________________
सूत्र १०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
७७ यते, तदयुक्तम् । न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य ग्रहणं स्तेयमिष्यते.
तस्मादपरिगृहीतस्येति प्रमादपाठः। तथा तस्यैव भाष्यकृतः शौचप्रकरणे ग्रन्थः-" अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयम् ।
परैरनतिसृष्टं यद् , यच्च शास्त्रैविगर्हितम् ।
तत् सर्वे न ग्रहीतव्यं, दन्तविस्फाटनाद्यपि ॥१॥"-अनु० न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तम् । आदिग्रहणादनेकविधसारासारचेतनमिश्रद्रव्यजातपरिग्रहः । जातशब्दः प्रकारवचनः । द्रव्यजातं-द्रव्यप्रकारः । गुणपर्याययोद्रव्यपरिणामविशेषादेव न भेदेनोपादानमिति ॥ ननु चैविधे भाष्यार्थे परैः परिगृही. तस्यादत्तस्य स्तेयबुद्धया ग्रहणमदत्तादानमिति । अनेषणीयादेऽहणप्रसङ्गः। येन परिगृहीतमनेषणीयादि स ददात्येव । ततस्तद्हणे कथं स्तेयमिति ? उच्यते-सत्यम् । गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते । गरीयांश्च शास्त्रप्रतिषेधः। भवतु नाम शास्त्रप्रतिषेधः तच्छास्त्रं कथं परशब्दवाच्यम् । परो ह्यात्मा चेतनालक्षण इति ? । उच्यते-शास्त्रमपि ज्ञानमात्मनः परिणामविशेषः । स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्योऽन्यक्षेण प्रहतघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामा गणधरप्रत्येकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिद्रव्यश्रुनमुपचारात् शास्त्रमुच्यते पुस्तकादिलिखितम् , अतः सर्वमदत्तादानं सूत्रेण समग्राहीति । तच्चतुधो अधीतमागमे-द्रव्य-क्षेत्र-काल-भावभेदात् । द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतत्रैलोक्यव्यवच्छिन्नानि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद् भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद् द्रव्यैकदेशवृत्तिता
- देशवृत्ति, न तु समस्तद्रव्यविषयम् । ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव
" शरीराणां च, जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुन: साक्षात् ॥ ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारः । ततश्चैतदपि सकलद्रव्यविषयमेव स्यात, न द्रव्यैकदेशवृत्तीति । उच्यते-हस्तादिना करणेन यद् द्रव्यं पूर्वकाधारप्रदेशात् प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीयशब्दाभ्यामा विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न सम्भवति । तस्माद् द्रव्यैकदेशवृत्त्येवादानं न्याय्यम् ॥ अपरे तु मोहादभिदधते "-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानम् , यतः सवेमिदं ब्राह्मणेभ्यो दत्तं, ब्राह्मणानां तु दोबल्याद् वृषलाः परिभुजते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते"। "स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति (च)"(मनुस्मृती अ०१, श्लो०१०१) इति सर्वमिदमसम्बद्धत्वात् प्रलापमानं श्रोत्रिय
'परिणमति आत्मनि' इति ङ-पाठः।। २ 'माहारः' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org