________________
सूत्र १७ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
द्वादशवर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्धमासपरिणामया द्वादशवर्षव्यवस्थयैवागमोक्तया संलेखनाकालोऽवसेयः । संलेखनाऽवश्यं समाधिमरणपर्यन्ते विधेयाऽनगारागारिभ्याम् । जोषितेति कर्तरि ताच्छीलिकस्तृन् । मारणान्तिकीं संलेखना जोषिता-सेविता कर्तेति । एनमेवार्थ भाष्येण स्पष्टयति
__ भा०—कालसंहननदौर्बल्योपसर्गदोषादू धर्मावश्यकपरिहाणि मेरणं वाsभितो ज्ञात्वाऽवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयम प्रतिपद्योत्तमव्रतसम्पन्नश्चतुर्विधाहारं प्रत्याख्याय यावजीवं भावनाऽनुप्रेक्षापरः स्मृतिसमाधिबहुलः मरणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति ॥ १७ ॥ __टी-कालसंहननेत्यादिना । कालदोषो दुष्षमायां दुःशकं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं मन्दधृतित्वात् पुरुषैः यथोक्तं दुर्भिक्षवाच्यं दुर्भिक्षं वा । कालो दुर्लभानपानः । संहननं वज्रर्षभनाराचादिषोढा। संहननस्य दौर्बल्यं-दुर्बलता वज्रर्षभनाराचादारभ्य हीयमानं यावत् सेवार्तमिति सर्वदुर्बलम् । उपसर्गास्तु दिव्यमानुषतिर्यकृतात्मसमुत्थाः । दोषशब्दः प्रत्येकमभिसम्बध्यते । कालदोषात् संहननदौर्बल्यादुपसर्गदोपाद् वा । धर्मो दशलक्षणकस्तद्विषयाण्यवश्यं कर्तव्यानि आवश्यकानि साधोः प्रत्युपेक्षणादीनि । अनगारिणोऽपि चैत्यवन्दनवैयावृत्यपौषधप्रतिपत्त्यादीनि तेषां परिहाणिः-अवसादः कालादिदोषात् तामवगम्य कालादिदोषमन्तरेण वा मरणं अभितः प्रत्यासन्नमवबुद्धयेदं कर्तव्यमित्याह-अवमौदर्येत्यादि । अवमं-न्यूनमुदरं तद्भावः अवमौदर्य अविकृतवदनकुक्कुट्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा (१) । ततः किश्चिन्यूनतादिभेदेनावमौदर्यमनेकविधमागमेऽभिहितम् । चतुर्थादिभक्तभावना पूर्वोक्तैव । आदिग्रहणादर्धमासक्षपणादिपरिग्रहः । एभिस्तपोविशेषैरात्मानं संलिख्य-तनूकृत्य विरूक्ष्य रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्च क्रोधादीनपास्य प्रोग्य च गृहिव्रतित्वमभ्युपगम्य संयमं सर्वसावद्ययोगविरतिलक्षणमुत्तमैः-महाव्रतैः सम्पन्नश्चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं यथासमाधि यावज्जीवमिति विशिष्टावधिक, भावनाऽनुप्रेक्षापरः। भावनाः पूर्वोक्ताः । अनुप्रेक्षास्तु वक्ष्यमाणा नवमे (सू०७)। तत्पर इति-तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्व स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेने निर्जराऽस्ति प्रमादवतः। समाधिरिति चेतसः स्वस्थता तद्बहुलः । नातरौद्राध्यायीति । एवं बहुकुर्वछत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य-मोक्षस्याराधको भवतीति ॥ १७॥
२'भावेनानप्रेक्षा.' इति क-ख-पाठः।
३.प्रत्यवेक्षणा.'
१ 'मरणं 'इति घ-पुस्तके नास्ति। इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org