ण-गन्ध-रस-स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूव्यौं, अगुरुलघु, उपघात, पराघातं, उच्छ्वासः, प्रशस्तविहायोगतिः, अप्रशस्तविहायोगतिः, अपर्याप्त, प्रत्येकं, स्थिर, अस्थिरं, शुभ, अशुभ, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयश कीर्तिः, निर्माणम् । बाह्ये च द्वे अन्यतैरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणाःअन्यतरवेद्य, उच्चैर्गोत्रं, मनुष्यायुः, नव च नामप्रकृतयः । तद्यथा-मनुष्यगति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्त सुभगा-ऽऽदेय-यश-कीर्ति-तीर्थकराख्याः । अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जाः । मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते । एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मना प्रहाणम्-उच्छेदः।बन्धहेत्वभावाचोत्तरजन्ममोऽप्रादुर्भावः। एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुभोवः। केवल आत्मा ज्ञानाडुपयोगलक्षणः शुद्धः, इत्येषाऽवस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते । अवस्थाग्रहणमास्मानुच्छेदप्रतिपादनार्थमिति ॥ ३॥ किश्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते-"औपशमिक-क्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च" (अ० २, सू०१) इत्युक्तं जीवस्वतत्त्वम् । तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किञ्चित् आहोस्वित् किश्चन परिशटति किश्चिनेति सन्देहापनयनार्थमाह सूत्रकारः सूत्रम्-औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन-सिद्धत्वेभ्यः ॥ १०-४॥ -पाठः। २'तरवेये' इति अ-पाठः । ३ 'सुभगोदय' इति -पाठः। १ 'रिकशरीर' इति ४ 'गम्यते' इति अ-पाठः। For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ २९८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० टी-'उपशमे भवः उपशमेन वा निवृत्तः औपशमिकः, स आदिर्येषां ते इमे औपशमिकादयः। आदिग्रहणेन क्षायिक-क्षायोपशमिको-दयिक-पारिणामिका गृहीताः । सेत्स्यल्लक्षणं भव्यत्वं औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि । एषामभावः औपशमिकादिभव्यत्वाभावः । चशब्दः समुच्चये । औपशमिकाद्यभावाद् भव्यत्वाभावाच्च मुक्तात्मा भवति । किं सर्वेषामौपशमिकादीनामभावः । तदुच्यते-अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति । औपशमिक-क्षायोपशमिकौ-दयिकाः सर्वथा न सन्त्येव । क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः । केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि । पारिणामिके तु भावे भव्यत्वमेव केवलं सिंद्धे न सम्भवति । तच्चौपशमिकादिग्रहणाद भव्यत्वं सगृहीतमेव, किमर्थं पुनर्भव्यत्वग्रहणम् ? उच्यते-पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः पारिणामिकाः प्रायेण सन्तीति ज्ञापनार्थम् । अस्तित्व-गुणवत्त्वा-ऽनादित्वा-ऽसङ्ख्येयप्रदेशवत्त्व-नित्यत्वादयः सन्त्येव । एतदनुसारिभाष्यम् भा०-औपशमिक क्षायोपशमिको-दयिक पारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्व-केवलज्ञान-केवलदर्शन-सिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥ ४॥ टी-औपशमिकेत्यादि । औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः । एषामभावाद् भव्यत्वाभावाच मोक्षः । अन्यत्र केवलसम्यक्त्वादिभ्यः इत्युपपदलक्षणा पश्चमी । दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्यास्तस्मान्मुक्तस्यापि भवन्तीति ॥ ४ ॥ स पुनर्मुक्तात्मा यत्र मुक्तः समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टे जगाद सूत्रम्-तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥ १०-५॥ भा०-तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं औपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्च गच्छत्या लोकान्तात् । कर्मक्षये देहवियोग-सिध्यमानगतिलोकान्तप्राप्तयो यस्य युगपदेकसमयेन भवन्ति । टी-तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते औपशमिकादिभव्यत्वाभावो वा । तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छति । कियतीं १ 'उपशमनेन ' इति ग-पाठः। २ 'सिद्धा न सन्ति' इति ङ-पाठः । ३ 'कादीनां ' इति ग-पाठः । ४ 'केवलदर्शनं' इति उ-पाठः। ५ स्य ' इति घ-पाठः। For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ मतान्तरम् सूत्र ५] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९९ भूमिमित्याह-लोकान्तात् पञ्चास्तिकायसमुदायो लोकः तस्यान्तो-मस्तकः, तत्रेपत्प्राग्भारा नाम क्षोणी तुहिनसकलधवला उत्तानकच्छत्रकाकृतिः । तस्याश्थोपरि योजनमेकं लोकः, तस्याधस्तनकोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुस्त्रिशतीसम्मिते धनुखिभागाधिके लोकान्तशब्दो वर्तते । आङो मर्यादायां प्रयोगः आँ उदकान्तादिति यथा, एवमा लोकान्ताद् गच्छति, न ततः परमिति । तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजस-कार्मणयोः क्षयः। सिध्यमानगतिरिति ताच्छील्ये वाऽनङ्-सेधनशील एवासौ नान्यशीलोऽवश्यमेव सिध्यति तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्तिः-लोकान्तेऽवस्थानं एतस्त्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद् भवति । गतिश्च समयान्तरं प्रदेशान्तरं वाऽस्पृशन्ती भवति । तस्य ५ अचिन्त्यसामर्थ्याच्चैतत् सर्वं युगपद् भवति । देहवियोगादि केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति । भा०-तद्यथा-प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तद्वत् ॥ ५॥ टी०-तद्यथेत्यादिना दृष्टान्तयति-प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते। प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद वा चेष्टास्वरूपः परिणामः प्रयोगपरिणामः। आदिग्रहणात् स्वाभाविको वा। परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्यतस्माज्जातस्य गतिकर्मणो-गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण घणुकादिकार्यारम्भः पूर्वपर्यायेण विनाशस्तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकाला एकसमयेन भवन्तीत्यर्थः । उत्पादेविगमस्थानवदिति सुज्ञानम् ॥ ५॥ भा०–अत्राह-प्रहीणकर्मणो निरास्रवस्य कथं भवतीति। अनोच्यते टी-अबाहेत्यादि सूत्रं सम्बध्नाति । प्रहीणकर्मण इति क्षपितनिरवशेषकर्मराशेनिरास्रवस्य-निरस्तकायवामनोयोगस्य कथं-केन प्रकारेण गतिः-लोकान्तप्राप्तिर्भवति । एवं मन्यते-योगाभावात् स तदा निष्क्रियोऽगतिश्च (अ)क्रियातो लोकान्तगमनमनुपपन्नमिति प्रश्नयति । अत्रोच्यते-यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते १'तद्देश' इति उ-पाठः। २'कच्छपाकृतिः' इति ङ-पाठः । ३ 'अत्रोदकान्ता.' इति उ-पाठः, 'अत्रेदं कान्ता' इति तु च-ज-पाठः ।४'विनाशस्थान ' इति ग-पाठः। ५ 'लोकगमन' इति हु-पाठः। For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ ३०० मुक्तिगमने हेतवः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० सूत्रम्-पूर्वप्रयोगाद् , असङ्गत्वाद्, बन्धच्छेदात्, तथाहेतवः गतिपरिणामाच तद्गतिः ॥ १०-६॥ भा०-पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद भ्रमत्येवा संस्कार परिक्षयात् । ०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविद्धं-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात्। संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्टान्तिकमर्थं समीकुर्वन्नाह भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति । तत्कृता गतिः । किश्चान्यत् टी--एवं यः पूर्वमस्येत्यादि । योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति । तेन हेतुना क्रियते गतिरित्यर्थः । किश्चान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति भा०---असङ्गत्वात्। पुद्गलानां जीवानां च गंतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । एष स्वभावः । टी-असङ्गत्वादिति । सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योर्ध्वं गतिः सिद्धा। न हि स्वाभाविक्या गत्या गच्छन्ना कचित् स्खलनमासादयति । एतद्व्याख्यानायाह -पुद्गलानामित्यादि । पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयः। जीवास्तु ज्ञानदशेनोपयोगलक्षणाः । एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धर्माधर्माकाशद्रव्याणाम् । तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः । गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति । जीवानामपि तादृशं गौरवं परिणामविशेषो लाघवं येषामिति । एवंविधं तेषां गौरवं विशिष्टं येनोर्ध्व गच्छन्ति एषा(ष ?) पुद्गलानां च स्वभावः । १ 'चक्रसंयोगात् ' इति ग-पाठः । २ ‘मस्य कर्मणा' इति घ-पाठः। 'मिख्यस्य ' इति च-पाठः। ४ 'गतित्व' इति ग-पावः। For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ सूत्रं ६] . स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवावग्ननिां गतयो दृष्टास्तथा सङ्गविनिमुक्तस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति। संसारिणस्तु कर्मसंङ्गादधस्तियंगूर्व च । किश्चान्यत् टी०-अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति । सङ्ग:कर्मकृतं स्खलनम् । आदिग्रहणात् अभिधातप्रेरणादिषु गमनकारणेषु । 'जातिनियमेन' जातिः पृथिव्य-ऽनिला-ऽनलव्यक्तिभेदेन भिन्ना । पृथिवीत्व-वायुत्वा-ऽग्नित्वाख्या तया नियमः क्रियते। तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः। यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः। एवं तिर्यग्गतिर्वायुः । ऊर्ध्वगतिर्दहनः । स्वजातिनियमेनैवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य-कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु-नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसङ्गात्-कर्मजनितस्खलनादधस्तियंगूज़ चानियमेन गतिर्भवति ॥ किश्चान्यदिति युक्त्यन्तरोपन्याससूचनम् । भा०-बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात् पेडाया बीजकोशबन्धनच्छेदाचैरण्डबीजादीनां गतिदृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिः ॥ किश्चान्यत टी-बन्धच्छेदादिति । बध्यते 'येन रज्ज्वादिना स बन्धः । तस्य छेदः शस्त्रेण घोटनं वा । तद् व्याचष्टे-यथा रज्ज्वा गाढमापीड्यापीड्य बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूर्ध्व दृष्टं बीजकोशबन्धच्छेदाच बीजकोशः फलीफलं वा तस्यास्तु बन्धनं गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः छेदः। ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा। तानि तूड्डीयोड्डीय दूरे पतन्ति तथा कर्मबन्धः फलकडाहस्थानीयस्तच्छेदात्-तद्विघटनादनन्तरमेवोज़ सिध्यमानगतिरिति ॥ किश्चान्यदिति विवक्षितार्थप्रसाधनाय हेत्वन्तरमुपादत्ते भा०–तथागतिपरिणामाच्च । ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च हेतुभ्यस्तथाऽस्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति, ऊँ नास्तिर्यग् वा ॥ टी०–तथागतिपरिणामाचेति । तथा तेन प्रकारेण सर्वकर्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि । चशब्दः समुच्चये । एभ्यश्च पूर्वोक्तहेतुभ्यः-ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवतीति । १'वाद्यादीनां' इति ग-पाठः। २ 'संयोगा.' इति ग-पाठः। ३'हेम' इति ज-पाठः । ४ 'ऊर्ध्वमेव भवति' इति घ-पाठः । For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ ३०२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १० सप गतिपरिणाम ऊर्ध्वमेव भवति नास्तिर्यग वा । पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि । तदाह भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजोद्भेदादङ्कुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदौहुंदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति । टी-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि । तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते । गुणवद्भूमिभागारोपितमिति बीजावस्था । गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु जातं ततश्चोच्छेनावस्थाद् बीजोद्भेदादङ्कुरः प्रवालं किसलयं पर्ण जरठं व ततः पुष्पं ततः फलं एषां वीजारोपणोद्भेदादकुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च । आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः । एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति । सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति । भा०–तदेव गुरुकृष्णमृत्तिकालेपैनैर्बहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तज्जलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा भृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोवं गच्छति आ सलिलोवंतलात्।। टी०–तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैर्धनैः-निरन्तरैर्बहुभिः-अष्टाभिदमवेष्टंने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् । यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवो गच्छत्या सलिलोवंतलादित्येष दृष्टान्तः । सम्प्रति दार्शन्तिकं दर्शयति भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगूवं च गच्छति १'तूना' इति ज-पाठः। २ मृत्तिकावेष्टन' इति ग-पाठः । ३ ' तलप्रविष्टं' इति ग-पाठः । ४.वेटनकाल' इति च-ज-पाठः। ५'तलप्रतिष्ठं ' इति च-ज-पाठः। ६ 'सम्बन्धेन' इति ग-पाठः । ७ 'मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः । For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ ३०३ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत्। लोकान्तादूर्ध्व मुक्तस्य गतिः किमर्थ न भवतीति । अत्रोच्यते टी–एवमूर्ध्वगौरवेत्यादि । संसारोदधौ भवसलिले भवः-औदारिकादिकायनिवृत्तिः । भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेन अधस्तिर्यगृवं च गच्छति । ततः सम्यग्दर्शनज्ञानावरणसलिलाीकृतप्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते-ऊवं गच्छत्या लोकान्तादिति को नियमः १ स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति । अत्रोच्यते भा०-धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रहकारणाभावात् परतो गतिर्न भवत्यप्सु अलावुवत् । नाधो न तियेगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति ॥६॥ टी०-धर्मास्तिकायाभावादिति । अस्त्येव निवारकं धर्मद्रव्यं तद्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम्, न त्वगच्छन्तं झर्ष बलाद् वारि नयति । एवं गतिपरिणतस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति । स च लोकात् परतो नास्ति । तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिनास्ति अप्सु यथाऽलाबुनः । अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकाविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् । ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति । यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिनभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति ॥ यथोक्तम् "धर्माभावाचालोके स प्रतिहन्यते न लोकाग्रे ॥ [ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च ॥१॥ मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् । मुक्तस्य संमृतिर्हि न युक्ता भ्रमणं हि संसारः ॥२॥ संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् । अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः ॥३॥ For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ ३०४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० तिष्ठति सर्वार्थान् सोऽत्यन्तं पश्यंस्तथा विजानंश्च । नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य ॥४॥ घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति । तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः ॥५॥ यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति । इति वा चोद्यं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् ॥ ६ ॥ कार्याभावाच्च पुनने स्पन्दस्तस्य विद्यतेऽत्यन्तम् । प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य ॥ ७॥ विषयैश्च तस्य नार्थः क्षुत्-तुट्र-स्वेदादि-मोहबाधानाम् । रागादीनां च तथाऽभावादुपयोगहेतूनाम् ॥ ८॥ एतेन व्याख्यातो भाषण-चङ्क्रमण-चिन्तनादीनाम् । चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः ॥९॥" एवं तेषां मुक्तात्मनां " पूर्वप्रयोगादिभियुक्तिस्तद्गतिः” इति वचनात् तेषां गतिः सिद्धेति ॥६॥ त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्द्वादशमिरनुयोगद्वारैरनुगन्तव्याः “प्रमाणनयैरधिगमः" (अ०१, सू० ६) इति वचनादित्याह सूत्रम्-क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिद्धस्य १२ बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि साध्याः ॥ १०-७॥ टी-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति १॥ उच्यते -शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीर्षद्भिः प्रत्युत्पन्नभूतार्थानुग्रहतन्त्रनयद्वितयसामर्थ्यविशेषवद्भिः श्रुतज्ञानाहितदाद_ज्ञानदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि। क्षेत्रादीनां अल्पबहुत्वान्तानां इन्द्रः । द्वन्द्वसमासाभिनिवृत्ताच प्रातिपदिकात् तृतीयार्थे तसिः । सिद्धिविशेषस्यानेकाश्रयत्वात साध्यवचनम् । क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण भा०-क्षेत्रं, कालः, गतिः, लिङ्ग, तीर्थ, चारित्रं, प्रत्येकबुद्धयोधितः, ज्ञानं, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि बादशानुयोगद्वाराणि सिद्धस्य भवन्ति। For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ ३०५ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवासगतिविशेषणाल्लोकाकाशपरिग्रहः । तस्यापि लोकाकाशस्यैकदेशग्रहणम् , अर्धत्तीयद्वीपसमुद्रद्वयमीषत्प्राग्भारोपलक्षितच गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्योत्सर्पिण्यवसर्पिणीच ग्राह्या । गतिर्नरकादिभेदेन चतुर्विधा । लिङ्ग खी-पुं नपुंसकाख्यम्, अथवा द्रव्यलिङ्ग भावलिङ्गमलिङ्गमिति । तीर्थमिति तीर्थकरत्वं प्राप्य सिद्धा इत्यादिविकल्पम् । चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदम् । प्रत्येकबुद्धबोधितः स्वयम्बुद्धसिद्धादिभेदः । ज्ञानं मति-श्रुतादिभेदम् । अवगाहनामिति शरीरावगाहग्रहणम्। अन्तरमेकसमयादिकं षण्मासान्तिकम् । सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि। अल्पबहत्वमिति क्षेत्रसिद्धाद्यन्तःपातिभेदानां परस्परं चिन्त्यते । एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वलामे कारणानि भवन्ति। एतदेव स्पष्टयति भा०-एभिः सिद्धः साध्यः अनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः। टी–साध्यपर्यायानाचष्टे-अनुगमनीयोऽनुगम्योऽनुसर्तव्योऽनुसृत्यः। चित्ते व्यवस्थाप्यश्चिन्त्यः व्यवस्थाप्य च व्याख्येयः-कथनीयः । एकस्य-अभिन्नस्यार्थस्य वाचकाः सर्व एते साध्यादयः । अत एव पर्यायत्वं युगपदप्रयोगात् । तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये छौ नयो पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च । पूर्वम्-अतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः । प्रत्युत्पन्न-वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः । नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ । एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसग्रह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः-ताभ्यां कृतोऽनुयोगविशेषो-व्याख्याप्रकारः॥ भा०-तद्यथा-कस्मिन् क्षेत्र सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे 'सिध्यतीति। पूर्वभावप्रज्ञापनीयस्य जन्म प्रति पञ्चदशसु कर्मभूमि जातः 'सिध्यतीति । संहरणं प्रति मानुषे क्षेत्रे 'सिध्यतीति । तत्र प्रमत्तसंयताः संयतासंयताश्व संहियन्ते ॥ टी०-तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्र सिध्यति । तत्र प्रत्युत्पप्रभावप्रज्ञापनीयस्य सिद्धिक्षेत्र सिद्धयतीति । तत्र सिद्धः प्रतिष्ठितः। तथा चागमः'इहं बोदि चइत्ता णं तत्थ गंतूण सिज्झई"। अप्राप्तस्थानस्तु नैव सिद्धः, 'कृत्यशेषत्वात् । १-३ 'सिध्यति' इति घ-पाठः । ४ 'प्रतिष्ठितो यः' इति च-ज-पाठः । ५ आवश्यक-निर्युक्तेः ९५९समीगाथाया अयमुत्तरार्धः, एतत्पूर्वार्धश्छायापूर्वको यथा " अलोए पडिहया सिद्धा, लोअग्गे अपइद्विआ।" __ अलोके प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह तर्नु स्यत्वा तत्र गत्वा सिध्यन्ति । ६'कृत्यं 'इति च-ज-पाठः। For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ ३०६ तत्वार्थाधिगमसूत्रम् [अध्यायः १० पूर्वभावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । संहरणं द्विधा-स्वकृतं परकृतं च । तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् । संहरणस्य द्वैविध्यम् परकृतं चारण-विद्याधर-देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् । तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति -तत्र प्रमत्तसंयताः संयतासंयताश्च-देशविरताः संहियन्ते । मतान्तरम् केचिदाहरविरतसम्यग्दृष्टिरपीति । अमी पुनर्न जातुचित् संहियन्ते भा०-श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां से रणभावना कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संन्हियन्ते टी-श्रमणी संयतीत्यर्थः। अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति । एते सप्तापि न संहियन्ते । आगमोऽपि “समणीमवगयवेदं परिहारपुलागमप्पमत्तं च । . चोद्दसपुग्विं आहारगं च णवि कोवि संहरइ ॥"' भा०-ऋजुसूत्रनयः शब्दाद्यश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति । टी-ऋजुसूत्रनयः शब्दादयश्च त्रयः-शब्द-सममिरुलै-वम्भूताःप्रत्युत्पन्नभावप्रज्ञापनीयाः-वर्तमानार्थग्राहिणः। शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति ॥ भा०-कालः। अत्रापि नयद्वयम् । कस्मिन् काले सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति। एवं तावद्विशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वेकालेषु अवसपिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति॥ १ 'इति' इति न्यूनो ग-पाठः। २ छाया श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च । चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति ।। ३ प्रवचनसारोद्धारे १४१९तमीगाथारूपेणोद्धृतेयम् । For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३०७ टी०-काल इति । अत्रापि तदेव नयद्वयम् । कस्मिन् काले सिध्यतीति । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले-अविद्यमानकाले ईषत्प्राग्भारोपलक्षितगेमनदेशे सिध्यति । न च तत्र कालः समस्ति गतश्च तत्र सिध्यति। इतरस्य तु जन्मतः संहरणतश्च । तत्र जन्मतोऽवसर्पिण्यादिषु त्रिष्वपि जातः सिध्यति । एवं तावदविशेषतः, सामान्येनेत्यर्थः। विशेषतस्तु अवसर्पिण्यां सुषमदुःषमायां-तृतीये कालभागे सङ्ख्ययेषु वर्षेषु शेषेषु जातः सिध्यति। दुःषमसुषमायां सर्वस्यां-चतुर्थे कालविभागे सर्वत्र सिध्यति । दुःषमसुषमायां जातो दुःषमायां-पञ्चमे कालविभागे सिध्यति, न तु दुःषमायां जातः कदाचित् सिध्यतीति । अन्यत्रोत्पत्तिः दुःषमायामपि जातो नैव सिध्यति। संहरणं प्रति विवक्ष्यते यदा तदा सर्वकालेष्ववसर्पिण्यादिष्वपि सिध्यतीति ॥ भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य 'सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधाः-अनन्तरपश्चात्कृतगतिकश्च एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषण सर्वगतिभ्यः सिध्यति । .टी-गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धगत्यां सिद्धयति, नान्यस्यां गतौ। शेषाखिकालविषया नया द्विप्रकाराः। अनन्तरपश्चादित्यादि । अनन्तरा पश्चात् कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिध्यति । एकान्तरेत्यादि । एकान्तराः पश्चात्कृता गतयो येन तस्याप्यविशेषेण सर्वगतिभ्यः सिध्यति । एकमनुष्यगत्या अन्तरिताः-पश्चात्कृता नरकगतयो येनेत्यर्थः॥ भा०–लिङ्गम् । स्त्री-पु-नपुंसकानि । प्रत्युत्पनभावप्रज्ञापनीयस्यावेदः सिध्यति। पूर्वभावप्रज्ञापनीयस्य अनन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति ॥ टी-लिङ्ग ख्यादि । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अवेदो-विगतलिङ्गः सिध्यति । लिङ्ग वेद इत्येकोऽर्थः। पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगतिकस्य । अनन्तरपश्चात्कृतलिङ्गस्येत्यर्थः। गतौ चतुर्विधायां नियमेन लिङ्गं, लिङ्गे चावश्यम्भाविनी गतिरिति लिङ्गशब्दो नोचरितः, अविनाभावात् । यदेवानन्तरं पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं वा एकमेव । एकान्तरपश्चात्कृतगतिकश्चेत्यत्रापि गतिशब्दो लिङ्गवाची। एकेनान्तरेण लिङ्गेन पश्चात्कृतानि शेषलिङ्गानि येन तस्य त्रिभ्यो लिङ्गेभ्यः सिध्यति॥ १ 'गगन' इति ग-पाठः । २ 'प्रसंहरणं' इति च-ज-पाठः। ३ सिद्धगत्यां ' इति घ-टी-पाठः । For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ ३०८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०–तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धास्तीर्थकरतीर्थे अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि॥ ___टी०-तीर्थमिति। अत्र सन्ति-विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवपूर्वकाः सिद्धाः तीर्थकरसिद्धाः। ते च तीर्थकरतीर्थे तीर्थकरेण प्राक प्रवर्तितं तीर्थ तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति । नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः। ते च तीर्थकरतीर्थे । अतीर्थकर सिद्धाः साधवः तीर्थकरतीर्थे । एवम्-उक्तेन प्रकारेण तीर्थकरीतीर्थसिद्धा अपि वाच्याः। तीर्थकरीतीर्थतस्तीर्थकरी सिध्यतीत्यादि । सिद्धप्राभृते अमी विकल्पाः- "अस्थि तित्थकरसिद्धा तित्थकरतित्थे नोतित्थसिद्धा तित्थकरतित्थे तित्थसिद्धा तित्थकरतित्थे तित्थसिद्धाओ तित्थकरीसिद्धा तित्थकरीतित्थे नोतित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धाओ" । अत्र तत्त्वविदः प्रवचनाभिज्ञाः॥ __भा०-लिङ्गे पुनरन्यो विकल्प उच्यते-द्रव्यलिङ्ग भावलिङ्ग अलिङ्गमिति । प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्ग प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं-स्वलिङ्गमन्यलिङ्गं गृहिलिङ्गमिति । तत् प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति ॥ टी-लिङ्गे पुनरन्यो विकल्प उच्यते ॥ ननु च पूर्वमेवोपन्यसनीयः स्यात् । सत्यमेव क्षम्यतामिदमेकमाचार्यस्य । त्रिप्रकारं लिङ्ग-द्रव्यलिङ्ग भावआचार्यस्य स्खलना लिङ्गमलिङ्गमिति, तीर्थोपाधिकत्वात् वृत्तौ त्रय एव विकल्पाः। तत्र प्रत्यु त्पन्नग्राहिणो नयस्य शुद्धस्य अलिङ्ग एव सिध्यति तदा तु द्रव्यलिङ्गन सम्भवत्येव । द्रव्यलिङ्ग त्रिविधं रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्गम् । अन्यलिङ्ग भौतपरिव्राजकादिवेषः । गृहिलिङ्गं दीर्घकेश-कच्छा-बन्धादि । तदेवंविधं द्रव्यलिङ्गं भाज्यम्कदाचित् सलिङ्गः कदाचिदलिङ्ग इति । भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि । तत्र किश्चिदनुयायि किञ्चिन्निवर्तते, श्रुतं नास्ति सिद्धे क्षायिकसम्यक्त्वं तु विद्यते । चरणमपि सामायिकादि आवर्तत एव । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति । श्रुतादिकं स्वलिङ्गं तत्रस्थः सिध्यति । सङ्क्षपतस्तु सर्वो भावलिङ्ग प्राप्तः सिध्यतीति नियमः ॥ १'व्याख्याताः' इति ग-पाठः । २ छाया अस्ति तीर्थकरसिद्धास्तीर्थकरतीर्थे नोतीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरीसिद्धाः तीर्थकरीतीर्थे नोतीर्थसिद्धाः तीर्थकरीतीर्थे तीर्थसिद्धास्तीर्थकरीतीर्थे तीर्थसिद्धाः। For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३०९ भा० - चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री 'सिध्यतीति । ' टी० - चारित्रमिति । वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिध्यति । नोशब्दः सर्वप्रतिषेधे । नास्त्य॒स्य चारित्रं सामायिकादि नोअचारित्री द्वौ प्रतिषेधौ । तत्र चारित्र्येव गम्यते किं तर्हि अचारित्री अंविरत इत्यपि वक्तुं न शक्यते । तस्मान्न विरतो नाविरत इति ॥ भा० - पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपयत्कृतिकञ्च । अनन्तर पश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति । परम्परपश्चास्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च । अव्यञ्जिते त्रिचारित्रपश्चात्कृतः चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिक सूक्ष्म सम्पराय यथाख्यातपश्चास्कृतसिद्धाः छेदोपस्थाप्य-सूक्ष्म सम्पराय यथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्य - सूक्ष्म सम्पराय - यथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्य परिहारविशुद्धि-सूक्ष्म सम्पराय - यथाख्यातपश्चात्कृत सिद्धाः सामायिक च्छेदोपस्थाप्यपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः ॥ टी० - पूर्व भावप्रज्ञापनीयो द्विधा । अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तर पश्चात्कृतिको नयः । अस्य तु यथाख्यातचारित्री सिध्यति । इतरस्य व्यञ्जिते- व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते सामान्यमात्रे अविशेषिते वक्तव्यं तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतः सिध्यति । कानि त्रीणि चारित्राणि चत्वारि पञ्च वा ? । अतो व्यज्यते-सामायिकं, सूक्ष्मसम्परायं यथाख्यातं च; अथवा छेदोपस्थाप्यं सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयम् । चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानम् । पश्चचारित्रस्यैक एव विकल्पः ॥ भा० – प्रत्येकबुद्धबोधितः । अस्य व्याख्या - विकल्पश्चतुर्विधः । तद्यथाअस्ति स्वयम्बुद्धः । स द्विविधः - अर्हश्च तीर्थकर ः प्रत्येकबुद्धप्रत्येक बुद्धबोधितस्य व्याख्याया- सिद्धश्च । बुद्धबोधितैसिद्धः त्रिचतुर्थो विकल्पः । परबोधकसिद्धाः धातुर्विध्यम् स्वेष्टका रिसिद्धाः ॥ डी० -- प्रत्येकबुद्धबोधित इति चतुर्धा व्याख्यायते - तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति । तद्यथेत्यादिना दर्शयति । अस्ति स्वयम्बुद्धसिद्धः स्वयमेव बुद्ध:, १' सिध्यति इति घ-पाठः । ३ 'अचरित' इति च-ज-पाठः । " २ ' पूर्वभावप्रज्ञापनीयस्य नोचारित्री सिध्यतीति' इत्यधिको ग-पाठः । ' साम्परायिक' इति घ-पाठः । ५ ' सिद्धाः' इति घ-पाठः । ४ For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ ३१० तत्वार्थाधिगमसूत्रम् [ अध्यायः १० नान्येन बोधितः । स द्विविधः - तीर्थकरोऽर्हतां तीर्थकर नामकर्मोदयभाक् । तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिन्निमित्तेन सञ्जातजातिस्मरणाद् वल्कलचीरिप्रभृतयः करकरण्डवादयश्च प्रत्येकबुद्धाः । बुद्धबोधितोऽपि द्विविधः । बुद्धेन ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः । परबोधकः परस्मायुपदेशं ददाति । अपरः पुनः स्वस्मै इष्टं-हितं स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मै युगपदुपदिशति किञ्चिदिति चतुर्थो विकल्पः । एते चत्वारोऽपि विकल्पा विकल्पद्वयमनुप्रविशन्ति । तत्र स्वयम्बुद्धसिद्धे तीर्थकरः प्रत्येकबुद्धच बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति ॥ चतुर्विकल्पानां द्वयेऽन्तर्भावः भा० - ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकच अव्यञ्जिते च व्यञ्जिते च । अव्यञ्जिते द्वाभ्यां ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुर्भिरिति । व्यञ्जिते द्वाभ्यां मति श्रुताभ्याम्, त्रिभिर्मति श्रुताऽवधिभिः मति श्रुत-मनः पर्यायैर्वा, चतुभिर्मति श्रुताऽवधि-मनः पर्यायैरिति ॥ टी० - ज्ञानमिति । अत्रापि तावेव द्वौ नयौ । तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिध्यति । इतरोऽपि द्विविधः । तत्रानन्तरं कदाचित् किश्चित् ज्ञानं भवति परम्परपश्चास्कृतिकस्य । अव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः । तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि । व्यञ्जिते मते मति श्रुतवान् मति श्रुताऽवधिमान् मति श्रुतमनः पर्यायवान् वा मति श्रुताऽवधि - मनः पर्यायवान् सिध्यतीति ॥ भा० – अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । । अवगाहना द्विविधा - उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनुःशतानि धनु:पृथक्त्वेनाभ्यधिकानि । जघन्याः सप्त रत्नयोऽङ्गुल पृथक्त्वहीनाः । एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य । अप्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति ॥ टी० - अवगाहनेति । आत्मनः शरीरेऽवगाहः - अनुप्रवेशः । सङ्कोचविकासधर्मत्वादात्मनस्तच्छरीरं किंप्रमाणमिति चिन्त्यतेऽवगाहना चरमशरीरे । साऽवगाहना द्विधाउत्कृष्टा जघन्या च । तत्रोत्कृष्टा पश्च धनुःशतानि धनुः पृथक्त्वेनाभ्यधिकानि, १' परस्मायुगपदिशति' इति च-ज-पाठः । २ 'पृथक्त्वेन हीनाः ' इति घ-पाठः । For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ ३११ सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् द्विप्रभृत्या नवभ्यः पृथक्त्वसंज्ञा च। एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां सम्भवति । तीर्थकराणां पञ्चव धनुःशतान्युत्कृष्टा जघन्या च सप्तहस्तानां तीर्थकराणातीर्थकराणामा मेव । अङ्गुलपृथक्त्वोना सामान्येन तु जघन्या द्विहस्तानां वामनकूर्म सुतादीनामिति । तत्र पूर्वभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीये तु एतास्वेवावगाहनासु यथास्वं पञ्चधनुःशतादिकासु त्रिभागहीनासु सिध्यतीति ॥ ___ भा०-अन्तरम् । सिध्यमानानां किमन्तरम् । अनन्तरं च सिध्यन्ति सान्तरं च सिध्यन्ति । तत्रानन्तरं जघन्येन द्वौ समयौ, उत्कृष्टेनाष्टौ समयान । सान्तरं जघन्येनैकं समयं, उत्कृष्टेन षण्मासा इति ॥ टी०-अन्तरमिति। सिध्यमानानां जीवानामन्तरं च । तत्रान्तरमेको वर्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धेः गमनशून्यः कालोऽन्तरम्, अन्तरालमित्यर्थः । अनन्तरं निरन्तरमन्त्यव्यवच्छेदोऽनुसन्ततमित्यर्थः । तत्र नैरन्तर्येण जघन्यतः सिध्यन्ति हो समयो उत्कृष्टेनाष्टौ समयानिति । ततः परं व्यवच्छेदः। अन्तरं तु जघन्येनैकसमयः, उत्कृष्टेन षण्मासाः सिध्यन्तः सिध्यतो व्यवच्छिद्यन्ते। व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोखिषु वेत्यादि यावत् षण्मासा इति ॥ भा०-सङ्ख्या। कत्येकसमये सिध्यन्ति। जघन्येनैकः, उत्कृष्टेनाष्टशतम् ॥ टी–सङ्ख्येति । एकस्मिन् समये कति सिध्यन्ति ? जघन्यत एकः सिध्यति, उत्कृष्टेनाष्टोत्तरशतमिति ॥ भा०-अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् । तद्यथा-क्षेत्र सिद्धानां जन्मतः संहरणतश्च कर्मभूमिसिद्धा अकर्मभूमिसिद्धाश्च सर्वस्तोकाः, संहरणसिद्धा, जन्मतोऽसङ्ख्येयगुणाः ॥ टी०-अल्पबहुत्वमित्यादि । एषां क्षेत्रादीनां सङ्ख्यातानामेकादशानामल्एबहुत्वं चिन्त्यते जन्मतः संहरणतश्चेति । जन्मतः पञ्चदशसु कर्मभूमिषु अकर्मभूमयस्त्रिंशत् हैमवताद्याः । तत्र संहरणं कर्मभूमिष्वकर्मभूमिषु वा। तत्र सर्वस्तोकाः संहरणसिद्धाः । अत एवासङ्ख्येयगुणा जन्मतः सिद्धाः॥ भा०–संहरणं विविध-परकृतं स्वयंकृतं च । परकृतं देवकर्मणा चारण-विचारैश्च । स्वयंकृतं चारण-विद्याधराणामेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दीपा ऊर्ध्वमधस्तिर्यगिति लोकत्रयम् । तत्र सर्वस्तोका ऊर्ध्व 'सिध्यता' इति उ-ज-पाठः। २ 'सिद्धाश्च ' इति घ-पाठः। For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ ३१२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १० लोकसिद्धाः, अधोलोकसिद्धाः सङ्ख्येयगुणाः, तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, बीपसिद्धाः संख्येयगुणाः। एवं तायव्यञ्जितेव्यञ्जितेऽपि सर्वस्तोकालवणसिद्धाः कालोदसिद्धाःसख्येयगुणाः, जम्बूद्वीपसिद्धाः सख्येयगुणाः, धातकीखण्डसिद्धाः सङ्ख्येयगुणाः, पुष्करार्धसिद्धाः सङ्ख्येयगुणा इति॥ टी-संहरणं विविधमित्यादि गतार्थम् । समभूतलाद्भूभागा नव योजनशतान्यारुह्य तत उपर्युवलोकः, अधोलोकोऽपि नव योजनशतान्यवगाह्य परतोऽष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः । भाष्यशेष पठितसिद्धम् । एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यते भा०-काल इति त्रिविधी विभागो भवति–अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां व्यञ्जिताव्यञ्जितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभागप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धाः, अवसपिणीसिद्धा विशेषाधिकाः, अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति। नास्त्यल्पबहुत्वम् । टी-काल इति । त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यम् ॥ भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति। नास्त्यल्पवहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति। नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्याऽनन्तरा गतिश्चिन्त्यते । तद्यथा-सर्वस्तोकास्तियंग्योन्यनन्तरगतिसिद्धाः, मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, नारकेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, देवेभ्योऽनन्तरसिद्धाःसङ्ख्येयगुणा इति॥ टी०-गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति । तिर्यग्योनेरुदृत्य मनुष्यगतौ सिद्धास्तथा मनुष्यगतेरेवोद्धृत्य मनुष्येषत्पद्यन्ते सिद्धाः । एवं शेषेष्वपि पाच्यम् ॥ भा०-लिङ्गम् । प्रत्युत्पन्नभाषप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः सङ्ख्येयगुणाः, पुंल्लिङ्गसिद्धाः सङ्ख्येयगुणा इति॥ टी-लिङ्गमिति ख्यादिकम् । नपुंसकसिद्धाः स्तोकाः । स्त्रीसिद्धाः सङ्ख्येयगुणाः । पुंसिद्धाः सङ्ख्येयगुणा इति । १ 'न च अल्प' इति ग-पाठः। For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-तीर्थम् । सर्वस्तोकास्तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्ख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्ख्येयगुणाः। तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणाः । तीर्थकरतीर्थसिद्धाः पुमांसः सङ्ख्येयगुणा इति॥ टी–तीर्थमित्यत्राल्पबहुत्वचिन्ता । तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणास्ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः॥ भा०-चारित्रम् । अत्रापि नयो द्वौ-प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च । प्रत्युत्पन्न भावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । मास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च । अव्यञ्जिते सस्तोकाः पश्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्ख्येगुणाः त्रिचारित्रसिद्धाः सङ्खयेयगुणाः । व्यञ्जिते सर्वस्तोकाःसामायिक-छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः छे दोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः सामायिक-छे दोपस्थाप्य-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः [सामायिक परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातसिद्धाः सङ्ख्येगुणाः] सामायिक-सूक्ष्मसम्पराय यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः छेदोपस्थाप्य सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः ॥ टी-चारित्रमित्यत्रापि तावेव द्वौ नयौ चतुश्चारित्रसिद्धेषु द्वौ विकल्पो, विचारित्रसिद्धेष्वपि द्वावेव । सर्वत्र सङ्ख्येयगुणत्वम् । ___ भा०- प्रत्येक बुद्धबोधितः । सर्वस्तोकाः प्रत्येकवुद्धसिद्धाः । बुद्धबोधितसिद्धा नपुंसकाः सख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः सङ्ख्येयगुणाः । बुद्धबोधितसिद्धाः पुमांसः सङ्ख्येयगुणा इति ॥ टी०-प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । सर्वत्र सङ्ख्येयगुणत्वम् ॥ भा०-ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः, चतुज्ञानसिद्धाः सख्येयगुणाः, त्रिज्ञानसिद्धाः सङ्ख्ये. यगुणाः। एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मति-श्रुतज्ञानसिद्धाः, मतिश्रुता-ऽवधि-मनःपयोयज्ञानसिद्धाः सङ्ख्येयगुणाः, मति-श्रुता-ऽवधिज्ञानसिद्धाः सङ्ख्येयगुणा इति॥ इति' इति पाठो नास्ति घ-पुस्तके । For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ ३१४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० टी०-ज्ञानमित्यत्रापि सर्वत्र सङ्ख्येयगुणत्वम् ॥ भा०-अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्धाः । उत्कृष्टावगाहनासिद्धास्ततोऽसङ्ख्येयगुणाः । यवमध्यसिद्धा असङ्ग्येयगुणाः, यवमध्योपरिसिद्धा असङ्ख्येयगुणाः, यवमध्याधस्तात् सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ ___टी०-अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धा असङ्ख्येयगुणाः । द्वावसङ्ख्येयगुणौ द्वौ विशेषाधिकाविति ॥ भा०-अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः, सप्तसमयानन्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति सङ्ख्येयगुणाः। एवं तावदनन्तरेषु सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यान्तरसिद्धाः सङ्ख्येयगुणाः, अधस्तादयवमध्यान्तरसिद्धाः संख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ __ टी०-अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः सर्वेऽपि सङ्ख्येयगुणाः । सान्तरेष्वपीत्यादि । एकसमयान्तरसिद्धाः सङ्ख्येयगुणा यवमध्यान्तरे च सङ्ख्येयगुणाः, अधस्तादूयवमध्यान्तरे च सख्येयगुणाः॥ भा०-सङ्ख्या। सर्वस्तोका अष्टोत्तरशतसिद्धाः, विपरीतक्रमात् सप्तो. त्तरशतसिद्धादयो यावत् पश्चाशदित्यनन्तगुणाः । एकोनपञ्चाशदादयो यावत् पञ्चविंशतिरित्यसङ्खचेयगुणाः । चतुर्विशत्यादयो यावदेक इति सख्येयगुणाः विपरीतहानिर्यथा-सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति॥ टी-सङ्ख्येत्यत्र अष्टोत्तरशतसिद्धाः सर्वस्तोकाः । विपरीतक्रमादिति सप्तोत्तरशतसिद्धा अनन्तगुणाः । एवं विपरीतहान्या यावत् पश्चाशदित्यनन्तगुणाः। विपरीतहानियेथेत्यादिना दर्शयति । सर्वस्तोका अनन्तगुणहानि सिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति ॥ भा०–एवं निसर्गा-ऽधिगमयोरन्यतरजतत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेप-प्रमाण-नयनिर्देश-सत्सङ्ख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौ-दयिकौ पश १ 'असङ्ख्येय ' इति घ-पाठः। For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३१५ मिकक्षायोपशमिक-क्षायिकानां भावानां स्वतत्त्वं विदित्वा आदिमत्पारिणा मिकौदयिकानां च भावानामुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो उपसहारः विरक्तो 'निस्तृष्णः त्रिगुप्तः पञ्चसमितो दशलक्षणधर्मानुष्ठानात् फलदर्शनाच निर्वाणप्राप्तियतनयाऽभिवर्धितश्रद्धासंवेगो भावनाभिर्भावितात्माऽनुप्रेक्षाभिः स्थिरीकृतात्मानभिष्वङ्गः संवृतत्वान्निरास्रवत्वाद् विरक्तत्वान्निस्तृष्णस्वाच व्यपगताभिनवकर्मोपचयः परीषहजयाद् बाह्याभ्यन्तरतपोऽनुष्ठानात् अनुभावतश्च सम्यग्दृष्टयविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसाय. विशुद्धिस्थानान्तराणामसङ्ख्येयगुणोत्कर्षप्रास्या पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात् पुलाकादीनां च निर्ग्रन्थानां संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तपहीणातरौद्रध्यानो धर्मव्यानविजयादवाप्ससमा. धिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति । तद्यथा-आमशौषधित्वं वि डौषधित्वं सौषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानं अणुत्वम् । अणिमा बिसच्छिद्रमपि प्रविश्यासीत । लघुत्वं नाम लधिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिभूमिष्ठोऽङ्गल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमजे. दुन्मज्जेच्च॥ टी-एवमित्यादिना मन्दबुद्धयनुग्रहार्थं सकलमेव तत्त्वार्थशास्त्रार्थ समासतः कथयति-विशुद्धं सम्यग्दर्शनमवाप्यतस्य विशेषणानि निसर्गाधिगमादीनि । ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलम्भात् मिथ्यादर्शनभावितमज्ञानमेव नियमतो मिथ्यादृष्टेः सम्यक्त्वलाभे तु विशुद्धं ज्ञानम् । निक्षेपो नामादिः । प्रमाणे प्रत्यक्ष-परोक्षे । नया नैगमादयः । तथा निर्देश-स्वामित्वादिभिः सत्-सङ्ख्या-क्षेत्रादिभिश्च जीवादीनां च पारिणामिकादयो ये भोवास्तेषां स्वरूपं विदित्वा धर्माधर्मादीनां अनादीनामादिमतां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः-उपकारस्तत्कृतः प्रलयः-उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यो विगततृष्णो गुप्त्याद्यनुष्ठानात् फलदर्शनाचेति निर्वाणमेव फलं तत्प्राप्तौ यत्नार्थमभिवधिनश्रद्धासंवेगः पश्चानां व्रतानां भावना ईयांसमित्यादयस्ताभिर्भावितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्मा अनभिष्वङ्गो-न कचिदाबद्धस्नेहः संवृतत्वादिभिर्व्यपगताभिनव १' निस्तृप्तः' इति ग-पाठः। २ ‘भाविनः' इति ङ-पाठः। ३ 'प्रादुर्भावादाबद्ध ' इति ङ-ज-पाठः । For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ ३१६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० कर्मोपचयः। कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानाम: सङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकमेनिजेरणात् सामायिकाग्रुपलम्भात् पुलाकादिस्थानावाप्तेर्व्यपेतार्तध्यानरौद्रध्यानो धर्मध्यानविजेयाभ्यासादवाप्ताद्यशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते । स्वहस्तपादावयवपरामर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामौषः धित्वम् । तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विगुडौषधित्वम् । तथा सर्व एव तदीयावयवा दुःखातानामौषधीभवन्तीति सौंषधित्वम् । अभिव्याहारसिद्धिर्वामात्रेणैव । शापदानसामर्थ्य मनुग्रहण लामयं च । ईशित्वं सर्वभूतेश्वरत्वम् । वशित्वं सर्वभूतानि स्ववशवर्तीनि । तथाऽवधिज्ञानमेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टम् ॥ भा० - जङ्घाचारणत्वं येनाग्निशिखावूमनीहारावश्यायमेधवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवञ्च प्रडीनावडीनगमनानि कुर्यात् ॥ . टी-जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निश्रित्य व्योम्नि गच्छेत्। मर्कटतन्तुः कोलिककोर्शकृततन्तुः । अपरं वियद्गतिचारणत्वं निर्निश्र एव विस्रब्धो भूमाविव व्योम्नि गच्छेत्। यथा च शकुनिर्वियति प्रडीनम्-उपरिष्टाद् गमनं अवडीनम्-अधस्ताद् गमन करोत्येवमसावपि कुर्यात् ॥ भा०-अप्रतिघातित्वं पवतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि । इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद् द्वारात् स्पर्शना-55स्वादन-घ्राग-दर्शन-श्रवणानि विषयाणां कुर्यात् । सम्भित्रज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि । मानसं कोष्ठबुद्धित्वं बीजवुद्धित्वं पप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचितज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि ॥ टी०-गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इत्यप्रतिपातित्वम् । अन्तर्धानम्-अदृश्यत्वम् । युगपदनेकरूपधारणं कामरूपित्वम् । तेजोलेश्यामोक्षणम् आदिग्रहणात् शीतलेश्यानिसर्गशक्तिः । मतिज्ञानविशुद्धिप्रकर्षाद् विषयाणां-रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात् । युगपदनेकविषयग्रहणं सम्भिन्नज्ञानत्वम् । आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्यम् । मानसं-मनोव्यापारजातम् । कोष्ठवुद्धित्वं १ 'कर्मोच्चयः' इति ग-पाठः । २ 'जयादभ्या' इति ग-पाठः। ३ 'निश्चित्य' इति ग-पाठः । ४ — कोशिकतन्तुः ' इति ग-पाठः ! ५ 'दूरात् ' इति ग-पाठः । ६ 'सस्भिन्नत्वम् ' इति ग-पाठः । For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ ३१७ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् यत्किञ्चित् पदवाक्यार्थादि गृहीतं तन्न कदाचिन्नश्यतीति, कोष्ठप्रक्षिप्तधान्यवत् । बीजबुद्धित्वं स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । तद्यथा पदेन प्रदर्शितेन प्रकरणेनोद्देशकादिना सर्वमर्थ ग्रन्थं चानुधावति । परचित्तं जानाति । अभिलषितमर्थ प्राप्नोत्येवं अनिष्टं च नैवानोति । एवमाद्योऽतिशयाः शुभानुभावादपरिमितास्तस्य तस्यामवस्थायां प्रादुःष्यन्तीति॥ भा०-वाचिकं क्षीरासवित्वं मध्वालवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥ ____टी०-वाचिकमप्यतिशयवत्त्वम् । तस्य क्षीरास्रवित्वं शृण्वतस्तदीयवचनं क्षीरमिव स्वदते । एवं मम्वास्रवित्वम् । विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वम् । सर्वेषां म्लेच्छमृग-पशु-पक्षिप्रभृतीनां रुतार्थज्ञत्वम् । सर्वान् सत्त्वानबुद्धिकानपि बोधयतीति सर्वसत्त्वावयोधनम् । आदिग्रहणादिक्षुरसास्रवित्वादिग्रहणम्। तथा विद्याधरत्वं महाविद्याः सर्वा एव तस्य तदा स्वयमेवोपतिष्ठन्ते । आशीविषत्वं कर्मजातिभेदादनेकप्रकारम् । भिन्नाक्षराणि किश्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा तद्धारणत्वम् ॥ भा०–ततोऽस्य निस्तृष्णत्वातू तेष्वनभिष्वक्तस्य मोहक्षेपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते। ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीय-नामगोत्राऽऽयुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हेत्वभावाचोत्तरस्याप्रादुर्भावाच्छान्तः ॥ ___टी०-ततोऽस्येत्यादि । तेषु-अतिशयेष्वनभिष्वक्तस्य-अनुपजातगाद्धर्थस्य मोहक्षपकपरिणामावस्थस्येति । अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धन-मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति । ततश्च फलवन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिना अशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपात्तो भव:-औदारिकादिकायस्तवियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमालादमुपगतः कारणापेक्षम् १ शयत्वम् ' इति ज-पाठः। २'क्षय' इति ङ-पाठः। ३ 'बन्धनिर्मुक्तः' इति घ-पाठः । ४ 'हेतुभावात्' इति हु-च-पाठः। For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ ३१८ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०-संसारमुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशय निर्वाणसुखमेवामोतीति ॥ ७ ॥ टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिक एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः । निरुपममिति नास्ति इह किञ्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निर्वाणमुखमवाप्नोतीति । सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग विगदः।। निःप्रणयो निद्वेषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥-आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-, व्यावाधाभावाच स, सर्वज्ञत्वाच्च भवति परमसुखी।। व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥" अनुपमममेयमव्यय-मनघं शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥ ४॥-, त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि। नास्ति रागमपवि-ध्य तत्र किश्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक-त्वं वीय-सिद्धत्व-दर्शन-ज्ञानैः। आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-" सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विद्धं सुबद्धं भवतीति ।। भा०--एवं तत्त्वपरिज्ञानाद्, विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० टी-एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥ वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः । ३ 'स्वस्य झस्यापि' इति :पाठः। ४ 'कं निरुपमं' इति घ-पाठः। ५'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'। For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् भा० - पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्स्न्र्त्स्न्येन, मोहनीयं प्रहीयते ॥ २ ॥ —अनु० सूत्र ७ ] टी० - पूर्वेत्यादि । प्राक्तनं कर्म क्षपयतस्तपोऽनुष्ठानादिभिः क्षयितृभिः संसारतरोर्बीजं समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्याम् ॥ २ ॥ भा०— ततोऽन्तर (यज्ञानन्न - दर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ - अनु० टी०- ० - तत इत्यादि । अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः ॥३॥ भा०- गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ - अनु० टी० – गर्भसूच्यामित्यादि । मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वम् ॥ ४ ॥ भा० - ततः क्षीणचतुः कर्मा, प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ॥ ५ ॥ - अनु० टी० ० - तत इत्यादि । क्षिप्तसकलघातिकर्मा यथाख्यातसंयममनुप्राप्तो बीजबन्धनेन-मोहनीयादिना विमुक्तः स्नातकोऽन्तर्मलापगमात् परमेश्वरः - केवलार्द्धप्राप्तः ॥ ५ ॥ भा० - शेषकर्म फलापेक्षः, शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥ ६ ॥ - अनु० टी० - शेष इत्यादि । वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमात् बुद्धः केवलज्ञानावाप्तेर्निरामयो-निर्गताशेषरोगनिदानः केवली भवति ॥ ६॥ भा० - कृत्स्नकर्मक्षयादूर्ध्व, निर्वाणमधिगच्छति । यथा दुग्धेन्धनो वहि-निरुपादान सन्ततिः ७ ॥ अनु० ३१९ डी० -- कृत्स्नेत्यादि । सकलकर्मकलङ्कनिर्मुक्त ऊर्ध्वमेव निर्वाणमधिगच्छति । निर्वृतस्य स्थानमप्युपचारान्निर्वाणम् । अथवा निर्वाणं-निर्वृतत्वं सिद्धत्वं प्रक्षिप्तप्रदग्धेन्धनो विनिरुद्ध काष्ठाद्युपादानसन्ततिः ॥ ७ ॥ भा०—दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दुग्धे, नारोहति भवाङ्कुरः ८ ॥ - अनु० 0 टी० - दग्धे इत्यादि । बीजेऽत्यन्तं - भस्मसात्कृते नाङ्करस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसाराङ्कुरस्याप्रादुर्भावः ॥ ८ ॥ For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ ३२० तत्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥९॥-अनु० टी०- तदनन्तरेत्यादि । सकलकर्मक्षयसमनन्तरमालोकान्तादूर्व स गच्छति। कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूर्ध्वगौरवाच गतिरस्य भवति सिद्धा॥९॥ पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचक्रे दोलाया-मिषौ वापि यथेष्यते । पूर्वप्रयोगात् कर्मेह, तथा सिद्धिगतिः स्मृता ॥१०॥-अनु० टी-कुलालेत्यादि । पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता ॥१०॥ भा०-मृल्लेपसङ्गनिर्मोक्षाद्, यथा दृष्टाऽपस्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी-मृल्लेपेत्यादि । अलाबुनोऽप्सून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥ ११॥ भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० टी-एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदाद् पेडाबन्धनपछेदाच गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ॥ १२ ॥ भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥ १३॥- अनु० । टी-ऊर्वेत्यादि । ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् ॥ १३॥ भा०-यथाऽधस्तिर्यगूर्व च, लोष्टवास्वग्निवीतयः। स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥१४॥-अनु० टी०-यथेत्यादि । यथाक्रममधोगमनादि । लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तयोर्ध्वगतिरात्मनाम् ॥१४॥ १'यापि' इति घ-पाठः । २'स्मृताः' इति ज-पाठः । ३ 'ऊर्ध्वमित्यादि' इति ज-पाठः। ४ 'वीचयः' इति ग-पाठः। ५'स्वभावगतिरात्मनः' इति ग-पाठः। ६ 'लोष्टत्ववीचयो'इति ग-पाठः। . For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् __ ३२१ भा०-अतस्तु गतिवैकृत्य-मेषां यदपलभ्यते । कर्मणः प्रतिघाताच, प्रयोगाच्च तदिष्यते ॥१५॥ टी०-अतस्त्वित्यादि । अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्त्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् ॥१५॥ मा०-अघस्तिर्यगोचं च, जीवानां कर्मजा गतिः। ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी०-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगूर्व व कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥१६॥ मा०-द्रव्यस्य कर्मणो यब-दुत्पत्त्याऽऽरम्भ-वीतयः। समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० टी०-द्रव्यस्येत्यादि । द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्षः-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति ॥ १७॥ भा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह। युगपद् भवतो यवत्, तथा निर्वाण-कर्मणोः ॥१८॥-अनु० टी.-उत्पत्तिश्चेत्यादि । प्रकाश-तमसोर्यथा युगपदुत्पत्ति-विनाशौ । यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाण कर्मक्षयधेत्येक एव कालः । तथाऽन्यत्राप्युक्तम् सं ततो बन्धनमोक्षाचं जीवः प्रवेगतो याति । न त्वैरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वम् ॥१॥-आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्वम् । न तु गतलेपालाबू--रुदयाति जले निममापि ॥२॥-, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् । तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् ॥ ३॥" अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्मामिशिखाया गति-रन्या कर्मानिलवशाद्धि ॥ ४ ॥" १'वचयः' इति ग-पाटः। २'उत्पत्तिरित्यादि ' इति च-ज-पाठः। ३ ‘स सततो' इति च-अ-पाठः। For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ १२ तत्वार्थाधिगममूत्रम् [ अध्यायः १० स्ववशस्यानभिसन्धे-श्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥ ५॥- आर्या अपि चानुश्रेणिगति--जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते ये-न तेनं सा विग्रहा सिद्धा ॥ ६॥--" सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निःप्रयोजनत्वाच । नो सिद्धावयुक्ता, कर्मविमुक्तस्य निःपततः ॥७॥बन्धविमोक्षात् सङ्ग-त्यागात् पूर्वप्रयोगतो वाऽपि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥ ८॥-" इत्येवं विप्रलापो--ऽस्पृष्टगतौ नान्तरास्ति यत्कालः । सत्यां हि सोत्तराव-स्थायां स्यात् सिद्ध इतरो वा ॥ ९॥-" मोऽस्पृष्टया हि गत्या--ऽनन्तरमेव समये जगच्छिखरम् । अवगाहतेतरां ते--न नास्ति ननु भो बजत्कालः ॥ १० ॥-" सिध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रेऽपहाय देहमिह ।। नह्यन्तराऽस्ति सिद्धि-- सिद्धिश्वास्ति मुक्तस्य ॥११॥-" ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन। तस्योपयोग इष्ट--स्तथा गतिः सा स्वभावेन ॥ १२ ॥" अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याहभा०—तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा । प्रारभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥१९॥-अनु० दी-तन्वीत्यादि । मध्ये योजनाष्टकबहला प्रदेशपरिहाण्या चोपर्युपरि मक्षिकापत्रात तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेत्यन्तरुचिरा सुरभिः-इष्टगन्धा पुण्यवद्भिः पृथिवीकायिकैनिर्वर्तिता पुण्या भृशं भासनशीला प्रारभारेति नाम तस्याः। सा च लोकमूर्धनि व्यवस्थिता ॥ १९ ॥ भा०-नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ॥ २०॥ अनु० टी.-नृलोकेत्यादि । नृलोकेऽर्धतृतीयद्वीपा मानुषोत्तरमहीधरपरिक्षिप्ता तत्तुल्यविकम्भा, पश्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः । उत्तानीकृतसितच्छन्त्रकाकृतिः शुभरूपाद्यात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानम् ॥२०॥ ३ 'मो सिद्धता १'स्याधिन' इति ज-पाठः। २ 'येन सेम (१) सा विग्रहा.' इति ज-पाठः। प्रजापति ग-पाठः। ४ 'भीष्यति' इति ज-पाठः। ५ 'सुरभिगन्धा ' इति ज-पाठः। For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् ३२३ मा०-तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः। सम्यक्त्तवसिद्धतावस्था, हेत्वभावाच निष्क्रियाः ॥२१॥-अनु० ० तादात्म्येत्यादि। स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्य तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिकसम्यक्त्वसिद्धतावस्थाः । हेस्वभावाच निष्क्रियाः क्रियापरिणाम प्रति न किश्चित् तेषामस्ति निमित्तमिति ॥२१॥ __भा०–ततोऽप्यूर्ध्वगतिस्तेषां, कस्मानास्तीति चेन्मतिः। धमास्तिकायस्याभावात् स हि हेतुगेंतेः परः ॥ २२ ॥ - टी-ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोपि गतिस्तेषां कस्मान भवतीति चेत् गतेहेंतुर्धर्मास्तिकायः परः--प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः ॥ २२ ॥ भा०-संसारविषयातीतं, मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः ॥ २३ ॥ टी०-संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्यावा परम-प्रकृष्टं परमर्षिभिः-तीर्थकरादिभिरभिहितम् ॥ २३ ॥ भा-स्यादेतदशरीरस्य, जन्तोनष्टाष्टकर्मणः । कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु ॥ २४ ॥ टी०-स्यादेतदित्यादि। नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्त सुखसम्भव इत्यत्र मे शृणु ॥२४॥ भा०-लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते। विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५॥ री-लोके इत्यादि। प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखषेदनाया- . थाभावे, कर्मविपाके च सवेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे॥२५॥ उदाहरणानि यथाक्रमं दर्शयतिभा०-सुखो वहिः सुखो । -विषयेष्विह कथ्यते। दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ ०-सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा-पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी०-पुण्यकर्मेत्यादि । गतार्थावेतौ श्लोकौ ॥ २७ ॥ १'संशृण' इति ग-पाठः । २ 'गतार्थावेव' इति ज-पाठः । For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ ३२४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०--सुखप्रसुप्तवत् केचि-दिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात्, सुखानुशयतस्तथा ॥ २८ ॥ टी०-सुखप्रसुप्तेत्यादि । शोभनेन स्वात्मनः सुखनिद्रया सुप्तवादिच्छन्ति निति तदेतदयुक्तं योगवत्त्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च । अनुशयः प्रकर्षापकर्षत्वम् ।। भा० -श्रम-क्लम-मद-व्याधि-मदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच, दर्शननस्य कर्मणः ॥२९॥ टी-श्रमेत्यादि । श्रमः-खेदः क्लमो-ग्लानिः मदो-मद्यपानादिजनितः व्याधिःज्वरादि: मदन:-कामसेवन एभ्यश्च सुखापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिको मोहस्तस्माच सुप्तत्वसम्भवः । दर्शननं-दर्शनावरणकर्म तस्य विपाकात्-उदयात् सुखप्रसुप्तत्वमिति । न चैतानि कारणानि मुक्तानां सम्भवन्ति ॥ २९ ॥ भा०-लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते। उपगीयेत तद् येन, तस्मानिरुपमं सुखम् ॥३०॥ टी-लोके इत्यादि । मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न कचिदस्ति ततोऽनुपम तत् ॥ भा०-लिङ्गप्रसिद्धेः प्रामाण्या-दनुमानोपमानयोः। अत्यन्तं चाप्रसिद्धं तद, यत् तेनानुपमं स्मृतम् ॥३१॥ टी-लिङ्गेत्यादि । नाप्युपमानं तत्र क्रमते सादृश्याभावात् । सादृश्याख्य लिङ्गं नास्ति मोक्षसुखस्य । नाप्यनुमानस्य मुक्तिसुखं गोचरीभवति । यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्धेः कारणात् । पक्षधर्मान्वयव्यतिरेक्येव लिङ्गम् । न चास्ति तादृशो मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयम् ॥ ३१॥ भा०-प्रत्यक्षं तद्भगवता-महतां तैश्चै भाषितम् ।। गृह्यतेऽस्तीत्यतः प्राज्ञै-नै छद्मस्थपरीक्षया ॥३२॥ इति टी-प्रत्यक्षमित्यादि । अर्हता-सर्वज्ञानामेव तत् प्रत्यक्षं प्रत्यक्षीकृत्य च तैर्यथावद् भाषित-व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञेरेव तदाख्यातम् । अतः सर्वज्ञप्रणीतागमप्रामाण्यात् तदस्तीति गृह्यते। प्रज्ञाऽसामर्थ्यान्न छद्मस्थपरीक्षया आगमव्यतिरिक्तैश्च छअस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति ॥ ३२ ॥ एवमनुपममव्यावाधं च शाश्वतं स्वाभाविकं मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः । १उपनीयते ' इति ग-पाठः । For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३२५ भा०-यस्त्विदानी सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमान: कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन् देवतयोपपद्यते। ___टी०-यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पनो भिक्षुर्मोक्षाय घटमानो-मोक्षार्थकृतोत्साहो दुःषमाकालदोपात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाचाल्पशक्तिः-अतीव स्तोकवीर्यः कर्मणां च-मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावादकृतार्थ एव-अक्षपितकर्माष्टक एव उपरमति-कालं करोति स खलूपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने वा देवत्वायोपपद्यतेदेवत्वेनोपपद्यत इत्यर्थः। भा०--तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्मच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यतीति॥ टी-तत्र-सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतकर्म-पुण्यकर्म तस्य फलं-विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादौ मनुष्यजातौ इक्ष्वाकुकुलादिषु शीलवत्सु-सचेष्टेषु विद्या-मुक्त्यनुगुणं ज्ञानं विनयः-अभ्युत्थानादिः विभव:धन-धान्य-द्रविणसम्पत् विषयाः-शब्दादयः सर्वेषामेवैषां विस्तरः-प्राचुर्य विस्तर एव विभूतिस्तद्युक्तेषु प्रत्यायातिमवाप्य-जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्ध बोधिमवामोति । सम्यग्दर्शनमादिर्ययोनिचारित्रयोर्बोधिस्वरूपयोस्तं बोधिमवाप्नोति । ज्ञानचरणे बोधिशब्दवाच्ये समवामोतीत्यर्थः । अनेन-उक्तलक्षणेन कुशलाभ्यासानुबन्धक्रमेण सुखपरम्परायुक्तेन परं-प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इति एवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादिहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र इति । उक्तं च "एवं संवरवर्मा, पिना सम्यक्त्ववाहमधिरूढः। सज्ज्ञानमहाचापो-ध्यानादितपःशितपृषकैः ॥१॥-आर्या १विद्या सूक्तयः' इति च-पाठः। For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ ३२६ तत्त्वार्थाधिगमसूत्रम् संयमरणाजिरस्थः, क्लेशचमूः संविधूय भव्यात्मा । कर्मनृपरिपून् हत्वा-पवर्गराज्यश्रियं लभते ॥ २ ॥ - आर्या एवं कर्मोदय - भवैः कर्मक्षयोपशमजैश्च । संसारमुवाचार्हन्, सिद्धिं कर्मक्षयादेव ॥ ३ ॥ - " ज्ञानं सुमार्गी, सम्यक्त्वं तु तदविप्रणाशाय । चारित्रमास्रवत्वं, क्षपयति कर्माणि तु तपोऽग्निः ॥ ४ ॥ -" एतेन भवति सिद्धिः, सिद्धान्तचतुष्टयेन जिनवचने । न तु संवररहितस्य च सा स्यान्न ज्ञानमात्रेण ॥ ५ ॥ - " इत्येकान्त समेक- द्वीपं विविधं झपमे कपातालम् । अष्टग्राहं द्विरयं, चतुरावर्तं चतुः कूलम् ॥ ६ ॥ - " त्रिमहावातंत्र्युदयं, षड्वेगं चतुरशीतिनियतोर्मिम् | संसारार्णवमात्मा, नावा चतुरङ्गयोत्तरति ॥ ७ ॥ - " सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमेप्यावेदयते भा०- -वाचकमुख्यस्य शिव- श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि- क्षमाश्रमणस्यैकादशाङ्गविदः ॥ १ ॥ - गीतिः वाचनया च महावा - चकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥ २ ॥ - आर्या न्यग्रोधकाप्रसृते--न विहरता पुरवरे कुसुमनाम्नि । कौ भीषणिना स्वातितनयेन वात्सीसुतेनार्घ्यम् ॥ ३ ॥ " डी०—–तत्रायं प्रव्राजकान्वयः - शिवश्रीर्नाम वाचकः पितामहः सङ्ग्रहकारस्य तस्व शिष्यो घोषनान्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रति वचनाचार्यान्वयो मुण्डपादों नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य । तस्य शिष्यो मूलनामा वाचकस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टे - न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनाम्नि विहरता । कौ भीषणिनेति गोत्राद्वानम् स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानम् ॥ भा० – अर्हद्वचनं सम्यग्र, गुरुक्रमेणागतं संमवधार्य । - [ अध्यायः १० दुःखार्त च दुरागम-विहतमतिलोकमवलोक्य ॥ ४ ॥ - आर्या १' मवाप्या' इति ज - पाठः । २ ' वाचकाचार्यान्वयो ' इति ग-पाठः । २ ' समुपधार्य' इति पाठः । For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् ३२७ इदमुच्चै गरवा-चकेन सत्त्वानुकम्पया दृब्धम्। .. तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥५॥-आर्या यस्तत्त्वाधिगमाख्यं, ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधं सौख्यं, प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥-आर्या टी०-सम्प्रदायाविच्छेदेनायातमहद्वचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिकसुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम्-उपहतविज्ञानमवलोक्य लोकमुच्चै गरवाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्र भव्यसत्वानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति । तदेतच्छास्त्रं जीवादितस्थाषि. गमार्थ योऽवमोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपम परमार्थ मोक्षमचिरेण प्राप्स्यतीति ॥ इति श्रीतत्त्वार्थाधिगमेऽहत्प्रवचनसंग्रहे भाष्यानुसारिण्यां वृत्ती मोक्षस्वरूपनिरूपको दशमोऽध्यायः ॥ १०॥ ॥ तत्समाप्तौ च समाप्तेयं तत्त्वार्थटीका ॥ आसीद् दिन्नगेणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्ति शम् । वोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी ज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १॥-शार्दल. पत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्ष विमलम् ।। शिष्यगणसम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥२॥-आर्या तस्याभूत् परवादिनिर्जयपटुः सहीं दधच्छूरता नाम्ना व्यज्यत सिंहसर इति च ज्ञाताखिलार्थागमः। शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥३॥-शाईल. निर्धततमःसंहति-रखण्डमण्डलशशाङ्कसच्छाया। अद्यापि यस्य कीर्ति--भ्रमति दिगन्तानविश्रान्ता ॥ ४॥-आर्या शिम्यस्तस्य बभूव राजि( ज? )कशिरोरत्नप्रभाजोलक व्यासेगाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः। 'गणी ' इति ज-पाठः। २ ‘पदः' इति ङ पाठः । ३ 'राजत' इति च-पाठः । ४ 'जातक' इतिपाठः। ५ 'सनच्छुरित.' इति च-पाठः । Jain Education Interational For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ ३२८ तत्त्वार्थाधिगमसूत्रम् [मण्यायः १० भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥५॥-शार्दूल० क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः। गच्छाधिपगुणयोगाद् गुणाधिपत्यं चकारार्थ्यम् ॥६॥-आर्या तत्पादरजोवयवः, स्वल्पागमशेमुषीकबहुजाड्यः । तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः ॥७॥" अष्टादशसहस्राणि, द्वे शते च तथा परे। अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसंग्रहः ॥ ८॥-अनु० मूलसूत्रप्रमाणं हि, द्विशतं किञ्चिदूनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिशतानि वै ॥९॥" इति श्रीतत्त्वार्थाधिगमटीका समाप्ता॥ अङ्कतोऽपि श्लोकसंख्या २०६८० । 'व्याधा' इति ग-पाठः। २ अतःपर केवलमयमेव उल्लेखो ज-प्रतौ-'प्रन्याप्रन्य १८२८२ सय संस्था शुभं भवतु । इति श्रीतत्त्वार्थटीका समाप्ता'। For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ सूत्राङ्गः १ कायवाङ्मनः कर्म योगः "" "" 99 99 99 "" 99 99 "" 99 २ स आस्रवः 39 ३ शुभः पुण्यस्य ४ अशुभः पापस्य "" सूत्रपाठः "" 99 "9 "" ૪૧ 99 99 19 "" "" "" "" 99 19 99 19 ५ सकषायाकषाययोः साम्परायिकेर्यापथयोः 99 99 "9 "" सूत्रक्रमेणान्तराधिकारसूचा -DEEPREEE 99 षष्ठोऽध्यायः ६ "" ७ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेम्यस्तद्विशेषः 99 ६ इन्द्रियकषायात्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः 99 अधिकारः योगशब्देतुः योगस्यार्थः योगस्य वयम् त्रिविधयोगानां व्याख्या काययोगस्य सप्तविधत्वम् प्रत्येकयोगस्य द्वैविध्यम् कायियोगस्य भेदाः वाचिकयोगस्य भेदाः मानसिकयोगस्य भेदाः शुभयोगस्य भेदाः आस्रवव्याख्या द्विचत्वारिंशत् पुण्यप्रकृतयः द्वयशीतिः पापप्रकृतयः सूत्रगतशब्दानां व्युत्पत्तिः आस्रवस्य द्वैविध्यम् साम्परायिकास्त्रवस्य ४९ भेदाः पञ्चविंशतेः क्रियाणां विवेचनम् बन्धविशेषाणां हेतवः For Personal & Private Use Only पृष्ठाङ्क: 99 AWA ३ 99 8 99 ५ 99 19 ६ :: :v a ado.com a 99 ७ ८ ११ १३ Page #359 -------------------------------------------------------------------------- ________________ ३३० सूत्राङ्कः सूत्रपाठः ८ अधिकरणं जीवाजीवाः 97 "" 99 ९ आद्यं संरम्भसमारम्भारम्भकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः "" "" "" 99 • निर्वर्तना निक्षेपसंयोग निसर्गा द्विचतुर्द्वित्रिभेदाः परम् "" "" "" : : 99 "" ११ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः "" "" 39 "" "" "" 99 "" १२ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य "" असद्वेद्यस्यास्त्रवाः 99 99 १३ भूतवत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य 99 १७ माया तैर्यग्योन "" 19 "" १४ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शन मोहस्य "" "" "" तत्वार्थाधिगमसूत्रम् "" "" "" "" "" १५ कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य अधिकारः "" 99 "" १६ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः अधिकरणस्य द्वैविध्यम् जीवाधिकरणस्य भेदप्रभेदाः संरम्भादीनां व्याख्या जीवाधिकरणस्य त्रिकल्पसङ्ख्या "" निर्वर्तनादीनां व्याख्या निर्वर्तनाधिकरणस्य स्वरूपम् ज्ञानावरणीयकर्मण आस्रवाः दर्शनावरणीयकर्मण आस्रवाः सद्वेद्यस्यास्रवाः दुःखादीनां लक्षणानि भाष्यगतशब्दानां व्याख्या सद्वेद्यस्यान्येऽप्यास्त्रवाः दर्शन मोहस्यास्त्रवाः केवलिनोऽवर्णवादः श्रुतस्यावर्णवादः संयतादीनामवर्णवादः देवानामवर्णवादः स्त्रीवेदादिनवनोकषायबन्धहेतवः बह्वारम्भपरिग्रहताया व्याख्यान्तरम् For Personal & Private Use Only पृष्ठाङ्कः १६ "" १७ 99 99 १९ २० " २१ २३ 19 २४ ==== "" 99 "" " २५ "" २६ २७ "" 99 "" "9 २८ "" 99 २९ 99 ३० Page #360 -------------------------------------------------------------------------- ________________ सूत्राङ्गः सूत्रपाठः १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुष्यस्य १९ निःशीलत्वं च सर्वेषाम् २० सरागसंयमसंयमासंयमाकामनिर्जराबाळतपांसि दैवस्य २१ योगवक्रता विसंवादनं चाशुभस्य नाम्नः 8 "" "" "" २२ विपरीतं शुभस्य २३ दर्शन विशुद्धिर्विनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभा "" "" "" 99 २४ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य "" " २५ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य "" २६ विघ्नकरणमन्तरायस्य "" 99 वना प्रवचनवत्सलत्वमिति तीर्थकृत्वस्य "" 3 "" ܐܙ "" 99 35 "" १ हिंसानृत स्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् 99 "" २ देशसर्वतोऽणुमहती "" "" "9 ३ तत्स्थैर्यार्थ भावनाः पच पच मुत्रक्रमेणान्तराधिकारसूचा 99 59 "" "" अशुभनाम्न आस्त्रत्राः अधिकारः तीर्थकरनामकर्मण आस्रवाः विनयस्य भेदप्रभेदाः संवेगस्य व्याख्या नीचैर्गोत्रस्यास्त्रवाः उच्चैर्गोत्रस्यात्राः सप्तमोऽध्यायः ७ अन्तरायस्यास्रवाः दानलाभादीनां व्याख्या अभ्यायोपसंहारः व्रतव्याख्या हिंसादीनां व्याख्या रात्रिभोजननिषेधे हेतवः व्रतानां भावनानां सङ्ख्या सूत्रपाठ विचारः For Personal & Private Use Only ३३१ पृष्ठाङ्कः ३० ३१ * m x * ३३ ३४ .३५ = = "" 99 ३६ ३८ 99 .३९ 99 "" 97 १.४० "" : ४१ "" " ४२ ૪૨ ४४ 39 "" Page #361 -------------------------------------------------------------------------- ________________ ३३२ सूत्राङ्गः ३ "" "" x 99 99 99 "" ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् 99 99 99 ५ दुःखमेव वा 30 "" "" "" 17 99 CASS 19 97 99 सूत्रपाठः "9 99 99 "" 99 99 99 "" 99 "" "9 ६ मैत्री प्रमोदकारुण्यमाध्यस्थ्यानि सस्त्रगुणाधिकक्लिश्यमानाविनेयेषु "" 99 "" "" "" ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् "" 19 99 99 99 ८ प्रमत्तयोगात् प्राणव्यपरोपण हिंसा 99 "" "" 99 "" = = = = = "" स्वार्थाधिगमसूत्रम् 99 19 अधिकारः अहिंसायाः पञ्च भावनाः सूनृतस्य पञ्च भावना: अस्तेयस्य पञ्च भावनाः ब्रह्मचर्यस्य पच भावनाः हिंसाया विपाकः अनृतस्य विपाकः स्तेयस्य विपाकः अब्रह्मणो विपाकः परदारगमनस्य फलम् परिग्रहस्य विपाकः हिंसादयो दुःखम् मैथुने न सुखावाप्तिः भाष्यस्य सूत्रीकरणे दोषः मैत्रीभावना प्रमोदभावना कारुण्यभावना माध्यस्थ्यभावना जगत्स्वभावः कायस्वभावः सूत्रगतशब्दानां व्याख्या हिंसालक्षणम् पञ्चमीविभक्तेर्विचारः द्रव्यहिंसा भावहिंसा प्रमत्तस्य लक्षणान्तरम् For Personal & Private Use Only पृष्ठाङ्कः ४४ ४५ ४६ ४७ ४८ 99 ४९ 99 ५० 39 ५१ ५२ 99 ५४ ५६ , "" ५७ "" ५८ ५९ ६० 99 99 ६३ "" ६४ 99 ६५ 14 " Page #362 -------------------------------------------------------------------------- ________________ ३३३ सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सूत्रपाठः मारणे बौद्धीयः पूर्वपक्षः हिंसालक्षणे बौद्धमतखण्डनम् योगव्याख्या एकेन्द्रियादीनां हिंसायां योगविचारः रागद्वेषमोहहेतुका वधाः . वधपर्यायाः असदभिधानमनुतम् अनुतस्य लक्षणम् सूत्रविन्यासविचारः असतस्वैविध्यम् आत्मनः परिमाणस्य विचारः आत्मनो निष्क्रियत्वस्य निरासः सम्भिन्नप्रलापतानिरासः. अदत्तादानं स्तेयम् स्तेयलक्षणम् सूत्रपाठविचारः भाष्यपाठविचारः देशवृत्तिता ११ मैथुनमय अब्रह्मलक्षणम् प्रमत्तयोगादित्यस्य नोपयोगे हेतुः १२ मा परिप्रहः परिग्रहलक्षणम् लोभस्य साम्राज्यम् बाह्याभ्यन्तरा मू»विषयाः मूर्छायाः पर्यायाः व्रतव्रतिनोः सम्बन्धः १३ निःशल्यो वती वाक्यार्थविचारः १४ अगार्यनगारश्च For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ पृष्ठाला ३३४ तत्त्वार्थाधिगमसूत्रम् सूत्रायः सूत्रपाठः . . अधिकारः अगारिणां भेदाः अनगारभेदाः श्रावकश्रमणशब्दार्थः १५ अणुव्रतोगारी १६ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पनश्च गुणशिक्षाव्रताधिकारः दिग्वतव्याख्या क्रमभेदे हेतुः देशव्रतव्याख्या अनर्थदण्डव्याख्या सामायिकलक्षणम् पौषधलक्षणम् . चतुर्थभक्तस्यार्थः उपभोगपरिभोगव्रतस्य लक्षणम् पञ्चदश कर्मादानानि अतिथिसंविभागस्य व्याख्या १७ मारणान्तिकी संलेखना जोषिता १८ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः सम्यग्दर्शनस्य पञ्चातिचाराः शङ्कायाः स्वरूपम् काङ्क्षायाः स्वरूपम् विचिकित्साविचारः शेषातिचारद्वयम् क्रियावादिना १८० भेदाः अक्रियावादिनां ८४ भेदाः अज्ञानिकानां ६७ भेदाः वैनयिकानां ३२ भेदाः १९ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् १०२ २० बन्ध-वध-च्छविच्छेदा-अतिभारारोपणा-ऽनपाननिरोधाः स्थूलप्राणातिपातविरमणव्रतस्यातिचाराः पञ्च , १०३ For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ सूत्राङ्कः सूत्रपाठः अधिकारः २१ मिथ्योपदेश- रहस्याभ्याख्यान - कूटलेख क्रिया-न्यासापहार - साकार मन्त्रभेदाः "" 39 २२ स्तेनप्रयोग - तदाहृतादान - विरुद्धर । ज्यातिक्रम- हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः 99 "" "" २३ परविवाहकरणे - त्वरपरिगृहीता-ऽपरिगृहीतागमना ऽनङ्गक्रीडा- तीव्रकामाभिनिवेशाः "" "" "" 99 "" २४ क्षेत्रत्रास्तु - हिरण्यसुवर्ण-धनधान्य- दासीदास- कुप्यप्रमाणातिक्रमाः "" 99 २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि "" "" २६ आनयनप्रेष्यप्रयोगशब्द रूपानुपात पुद्गलक्षेपाः "" सूत्रक्रमेणान्तराधिकारसूचा "" 97 " "" २८ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि "" ३० सचित्त-सम्बद्ध-संमिश्रा - ऽभिषव - दुष्पकाहाराः "" स्थूलमृषावादविरमणव्रतस्यातिचाराः पञ्च 99 २७ कन्दर्प- कौत्कुष्य- मौखर्या-ऽसमीक्ष्याधिकरणो-पभोगाधिकत्वानि "" ३१ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः 39 स्थूलादत्तादानविरमणव्रतस्यातिचाराः पञ्च सामायिकस्य पञ्चातिचाराः "" "" २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि पौषधोपवासव्रतस्य पश्चातिचाराः उपभोगपरिभोगव्रतस्य पञ्चातिचाराः अतिथिसंविभागव्रतस्य पञ्चातिचाराः "" स्थूलमैथुन विरमणव्रतस्य पञ्चातिचाराः सूत्रपाठ परामर्शः स्थूलपरिग्रहपरिमाणव्रतस्य पञ्चातिचाराः क्षेत्रवास्तुभेदाः दिव्रतस्य पश्चातिचाराः देशावकाशिकव्रतस्य पञ्चातिचाराः दिग्देश व्रतयोर्विशेषः अनर्थदण्डविरमणव्रतस्य पश्चातिचाराः "" ३२ जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानकरणानि ३३ अनुग्रहार्थे स्वस्यातिसर्गो दानम् ३४ विधि द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः ३३५ पृष्ठाङ्कः १०४ For Personal & Private Use Only 99 १०६ "" १०५ "" १०९ 99 "" ११० 99 "" १११ "" "" ११२ "" ११३ 99 ११४ "" 99 99 ११५ "" ११६ ११७ ११८ Page #365 -------------------------------------------------------------------------- ________________ ३३६ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्क: अष्टमोऽध्यायः अध्यायसम्बन्धः १ मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः बन्धस्य सामान्यहेतुपञ्चकम् कर्मग्रन्थाद् भिन्नता १२२ अज्ञानिकादीनां सूरयः १२३ प्रमादस्य त्रैविध्यम् कर्मबन्धहेतूनां चतुर्दशगुणस्थानेषु योजना १२४ योगानां पञ्चदशविधत्वम् बन्धप्रत्ययानां भजना सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते कर्मबन्धे हेतुः समस्तपुद्गला न बन्धयोग्याः बन्धयोग्यपुद्गलवर्णनम् । औदारिकादिस्कन्धानां प्रदेशाः ३स बन्धः ४ प्रकृति-स्थित्य-ऽनुभाव-प्रदेशास्तद्विधयः बन्धस्य विधानचतुष्टयम् प्रकृत्यादीनां साधनता ५ भायो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः मूलप्रकृतयोऽष्टौ ज्ञानावरणादीनां व्युत्पत्त्यर्थः ज्ञानावरणादीनां क्रमे हेतुः ६ पचनवद्वयष्टाविंशतिचतुर्विचत्वारिंशद्विपश्चभेदा यथाक्रमम् मूलप्रकृतीनामवान्तरभेदसङ्ख्या ७ मत्यादीनाम् सूत्रपाठविचारः ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च दर्शनावरणस्य नवोत्तरप्रकृतयः वेदनीयशब्दयोगे हेतुः For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ सूत्रक्रमेणान्तराधिकारसूचा ३३७ सूत्राङ्क: सूत्रपाठः अधिकारः - पाठान्तरपरामर्शः १३५ ९ सदसवेद्ये वेदनीयस्य द्वे उत्तरप्रकृती. १० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः । सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुनपुंसकवेदाः १३६ मोहनीयस्याष्टाविंशतिरुत्तरप्रकृतयः " अकषायस्यार्थः दर्शनमोहनीयस्य त्रैविध्येऽपि बन्धकता १३७ सम्यक्त्वप्रकारप्रपञ्चः १३९ अनन्तानुबन्ध्यादिकषायाणामुदये सम्यग्दर्शनादीनामुपघातः १४२ क्रोधस्य पर्यायाः तद्भावानुसारीणि निदर्श नानि च मानशब्दस्य पर्यायाः ३४५ मायाशब्दस्य पर्यायाः १४६ लोभशब्दस्य पर्यायाः क्रोधादीनां सचरणोपायाः सूत्रलाघवपरामर्शः नारफ-तैर्यग्योन-मानुष-दैवानि आयुषो व्युत्पत्यर्थः नामकर्मणः ६७ उत्तरप्रकृतयः नामशब्दस्य व्युत्पत्त्याः गत्यादिनामकर्मणामवान्तरभेदसङ्ख्या १४९ सूत्रपाठभेदः अङ्गाष्टकम् अर्धवर्षभनाराचव्याख्यायां मतभेदः १५४ साधारणगन्धनिरासः १५५ आनुपूर्वीव्याख्यायो मतान्तरम् १५६ पर्याप्तिसङ्ख्यापरामर्शः १६० १४३ १५१ For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ १६४ " ३३८ तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः १२ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपधातपराघाता तपोद्द्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांति सेतराणि तीर्थकृत्त्व च १६० १३ उच्चैनीचैश्च १६३ गोत्रप्रकृती १४ दानादीनाम् अन्तरायस्य प्रकृतिपञ्चकत्वम् १५ आदितस्तिसृणामन्तरायस् च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः १६५ सूत्रगतशब्दप्रयोजनानि ज्ञानावरणीयादिप्रकृतीनामबाधाकाल: १६६ १६ सप्ततिर्मोहनीयस्य १७ नामगोत्रयोविंशतिः १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य सातासातयोः परापरौ बन्धौ १९ अपरा द्वादशमुहूर्ता वेदनीयस्य सूत्रपाठभेदः नामकर्मोत्तरप्रकृतीनामुत्कृष्टा स्थितिरबाधा च ,, नामप्रकृतीनां जधन्या स्थितिरबाधा च १६८ २० नामगोत्रयोरष्टौ ज्ञानावरणादीनां उत्तरप्रकृतीनां जघन्या स्थितिरबाधा च २१ शेषाणामन्तर्मुहूर्तम् १६९ २२ विपाकोऽनुभावः केषाञ्चित् कर्मणां पुद्गलादिषु विपचनम् १७० सङ्क्रमस्थानम् २३ स यथानाम १७२ २४ ततश्च निर्जरा १७३ निर्जराद्वयस्य व्याख्या २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः १७४ प्रदेशबन्धविचारोऽष्टविधः For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ ३३९ सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्कः . सूत्रपाठः . अधिकारः .२५ 'सर्वतः 'पदस्य व्याख्याने मतभेदः २६ सद्वद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्राणि पुण्यम् मतान्तरम्, तत्समाधानस्याशक्यत्वम् ८२ पापप्रकृतयः अभिप्रायभिन्नता १७५ १७७ १७८ १८३ . १८४ नवमोऽध्यायः९ १ आस्रवनिरोधः संवरः " . " संवरलक्षणम् संवरद्वैविध्यम् २ स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय-चारित्रः संवरस्य उपायाः ३ तपसा निर्जरा च संवरस्य अपर उपाय: उत्तरसूत्रसम्बन्धः ४ सम्यग्योगनिमहो गुप्तिः गुप्तिलक्षणम् गुप्तेः प्रकारत्रयं कायगुप्तेर्लक्षणं च शयनविवरणम् ५ ईर्या-भाषै-षणा-ऽऽदानमिक्षेपोत्सर्गाः समितयः पञ्चविधत्वं समितीनाम् ६ उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सस्य-संयम-तप-स्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः धर्मस्य दशविधता क्षमायाः पर्यायाः क्षमाकरणे अन्यान्यालम्बनानि अष्टविधता मानस्य प्रशमरतो मतान्तरम् औत्पत्तिकीप्रमुखबुद्धिचतुष्टयम् संयमस्य सप्तदशविधत्वम् पृथ्वीकायिकशब्दस्य सिद्धिः " २ १९८ For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ ३४० . . २०२ २०६ २०८ ' तत्वार्थाधिगमसूत्रम् सूत्राङ्क: सूत्रपाठ: अधिकारः पुस्तकग्रहणे हेतुः १९८ तपोलक्षणे मतान्तरम् कनकावलीस्वरूपम् कनकावल्याः पारणाविधिः रत्नावलीस्वरूपम् । मुक्तावलीस्वरूपम् क्षुल्लकसिंहविक्रीडितस्वरूपम् महासिंहविक्रीडितस्वरूपम् . एकमासिक्याः स्वरूपम् . सप्तरात्रिक्याः स्वरूपम् भाष्यपाठपरामर्शः आचार्याणां पञ्चविधत्वम् ब्रह्मचर्यस्य परिपूर्णतायां साधनानि . अनित्या-ऽशरण-संसारै-कत्या-ऽन्यवा- शुचित्वा-ऽऽस्रव-संवर-निर्जरा-लोक-बोधिदुर्लम-धर्मस्वाल्यातत्वानुचिन्तनमनुप्रेक्षाः । द्वादश भावनाः : अनित्यभावनायाः स्वरूपम् अशरणभावनायाः स्वरूपम् खजन-परजनविवेकः . २१२ ८४००००० योनयः शरीरस्याशुचित्वे हेतुपञ्चकम् २१५ उत्तरार्धस्य अर्थद्वयम् .. : जिह्वादिविषयग्रस्तानां विडम्बनाः २१९ गीतसङ्गीतयोविशेषः निर्जरायाः पर्यायाः विपाकस्य वैविध्यम् उत्पत्तेदैविध्यम् २२१ पाठभेदः २२२ ८ मार्गाच्यवन-निर्जराथै परिषोढव्याः परीषहाः परीषहसहने हेतू २११ २१८ २२० २२३ For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ सूत्रक्रमेणान्तराधिकारसूचा सत्राङ्क सूत्रपाठः अधिकारः :... पठान .. ९ क्षुत्पिपासाशीतोष्णदेशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनाऽलाभरोगवणस्पर्श... मलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि २२ परीषहाः स्थविरकल्पः कल्पे उपधिः अवस्थितकल्पस्य चातुर्वियम् अनवस्थितस्य बाडिष्यम् जिनकल्पः धर्माद्यदर्शने हेतवः १० सूक्ष्मसम्पराय-छपस्थवीतरागयोश्चतुर्दश ११ एकादश जिने केवलिनः परीषहाः १२ बादरसम्पराये सर्वेः . . . १३ ज्ञानावरणे प्रज्ञाऽज्ञाने १४ दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ :१५ चारित्रमोहे नाग्न्या-ति-श्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्काराः १६ वेदनीये शेषाः १७ एकादयो भाज्या युगपदैकोनविंशतः योगपद्येन परीषहाः । :१८ सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिसूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् ' चारित्रस्य पञ्चविधत्तम् .. सूत्रपाठविमर्शः . सामायिकशब्दस्य निष्पत्तिः सामायिकस्य द्वैविध्यम् - ... . छेदोपस्थाप्यस्य द्विविधताः परिहारविशुद्धे विविधत्वम् । परिहारविशुद्धिसंयमस्य सीमा औपशमिकी श्रेणी .. क्षपकश्रेणीवर्णनम् ॥ अनशना-ऽत्रमौदर्य-वृतिपरिसख्यान-रसपरित्याग-विविक्तशय्यासन-कायशा बावं तपः । बायतपसः षविधता . For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ २३६ :::::: २३९ । : ३४२ तस्वार्थाथिममसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः सम्यग्रहणे हेतवः इस्वरममशनम् यावज्जीविकानशनस्य भेदप्रभेदाः पादपोपगमनानशनम् इङ्गिन्यनशनम् भक्तप्रत्याख्यानानशनम् अवमौदर्यस्य त्रैविध्यम् पुरुषप्रमदाना कवलसङ्ख्या दत्तिभिक्षयोर्विशेषः उत्क्षिप्तवृत्तिः मांसभक्षणे निषेधः मधुनस्वैविध्य नवनीतस्य च चातुर्विष्यम् क्षीरादिविकृतिनां विविधता बाह्यतपसोऽनेकविध फलम् कायक्लेशस्य विफलतासाधकः पूर्वपक्षा उत्तरपक्षः तपोलक्षणम्: तपसः सार्थकता २० प्रायश्चित्त-विनय-वैयादृश्य-स्वाच्याय-व्युसर्ग-ध्यानान्युत्तरम् अम्यन्तराणि षट् तासि अभ्यन्तरतपोलक्षणम् प्रायश्चित्तादीनां व्युत्पत्तिः २१ नव-चतुर्-दश-पाश्च-विभेद यथाक्रम प्राय प्यानात् अभ्यन्तरतपोभेदनिर्देशः २२ आलोचन-प्रतिक्रमण-तदुभय-विवेक-युत्सर्ग-तप-श्छेद-परिहारो-पस्थापनानि . प्रायश्चित्तस्य नव भेदाः आलोचनस्य पर्यायाः विवेकस्य पर्यायाः म्युत्सर्गस्प पर्यायाः छेदस्य पर्यायाः २४९ ::::::: For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ ३४३ पठा २५२ २५३ २५४ " 5 २५६ स्त्रक्रमेणान्तराधिकारसूचा सूत्रपाठः अधिकारः उपस्थापनस्य पर्यायाः अनवस्थाप्यपारश्चिकयोरन्तर्भावः प्रायश्चित्तप्रकाराणां सङ्ख्या प्रायश्चित्तशब्दस्य व्युत्पादनम् २३ ज्ञानदर्शनचारित्रोपचाराः " विनयस्य चातुर्विध्यम् मानविनयस्य पञ्चविधत्वम् दर्शनविनयस्य एकविधवम् २४ आचार्यो-पाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-साफ-साधु-सममोझानाम् वैयावृत्त्यस्य दशविधता गम्छकुलयोरर्थः २५ वाचना-प्रच्छना-ऽनुप्रेक्षा-ऽम्माय धर्मोपदेशाः स्वाध्यायस्य पञ्चविधत्वम् धर्मोपदेशस्य पर्यायाः २६ बाह्या-ऽभ्यन्तरोपण्योः २७ उत्तमसंहननस्यैकाप्रचिन्तानिरोधो ध्यानम् ध्यानस्य लक्षणम् २८ आ मुहूर्तात् ध्यानस्य कालमानम् दुःशब्दस्य अर्थाः २९ आर्त-रौद्र-धर्म्य-शुक्लानि ध्यानस्य चतुर्विधता आर्तादीनां व्युत्पत्तिः ३० परे मोक्षहेत ३१ आर्तममनोकामां सप्रयोग सविप्रयोगाय स्मृतिसमन्याहारः आर्तस्य प्रथमो विकल्पः 'आर्त'शब्दस्य निष्पत्तिः " ३२ वेदनाया मार्तस्य द्वितीयो विकल्पः ३३ विपरीत मनोज्ञानाम् For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ २६३ २६४ २६७ ३४४ तन्वार्थाधिगमसूत्रम् सूत्रातः सूत्रपाठ अधिकारः पृष्ठाङ्क: आर्तस्य तृतीयो विकल्पाः ३४ निदानं च "" आर्तस्य चतुर्थो विकल्पः 'निदान'शब्दस्य सिद्धिः ३५ तदविरत-देशविरत-प्रमत्तसंयतानाम् आर्तध्यानस्य स्वामिनः ३६ हिंसा-ऽनृत-स्तेय-विषयसरक्षणेभ्यो रौद्रमविरत-देशविरतयोः २६५ रौद्रध्यानस्य स्वामिनः ३७ आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य - २६६ धर्मध्यानस्य चातुर्विध्य तत्स्वामिनश्च 'विषय' शब्दस्य निष्पादनम् कर्माष्टकस्य फलानि २६८ ३८ उपशान्तक्षीणकषाययोश्च २६९ ३९ शुक्ले चाये २७३ • ४० पूर्वविदः २७५ ४१ परे केवलिनः अन्तिमशुक्लध्यानद्वयस्य स्वामिनः * ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि शुक्छध्यानस्य चातुर्विष्यम् '४३ सत् त्र्येककाययोगायोगानाम् ४४ एकाश्रये सवितर्के पूर्वे २७९ 'प्रति 'शब्दस्य अर्थनानात्वम् ४५ वितर्कः श्रुतम् . ४६ विचारोऽर्थव्यञ्जनयोगसक्रान्तिः ४७ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः विषमाणि निर्जरणानि श्रावकस्य व्याख्या ४८ पुलाक-बकुश-कुशील-निम्रन्थ-स्नातका निम्रन्थाः निग्रन्थानां पञ्चविधत्वम् २७८८ २७८ For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ ३४५ २८२ , सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्कः सूत्रपाठः अधिकारः ४८ पुलाक-बकुश-कुशील-निम्रन्थ-स्नातका निम्रन्थाः निम्रन्थशब्दार्थः पुलाक-बकुशयोः स्वरूपम् पुलाकशब्दार्थः व्याख्याभेदः बकुशशब्दार्थः बकुशस्य द्वैविध्यम् शरीरबकुशस्य स्वरूपम् उपकरणबकुशस्य स्वरूपम् कुशीलस्य दैविध्य प्रतिसेवनाकुशीलस्य स्वरूपं च ईर्यायाः पर्यायाः ४९ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः अनुगमविकल्पाष्टकम् व्याख्यान्तरम् पुलाकस्य पञ्चविधता बकुशादेः पाञ्चविष्यम् मतान्तरम् आगमे मतभेदः . मतान्तरम् बकुशस्य द्वैविध्यम् आगमे मान्यताभेदः मतान्तरम् मतभेदः निर्ग्रन्थानामध्यवसायस्थानानि २८४ . २८६ २८८ २२० उपक्रमः For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ ३४६ तत्त्वार्थाधिगमसूत्रम् सूत्रपाठः अधिकारः दशमोऽध्यायः १० १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाञ्च केवलम् २९३ २ बन्धहेत्वभाव-निर्जराभ्याम् २९४ कर्मपरिक्षये हेतू ३ कृत्स्नकर्मक्षयो मोक्षः २९६ कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ! २९७ ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्यः ५ तदनन्तरमूर्व गच्छत्या लोकान्तात् मतान्तरम् .६ पूर्वप्रयोगाद् , असङ्गत्वाद , बन्धच्छेदात , तथागतिपरिणामाच्च तद्गतिः मुक्तिगमने हेतवः अलाबुनोऽवस्थाः ७ क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येक-बुद्धबोधित-ज्ञान-ऽवगाहना-ऽन्तर-सङ्ख्याऽल्पबहुत्वतः साप ३०४ सिद्धस्य १२ अनुयोगद्वाराणि संहरणस्य दैविध्यम् ३०६ मतान्तरम्. श्रमण्यादिसप्तानां संहरणाभाव: आचार्यस्य स्खलना प्रत्येकबुद्धबोधितस्य व्याख्यायाश्चातुर्विष्यम् ,, चतुर्विकल्पानां द्वयेऽन्तर्भावः ३१०. तीर्थकराणामवगाहना । ३११ उपसंहारः ३१५ WWWW. .. ३०८ For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय दिगम्बरीयसूत्रपाठभेदसूची सूत्राङ्गः सूत्रपाठः -BP99EEEE सूत्राङ्कः प्रथमोऽध्यायः श्वेताम्बराम्नायः ९ मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् । १५ अवग्रहेहापायधारणाः । २१ द्विविधोऽवधिः । -२२ भवप्रत्ययो नारकदेवानाम् । २३ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् २४ ऋजुविपुलमती मनःपर्याय: ।* २६ विशुद्धिक्षेत्रस्त्रामिविषयेभ्योऽवधिमनः पर्याययोः । २७ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु । २९ तदनन्तभागे मनः पर्यायस्य । ३४ नैगमसङ्प्रहव्यवहारर्जुसूत्रशब्दा नयाः । ५ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा यथाक्रमं सम्यक्त्वचारित्रसंयमासंयमाश्च ६ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासयता सिद्धत्वलेश्याश्चतुश्चतुख्ये कै कै कै कषड्भेदाः । ७ जीवभव्या भव्यत्वादीनि च । १३ पृथ्विव्यम्बुवनस्पतयः स्थावराः । १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः । १९ उपयोगः स्पर्शादिषु । १ अनेन तवार्थराजवार्तिकं ज्ञेयम् । द्वितीयोऽध्यायः दिगम्बराम्नाय : ९ मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् । १५ अवग्रहेहावायधारणाः * २१ भवप्रत्ययो ऽवधिर्देवनारकाणाम् । २२ क्षयोपशमनिमित्तः षड्डिकल्पः शेषाणाम् । २३ ऋजुविपुलमती मन:पर्ययः । २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः । २६ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु । २८ तदनन्तभागे मन:पर्ययस्य । ३३ नैगमसद्धूप्रहव्यवहारर्जुसूत्र शब्दसमभिरुदैवम्भूता नयाः । सूत्रपाठः ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यकृत्व चारित्रसंयमासंयमाश्च । ६ गतिकषाय लिङ्ग मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुख्ये कैकैकैकषड्भेदाः । ७ जीवभव्याभव्यत्वानि च । १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । १४ द्वीन्द्रियादयस्त्रसाः । * * For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ ३४८ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठ: श्वेताम्बराम्नायः दिगम्बराम्नायः २१ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः । २३ वाय्वन्तानामेकम् । २२ वनस्पत्यन्तानामेकम् । ३० एकसमयोऽविग्रहः । २९ एकसमयाविग्रहा । ३१ एकं द्वौ वाऽनाहारकः । ३० एकं द्वौ त्रीन् वाऽनाहारकः । ३२ सम्मूर्च्छनगर्भोपपाता जन्मः । ३१ सम्मूर्छनगर्भोपपादाजन्म। ३४ जराय्वण्डपोतजानां गर्भः। ३३ जरायुजाण्डजपोतानां गर्भः । ३५ नारकदेवानामुपपातः। ३४ देवनारकाणामुपपादः ३७ औदारिकवैक्रियाहारकतैजसकार्मणानि ३६ औदारिकवैक्रियिकाहारकतैजकार्मणानि शरीराणि । शरीराणि । ४१ अप्रतिघाते। ४० अप्रतीघाते। ४४ तदादीनि भाज्यानि युगपदेकस्या चतुर्थः। ४३ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः । ४७ वैक्रियमौपपातिकम् ४६ औपपादिक वैक्रियिकम् । ४८ तैजसमपि । ४९ शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्व- ४९ शुभं विशुद्धमव्याघाति चाहारक प्रमत्तसंयतस्यैव । - धर एव। . . ५२ शेषास्त्रेिवदाः। ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षा- ५३ औपपादिकचरमोत्तमदेहासङ्खयेयवर्षायुषोऽनपयुषोऽनपवायुषः । वायुषः। तृतीयोऽध्यायः। १ रत्नशर्करावालुकापकधूमतमोमहातमःप्रभा १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ता- घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः । धोऽधः पृथुतराः २ तासु नरकाः । २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरक शतसहस्राणि पञ्च चैव यथाक्रमम् । ३ [तेषु नारका] नित्याशुभतरलेश्यापरिणाम- ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविदेहवेदनाविक्रियाः । क्रियाः। For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ ३४९ खत्राः * * * * * * * * श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची सूचाङ्क त्रपाठः सूत्रपाठ: श्वेताम्बराम्नायः दिगम्बराम्नायः ७ जम्बूद्वीपलवणादयः शुभनामानो ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः । द्वीपसमुदाः। १० तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतै- १० भरतहैमवतहरिविदेहरम्पकहैरण्यवतैरावतवर्षाः रावतवर्षाः क्षेत्राणि । क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्श उपरि मूले च तुल्यविस्ताराः । १४ पद्ममहापप्रतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका . हृदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः । १६ दशयोजनावगाहः । १७ तन्मध्ये योजनं पुष्करम् । १८ तद्विगुणद्विगुणा हृदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतो दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः । . २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्वादयो नद्यः । २४ भरतः षड्विंशतिपञ्चयोजनशतविस्तारः षट् चैकोन विंशतिभागा योजनस्य ।। २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पव्यवसर्पि णीभ्याम् । * . * २८ ताभ्यामपरा भूमयोऽवस्थिताः । . १ तत्यार्थश्लोकवार्तिकेऽस्य चतुर्दशसूत्ररूपेण पृथग निर्देशः । * * For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ ३५० सूत्राङ्गः सूत्रपाठः श्वेताम्बराम्नायः १७ नृस्थिती परापरे त्रिपल्योपमार्न्तमुहूर्ते १८ तिर्यग्योनीनां च । वार्थाधिगमसूत्रम् सूत्राङ्कः २ तृतीयः पीतलेश्यः । ७ पीतान्तलेश्याः । ९ शेषाः स्पर्शरूपशब्दमनः प्रत्रीचारा द्वयोर्द्वयोः । १३ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्ण तारकाच चतुर्थोऽध्यायः । दिगम्बराम्नायः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरु बका: । ३० तथोत्तराः । ३१ विदेहेषु संख्येयकालाः । ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । ३९ तिर्यग्योनिजानां च । २० सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोनवसु मैत्रेयकेषु विजयवैजयन्त जयन्तापराजिषु सर्वार्थसिद्धे च । २५ ब्रह्मलोकालया लोकान्तिकाः । २८ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः । २९ स्थितिः । ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१ शेषाणां पादोने । ३२ असुरेन्द्रयोः सागरोपममधिकं च । ३३ सौधर्मादिषु यथाक्रमम् । ३४ सागरोपमे । ३५ अधिके च । २ आदितस्त्रिषु पीतान्तलेश्याः । * * ८ शेषाः स्पर्शरूपशब्दमनः प्रत्रीचाराः । १२ ज्योतिष्काः सूर्याचन्द्रमसौ प्रहनक्षत्रप्रकीर्णक तारकाश्च । सूत्रपाठ: १९ सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तकापिष्ठशुक्रमहाशुक्रशतार सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । २४ ब्रह्मलोकालया लौकान्तिकाः । २७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीन मिता । २९ सौधर्मैशानयोः सागरोपमेऽधिके । For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठमेदसूची . ३५१ सूत्रातः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः ३६ सप्त सानत्कुमारे। ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३७ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदश- ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदश.. भिरधिकानि च। भिरधिकानि तु। ३९ अपरा पल्योपममधिक च। .३३ अपरा पल्योपममधिकम्। ४० सागरोपमे। ४१ अधिके च। ४७ परा पल्योपमम् । ३९ परा पल्योपममधिकम् । ४८ ज्योतिष्काणामधिकम् । ४० ज्योतिष्काणां च । ४९ ग्रहाणामेकम् । ५० नक्षत्राणामर्धम् । ५१ तारकाणां चतुर्भागः। ५२ जघन्या त्वष्टभागः। ' ४१ तदष्टभागोऽपरा। ५३ चतुर्भागः शेषाणाम् । ४२ 'लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् । * * * पञ्चमोऽध्यायः। २ द्रव्याणि जीवाश्च । २ द्रव्याणि । ३ जीवाश्च । ८ असोयाः प्रदेशा धर्माधर्मेकजीवानाम् ७ असङ्ख्येयाः प्रदेशा धर्माधर्मयोः । ८ जीवस्य च । १६ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ।। १७ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः । २६ सङ्घातभेदेभ्य उत्पद्यन्ते। १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः । २६ भेदसङ्घातेभ्य उत्पद्यन्ते । २९ सद् द्रव्यलक्षणम् । ३६ बन्धेऽधिको पारिणामिकौ च । ३६ बन्धे समाधिको पारिणामिको १ इदं सूत्रं न विद्यते तत्त्वार्थश्लोकवार्तिक । For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ ३५२ . तत्त्वार्थाधिगमसूत्रम् सूत्राङ्क: सूत्रपाठ: सूत्रपाठ: दिगम्बराम्नायः ३९ कालश्च । श्वेताम्बराम्नायः ३९ कालश्चेत्येके। ४२ अनादिरादिमांश्च। ४३ रुपिष्वादिमान् । १४ योगोपयोगी जीवेषु । द्विशेषः । पष्ठोऽध्यायः ३ शुभः पुण्यस्य । ३ शुभः पुण्यस्याशुभः पापस्य । ४ अशुभः पापस्य । ६ अवतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशति- ५ इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्चविंशति__ सङ्ख्याः पूर्वस्य भेदाः। सङ्ख्याः पूर्वस्य भेदाः। ७ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषे- . ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्त भ्यस्तद्विशेषः । १५ कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य । ११ कषायोदयात् तीव्रपरिणामश्चारित्रमोहस्य । १६ बहारम्भपरिप्रहत्वं च नारकस्यायुषः । १५ बहारम्भपरिग्रहत्वं नारकस्यायुषः । १८ अल्पारम्भपरिग्रहत्वं स्वभाव १७ अल्पारम्भपरिग्रहत्वं मानुषस्य । मार्दवार्जवं च मानुषस्य । १८ स्वभावमार्दवं च। २१ सम्यक्त्वं च । २२ विपरीतं शुभस्य । २३ तद्विपरीतं शुभस्य । २३ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनति- २४ दर्शनविशुद्धिविनयसपन्नता शीलव्रतेष्वनतिचारोऽ चारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तित भीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी स्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्य साधुसमाधियावृत्यकरणमर्हदाचार्यबहुश्रुतकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरा प्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना वश्यकापरिहाणिर्मार्गप्रभावना प्रवचन प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य । वत्सलत्वमिति तीर्थकत्वस्य। For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ सूत्राङ्गः श्वेताम्बराम्नाय : * श्वेताम्बरीय दिगम्बरीयसूत्रपाठ भेदसूची सूत्राङ्कः सूत्रपाठः ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । ४५ सप्तमोऽध्यायः । ४ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च । ५ क्रोध लोभ भीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषणं च पच । ६ शून्यागार विमोचितावासपरोपरोवाकरण भैक्ष्यशुद्धिसद्धर्माविसंवादाः पञ्च । ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टर सरवशरीरसंस्कारत्यागाः पञ्च । ८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च । ९ हिंसादिष्विहामुत्रापायाद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । १६ दिग्दशानर्थदण्डविरतिसामायिक पौषधोपत्रासोप- २१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपत्रासोप भोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्प भोगाधिका । २८ योग दुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि । २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान निक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि । ३२ जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदान करणानि । भोगपरिभोग परिमाणातिथिसंविभागवतस म्पन्नश्च । नश्च । २२ मारणान्तिक सल्लेखनां जोषिता । १७ मारणान्तिकीं संलेखनां जोषिता । १८ शङ्काकाङ्क्षाविचकित्साऽन्यदृष्टिप्रशंसासंस्त- २३ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तत्राः वाः सम्यग्दृष्टेरतिचाराः । सम्यग्दृष्टेरतीचाराः । २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । ३० ऊर्ध्वाधस्तियग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । २३ परविवाह करणेत्वरपरिगृहीताऽपरिगृहीताग- २८ परविवाह करणे त्वरिकापरिगृहीतापरिगृहीतागमनामनाङ्गक्रीडातीकामाभिनिवेशाः । नङ्गक्रीडाकामतीत्राभिनिवेशा: । २७ कन्दर्पकौत्कुष्यमौखर्यासमीक्ष्याधिकरणोप ३२ कन्दर्पकौत्कुच्यमौखर्या समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि । ३५३ सूत्रपाठः दिगम्बराम्नायः For Personal & Private Use Only ३३ योगदुष्प्रणिधानानादरस्मृतनुस्थानानि । ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गदान संस्तरोपक्रमणा नादरस्मृत्युनुपस्थापनानि । ३७ जीवितमरणशंसा मित्रानुरागसुखानुबन्धनिदानानि । Page #383 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्क: सूत्रपाठः सूत्राङ्कः सूत्रपाठ: श्वेताम्बराम्नायः दिगम्बराम्नायः अष्टमोऽध्यायः। २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलाना- २ सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स दत्ते। बन्धः । ३ स बन्धः । ५ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्क- ४ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रानामगोत्रान्तरायाः न्तरायाः। ७ मत्यादीनाम् । ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् । ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रा- ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रच प्रचलाप्रचलाप्रचलास्त्यानद्धिवेदनीयानि च। लाप्रचलास्त्यानगृद्धयश्च। १० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीया- ९ दर्शनचारित्रमोहनीयाकषायाकषायवेदनीयाख्यास्त्रि-द्वि ख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्व- नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यतदुभयानि कषायानोकषायावनन्तानुबन्ध्य- कषायकषायौ हास्यरत्यरातिशोकभयजुगुप्सास्त्रीपुप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविक- नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान: ल्पाश्चैकशः क्रोधमानमायालोमाः हास्यरत्य- संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोमाः । रतिशोकभयजुगुप्सास्त्रीपुनपुंसकवेदाः । १४ दानादीनाम् । १३ दानलाभभोगोपभोगवीर्याणाम् । १७ नामगोत्रयोविंशतिः । १६ विंशतिनामगोत्रयोः । १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य। १७ त्रयस्त्रिंशत् सागरोपमाण्यायुषः । २१ शेषाणामन्तर्मुहूर्तम् । २० शेषाणामन्तर्मुहूर्ता। २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैक- २४ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाह क्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्ता- स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः । नन्तप्रदेशाः। २६ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नाम- २५ सद्वद्यशुभायुर्नामगोत्राणि पुण्यम् । गोत्राणि पुण्यम् । २६ अतोऽन्यत् पापम् नवमोऽध्यायः। ६ उत्तमः क्षमामार्दवा वशौचसत्यसंयमतप- ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिश्चन्य स्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः। ब्रह्मचर्याणि धर्मः । For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची .. ३५५ सूत्रायः सूत्रपाठः सूत्राङ्क: सूत्रपाठ: श्वेताम्बराम्नायः दिगम्बराम्नायः १८ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धसूक्ष्म- १८ सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसम्परायसम्पराययथाख्यातानि चारित्रम् । यथाख्यातमिति चारित्रम् । २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप- २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिश्छेदपरिहारोपस्थापनानि । हारोपस्थापनाः। २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्त र्मुहूर्तात् । २८ आ मुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । ३१ विपरीतं मनोज्ञस्य ३७ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्त- ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् । संयतस्य । ३८ उपशान्तक्षीणकषाययोश्च । ३९ शुक्ले चाये। ३७ शुक्ले चाद्ये पूर्वविदः ४० पूर्वविदः । ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत- ३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत. क्रियानिवृत्तीनि । क्रियानिवर्तीनि। ४३ तत्येककाययोगायोगानाम् । १० त्र्येकयोगकाययोगायोगानाम् । ४४ एकाश्रये सवितर्के पूर्वे । ४१ एकाश्रये सवितर्कवीचारे पूर्वे । दशमोऽध्यायः . २ बन्धहेत्वभावनिर्जराभ्याम् । २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः । ३ कृत्स्नकर्मक्षयो मोक्षः। ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र ३ औपशमिकादिभव्यत्वानां च । केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ५ तदन्तरमूर्च गच्छत्या लोकान्तात् । ५ तदनन्तरमूर्वं गच्छत्यालोकान्तात् । ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरि- ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरिणामाच्च तद्गतिः । णामाच्च। ७ आविद्धकुलालचक्रवद् व्यपगतलेपालाबूवदेरण्डबीज. - वदमिशिखावञ्च । ८ धर्मास्तिकायाभावात्। For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ min 5 sec ee awan an uns * * * * * * * पाठान्तराणि -38मूलपाठः तत्प्रणाडिकयैवास्रव० साधक० स्वातन्त्र्यस्वाभाव्यात् निश्चयव्यवहारो यथार्थः विरतव्यमिति विना न चिन्तयते सम्भवात् वसामः सापाय उत्पादनारम्भो कुशलचारी इत्युपप्रदर्शने १३ * * * * * पाठान्तरम् तत्प्रनाडिकयैवास्रव० साधकतमत्वाद् स्वातन्त्र्याभावात् निश्चयव्यवहारयोर्यथार्थः विरन्तव्यमिति विना चिन्तयते सम्भवी वत्स्यामः सोपाय उच्छेदनारम्भो कुशलां चारित्रतपसी इत्युपदर्शने च पराजयतेवत् पञ्च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहा इत्यादि । तत्त्वार्थाश्रद्धान वध्यमानस्य वेद्यमानस्य वा गणति महाप्राणस्याभोगवीर्यातिशयः मात्राधिमात्राभेदेन सूत्रावयवस्फुटी० करणं स्मरतोऽपि टी० १२ 6 * * * * *ะะะ : * * तत्त्वार्थश्रद्धान वध्यमानवेद्यमानस्य गणित० महाप्राणस्य, अतो वीर्यातिशयः मात्रादिभेदेन सूत्र एव स्फुटी० करणस्येतरोऽपि कस्यापि तथैकप्रयोगचितेऽस्य भयस्य तथैकप्रयोगचितस्य भयवेदनीयस्य शिष्टवर्गकुशल. कुशल 23 For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ ३५७ २९ ३१ पक्तिः २८ १२ पाठान्तराणि मूलपाठः एवमेव पदम् अनुरोधात् निवृत्ते नानुतिष्ठतीति मर्मादि गुणाः अलीक my ४२ २ ४३ my ७ my कृतविकृत अर्जनं स्वभावानि, पाठान्तरम् एवमेते प्रतिपदं अनुरोधो निवृत्ती नानुतिष्ठन्तीति नर्मादि गुणः अलीकमत्याख्यानम् इव कृत्यविकृत्य अर्जनमुपादानं स्वभावानि तथात्मकत्वान्मैथुन दुःखमेवेत्यादि। भैषज्योपयोगः भैषज्या० यशस्तदवादः अपरकायस्य स्वभावो तभावादयं प्रमत्ते योगे दुष्प्रणिधान च प्रमादोऽष्टविधः स्मृतस्तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा। क्रमेण व्यज्यते पशुपुष्टिपांशुमुष्ठी तस्मादेनपद० भोक्तुराप्तविहिता० अवद्येन युज्यते वध० वेन्द्रादिभिः परिगृहीतृभिः कस्मैचिद् लोभ इति निरवायि। वनाशसावतः भेषजोपयोगः भेषजा० यशस्त प्रथनम् अपरः कायस्वभावाद् तदभावादयं प्रमत्तः ५७ ६१ ६८ ६८ ६८ ७६ ७ १८ ३ क्रमेण त्यज्यन्ते पशुपुष्टी तस्मादेन:पद० सुतरामविहिता० अवद्येन, वध० वेन्द्रादिभिः कस्मैचिद् लोभ इति । नादिभावतः For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ ३५८ तत्त्वार्थाधिगमसूत्रम् पक्तिः ६ ९३ १५ मूलपाठः गारिणो भगवतीश्राम्यति-तपश्चरति कर्मणां कार्यम् स्यन्ते वा व्यतिक्रमः सिद्ध(जाय ! )मानाः जनादिषु प्रतीतमिति विशिनष्टि भाष्येण १२२ K G G60 १३९ १४१ पाठान्तरम् गारिणोऽङ्गगतभगवतीश्राम्यति तपति--तपश्चरति कर्मणां परिमाण कार्यम् स्यन्ते अभ्यासमाधीयन्ते वा व्यतिक्रमः-उल्लङ्घन भिद्यमानाः जनादिषु कुलेषु प्रतीतमिति भाष्यम् विशिनष्टि सचित्ताहार इत्या दिना भाष्येण अनादेरित्यादि भाष्यम् कष्यते प्रमादप्रत्ययो यत्रात्मा स्यादस्य यातना तिनिशलावालेह० विशेषत्वादेव साचिनाम० जीवानां परिनिष्ठा आसामित्याह कार्यग्रहणम् पूर्वककर्म० सङ्क्रामति ये ते यत्नावस्थानं पीठिकाद्यसुयैव दोषादरेऽपि पदालाप० धर्मध्यानादिषु व्यासको बाह्या-शय्याशरीरादि० ममत्वाद् किंञ्चान्यदशुचित्वे १५४ १५९ १६१ अन्नादेरित्यादि कष्यते यत्र स्यादास्यद्येतना(१) तिनिशलवालेह० विषयत्वादेव सादिनाम० विद्यावतां जीवानामिव परिनिष्ठायाऽऽसामित्याह काय॑ग्रहणम् पूर्वकर्म० सङ्क्रमति येन यत्रावस्थान पीठिकाद्यमुयैव दोषाक्षेपि पदलोप० धर्मध्यानादिष्वासङ्गो शय्याशरीरादि० ममत्वो अशुचित्वे १६९ १७१ १७५ १८४ १८४ १९६ २१० २१० २१४ २१६ man R For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ पाठान्तराणि ३५९ पृष्ठम् मूलपाठः पाठान्तरम् पृष्ठम् पक्तिः २१७ २४ आस्तूयते आस्रवानिहामुत्रापाययुक्तानि त्यादि । आस्तूयते कालभावाः परिहारिण० प्रवचनोदितं श्राद्ध अयमपि हि प्रतिपत्ता-अस्याः ज्ञानध्यानपरायणः २२६८ २३४ २३६ २३६ २३७ २५८ २७१ २८२ २८५ २८८ २९१ २९१ २९३ २९४ २९६ ३०० ३११ ३११ GRosnanana सूत्रमर्थः कालभवाः परिहाराचारिण प्रवचनोदितशु( श्रा)द्ध० अयमपि हि ज्ञानपरायणः सूत्रार्थः यावद् बादर० अस्य दुःस्वरमुच्चैनींचे तस्य प्रदेशक प्रदेशगं प्रकृतीनां यथाऽऽगमे शतम्-एतत् मुखस्य सिध्यमानानां मन्तरं सिध्यतो अविरत सिद्धावयुक्ता सुखे यावद् द्वादश बादर० अथास्य दुःस्वरसुस्वरनीचे विभूषार्थ तस्य प्रदेशाग्रं प्रदेशाग्रं कर्मप्रकृतीनां यथा गम्येत शतमेवमेतत् मुख्यस्य सिध्यमानानामनन्तरं मन्तरं सिध्यता सिध्यन्तो विरत सिद्धा च युक्ता ३११ ३२२ सुखौ सुखो ३२३ ३२३ ३२४ ३२५ ३२५ सुखप्रसुप्त प्रत्यायाति दिहित सुखो वायु सुस्वाप्रसुप्त प्रत्ययावि दाहित For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ पृष्ठम् Do u 9 v ४ ६ ७ ८ vvvva १२ १२ १२ १२ १२ १४ १५ १५ १६ १६ १७ १७ १७ १७ 稽 २३ २६ २२ ४ १२ २० २२ २३ ८ 5 १४ १८ २३ २६ M ९ १२ १३ १८ २३ m २३ २६ अनुभवाधारेणाशुद्धि शोधनपत्रकम् ( Emendations & Alterations ) -180°☆ अशुद्धिः तेषु विवररन्ध्र निर्वर्तनं, शक्ती ० गत्यानुपूर्वी भवेद् धगतिः उपादानं कर्मकषायस्य कर्मकदम्बक भावत्वमनुदरा प्रकृतोपयोगा ० वलनादिः निवर्तने० निवर्तने परितापिका तु क्रोधाविष्टा शयत्र पुस्ताद्या० स्तीत्र: तस्य प्रकर्षवर्तिनः कल्पस्येत्याशङ्कायां जीवाः सत्रक्रम ० निवृत्ति ० क्रियाष्यावृ वासंरम्भाधिकरणम For Personal & Private Use Only तेषु भेदेषु विवरं - ध्र निर्वर्तनशक्ती गत्यानुपूर्वी तिर्यग्गतिस्तिर्यग्गत्या पूर्वी शुद्धिः भवो वा धगत्युपादानं कर्माकषायस्य काकदम्बक भावत्वादनुदराप्रकृत उपयोगा ० वल्गनादिः निर्वर्तने० निर्वर्तने परितापनिका तु क्रोधाविष्टैः रायवित्तपुस्ताद्या ० स्तोकः तस्य वीर्यस्य प्रकर्षापकर्षवर्तिनः कल्पनेत्याशङ्कायां जीवाजीवाः सूत्रक्रम ० निर्वृति० क्रियाभ्यावृवाक्संरम्भाधिकरणं मनः संरम्भाधिकरणम् Page #390 -------------------------------------------------------------------------- ________________ ३६१ yo222MMMMM 92.1 MP3 अनुभवाधारेणाशुद्धिशोधनपत्रकम् अशुद्धिः शुद्धिः सारणमवसायैव सरणमवसायैव क्रियावादिपदाथान्त क्रियावाचिपदार्थान्तभिद्यात् भिन्द्यात् शस्त्रकल्पश्च शस्त्रकलापश्च संस्थानादि संस्थापनादि योग्यनिर्मापितौ योग्यद्रव्यनिर्मापितौ अनन्तराय अन्तराय कर्मप्रस्तावात् कर्मबन्धप्रस्तावात् सद्वद्यस्यास्रवाः असद्वेद्यस्यास्त्रवाः असद्वेद्यस्यास्रवाः सद्वेद्यस्यास्त्रवाः संयमादि योगः संयमादियोगः द्युत्पादयन्ति० दयन्ति द्युत्पादयति० दयति एव वनीयकादिषु वनीपकादिषु लोभकषायरक्तस्यात्म० दुरुपचर० २८ रक्तस्यात्म० दुरुपचार० तेन चारम्भकस्य योषित्सव्यभिचार व्रतत्वं सर्वेषाम् शीततपनलेश्या० वोपाये धूपादिचार्य त्रिंशदुदयस्यास्रवा दिवस० स्वगुणदोषाकृष्ट चरणदर्शनबाधकल्याण तद्विपर्ययो विपरीतकसावद्यादि ३४ १५ २४-२५ १८ अतो न वाऽऽरम्भकस्य योषित्सु व्यभिचार० व्रतत्वं च सर्वेषाम् पीतपद्मलेश्या० वोपायेन धूपादिचौर्य० त्रिंशदभेदस्यास्त्रवा प्रतिदिवस० स्वगुणसन्दोहाकृष्ट चरणदर्शनज्ञानबाधककल्याण तद्विपर्ययो विपरीतकटुकसावद्यादि 20 ४६ For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ ३६२ पृष्ठम् तत्त्वार्थाधिगमसूत्रम् अशुद्धिः पतिः ४१ २६ विरतिः करणच्छेद० पातालीकास्तेय० दिग्रहणात् नाना० पालन सुखार्थे नोपेक्ष्यन्ते ५५ ५७ ५९ परिग्रहता रक्षणे विषयोदयः कारार्थे पायेनाबोध० भवन्त्यशुभपरि० व्याख्यातौ ध्वनभिष्वङ्गो तेषु गाय॑मिति वाक्यपरि० दृढायुष्यकर्म० दर्शनस्पर्शने परित्यागाकारणं हन्यमानेष्वधर्मो rur Kanna o nadan no. शुद्धिः विरतिः साध्या करचरणच्छेद पातालीकस्तेय दिग्रषणाद यातना नाना० परिपालन सुखार्थी नापेक्ष्यन्ते परिग्रहः रक्षणं विषयपादपः कारार्थः पायेन बोध० भवन्त्यशुभशुभपरि० व्याख्यास्येते वैराग्यमभिष्वङ्गो तेष्वगाय॑मिति शक्यपरि० दृढायुष्कं कर्म० देशन स्पर्शने परित्यागाकरण हन्यमानेष्वेतेष्वधर्मो फलित विकप्पि वाससयं वसुबन्धोरामिष पातनिर्हेतुक० खरशृङ्गस्येव मन्तरेणास्पष्ट० मप्रकृष्टं प्रकृष्टं च स्तावद् भ्रमरमद० ६५ ६६ GMm ६७ ६७ विकप्पित वाससतं वसुबन्धा(!)रामिष पातहेतुक० शरशृङ्गस्येव मन्तरेण स्पष्ट मप्रकृष्टं च स्तावच्च मद० For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ पृष्ठम् पतिः ७४ १७ ७९ ७९ ० 2MM ० अनुभवाधारेणाशुद्धिशोधनपत्रकम् ३६३ अशुद्धिः शुद्धिः प्राणिनां प्राणिनां प्राणानां मृषावादादिवृत्तय मृषावादादिनिवृत्तय लक्षणं लक्ष्य सत्यम् | गृहिणा सत्यम् , तद् गृहिणा परिमाणबृह परिमाणो बृह. आमरणं आरमण तीव्रदेहपरि तीव्रवेदपरिपरम्परा रागात् परम्पराकारिरागात् दूरवर्ति दूरदेशवर्ती द्वित्रिचतुःपाद्भाण्डाख्य द्वित्रिचतुःपाद्भाण्डाख्य वेताऽऽत्मनो वैताऽऽत्मनो त्रिपादिति पाठोऽसङ्गतः प्रतिभाति, परिग्रहाधिकारे त्रिपादा ख्यस्यासम्भवात् ५ 'वत् ६ 'वत् गाय॑म् गर्धः गृद्धस्य गर्धस्य ततोऽप्यात्म सतोऽप्यात्म० भवेत् भावतः विविधमेव द्विविधमेव गुणव्रतसंख्या गुणवतसञ्ज्ञा सूर्योपलक्षिता सूर्योदयोपलक्षिता कायापेक्षया कार्यापेक्षया करणापेक्षया कारणापेक्षया पुनर्भोगो वा पुनर्भोगो वसनादेः परिभोग इति बहिर्मोंगो वा आदराधानार्थ दण्ड० आदराधानार्थमनर्थदण्ड० समायः प्रति समायः, समो हि प्रति० तस्य यस्य माख्याते माख्यायते For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ ३६४ तत्त्वार्थाधिगमसूत्रम् अशुद्धिः शुद्धिः पृष्ठम् ९२ संस्तरः संस्तारः 0 २ घञविधानात् ' संस्तार' इति पदं शुद्धं प्रतिभासते। पौषधोपवास० वादप्रपञ्च० मूलोत्तरगुणसम्पन्ना० 0 0 कोडिक मरणाय पर्यन्ते युज्यत इति साधीयान् हीत्यादि भेदोपदर्शनं नातिगाढगूढघर्घरकादिभि० १०० १०३ १०७ Com MMMMMAur LAMMA V. एवं ११३ पोषधोपवास० वादप्रवचन० मुलोत्तरसम्पन्ना० घन कोडिक्क मरणपर्यन्ते युज्यते, साधीयान् हीत्याहि मेवोपदर्शनं नातिगाढमूढघर्घरका याभि० इव सम्बध्य तिलानां कूलत्वात् कलापयोगासूत्रोपात्तम् केवल प्रकृतेरादौ करणरूपाः संज्वलनाः धता शक्यते पात्राधारमस्तुलङ्गकं कर्म, पुद्गल० कुब्जादीना० सम्बध्यते तिलादिना भूतत्वात् कषाययोगानोपात्तम् केवलं तु प्रस्तूतेरादौ कारणरूपाः १२० १२२ १२२ १२४ १३० १३३ १३७ १३७ १४३ १४८ १५२८ १५३ १५६ १८ धाना शक्यते पात्राधारामुस्तुल्लङ्गक कर्मपुद्गल. कुन्थ्वादीना० For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ पृष्ठम् पतिः १५६ १५६ १५८ १६८ १८६ १८६ १८७ १९७ २०१ २०९ अनुभवाधारेणाशुद्धिशोधनपत्रकम् ३६५ अशुद्धिः शुद्धिः लघूनि लघूनि, न गुरुलघूनि नियामकतमेतत् नियामकमेतत् सेत्यादि त्रसभावनिर्वर्तक त्रसनामत्यादि भागभागेन भागेन स्कन्धे वति स्कन्धेष्विति पूर्वकै निरवद्यै पूर्वको निरवद्यो विरतिस्तयोर्गुप्तिः विरतिस्ततो गुप्तिः वजितो वजतो प्राणितश्चोदक प्राणिनश्चोदक अवमातं० विजल अवपातं०विजलं अवश्यकार्य अवश्यकार्थ० बुद्धैरनाचरिता नेमां बुद्धरनाचीर्णा नैना अर्थ अर्थ्य एष पिण्डितः एकपिण्डितः अपरे० इति पाठोऽयमत्रासङ्गतः, तत्स्थान तु २६तमपविगत सम्प्रति पद्यन्ते' पदस्य उत्तरतः । कदाचित् कश्चित् कदाचित् कचित् किञ्चान्यत् स्वतोऽशुचि स्वतः शुचि एकादशविधो निशीधि(षेधि !)का नषेधिका कश्चिदुप० कश्चित् काश्चिदुप० काश्चित् केचित् केचित् ( किश्चित्) महाव्रतारोपण महाव्रतारोपणात् शिक्षकस्य शैक्षस्य रोपणात् रोपण पादपोगमना पादपोपगमनाखाद्यन्ते स्वाधन्ते परिहार्य द्रव्य० परिहार्य द्रव्य गो-ऽमहिष्य गो-महिष्य-5 १६-१८ २१० २० १४ २१६ १८ १६ २२५ २२५ २३० १७-१८ २३३ २३३ २३३ २३३ २३६ २३८ २३८ २३९ 0242222 For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ ३६६ पृष्ठम् २४७ २५१ २५९ २६० २६७ २६९ २७२ २८० २८१ २८१ ३०२ ३०३ ३०३ ३०४ ३०४ ३१५ ३२९ ३३१ ३४२ पङ्किः 2 x 5 x x x 9 ∞ m १५ २४ ५ १५ २४ २७२ ११ २७७ २२ ७ २३ ♡ ५ २३ ५ १९ १५ २३ ३ १३ तत्वार्थाधिगमसूत्रम् अशुद्धिः द्वारेणैव सायु० पर्यायः संसक्तासंसक्तपा विशोध्य वान्त० विरतस्वामिकम् विष्मातता ० लिङ्गम् । ऋष्वायम्य नाम्नि जयात्, क्षुत्पिपासा ० सर्वे एव निर्जरणामाह गच्छत्या दर्शनावरण प्रतिष्टं स्पन्दस्तत मिरनु० दृष्ट्य ४९ देवस्य विकृतिनां For Personal & Private Use Only शुद्धिः द्वारेणैव न सायु० पर्यायाः संसक्तासंसक्तभक्तपा विशोध्य अद्धा वाऽन्त विरतदेशविरतस्वामिकम् विध्यात हुता ० लिङ्गम् । यथोक्तम् ऋज्वायस्य नामानि जयात्, सर्व एव सम्यक्क्षुत्पिपासा निर्जरणमाह गच्छत्यiss दर्शनचरण प्रतिष्ठ स्पन्दस्य तत भिरनु० दृष्टिवि ३९ देवस्य विकृतीनां Page #396 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only